Library·Gandavyuhasutra·15

Gandavyuhasutra 15

अयमस्य कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षनयसमुद्रस्यावभासः । अपि तु अनन्तमध्यः खल्वेष विमोक्षो धर्मधातुनयसमुद्रावतारणत्वात् । अक्षय (ग्व् २२५) एष विमोक्षः सर्वज्ञताचित्तोत्पादासंभिन्नत्वात् । अपर्यन्त एष विमोक्षो बोधिसत्त्वचक्षुर्विज्ञेयत्वात् । अतुल एष विमोक्षो ऽसंभिन्नधर्मधातुनयतलस्फरणत्वात् । समन्तमुख एष विमोक्ष एकारम्बणसर्वविकुर्वितसमवसरणत्वात् । अमोघ एष विमोक्षः सर्वधर्मशरीराद्वयसमुदाचारत्वात् । अनुत्पन्न एष विमोक्षो मायोपमसमुदाचारत्वात् । प्रतिभासोपम एष विमोक्षो सर्वज्ञताप्रणिधानप्रतिभाससंभूतत्वात् । निर्मितोपम एष विमोक्षो बोधिसत्त्वचर्यासुनिर्मितत्वात् । महापृथिवीसदृश एष विमोक्षः सर्वजगत्प्रतिशरणत्वात् । अप्स्कन्धोपम एष विमोक्षः सर्वजगन्महाकरुणाभिष्यन्दनतया । तेजःस्कन्धोपम एष विमोक्षः सर्वसत्त्वतृष्णास्नेहपर्यादानतया । वायुस्कन्धोपम एष विमोक्षः सर्वसत्त्वसर्वज्ञताप्रतिष्ठापनतया । सागरोपम एष विमोक्षः सर्वजगद्गुणालंकारालयत्वात् । मेरुपर्वतराजोपम एष विमोक्षः सर्वधर्मज्ञानरत्नसमुद्राभ्युद्गतत्वात् । व्यूहनयवातमण्डलसदृश एष विमोक्षः सर्वधर्मविमोक्षविधिव्यूहनतया । गगनोपम एष विमोक्षस्त्रध्वप्राप्तसर्वतथागतविकुर्वितावकाशत्वात् । महामेघोपम एष विमोक्षः सर्वसत्त्वाभिमुखधर्ममेघाभिप्रवर्षणत्वात् । आदित्योपम एष विमोक्षः सर्वसत्त्वाज्ञानतमोन्धकारविधमनतया । चन्द्रोपम एष विमोक्षो महापुण्यज्ञानसमुद्रसुसमार्जितत्वात् । तथागतोपम एष विमोक्षः सर्वत्रानुगतत्वात् । स्वच्छायोपम एष विमोक्षः कर्मधर्मसुनिर्मितत्वात् । प्रतिश्रुत्कोपम एष विमोक्षो यथाधिमुक्तसर्वधर्मनिर्घोषनिगर्जनतया । प्रतिभासोपम एष विमोक्षो यथाशयसर्वसत्त्वविज्ञापनतया । द्रुमराजोपम एष विमोक्षः सर्वबुद्धविकुर्वितसंकुसुमितत्वात् । वज्रोपम एष विमोक्षो ऽभेद्यधर्मत्वात् । चिन्ताराजमणिरत्नोपम एष विमोक्षो ऽनन्तमध्यविकुर्वितसमुद्राभिनिर्हरणतया । विमलगर्भमणिराजोपम एष विमोक्षः सर्वत्र्यध्वतथागतविकुर्वितविज्ञप्त्यनावरणतया । नन्दिध्वजमणिरत्नोपम एष विमोक्षः सर्वबुद्धधर्मचक्रसमतानिर्घोषत्वात् । एवमपरिमाणोपमोपन्यासानुगमनिर्देशो बतायं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्षः ॥ अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामेतदवोचत् - कथं प्रतिपद्यमानस्य देवते बोधिसत्त्वस्य अयमेवंरूपो विमोक्षः संपद्यते? आह - दशेमे कुलपुत्र बोधिसत्त्वानां महासंभारा महावितानधर्मा महाविस्फारा महाद्युतयो महावभासा महाप्रभावभासा महाभागा महाविभागा महासंभवा महाविभवाः, येषु प्रतिपद्यमानानां बोधिसत्त्वानामयमेवंरूपो विमोक्षः संपद्यते । कतमे दश? यदुत दानं बोधिसत्त्वस्य यथाशयसर्वसत्त्वसमुद्रसंतोषणप्रसृतं महावितानधर्मः । शीलं बोधिसत्त्वस्य सर्वतथागतगुणसमुद्रावतारप्रतिपत्तिप्रसृतं महावितानधर्मः । क्षान्तिर्बोधिसत्त्वस्य सर्वधर्मस्वभावनिध्यप्तिप्रसृतं महावितानधर्मः । वीर्यं बोधिसत्त्वस्य सर्वज्ञतासमारम्भाविवर्त्यप्रसृतं महावितानधर्मः । ध्यानं बोधिसत्त्वस्य सर्वसत्त्वक्लेशप्रतापप्रशमनप्रसृतं महावितानधर्मः । प्रज्ञा बोधिसत्त्वस्य सर्वधर्मसमुद्रप्रज्ञाप्रसृता महावितानधर्मः । उपायो बोधिसत्त्वस्य सर्वसत्त्वसमुद्रपरिपाकविनयप्रसृतो (ग्व् २२६) महावितानधर्मः । प्रणिधानं बोधिसत्त्वस्य सर्वक्षेत्रसमुद्रप्रसृतमपरान्तकोटीगतकल्पसर्वक्षेत्रबोधिसत्त्वचर्यावतरणतायै महावितानधर्मः । बलं बोधिसत्त्वस्य सर्वधर्मधातुनयसमुद्रप्रसृतं सर्वक्षेत्रेषु प्रतिक्षणमभिसंबोधिदर्शनाप्रतिप्रस्रब्धये महावितानधर्मः । ज्ञानं बोधिसत्त्वस्य तथागतबलप्रसृतं त्र्यध्वसर्वधर्मानावरणज्ञानविज्ञप्तये महावितानधर्मः । इमे कुलपुत्र दश बोधिसत्त्वानां महासंभारां महावितानधर्माः, येषु प्रतिष्ठितानां बोधिसत्त्वानामयमेवंरूपो विमोक्षः संपद्यते, विशुध्यति संभवति संवर्धते समुदेति प्रादुर्भवति संवर्तते सारीभवति विपुलीभवति परिनिष्पद्यते संतिष्ठते ॥ सुधन आह - कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? सा अवोचत् - अस्ति कुलपुत्र अस्य कुसुमतलगर्भव्यूहालंकारस्य लोकधातुसमुद्रस्य पूर्वेण दशलोकधातुसमुद्रसहस्राण्यतिक्रम्य परेण सर्वरत्नविमलप्रभाव्यूहो नाम लोकधातुसमुद्रः । तस्य मध्ये सर्वतथागतप्रभाप्रणिधिनिर्घोषो नाम लोकधातुवंशः । तस्य मध्ये कनकविमलप्रभाव्यूहो नाम लोकधातुः सर्वरत्नमेघविचित्र अधोलोकधातौ सर्वरत्नहारजालसागरप्रतिष्ठितः सर्वगन्धवज्रमणिराजव्यूहशरीरः कूटागारपरिणाहसंस्थानो विशुद्धो ऽसंक्लिष्टः दिव्यविमानभवनमेघसंछादितः । तत्र समन्तावभासध्वजो नाम कल्पः । तस्मिन् लोकधातौ सर्वरत्नगर्भविचित्राभो नाम बोधिमण्डो ऽभूत् । तत्र भगवानविवर्त्यधर्मधातुनिर्घोषो नाम तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । अहं च तेन कालेन तेन समयेन तस्मिन् बोधिवृक्षे पुण्यप्रदीपसंपत्केतुप्रभा नाम बोधिमण्डदेवता अभूवम् । तया मे तस्य तथागतस्य अभिसंबोधिविकुर्वितं दृष्ट्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । तस्य च मे तथागतस्य सहदर्शनेन तथागतगुणसमुद्रावभासो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तस्मिन्नेव लोकधातौ समन्तसंपूर्णश्रीगर्भायां राजधान्यां तत्रैव बोधिमण्डे धर्मद्रुमपर्वततेजो नाम तथागतो ऽभिसंबुद्धः । अहं च ततश्च्युत्वा तत्रैव बोधिमण्डे ज्ञानश्रीपुण्यप्रभा नाम रात्रिदेवता अभूवम् । तया मे तस्य भगवतो धर्मद्रुमपर्वततेजस्तथागतस्य धर्मचक्रप्रवर्तनविकुर्वितं दृष्ट्वा सर्वजगत्संदर्शनसमतावभासविषयो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे सर्वधर्मसागरनिर्घोषराजो नाम तथागत आरागितः । तस्य मे सहदर्शनेन सर्वधर्मभूमिसंवर्धनस्थानो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे रत्नरश्मिप्रदीपध्वजराजो नाम तथागत आरागितः, तस्य मे सहदर्शनेन समन्तवृक्षप्रभमेघो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे गुणसुमेरुप्रभतेजो नाम तथागत आरागितः । तस्य मे सहदर्शनेन बुद्धसमुद्रावभासो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे धर्ममेघनिर्घोषराजो नाम तथागत आरागितः । तस्य मे सहदर्शनेन धर्मसागरप्रदीपो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानोल्कावभासराजो नाम तथागत आरागितो देवकन्याभूतया । तस्य मे सहदर्शनेन सर्वसत्त्वदुःखप्रशमनप्रतिभासप्रदीपो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे (ग्व् २२७) धर्मविकुर्वितवेगध्वजश्रीर्नाम तथागत आरागितः । तस्य मे सहदर्शनेन त्र्यध्वतथागतसंप्रस्थानावभासगर्भो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे धर्मप्रदीपविक्रमज्ञानसिंहो नाम तथागत आरागितः । तस्य मे सहदर्शनेन सर्वलोकाप्रतिहतज्ञानचक्रप्रभतेजो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानबलपर्वततेजो नाम तथागत आरागितः । तस्य मे सहदर्शनेन त्र्यध्वसर्वसत्त्वचर्येन्द्रियप्रभासो नाम समाधिः प्रतिलब्धः । इति हि कुलपुत्र तस्मिन् समये मया कनकविमलप्रभे लोकधातौ तस्मिन् समन्तावभासध्वजकल्पे दशबुद्धक्षेत्रपरमाणुरजःसमाः तथागता आरागिताः । केचिद्देवेन्द्रभूतया केचिन्नागेन्द्रभूतया केचिद्यक्षेन्द्रभूतया केचिद्गन्धर्वेन्द्रभूतया केचिदसुरेन्द्रभूतया केचिद्गरुडेन्द्रभूतया केचित्किन्नरेन्द्रभूतया केचिन्महोरगेन्द्रभूतया केचिन्मनुष्येन्द्रभूतया केचिद्ब्रह्मेन्द्रभूयता केचिद्देवभूतया केचिन्मनुष्यभूतया केचित्स्त्रीभूतया केचित्पुरुषभूतया केचिद्दारकभूतया केचिद्दारिकाभूतया आरागिताः । सर्वे च मे तथागताः पूजिता यथासंप्राप्तैः पूजापरिष्कारैः । सर्वे च ते तथागता उपस्थिताः । सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता ॥ सा अहं ततश्च्युत्वा तस्मिन्नेव लोकधातौ बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् बोधिसत्त्वचर्यां चरित्वा ततश्च्युत्वा इह कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे अस्मिन् सहालोकधातावुपपन्ना । तया मे भगवान् क्रुकुच्छन्दस्तथागत आरागितः । तस्य च मे सहदर्शनेन सर्वान्धकारविरजप्रतिभासो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं कनकमुनिस्तथागत आरागितः । तस्य च मे सहदर्शनेन सर्वक्षेत्रसागरावभासानुगतस्फरणो नाम समाधिः प्रतिलब्धः । तस्यानन्तरं काश्यपस्तथागतः आरागितः । तस्य च मे सहदर्शनेन सर्वसत्त्वमन्त्रसमुद्रनिगर्जनस्वरनिर्घोषो नाम समाधिः प्रतिलब्धः । तस्यानन्तरमयं भगवान् वैरोचनस्तथागत आरागितः । तद्बोधिमण्डे तथागताभिसंबोधिविकुर्वितमुखसमुद्रान् प्रतिचित्तक्षणे संदर्शयमानान् दृष्ट्वा मया एष विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य सहप्रतिलम्भाद्दशबुद्धक्षेत्रानभिलाप्यानभिलाप्यपरमाणुरजःसमान् । सर्वधर्मधातुनयसमुद्रानवतीर्णा । तेषु च सर्वधर्मधातुनयसमुद्रान्तर्गतेषु सर्वबुद्धक्षेत्रेषु यानि सर्वपरमाणुरजांसि, तेषु एकैकस्मिन् परमाणुरजसि दशानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यवतीर्य पश्यामि । तेषु च सर्वक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे भगवन्तं वैरोचनं बोधिमण्डवरगतं प्रतिचित्तक्षणमभिसंबोधिविकुर्वितं संदर्शयमानानेकैकेन च अभिसंबोधिविकुर्वितेन सर्वधर्मधातुनयसागरान् स्फरन्तं पश्यामि । तेषां च सर्वतथागतानामेकैकस्य च तथागतस्य पादमूलगतमात्मानं संजाने । ये च तेषु लोकधातुषु ते तथागता बोधिमण्डगता धर्मं देशयन्ति, तं सर्वं शृणोमि । ये च तेषां सर्वतथागतानां निर्माणसमुद्राः सर्वरोमविवरेभ्यो निश्चर्य धर्ममेघसमुद्रान् निगर्जमानान् नानाविकुर्वितानि संदर्शयमानान् (ग्व् २२८) सर्वधर्मधातुदिक्समुद्रान्तर्गतेषु क्षेत्रसमुद्रेषु सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वसत्त्वप्रसरेषु नानागत्युपपन्नेषु सत्त्वाशयवशेन नानासंज्ञागतैर्धर्मचक्रं प्रवर्तयन्ति, तं सर्वं संधारयामि, प्रतिपद्ये, निध्यायामि । सर्वार्थपदव्यञ्जनोद्ग्रहवेगविक्रमया धारण्या उद्गृह्णामि सर्वधर्ममण्डलविशुद्धिगर्भानुगमया प्रज्ञया परिशोधयामि । सर्वधर्मसागरप्रविचयाभिज्ञया गत्यानुगच्छामि । त्र्यध्वविपुलया बुद्ध्या स्फरामि । तथागतसमतानुगामिन्या प्रज्ञया सामीकरोमि । सर्वधर्मनयानभिनिर्हरामि । सर्वधर्ममेघेषु सूत्रान्तमेघानभिनिर्हरामि । सर्वसूत्रान्तमेघेषु धर्मसमुद्रान् परिसंस्थापयामि । सर्वधर्मसमुद्रेषु धर्मपरिवर्तान् समवसरामि । सर्वधर्मपरिवर्तेषु धर्ममेघान् संजाने । सर्वधर्ममेघेषु धर्मोर्मीन् संजनयामि । सर्वधर्मोर्मिषु धर्मप्रीतिवेगसागरान् प्रतिलभे । सर्वधर्मप्रीतिवेगसागरेषु भूमिप्रतिलम्भवेगानभिनिर्हरामि । सर्वभूमिवेगेषु समाधिसमुद्रवेगानभिनिर्हरामि । सर्वसमाधिसमुद्रमेघेषु बुद्धदर्शनसमुद्रान् प्रतिलभे । सर्वबुद्धदर्शनसमुद्रेष्ववभाससमुद्रान् प्रतिलभे । सर्वावभाससमुद्रेषु त्र्यध्वज्ञानमण्डलभूमीः परिसंस्थापयामि अनन्तमध्यदिक्सागरस्फरणयोगेन, अप्रमेयतथागतपूर्वान्तचर्यासमुद्रावतरणयोगेन, अप्रमेयतथागतपूर्वयोगसमुद्रज्ञानावभासयोगेन, अप्रमेयतथागतज्ञानालोकप्रतिलम्भयोगेन, अप्रमेयतथागतशीलमण्डलपरिशुद्ध्यवभासयोगेन, अप्रमेयतथागतक्षान्तिभूमिपरिशोधनयोगेन, अप्रमेयतथागतमहावीर्यवेगविवर्धनविक्रमज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतध्यानमण्डलध्यानागमसमुद्रपरिशुद्धिप्रयोगावभासप्रतिलम्भयोगेन, अप्रमेयतथागतप्रज्ञापारमितानयसागरपरिशुद्धिविज्ञप्त्यवभासयोगेन, अप्रमेयतथागतोपायकौशल्यपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतप्रणिधानपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतपुण्यज्ञानबलपारमितासंवर्धनसंवसनज्ञानप्रतिलम्भयोगेन, अप्रमेयतथागतज्ञानपारमितानयसागरविचारप्रलम्भयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूम्याक्रमणज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतभूम्याक्रमणसंधिविकुर्वितकल्पसागरसंवसनयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूमिमण्डलाक्रमणयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिसंवसनयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिपरिशोधनयोगेन, अप्रमेयतथागतज्ञानसागरविचारणयोगेन, अप्रमेयतथागतज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतबोधिसत्त्वभूताशेषपूर्वबुद्धदर्शनानुबन्धविज्ञप्तियोगेन, अप्रमेयतथागतबोधिसत्त्वभूताशेषपूर्वबुद्धसमुद्रदर्शनकल्पसमुद्रसंवासयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूताशेषक्षेत्रसमुद्रस्फरणकायाभिनिर्हारज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतविपुलपूर्वबोधिसत्त्वचर्यानवशेषधर्मधातुस्फरणयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वचर्यानानोपायसुखसर्वसत्त्वपरिपाचनविनयसंदर्शनयोगेन, अप्रमेयतथागतसर्वदिक्समुद्रानवशेषप्रभाप्रसरस्फरणयोगेन, अप्रमेयतथागतसत्त्वाभिमुखविकुर्वितसंदर्शनयोगेन, अप्रमेयतथागतभूम्याक्रमणज्ञानावभासयोगेन, अप्रमेयतथागताभिसंबोधिविकुर्वणज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतधर्मचक्रप्रवर्तनसर्वधर्ममेघानवशेषसंप्रतीच्छनसंधारणयोगेन, अप्रमेयतथागतलक्षणसमुद्रविज्ञप्तिज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतकायसमुद्रसमुदाचारविज्ञप्त्यवभासप्रतिलाभयोगेन, अप्रमेयतथागतविपुलविषयज्ञानावभासप्रतिलाभयोगेन । (ग्व् २२९) तेषां च तथागतानां प्रतिचित्तक्षणं प्रथमचित्तोत्पादमादाय यावत्सद्धर्मान्तर्धानं सर्वमवतरामि ॥ यत्पुनरेवं वदसि - कियच्चिरप्रतिलब्धस्त्वयायं विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्ष इति । यन्मया विबुद्धक्षेत्रपरमाणुरजःसमानां बुद्धकल्पानां परेण कनकविमलप्रभायां लोकधातौ पुण्यप्रदीपसंपत्समन्तकेतुप्रभा बोधिवृक्षदेवता अभूत्, तया अवैवर्त्यधर्मधातुनिर्घोषस्य तथागतस्य धर्मदेशनां श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तान् विबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् बोधिसत्त्वचर्यां चरित्वा इह सहायां लोकधातावुपपद्य क्रकुच्छन्दप्रमुखाः शाक्यमुनिपर्यवसाना भद्रकल्पिकास्तथागता आरागिताः । अनागतांश्च सर्वानारागयिष्यामि । यथेह लोकधातौ, तथा सर्वलोकधातुष्वनागतान् बुद्धवंशानारागयिष्यामि, पूजयिष्यामि । अद्यापि हि कुलपुत्र सा कनकविमलप्रभा लोकधातुस्तिष्ठति अच्छिन्नबुद्धवंशः । तस्मात्तर्हि कुलपुत्र इह नये महता बोधिसत्त्वविक्रमेण प्रयोक्तव्यम् ॥ अथ खलु प्रशान्तरुतसागरवती रात्रिदेवता तस्यां वेलायामेतमेव विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत - शृणु सूधना वचनमेतु ममा यथयं विमोक्ष प्रतिलब्धु शुभम् । श्रुत्वा च प्रीतिबलु संजनिया एतं विमोक्षनयमोतरहि

ayamasya kulaputra vipulaprītivegasaṃbhavacittakṣaṇavyūhasya bodhisattvavimokṣanayasamudrasyāvabhāsaḥ / api tu anantamadhyaḥ khalveṣa vimokṣo dharmadhātunayasamudrāvatāraṇatvāt / akṣaya (Gv 225) eṣa vimokṣaḥ sarvajñatācittotpādāsaṃbhinnatvāt / aparyanta eṣa vimokṣo bodhisattvacakṣurvijñeyatvāt / atula eṣa vimokṣo 'saṃbhinnadharmadhātunayatalaspharaṇatvāt / samantamukha eṣa vimokṣa ekārambaṇasarvavikurvitasamavasaraṇatvāt / amogha eṣa vimokṣaḥ sarvadharmaśarīrādvayasamudācāratvāt / anutpanna eṣa vimokṣo māyopamasamudācāratvāt / pratibhāsopama eṣa vimokṣo sarvajñatāpraṇidhānapratibhāsasaṃbhūtatvāt / nirmitopama eṣa vimokṣo bodhisattvacaryāsunirmitatvāt / mahāpṛthivīsadṛśa eṣa vimokṣaḥ sarvajagatpratiśaraṇatvāt / apskandhopama eṣa vimokṣaḥ sarvajaganmahākaruṇābhiṣyandanatayā / tejaḥskandhopama eṣa vimokṣaḥ sarvasattvatṛṣṇāsnehaparyādānatayā / vāyuskandhopama eṣa vimokṣaḥ sarvasattvasarvajñatāpratiṣṭhāpanatayā / sāgaropama eṣa vimokṣaḥ sarvajagadguṇālaṃkārālayatvāt / meruparvatarājopama eṣa vimokṣaḥ sarvadharmajñānaratnasamudrābhyudgatatvāt / vyūhanayavātamaṇḍalasadṛśa eṣa vimokṣaḥ sarvadharmavimokṣavidhivyūhanatayā / gaganopama eṣa vimokṣastradhvaprāptasarvatathāgatavikurvitāvakāśatvāt / mahāmeghopama eṣa vimokṣaḥ sarvasattvābhimukhadharmameghābhipravarṣaṇatvāt / ādityopama eṣa vimokṣaḥ sarvasattvājñānatamondhakāravidhamanatayā / candropama eṣa vimokṣo mahāpuṇyajñānasamudrasusamārjitatvāt / tathāgatopama eṣa vimokṣaḥ sarvatrānugatatvāt / svacchāyopama eṣa vimokṣaḥ karmadharmasunirmitatvāt / pratiśrutkopama eṣa vimokṣo yathādhimuktasarvadharmanirghoṣanigarjanatayā / pratibhāsopama eṣa vimokṣo yathāśayasarvasattvavijñāpanatayā / drumarājopama eṣa vimokṣaḥ sarvabuddhavikurvitasaṃkusumitatvāt / vajropama eṣa vimokṣo 'bhedyadharmatvāt / cintārājamaṇiratnopama eṣa vimokṣo 'nantamadhyavikurvitasamudrābhinirharaṇatayā / vimalagarbhamaṇirājopama eṣa vimokṣaḥ sarvatryadhvatathāgatavikurvitavijñaptyanāvaraṇatayā / nandidhvajamaṇiratnopama eṣa vimokṣaḥ sarvabuddhadharmacakrasamatānirghoṣatvāt / evamaparimāṇopamopanyāsānugamanirdeśo batāyaṃ kulaputra vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ // atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṃ rātridevatāmetadavocat - kathaṃ pratipadyamānasya devate bodhisattvasya ayamevaṃrūpo vimokṣaḥ saṃpadyate? āha - daśeme kulaputra bodhisattvānāṃ mahāsaṃbhārā mahāvitānadharmā mahāvisphārā mahādyutayo mahāvabhāsā mahāprabhāvabhāsā mahābhāgā mahāvibhāgā mahāsaṃbhavā mahāvibhavāḥ, yeṣu pratipadyamānānāṃ bodhisattvānāmayamevaṃrūpo vimokṣaḥ saṃpadyate / katame daśa? yaduta dānaṃ bodhisattvasya yathāśayasarvasattvasamudrasaṃtoṣaṇaprasṛtaṃ mahāvitānadharmaḥ / śīlaṃ bodhisattvasya sarvatathāgataguṇasamudrāvatārapratipattiprasṛtaṃ mahāvitānadharmaḥ / kṣāntirbodhisattvasya sarvadharmasvabhāvanidhyaptiprasṛtaṃ mahāvitānadharmaḥ / vīryaṃ bodhisattvasya sarvajñatāsamārambhāvivartyaprasṛtaṃ mahāvitānadharmaḥ / dhyānaṃ bodhisattvasya sarvasattvakleśapratāpapraśamanaprasṛtaṃ mahāvitānadharmaḥ / prajñā bodhisattvasya sarvadharmasamudraprajñāprasṛtā mahāvitānadharmaḥ / upāyo bodhisattvasya sarvasattvasamudraparipākavinayaprasṛto (Gv 226) mahāvitānadharmaḥ / praṇidhānaṃ bodhisattvasya sarvakṣetrasamudraprasṛtamaparāntakoṭīgatakalpasarvakṣetrabodhisattvacaryāvataraṇatāyai mahāvitānadharmaḥ / balaṃ bodhisattvasya sarvadharmadhātunayasamudraprasṛtaṃ sarvakṣetreṣu pratikṣaṇamabhisaṃbodhidarśanāpratiprasrabdhaye mahāvitānadharmaḥ / jñānaṃ bodhisattvasya tathāgatabalaprasṛtaṃ tryadhvasarvadharmānāvaraṇajñānavijñaptaye mahāvitānadharmaḥ / ime kulaputra daśa bodhisattvānāṃ mahāsaṃbhārāṃ mahāvitānadharmāḥ, yeṣu pratiṣṭhitānāṃ bodhisattvānāmayamevaṃrūpo vimokṣaḥ saṃpadyate, viśudhyati saṃbhavati saṃvardhate samudeti prādurbhavati saṃvartate sārībhavati vipulībhavati pariniṣpadyate saṃtiṣṭhate // sudhana āha - kiyacciraṃ saṃprasthitāsi devate anuttarāyāṃ samyaksaṃbodhau? sā avocat - asti kulaputra asya kusumatalagarbhavyūhālaṃkārasya lokadhātusamudrasya pūrveṇa daśalokadhātusamudrasahasrāṇyatikramya pareṇa sarvaratnavimalaprabhāvyūho nāma lokadhātusamudraḥ / tasya madhye sarvatathāgataprabhāpraṇidhinirghoṣo nāma lokadhātuvaṃśaḥ / tasya madhye kanakavimalaprabhāvyūho nāma lokadhātuḥ sarvaratnameghavicitra adholokadhātau sarvaratnahārajālasāgarapratiṣṭhitaḥ sarvagandhavajramaṇirājavyūhaśarīraḥ kūṭāgārapariṇāhasaṃsthāno viśuddho 'saṃkliṣṭaḥ divyavimānabhavanameghasaṃchāditaḥ / tatra samantāvabhāsadhvajo nāma kalpaḥ / tasmin lokadhātau sarvaratnagarbhavicitrābho nāma bodhimaṇḍo 'bhūt / tatra bhagavānavivartyadharmadhātunirghoṣo nāma tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / ahaṃ ca tena kālena tena samayena tasmin bodhivṛkṣe puṇyapradīpasaṃpatketuprabhā nāma bodhimaṇḍadevatā abhūvam / tayā me tasya tathāgatasya abhisaṃbodhivikurvitaṃ dṛṣṭvā anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / tasya ca me tathāgatasya sahadarśanena tathāgataguṇasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tasminneva lokadhātau samantasaṃpūrṇaśrīgarbhāyāṃ rājadhānyāṃ tatraiva bodhimaṇḍe dharmadrumaparvatatejo nāma tathāgato 'bhisaṃbuddhaḥ / ahaṃ ca tataścyutvā tatraiva bodhimaṇḍe jñānaśrīpuṇyaprabhā nāma rātridevatā abhūvam / tayā me tasya bhagavato dharmadrumaparvatatejastathāgatasya dharmacakrapravartanavikurvitaṃ dṛṣṭvā sarvajagatsaṃdarśanasamatāvabhāsaviṣayo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe sarvadharmasāgaranirghoṣarājo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena sarvadharmabhūmisaṃvardhanasthāno nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe ratnaraśmipradīpadhvajarājo nāma tathāgata ārāgitaḥ, tasya me sahadarśanena samantavṛkṣaprabhamegho nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe guṇasumeruprabhatejo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena buddhasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena dharmasāgarapradīpo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe jñānolkāvabhāsarājo nāma tathāgata ārāgito devakanyābhūtayā / tasya me sahadarśanena sarvasattvaduḥkhapraśamanapratibhāsapradīpo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe (Gv 227) dharmavikurvitavegadhvajaśrīrnāma tathāgata ārāgitaḥ / tasya me sahadarśanena tryadhvatathāgatasaṃprasthānāvabhāsagarbho nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṃho nāma tathāgata ārāgitaḥ / tasya me sahadarśanena sarvalokāpratihatajñānacakraprabhatejo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ tatraiva bodhimaṇḍe jñānabalaparvatatejo nāma tathāgata ārāgitaḥ / tasya me sahadarśanena tryadhvasarvasattvacaryendriyaprabhāso nāma samādhiḥ pratilabdhaḥ / iti hi kulaputra tasmin samaye mayā kanakavimalaprabhe lokadhātau tasmin samantāvabhāsadhvajakalpe daśabuddhakṣetraparamāṇurajaḥsamāḥ tathāgatā ārāgitāḥ / keciddevendrabhūtayā kecinnāgendrabhūtayā kecidyakṣendrabhūtayā kecidgandharvendrabhūtayā kecidasurendrabhūtayā kecidgaruḍendrabhūtayā kecitkinnarendrabhūtayā kecinmahoragendrabhūtayā kecinmanuṣyendrabhūtayā kecidbrahmendrabhūyatā keciddevabhūtayā kecinmanuṣyabhūtayā kecitstrībhūtayā kecitpuruṣabhūtayā keciddārakabhūtayā keciddārikābhūtayā ārāgitāḥ / sarve ca me tathāgatāḥ pūjitā yathāsaṃprāptaiḥ pūjāpariṣkāraiḥ / sarve ca te tathāgatā upasthitāḥ / sarveṣāṃ ca me teṣāṃ tathāgatānāṃ dharmadeśanā śrutā // sā ahaṃ tataścyutvā tasminneva lokadhātau buddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṃ caritvā tataścyutvā iha kusumatalagarbhavyūhālaṃkāre lokadhātusamudre asmin sahālokadhātāvupapannā / tayā me bhagavān krukucchandastathāgata ārāgitaḥ / tasya ca me sahadarśanena sarvāndhakāravirajapratibhāso nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ kanakamunistathāgata ārāgitaḥ / tasya ca me sahadarśanena sarvakṣetrasāgarāvabhāsānugataspharaṇo nāma samādhiḥ pratilabdhaḥ / tasyānantaraṃ kāśyapastathāgataḥ ārāgitaḥ / tasya ca me sahadarśanena sarvasattvamantrasamudranigarjanasvaranirghoṣo nāma samādhiḥ pratilabdhaḥ / tasyānantaramayaṃ bhagavān vairocanastathāgata ārāgitaḥ / tadbodhimaṇḍe tathāgatābhisaṃbodhivikurvitamukhasamudrān praticittakṣaṇe saṃdarśayamānān dṛṣṭvā mayā eṣa vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhāddaśabuddhakṣetrānabhilāpyānabhilāpyaparamāṇurajaḥsamān / sarvadharmadhātunayasamudrānavatīrṇā / teṣu ca sarvadharmadhātunayasamudrāntargateṣu sarvabuddhakṣetreṣu yāni sarvaparamāṇurajāṃsi, teṣu ekaikasmin paramāṇurajasi daśānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyavatīrya paśyāmi / teṣu ca sarvakṣetreṣvekaikasmin buddhakṣetre bhagavantaṃ vairocanaṃ bodhimaṇḍavaragataṃ praticittakṣaṇamabhisaṃbodhivikurvitaṃ saṃdarśayamānānekaikena ca abhisaṃbodhivikurvitena sarvadharmadhātunayasāgarān spharantaṃ paśyāmi / teṣāṃ ca sarvatathāgatānāmekaikasya ca tathāgatasya pādamūlagatamātmānaṃ saṃjāne / ye ca teṣu lokadhātuṣu te tathāgatā bodhimaṇḍagatā dharmaṃ deśayanti, taṃ sarvaṃ śṛṇomi / ye ca teṣāṃ sarvatathāgatānāṃ nirmāṇasamudrāḥ sarvaromavivarebhyo niścarya dharmameghasamudrān nigarjamānān nānāvikurvitāni saṃdarśayamānān (Gv 228) sarvadharmadhātudiksamudrāntargateṣu kṣetrasamudreṣu sarvalokadhātuvaṃśeṣu sarvalokadhātuprasareṣu sarvasattvaprasareṣu nānāgatyupapanneṣu sattvāśayavaśena nānāsaṃjñāgatairdharmacakraṃ pravartayanti, taṃ sarvaṃ saṃdhārayāmi, pratipadye, nidhyāyāmi / sarvārthapadavyañjanodgrahavegavikramayā dhāraṇyā udgṛhṇāmi sarvadharmamaṇḍalaviśuddhigarbhānugamayā prajñayā pariśodhayāmi / sarvadharmasāgarapravicayābhijñayā gatyānugacchāmi / tryadhvavipulayā buddhyā spharāmi / tathāgatasamatānugāminyā prajñayā sāmīkaromi / sarvadharmanayānabhinirharāmi / sarvadharmamegheṣu sūtrāntameghānabhinirharāmi / sarvasūtrāntamegheṣu dharmasamudrān parisaṃsthāpayāmi / sarvadharmasamudreṣu dharmaparivartān samavasarāmi / sarvadharmaparivarteṣu dharmameghān saṃjāne / sarvadharmamegheṣu dharmormīn saṃjanayāmi / sarvadharmormiṣu dharmaprītivegasāgarān pratilabhe / sarvadharmaprītivegasāgareṣu bhūmipratilambhavegānabhinirharāmi / sarvabhūmivegeṣu samādhisamudravegānabhinirharāmi / sarvasamādhisamudramegheṣu buddhadarśanasamudrān pratilabhe / sarvabuddhadarśanasamudreṣvavabhāsasamudrān pratilabhe / sarvāvabhāsasamudreṣu tryadhvajñānamaṇḍalabhūmīḥ parisaṃsthāpayāmi anantamadhyadiksāgaraspharaṇayogena, aprameyatathāgatapūrvāntacaryāsamudrāvataraṇayogena, aprameyatathāgatapūrvayogasamudrajñānāvabhāsayogena, aprameyatathāgatajñānālokapratilambhayogena, aprameyatathāgataśīlamaṇḍalapariśuddhyavabhāsayogena, aprameyatathāgatakṣāntibhūmipariśodhanayogena, aprameyatathāgatamahāvīryavegavivardhanavikramajñānāvabhāsapratilambhayogena, aprameyatathāgatadhyānamaṇḍaladhyānāgamasamudrapariśuddhiprayogāvabhāsapratilambhayogena, aprameyatathāgataprajñāpāramitānayasāgarapariśuddhivijñaptyavabhāsayogena, aprameyatathāgatopāyakauśalyapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapraṇidhānapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapuṇyajñānabalapāramitāsaṃvardhanasaṃvasanajñānapratilambhayogena, aprameyatathāgatajñānapāramitānayasāgaravicārapralambhayogena, aprameyatathāgatapūrvabodhisattvabhūmyākramaṇajñānāvabhāsapratilambhayogena, aprameyatathāgatabhūmyākramaṇasaṃdhivikurvitakalpasāgarasaṃvasanayogena, aprameyatathāgatapūrvabodhisattvabhūmimaṇḍalākramaṇayogena, aprameyatathāgatabodhisattvabhūmisaṃvasanayogena, aprameyatathāgatabodhisattvabhūmipariśodhanayogena, aprameyatathāgatajñānasāgaravicāraṇayogena, aprameyatathāgatajñānāvabhāsapratilābhayogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhadarśanānubandhavijñaptiyogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhasamudradarśanakalpasamudrasaṃvāsayogena, aprameyatathāgatapūrvabodhisattvabhūtāśeṣakṣetrasamudraspharaṇakāyābhinirhārajñānāvabhāsapratilābhayogena, aprameyatathāgatavipulapūrvabodhisattvacaryānavaśeṣadharmadhātuspharaṇayogena, aprameyatathāgatapūrvabodhisattvacaryānānopāyasukhasarvasattvaparipācanavinayasaṃdarśanayogena, aprameyatathāgatasarvadiksamudrānavaśeṣaprabhāprasaraspharaṇayogena, aprameyatathāgatasattvābhimukhavikurvitasaṃdarśanayogena, aprameyatathāgatabhūmyākramaṇajñānāvabhāsayogena, aprameyatathāgatābhisaṃbodhivikurvaṇajñānāvabhāsapratilābhayogena, aprameyatathāgatadharmacakrapravartanasarvadharmameghānavaśeṣasaṃpratīcchanasaṃdhāraṇayogena, aprameyatathāgatalakṣaṇasamudravijñaptijñānāvabhāsapratilābhayogena, aprameyatathāgatakāyasamudrasamudācāravijñaptyavabhāsapratilābhayogena, aprameyatathāgatavipulaviṣayajñānāvabhāsapratilābhayogena / (Gv 229) teṣāṃ ca tathāgatānāṃ praticittakṣaṇaṃ prathamacittotpādamādāya yāvatsaddharmāntardhānaṃ sarvamavatarāmi // yatpunarevaṃ vadasi - kiyaccirapratilabdhastvayāyaṃ vipulaprītivegasaṃbhavacittakṣaṇavyūho bodhisattvavimokṣa iti / yanmayā vibuddhakṣetraparamāṇurajaḥsamānāṃ buddhakalpānāṃ pareṇa kanakavimalaprabhāyāṃ lokadhātau puṇyapradīpasaṃpatsamantaketuprabhā bodhivṛkṣadevatā abhūt, tayā avaivartyadharmadhātunirghoṣasya tathāgatasya dharmadeśanāṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādya tān vibuddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṃ caritvā iha sahāyāṃ lokadhātāvupapadya krakucchandapramukhāḥ śākyamuniparyavasānā bhadrakalpikāstathāgatā ārāgitāḥ / anāgatāṃśca sarvānārāgayiṣyāmi / yatheha lokadhātau, tathā sarvalokadhātuṣvanāgatān buddhavaṃśānārāgayiṣyāmi, pūjayiṣyāmi / adyāpi hi kulaputra sā kanakavimalaprabhā lokadhātustiṣṭhati acchinnabuddhavaṃśaḥ / tasmāttarhi kulaputra iha naye mahatā bodhisattvavikrameṇa prayoktavyam // atha khalu praśāntarutasāgaravatī rātridevatā tasyāṃ velāyāmetameva vipulaprītivegasaṃbhavacittakṣaṇavyūhaṃ bodhisattvavimokṣaṃ bhūyasyā mātrayā pradarśayamānā sudhanaṃ śreṣṭhidārakaṃ gāthābhiradhyabhāṣata - śṛṇu sūdhanā vacanametu mamā yathayaṃ vimokṣa pratilabdhu śubham / śrutvā ca prītibalu saṃjaniyā etaṃ vimokṣanayamotarahi

Sanskrit only: no published translation is held for this verse.

बहु कल्पसागर पुरा चरिता चित्ताशयं स्वकु विशोधयति । अधिमुक्तिवेग विपुलां जनिया सर्वज्ञज्ञाननगराभिमुखम्

bahu kalpasāgara purā caritā cittāśayaṃ svaku viśodhayati / adhimuktivega vipulāṃ janiyā sarvajñajñānanagarābhimukham

Sanskrit only: no published translation is held for this verse.

श्रुत्वा त्रियध्वपरमा सुगतानधिमुक्ति तेषु विपुलां जनिय । सर्वैः सुखैः सपरिवार मया ते उपस्थिताः सबहुकल्पशतान्

śrutvā triyadhvaparamā sugatānadhimukti teṣu vipulāṃ janiya / sarvaiḥ sukhaiḥ saparivāra mayā te upasthitāḥ sabahukalpaśatān

Sanskrit only: no published translation is held for this verse.

दृष्ट्वा मया पुरिमकाः सुगताः संपूजिता जनहिताय चरन् । धर्मश्च मे निरुपमो ऽयु श्रुतः प्रीतिबलं विपुलं संजनिया

dṛṣṭvā mayā purimakāḥ sugatāḥ saṃpūjitā janahitāya caran / dharmaśca me nirupamo 'yu śrutaḥ prītibalaṃ vipulaṃ saṃjaniyā

Sanskrit only: no published translation is held for this verse.

माता पिता गुरुजनः सततं मय सत्कृता हितसुखेन तदा । उपस्थानु गौरवस्थिताय कृतं एतं विमोक्षनयमोतरमाणा

mātā pitā gurujanaḥ satataṃ maya satkṛtā hitasukhena tadā / upasthānu gauravasthitāya kṛtaṃ etaṃ vimokṣanayamotaramāṇā

Sanskrit only: no published translation is held for this verse.

जीर्णातुरा धनविहीन नरा विकलेन्द्रिया दुखि अनाथ बहू । ते मे सुखे स्थपिय मैत्रमना सुधना सनाथ कृत जातिशतान् ॥ ६ ॥ राजाग्नितस्करजलप्रभवा सिंहद्विपा हि परशत्रुभयात् । विविधैर्भयैर्भवसमुद्रगता मय त्रायिता विचरतीय पुरा

jīrṇāturā dhanavihīna narā vikalendriyā dukhi anātha bahū / te me sukhe sthapiya maitramanā sudhanā sanātha kṛta jātiśatān // 6 // rājāgnitaskarajalaprabhavā siṃhadvipā hi paraśatrubhayāt / vividhairbhayairbhavasamudragatā maya trāyitā vicaratīya purā

Sanskrit only: no published translation is held for this verse.

क्लेशप्रतापित सदा त्रिभवे कर्मैः प्रभावित तथा अशुभैः । संसारपर्वतप्रपातगता मय त्रायिता भवगतीषु प्रजा

kleśapratāpita sadā tribhave karmaiḥ prabhāvita tathā aśubhaiḥ / saṃsāraparvataprapātagatā maya trāyitā bhavagatīṣu prajā

Sanskrit only: no published translation is held for this verse.

ये दुःखदुर्गतिप्रपातभयाः तीव्रा निरन्तरखरा सुबहू । जातीजरामरणरोगभया लोके मया शमित ते निखिला

ye duḥkhadurgatiprapātabhayāḥ tīvrā nirantarakharā subahū / jātījarāmaraṇarogabhayā loke mayā śamita te nikhilā

Sanskrit only: no published translation is held for this verse.

संसारतीव्रदुखसंशमनं सत्त्वान् सर्वसुखसंजननम् । अत्यन्तबुद्धसुखसंजननं अपरान्तकल्प प्रणिधानु मम

saṃsāratīvradukhasaṃśamanaṃ sattvān sarvasukhasaṃjananam / atyantabuddhasukhasaṃjananaṃ aparāntakalpa praṇidhānu mama

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरध्यभाषत - कल्याणमित्रेण समानुशिष्टे उपागतस्तुभ्य सकाशु देवि । पश्यामि ते आसनु संनिषण्णा अनन्तमध्येन समुच्छ्रयेण

atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṃ rātridevatāmābhiḥ sārūpyābhirgāthābhiradhyabhāṣata - kalyāṇamitreṇa samānuśiṣṭe upāgatastubhya sakāśu devi / paśyāmi te āsanu saṃniṣaṇṇā anantamadhyena samucchrayeṇa

Sanskrit only: no published translation is held for this verse.

न वर्णसंस्थाननिमित्तगोचरैर्भवाश्रितैर्नापि च भावसंज्ञिभिः । न हीनसत्त्वैर्विपरीतदर्शिभिः शक्यस्तव ज्ञातुमयं हि गोचरः

na varṇasaṃsthānanimittagocarairbhavāśritairnāpi ca bhāvasaṃjñibhiḥ / na hīnasattvairviparītadarśibhiḥ śakyastava jñātumayaṃ hi gocaraḥ

Sanskrit only: no published translation is held for this verse.

ज्ञातुं न लोकेन सहदेवकेन त्वद्वर्णरूपस्य निमित्त शक्यम् । कल्पाननन्तान् समुदीक्षतापि तथा हि ते रूपमनन्तदर्शनम्

jñātuṃ na lokena sahadevakena tvadvarṇarūpasya nimitta śakyam / kalpānanantān samudīkṣatāpi tathā hi te rūpamanantadarśanam

Sanskrit only: no published translation is held for this verse.

स्कन्धालयादुच्चलितासि देवि प्रतिष्ठिता नायतनेषु च त्वम् । लोकव्यतीता च वितीर्णकाङ्क्षा संदृश्यसे लोकि विकुर्वमाणा

skandhālayāduccalitāsi devi pratiṣṭhitā nāyataneṣu ca tvam / lokavyatītā ca vitīrṇakāṅkṣā saṃdṛśyase loki vikurvamāṇā

Sanskrit only: no published translation is held for this verse.

अनिञ्जप्राप्तास्यनघा असङ्गा विशोधितं ते वरज्ञानचक्षुः । रजःपथे सर्वरजःप्रमाणान् येनेक्षसे बुद्ध विकुर्वमाणान्

aniñjaprāptāsyanaghā asaṅgā viśodhitaṃ te varajñānacakṣuḥ / rajaḥpathe sarvarajaḥpramāṇān yenekṣase buddha vikurvamāṇān

Sanskrit only: no published translation is held for this verse.

कायो हि ते धर्मशरीरगर्भः चित्तं च ते ज्ञानमयं असङ्गम् । समन्तओभासप्रभासिता त्वमालोकु लोके जनयस्यनन्तम्

kāyo hi te dharmaśarīragarbhaḥ cittaṃ ca te jñānamayaṃ asaṅgam / samantaobhāsaprabhāsitā tvamāloku loke janayasyanantam

Sanskrit only: no published translation is held for this verse.

चित्तादनन्तं समुदेति कर्म विचित्रितः कर्मण सर्वलोकः । चित्तस्वभावं च जगद्विदित्वा जगत्समान् दर्शयसि स्वकायान्

cittādanantaṃ samudeti karma vicitritaḥ karmaṇa sarvalokaḥ / cittasvabhāvaṃ ca jagadviditvā jagatsamān darśayasi svakāyān

Sanskrit only: no published translation is held for this verse.

स्वप्नोपमं लोकमिमं विदित्वा बुद्धांश्च सर्वान् प्रतिभासकल्पान् । धर्मान् प्रतिश्रुत्कसमानशेषानसज्जमाना जगति प्रवर्तसे

svapnopamaṃ lokamimaṃ viditvā buddhāṃśca sarvān pratibhāsakalpān / dharmān pratiśrutkasamānaśeṣānasajjamānā jagati pravartase

Sanskrit only: no published translation is held for this verse.

त्र्यध्वस्थितस्यापि जनस्य देवि प्रतिक्षणं दर्शयसि स्वकायम् । द्वयप्रवृत्तिर्न च ते ऽस्ति चित्ते धर्मं वदस्येव च सर्वदिक्षु

tryadhvasthitasyāpi janasya devi pratikṣaṇaṃ darśayasi svakāyam / dvayapravṛttirna ca te 'sti citte dharmaṃ vadasyeva ca sarvadikṣu

Sanskrit only: no published translation is held for this verse.

रजस्यनन्ता हि महासमुद्रा तथामिताः सत्त्वमहासमुद्राः । अनन्तमध्या सुगतार्णवाश्च विमोक्षचर्यस्य हि गोचरस्ते

rajasyanantā hi mahāsamudrā tathāmitāḥ sattvamahāsamudrāḥ / anantamadhyā sugatārṇavāśca vimokṣacaryasya hi gocaraste

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामाभिर्गाथाभिरभिष्टुत्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रशान्तरुतसागरवत्या रात्रिदेवताया अन्तिकात्प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṃ rātridevatāmābhirgāthābhirabhiṣṭutya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praśāntarutasāgaravatyā rātridevatāyā antikātprakrāntaḥ

Sanskrit only: no published translation is held for this verse.