Library·Gandavyuhasutra·17·17.22

Gandavyuhasutra 17.22

Gand 17.22

स इमानि दश महाकरुणोपसंहितानि वचनपदान्युदीर्य तस्यां राजधान्यां घण्टावघोषणमकार्षीत् । महात्यागदुन्दुभिनिर्घोषं च अकारयत् - सर्वजगत् संतर्पयिष्यामः, यस्य येनार्थस्तस्मै तदनुप्रदास्याम इति । तेन सर्वजम्बुद्वीपे सर्वराजधानीषु सर्वग्रामनगरनिगमजनपदपत्तनेषु सर्वोपकरणकोशा विवृताः । सर्वशृङ्गाटकरथ्याचत्वरेषु विविधोपकरणविधयः स्थापिताः । सर्वजगदुपजीव्याः सुप्रतिविहिताः । सर्वकोशकोष्ठागाराणि विवृतानि । महारत्ननिधाननिचया निदर्शिताः । अनेकनानाविधरत्नराशयः स्थापिताः । अन्नपानवस्त्रयानपुष्पमाल्यगन्धविलेपनचूर्णनानागन्धवर्णचीवररत्नकोशा विवृताः । शयनासनवसनभवनविमानगृहाण्यलंकृतानि सर्वधनकनकसमृद्धानि ज्योतिर्ध्वजमाणिराजविन्यासविधूतान्धकाराणि । स तेषां सत्त्वानां यथाभिलषितसर्वाभिप्रायपरिपूरणार्थं तेषु गृहेषु प्रत्येकमात्मभावसदृशमुपादाय कायमभिनिर्माय स्थापयामास । सर्वसत्त्वसर्वव्याधिप्रशमनाय च वैद्यभैषज्योपस्थायकविविधजीवितोपकरणप्रत्ययसंपदमुपस्थापयामास । यथार्हविविधोपकरणपूर्णानि च नानारत्नविचित्रभाजनान्युपस्थापयामास - यदुत वज्रमणिभाजनानि नानागन्धमणिरत्नपरिपूर्णानि, नानागन्धरत्नभाजनानि विविधोदारविचित्रवर्णरङ्गवस्त्रपरिपूर्णानि, यानयुग्यानि सुबहूनि नानाकारसंस्थानानि विचित्ररत्नप्रतिमण्डितानि आजानेयाश्वगजगोयुक्तानि । विविधांश्च रथान् राजार्हान् सर्वरत्नाभरणपरिभोगांश्च सर्वासनविधींश्च नानारत्नविचित्रान् विविधवितानविततान् (ग्व् २५२) रत्नकिङ्किणीजालावनद्धान् उच्छ्रितच्छत्रध्वजपताकोपशोभितान् सर्वजनपदप्रदेशेषु स्थापयापास । ग्रामनगरनिगमजनपदप्रदानानि चोद्धोषयामास । नानाविधोद्यानरम्यारामतपोवनपरिभोगानपि सर्वगृहकलत्रपुत्रदारकपरित्यागानपि अनर्ध्यसर्वरत्नपरित्यागानपि स्वहृदयमज्जान्त्रगुणवृक्कमेदमांसरुधिरच्छविचर्मकरचरणबाहुकर्णनासानयनजिह्वादन्तोष्ठशीर्षपरित्यागानपि यावत्सर्वबाह्याध्यात्मिकसर्वाकारपरित्यागानप्युद्धोषयामास ॥ स तमेवंरूपमुपकरणपरित्यागविधिं प्रत्युपस्थाप्य महायज्ञवाटं कारयामास, यस्तस्या रत्नसालव्यूहमेघप्रदीपाया राजधान्याः पूर्वेण मणिशिखरतेजोनाम्नो नगरद्वारस्य पुरतः समविपुलायामः परमविस्तीर्णधरणीतलप्रवेशो निम्नोन्नतविशुद्धसमतलो ऽपगतश्वभ्रप्रपातः सर्वस्थाणुकण्टकापगतः उत्सन्नशर्कराकठल्लः सर्वरत्नधातुसंचयः सर्वरत्नमयमणिरत्नराजसंस्तीर्णतलः अनेकमणिरत्नव्युहोपशोभितो नानारत्नकुसुमाभिकीर्णः सर्वचूर्णसुगन्धराजसमाकुलः सर्वगन्धधूपपरिधूपितो रत्नार्चिःप्रदीपः तेजःश्रीसर्वगन्धधूपपटलमेघगगनसंछादितालंकारः सर्वरत्नद्रुमपङ्क्तिसुविभक्तोपशोभितो नानाभवनविमानकूटागारसमलंकृतः उच्छ्रितच्छत्रध्वजपताको नानारत्नपट्टप्रलम्बविद्योतितो विविधरत्नकुसुमजालसंछन्नः सर्वगन्धराजरत्नजालच्छत्रमण्डलः सुवर्णजालरत्नघण्टानिर्घोषो नानारत्नविराजितवितानविततः सर्वगन्धराजचूर्णविकीर्णः सर्वरत्नकुसुमप्रकीर्णाभिरामः तूर्यकोटीनियुतशतसहस्रमनोज्ञरुतघोषनिर्नादितः सर्वरत्नविचित्रालंकारव्यूहसुपरिशुद्धो बोधिसत्त्वकर्मविपाकाभिनिर्वृत्तः । तस्य मध्ये महासिंहासनमभिनिर्वृत्तं दशरत्ननिचितविचित्रभूमितलसंस्थानं दशरत्ननानावेदिकापरिवारविराजितं दशमणिद्रुमशाखावेदिकान्तरसुविभक्तोपशोभितव्यूहम् अभेद्यवज्रचक्रधरणीतलसुप्रतिष्ठितपादं सर्वरत्नबिम्बविग्रहसंधारितासनचक्रम्, अनेकरत्नमयनिर्यूहशतालंकृतं नानारत्नभक्तिविचित्रव्यूहप्रतिमण्डितं समन्तसुविभक्तरत्नध्वजसमुच्छ्रितं नानारत्नपताकाप्रलम्बितविचित्रव्यूहं रत्नकिङ्किणीजालपरिष्कृतं नानादिव्यमणिविचित्रहेमजालविततं विविधरत्नकुसुमजालमहामणिराजजालविचित्रवस्त्ररत्नजालयथार्हसंछादितोपशोभितव्यूहं अनेकगन्धमणिविग्रहपाणिमण्डलगन्धमेघप्रमुक्तमचिन्त्यवर्णगन्धमणिराजविस्तृतमनोज्ञनानासंस्थानसर्वगन्धपटलमेघप्रमुक्तं सर्वदिव्यगन्धधूपप्रधूपितोपचारं दिव्यातिरेकसुखसंस्पर्शानेकवर्णमणिरत्नवस्त्रप्रज्ञप्तमनेकदिव्यतूर्यसंगीतिशतसहस्रं समन्तात् संप्रवादितमनोज्ञमधुरनिर्घोषं नानारत्नसोपानपङ्क्तिपताकासुविभक्तवेदिकाप्रतिमण्डितव्यूहमनेकमणिरत्नप्रत्यर्पितविविधविकुर्वितमणिबिम्बविग्रहविद्योतितप्रभासम् यत्र स राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः संनिषण्णो ऽभूत् अभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतो विशुद्धमहापुरुषलक्षणप्रतिलब्धो वैरोचनमणिरत्ननिर्भासकेशमकुटः अभेद्यनारायणवज्रसंहननकायो गूढदृढपार्श्वनिबद्धसंधिः सर्वाङ्गपरिपूर्णः समन्तभद्रः समन्तप्रासादिकः समन्तशोभनः सर्वाकारवरोपेतो महाधर्मराजकरोदितः सर्वपरिष्कारवशिताप्रतिलब्धो धर्मवशितासुविशुद्धः स्वचित्तवशवर्ती अप्रतिहतवचनमण्डलः अकोप्यज्ञानसमन्वितः (ग्व् २५३) सुप्रतिष्ठापितधर्मंसम्यक्प्रयोगो ऽनन्तगुणवर्णनिर्देशः । तस्य खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो महासिंहासननिषण्णस्योपरि मूर्धसंधावन्तरिक्षे महाच्छत्रमण्डलं प्रादुर्बभूव विचित्रोद्विद्धमणिरत्नदण्डं महामहामणिकोशगर्भंसर्वरत्नशलाकाशतसहस्रसम्यग्विततमनेकार्चिःश्रीतेजोज्ज्वलितव्यूहं जाम्बूनदकनकप्रभास्वरविशुद्धच्छदनं नानारत्नभक्तिचित्रहेमजालात्यन्तव्यूहच्छदनोपेतं विविधमुक्ताहाराभिप्रलम्बितं समन्तान्नानारत्नजालसंछादितं रत्नकिङ्किणीजालसुवर्णमणिघण्टारत्नसूत्रदामोपनिबद्धाभिप्रलम्बितं महामणिरत्नहारसमन्ताभिप्रलम्बितव्यूहं दिव्यमधुरमनोज्ञप्रमुक्तशब्दोपचारं सर्वसत्त्वकुशलकर्मपथसंचोदनघण्टाविसृतनिर्घोषम् । स खलु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो रत्नवालव्यजनैः संवीज्यमानः शक्रदेवेन्द्रातिरेकेण तेजसा ज्वालयन्नुपशोभते स्म । तस्य समनन्तरनिषण्णस्य तस्मिन् सिंहासने सर्वो जनकायो ऽभिमुखः प्राञ्जलिः स्थितो ऽभूत्तमेव राजानं नमस्यन् ॥ अथ खलु सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो ऽसंख्येयेषु प्राणिकोटीनियुतशतसहस्रेषु संनिपतितेषु नानायाचनकेषु नानावस्तुपरिग्राहकेषु नानोपकरणाधिमुक्तेषु नानाजातिषु नानागतिपर्यापन्नेषु नानाभिलाषचित्तेषु नानाशयाभिप्रायेषु नानादिक्संनिपतितेषु नानाविषयपरिभोगोपचारेषु नानापरिभोगाभिलाषितचेतनेषु नानाभिप्रायकल्पेषु नानामनुष्यनिकायेषु नानाकुलोपपत्युपपन्नेषु नानाजनपदसमागतेषु नाननिरुक्तिवचनमन्त्रसंस्कारेषु नानास्वरमण्डलप्रमोचकेषु नानवस्तुव्यञ्जनेषु नानावचनपदान्युदीरयत्सु, तमेकं महापुण्यसुमेरुमुल्लोकयमानेषु अयमेवैको महाज्ञानपुरुष इति निश्चितचेतनेषु, महापुण्योपस्तब्धो महापुरुषचन्द्रो महात्यागाशयप्रतिलब्ध इत्युन्मुखेषु, बोधिसत्त्वप्रणिधिचेतनानिपतितेषु बोधिसत्त्वप्रणिधिचेतनानिर्मितेषु तं महान्तं याचनकसंनिपातं दृष्ट्वा तेषां याचनकानामन्तिके ऽभूच्चित्तप्रेम चित्तप्रीतिः चित्तप्रसादः । कल्याणमित्रदर्शनसंज्ञा सुविपुला महाकरुणवेगाः संबभूवुः । अपरान्तकल्पसर्वयाचनकसंतर्पणाविवर्त्यवीर्यवेगाः प्रादुरभवन् । सर्वजगत्समप्रयोगपरित्यागचित्तस्फरणमेघाः समभवन् ॥ स खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो राजा तेषां याचनकानां सहदर्शनेन आत्तमनस्कतरो ऽभूत् न त्रिसाहस्रचक्रवर्तिराज्यप्रतिलम्भेन असीमाप्राप्तकल्पपर्यवसानेन, न शक्रत्वाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न सुयामदेवराजाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न संतुषितदेवराजाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न सुनिर्मितदेवराजैश्वर्याधिपत्यासनप्रतिलम्भेन अप्रमेयकल्पावसानेन, न वशवर्तिदेवराजाधिपत्यासनप्रतिलम्भेन, सुमुखाप्सरमनोहरदेवकन्योपस्थानेन अचिन्त्यकल्पपर्यवसानेन, न ब्रह्मासनेनानभिलाप्यकल्पब्रह्मविहारसुखावसानेन, न आभास्वरदेवसुखेन अनन्तकल्पावसानेन, न शुभकृत्स्नदेवसुखेन अतुल्यकल्पाक्षीणेन, न शुद्धावासदेवशान्तविमोक्षसुखविहारेण अपर्यन्तकल्पावसानेन । तद्यथा कुलपुत्र पुरुषस्यैकान्ततृष्णाचरितस्य मतापितृभ्रातृभगिनीमित्रमात्यज्ञातिसालोहितपुत्रदुहितृभार्याचिरकालविप्रयुक्तस्य (ग्व् २५४) अटवीकान्तारविप्रनष्टस्य तद्दर्शनकामस्य तेषां समवधानेन महती प्रीतिरध्यवसानमुत्पद्यते तद्दर्शनावितृप्ततया, एवमेव कुलपुत्र राज्ञः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य तेषां याचनकानां सहदर्शनेन महाप्रीतिवेगाः संजाताः । चित्ततुष्टिसुखमवक्रान्तम् । महांश्चित्तोदग्रतावेगः प्रादुर्भूतः । महाप्राभोद्यहर्षवेगः संभूतः । बुद्धबोधादुदारश्रद्धाधिमुक्तिवेगबलं संवर्धितम् । मूलजाता श्रद्धा सर्वज्ञतायां विवर्धिता । सर्वबुद्धधर्माध्याशयविशुद्धिबलमभिविवर्धितम् । बोधिसत्त्वेन्द्रियकर्मण्यता संभूता । चित्तहर्षपरिपूर्णमहाप्रसादवेग उदपद्यत । विपुलचित्तौद्बिल्यवेगेन कल्याणमित्रेन्द्रियाशयता मृदुभूता । तत्कस्य हेतोः? तथा हि तस्य सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञः सर्वज्ञतारम्बणप्रयुक्तकस्य सर्वज्ञताधर्मताप्रतिशरणस्य सर्वज्ञतामार्गद्वाराभिमुखस्य सर्वजगत्संतर्पणमनसिकारप्रयुक्तस्य सर्वबुद्धगुणसमुद्रानवतारप्रतिपत्त्यभिमुखस्य सर्वमारकर्मक्लेशावरणपर्वतविकिरणप्रयुक्तस्य सर्वतथागतानुशासनीप्रदक्षिणग्राहितावस्थितस्य सर्वकुशलमूलसमुद्रसमन्तमुखसमार्जनाभियोगगर्भस्य सर्वाभिनिवेशोच्चलितसंतानस्य सर्वलोकविषयानभिनिविष्टस्य सर्वधर्मस्वभावगगनगोचरस्य तेषु सर्वयाचनकेष्वेकपुत्रकसंज्ञा उदपद्यत, मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञापरमोपकारकसंज्ञा बोधिमार्गोपस्तम्भसंज्ञा आचार्यसंज्ञा शास्तृसंज्ञा उदपद्यत । स तान् सर्वयाचनकान् यथागतान् यथासंप्राप्तान् यथाकालसंनिपतितान् यथादिग्देशस्थितान् यथावस्तुयाचनकान् यथारुचीन् यथाभिप्रायान् यथाभिकाङ्क्षिणो यथाभिलाषिणो यथावस्तुपर्येषकान् संतर्पयामास अप्रतिहतेन महामैत्रीमण्डलेन याचनकजनापराङ्भुखतया महात्यागरश्मिना सर्वसत्त्वसमप्रयोगेन त्यागमुखेन । सो ऽन्नमन्नार्थिकेभ्यः प्रादात् । पानं पानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्यः पुष्पाणि पुष्पार्थिकेभ्यः प्रादात् । एवं गन्धधूपमाल्यविलेपनचूर्ण चीवरच्छत्रध्वजपताकारत्नाभरणासनशयनभवनविमानविहारारामोद्यानतपोवनानि हयगजरथपत्तिवाहनयुग्ययानान्यपि हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतान्यपि प्रादात् । स्वगृहविमानान्तःपुरपरिवारानपि, सर्वकोशानपि विवृत्य विभज्य अर्थिकेभ्यः प्रादात् यस्य येनार्थः स तं गृह्णातु इति । जनपदानपि जनपदार्थिकेभ्यः प्रादात् । ग्रामानपि ग्रामार्थिभ्यो नगराण्यपि नगरार्थिभ्यः प्रादात् । स तान् सर्वयाचनकान् सर्वास्तिपरित्यागतया सर्वसत्त्वेषु समप्रतिपन्नः सर्ववस्तुपरित्यागैरभिच्छादयामास ॥ तेन खलु पुनः समयेन रत्नप्रभा नाम श्रेष्ठिदारिका षष्टिकन्यापरिवारा तस्मिन्नेव महायज्ञवाटे संनिपतिताभूत्, अभिरूपा प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता, सुवर्णवर्णच्छविरभिनीलकेश्यभिनीलनेत्रा मनोज्ञगन्धा ब्रह्मस्वरा सुवस्त्रा स्वलंकृता स्मृतिमतिगतिह्रीधृत्यपत्राप्येर्याचर्यासंपन्ना, गुरुषु सगौरवा, परमसंप्रजन्यचारिणी गम्भीरचेष्टा मेघासंपन्ना धर्माणां ग्रहणचारणप्रतिबोधिषु पूर्वसुकृतकुशलमूला धर्माभिष्यन्दितप्रसन्नसंताना (ग्व् २५५) विशुद्धकल्याणाशया उदाराधिमुक्तिगगनगोचपरहितपरिणतचित्ता बुद्धदर्शनदिगभिमुखा सर्वज्ञज्ञानाभिलाषिणी । सा खलु रत्नप्रभा श्रेष्ठिदारिका सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो महासिंहासनस्य प्रदक्षिणेन नातिदूरे स्थिताभूत् प्राञ्जलिस्तं राजानं नमस्यन्ती, न च किंचिद्गृह्णाति । एकान्तस्थिता चैवं चित्तमुत्पादयामास - सुलब्धा मे लाभा, यदहमेवंरूपस्य कल्याणमित्रस्य दर्शनसमवधानप्रतिलाभिनीति । सा तस्य सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो ऽन्तिकेकल्याणमित्रसंज्ञामनुकम्पकसंज्ञामनुग्राहकसंज्ञां बुद्धसंज्ञामुत्पाद्य मायाशाठ्यापगतेन चित्तेन परमोदारप्रीतिप्रसादप्रामोद्यवेगप्रतिलब्धा स्वान्याभरणानि कायादवमुच्य येन राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः, तेनाभिमुखमक्षैप्सीत् । तानि तस्य सिंहासनवेदिकामध्ये अधः पृथिवीमण्डले प्रतिष्ठितान्यभूवन् । सा तान्याभरणानि प्रविकीर्य एवं प्रणिधिमुत्पादयामास - यथैष राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो ऽनाथानां सत्त्वानामन्धकारप्राप्तानां प्रतिशरणभूतः, तथाहमप्यनागते ऽध्वनि भवेयम् । यामेष धर्मतां जानाति, तामहमति जानीयाम् । येन यानेनैष निर्यास्यति, तेनाहमपि निर्यायाम् । यस्मिन्नेव मार्गप्रतिपन्नः, तत्राहमपि प्रतिपद्येयम् । यथायमसेचनको रूपेणाक्षयभोगो ऽनन्तपरिचारो दुर्घर्षो ऽपराजितो ऽनवमृद्यः, तथाहमपि भवेयम् । यत्र यत्र चास्योपपत्तिर्भवेत्, अहमपि तत्र तत्रोपपद्येयमिति ॥ तामेवंचित्तमनसिकारप्रयुक्तामाज्ञाय राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो ऽवलोक्य एवमाह - गृहाण दारिके, येन ते ऽर्थः । अहं खलु दारिके सर्वास्तिपरित्यागी सर्वसत्त्वसंतर्पणाय प्रतिपन्नः । सा खलु समन्वाहृता तेन राज्ञा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषेणेति भूयस्या मात्रया प्रसादं प्रत्यलभत । सा प्रसन्नचित्ता उदारविपुलकुशलमूलवेगसंजाता राजानं सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं तस्यां वेलायामाभिर्गाथाभिरध्यभाषत - पूर्वे इयं सालवियूहमेघा अनोपपन्ने त्वयि राजसिंह । निराभिरम्या हततेज आसीत् प्रेतालयो वा यथ भीषणीया

sa imāni daśa mahākaruṇopasaṃhitāni vacanapadānyudīrya tasyāṃ rājadhānyāṃ ghaṇṭāvaghoṣaṇamakārṣīt / mahātyāgadundubhinirghoṣaṃ ca akārayat - sarvajagat saṃtarpayiṣyāmaḥ, yasya yenārthastasmai tadanupradāsyāma iti / tena sarvajambudvīpe sarvarājadhānīṣu sarvagrāmanagaranigamajanapadapattaneṣu sarvopakaraṇakośā vivṛtāḥ / sarvaśṛṅgāṭakarathyācatvareṣu vividhopakaraṇavidhayaḥ sthāpitāḥ / sarvajagadupajīvyāḥ suprativihitāḥ / sarvakośakoṣṭhāgārāṇi vivṛtāni / mahāratnanidhānanicayā nidarśitāḥ / anekanānāvidharatnarāśayaḥ sthāpitāḥ / annapānavastrayānapuṣpamālyagandhavilepanacūrṇanānāgandhavarṇacīvararatnakośā vivṛtāḥ / śayanāsanavasanabhavanavimānagṛhāṇyalaṃkṛtāni sarvadhanakanakasamṛddhāni jyotirdhvajamāṇirājavinyāsavidhūtāndhakārāṇi / sa teṣāṃ sattvānāṃ yathābhilaṣitasarvābhiprāyaparipūraṇārthaṃ teṣu gṛheṣu pratyekamātmabhāvasadṛśamupādāya kāyamabhinirmāya sthāpayāmāsa / sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṃpadamupasthāpayāmāsa / yathārhavividhopakaraṇapūrṇāni ca nānāratnavicitrabhājanānyupasthāpayāmāsa - yaduta vajramaṇibhājanāni nānāgandhamaṇiratnaparipūrṇāni, nānāgandharatnabhājanāni vividhodāravicitravarṇaraṅgavastraparipūrṇāni, yānayugyāni subahūni nānākārasaṃsthānāni vicitraratnapratimaṇḍitāni ājāneyāśvagajagoyuktāni / vividhāṃśca rathān rājārhān sarvaratnābharaṇaparibhogāṃśca sarvāsanavidhīṃśca nānāratnavicitrān vividhavitānavitatān (Gv 252) ratnakiṅkiṇījālāvanaddhān ucchritacchatradhvajapatākopaśobhitān sarvajanapadapradeśeṣu sthāpayāpāsa / grāmanagaranigamajanapadapradānāni coddhoṣayāmāsa / nānāvidhodyānaramyārāmatapovanaparibhogānapi sarvagṛhakalatraputradārakaparityāgānapi anardhyasarvaratnaparityāgānapi svahṛdayamajjāntraguṇavṛkkamedamāṃsarudhiracchavicarmakaracaraṇabāhukarṇanāsānayanajihvādantoṣṭhaśīrṣaparityāgānapi yāvatsarvabāhyādhyātmikasarvākāraparityāgānapyuddhoṣayāmāsa // sa tamevaṃrūpamupakaraṇaparityāgavidhiṃ pratyupasthāpya mahāyajñavāṭaṃ kārayāmāsa, yastasyā ratnasālavyūhameghapradīpāyā rājadhānyāḥ pūrveṇa maṇiśikharatejonāmno nagaradvārasya purataḥ samavipulāyāmaḥ paramavistīrṇadharaṇītalapraveśo nimnonnataviśuddhasamatalo 'pagataśvabhraprapātaḥ sarvasthāṇukaṇṭakāpagataḥ utsannaśarkarākaṭhallaḥ sarvaratnadhātusaṃcayaḥ sarvaratnamayamaṇiratnarājasaṃstīrṇatalaḥ anekamaṇiratnavyuhopaśobhito nānāratnakusumābhikīrṇaḥ sarvacūrṇasugandharājasamākulaḥ sarvagandhadhūpaparidhūpito ratnārciḥpradīpaḥ tejaḥśrīsarvagandhadhūpapaṭalameghagaganasaṃchāditālaṃkāraḥ sarvaratnadrumapaṅktisuvibhaktopaśobhito nānābhavanavimānakūṭāgārasamalaṃkṛtaḥ ucchritacchatradhvajapatāko nānāratnapaṭṭapralambavidyotito vividharatnakusumajālasaṃchannaḥ sarvagandharājaratnajālacchatramaṇḍalaḥ suvarṇajālaratnaghaṇṭānirghoṣo nānāratnavirājitavitānavitataḥ sarvagandharājacūrṇavikīrṇaḥ sarvaratnakusumaprakīrṇābhirāmaḥ tūryakoṭīniyutaśatasahasramanojñarutaghoṣanirnāditaḥ sarvaratnavicitrālaṃkāravyūhasupariśuddho bodhisattvakarmavipākābhinirvṛttaḥ / tasya madhye mahāsiṃhāsanamabhinirvṛttaṃ daśaratnanicitavicitrabhūmitalasaṃsthānaṃ daśaratnanānāvedikāparivāravirājitaṃ daśamaṇidrumaśākhāvedikāntarasuvibhaktopaśobhitavyūham abhedyavajracakradharaṇītalasupratiṣṭhitapādaṃ sarvaratnabimbavigrahasaṃdhāritāsanacakram, anekaratnamayaniryūhaśatālaṃkṛtaṃ nānāratnabhaktivicitravyūhapratimaṇḍitaṃ samantasuvibhaktaratnadhvajasamucchritaṃ nānāratnapatākāpralambitavicitravyūhaṃ ratnakiṅkiṇījālapariṣkṛtaṃ nānādivyamaṇivicitrahemajālavitataṃ vividharatnakusumajālamahāmaṇirājajālavicitravastraratnajālayathārhasaṃchāditopaśobhitavyūhaṃ anekagandhamaṇivigrahapāṇimaṇḍalagandhameghapramuktamacintyavarṇagandhamaṇirājavistṛtamanojñanānāsaṃsthānasarvagandhapaṭalameghapramuktaṃ sarvadivyagandhadhūpapradhūpitopacāraṃ divyātirekasukhasaṃsparśānekavarṇamaṇiratnavastraprajñaptamanekadivyatūryasaṃgītiśatasahasraṃ samantāt saṃpravāditamanojñamadhuranirghoṣaṃ nānāratnasopānapaṅktipatākāsuvibhaktavedikāpratimaṇḍitavyūhamanekamaṇiratnapratyarpitavividhavikurvitamaṇibimbavigrahavidyotitaprabhāsam yatra sa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ saṃniṣaṇṇo 'bhūt abhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato viśuddhamahāpuruṣalakṣaṇapratilabdho vairocanamaṇiratnanirbhāsakeśamakuṭaḥ abhedyanārāyaṇavajrasaṃhananakāyo gūḍhadṛḍhapārśvanibaddhasaṃdhiḥ sarvāṅgaparipūrṇaḥ samantabhadraḥ samantaprāsādikaḥ samantaśobhanaḥ sarvākāravaropeto mahādharmarājakaroditaḥ sarvapariṣkāravaśitāpratilabdho dharmavaśitāsuviśuddhaḥ svacittavaśavartī apratihatavacanamaṇḍalaḥ akopyajñānasamanvitaḥ (Gv 253) supratiṣṭhāpitadharmaṃsamyakprayogo 'nantaguṇavarṇanirdeśaḥ / tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsananiṣaṇṇasyopari mūrdhasaṃdhāvantarikṣe mahācchatramaṇḍalaṃ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍaṃ mahāmahāmaṇikośagarbhaṃsarvaratnaśalākāśatasahasrasamyagvitatamanekārciḥśrītejojjvalitavyūhaṃ jāmbūnadakanakaprabhāsvaraviśuddhacchadanaṃ nānāratnabhakticitrahemajālātyantavyūhacchadanopetaṃ vividhamuktāhārābhipralambitaṃ samantānnānāratnajālasaṃchāditaṃ ratnakiṅkiṇījālasuvarṇamaṇighaṇṭāratnasūtradāmopanibaddhābhipralambitaṃ mahāmaṇiratnahārasamantābhipralambitavyūhaṃ divyamadhuramanojñapramuktaśabdopacāraṃ sarvasattvakuśalakarmapathasaṃcodanaghaṇṭāvisṛtanirghoṣam / sa khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnavālavyajanaiḥ saṃvījyamānaḥ śakradevendrātirekeṇa tejasā jvālayannupaśobhate sma / tasya samanantaraniṣaṇṇasya tasmin siṃhāsane sarvo janakāyo 'bhimukhaḥ prāñjaliḥ sthito 'bhūttameva rājānaṃ namasyan // atha khalu sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño 'saṃkhyeyeṣu prāṇikoṭīniyutaśatasahasreṣu saṃnipatiteṣu nānāyācanakeṣu nānāvastuparigrāhakeṣu nānopakaraṇādhimukteṣu nānājātiṣu nānāgatiparyāpanneṣu nānābhilāṣacitteṣu nānāśayābhiprāyeṣu nānādiksaṃnipatiteṣu nānāviṣayaparibhogopacāreṣu nānāparibhogābhilāṣitacetaneṣu nānābhiprāyakalpeṣu nānāmanuṣyanikāyeṣu nānākulopapatyupapanneṣu nānājanapadasamāgateṣu nānaniruktivacanamantrasaṃskāreṣu nānāsvaramaṇḍalapramocakeṣu nānavastuvyañjaneṣu nānāvacanapadānyudīrayatsu, tamekaṃ mahāpuṇyasumerumullokayamāneṣu ayamevaiko mahājñānapuruṣa iti niścitacetaneṣu, mahāpuṇyopastabdho mahāpuruṣacandro mahātyāgāśayapratilabdha ityunmukheṣu, bodhisattvapraṇidhicetanānipatiteṣu bodhisattvapraṇidhicetanānirmiteṣu taṃ mahāntaṃ yācanakasaṃnipātaṃ dṛṣṭvā teṣāṃ yācanakānāmantike 'bhūccittaprema cittaprītiḥ cittaprasādaḥ / kalyāṇamitradarśanasaṃjñā suvipulā mahākaruṇavegāḥ saṃbabhūvuḥ / aparāntakalpasarvayācanakasaṃtarpaṇāvivartyavīryavegāḥ prādurabhavan / sarvajagatsamaprayogaparityāgacittaspharaṇameghāḥ samabhavan // sa khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṃ yācanakānāṃ sahadarśanena āttamanaskataro 'bhūt na trisāhasracakravartirājyapratilambhena asīmāprāptakalpaparyavasānena, na śakratvādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na suyāmadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na saṃtuṣitadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na sunirmitadevarājaiśvaryādhipatyāsanapratilambhena aprameyakalpāvasānena, na vaśavartidevarājādhipatyāsanapratilambhena, sumukhāpsaramanoharadevakanyopasthānena acintyakalpaparyavasānena, na brahmāsanenānabhilāpyakalpabrahmavihārasukhāvasānena, na ābhāsvaradevasukhena anantakalpāvasānena, na śubhakṛtsnadevasukhena atulyakalpākṣīṇena, na śuddhāvāsadevaśāntavimokṣasukhavihāreṇa aparyantakalpāvasānena / tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya matāpitṛbhrātṛbhaginīmitramātyajñātisālohitaputraduhitṛbhāryācirakālaviprayuktasya (Gv 254) aṭavīkāntāravipranaṣṭasya taddarśanakāmasya teṣāṃ samavadhānena mahatī prītiradhyavasānamutpadyate taddarśanāvitṛptatayā, evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya teṣāṃ yācanakānāṃ sahadarśanena mahāprītivegāḥ saṃjātāḥ / cittatuṣṭisukhamavakrāntam / mahāṃścittodagratāvegaḥ prādurbhūtaḥ / mahāprābhodyaharṣavegaḥ saṃbhūtaḥ / buddhabodhādudāraśraddhādhimuktivegabalaṃ saṃvardhitam / mūlajātā śraddhā sarvajñatāyāṃ vivardhitā / sarvabuddhadharmādhyāśayaviśuddhibalamabhivivardhitam / bodhisattvendriyakarmaṇyatā saṃbhūtā / cittaharṣaparipūrṇamahāprasādavega udapadyata / vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā / tatkasya hetoḥ? tathā hi tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvajñatārambaṇaprayuktakasya sarvajñatādharmatāpratiśaraṇasya sarvajñatāmārgadvārābhimukhasya sarvajagatsaṃtarpaṇamanasikāraprayuktasya sarvabuddhaguṇasamudrānavatārapratipattyabhimukhasya sarvamārakarmakleśāvaraṇaparvatavikiraṇaprayuktasya sarvatathāgatānuśāsanīpradakṣiṇagrāhitāvasthitasya sarvakuśalamūlasamudrasamantamukhasamārjanābhiyogagarbhasya sarvābhiniveśoccalitasaṃtānasya sarvalokaviṣayānabhiniviṣṭasya sarvadharmasvabhāvagaganagocarasya teṣu sarvayācanakeṣvekaputrakasaṃjñā udapadyata, mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñāparamopakārakasaṃjñā bodhimārgopastambhasaṃjñā ācāryasaṃjñā śāstṛsaṃjñā udapadyata / sa tān sarvayācanakān yathāgatān yathāsaṃprāptān yathākālasaṃnipatitān yathādigdeśasthitān yathāvastuyācanakān yathārucīn yathābhiprāyān yathābhikāṅkṣiṇo yathābhilāṣiṇo yathāvastuparyeṣakān saṃtarpayāmāsa apratihatena mahāmaitrīmaṇḍalena yācanakajanāparāṅbhukhatayā mahātyāgaraśminā sarvasattvasamaprayogena tyāgamukhena / so 'nnamannārthikebhyaḥ prādāt / pānaṃ pānārthikebhyo vastraṃ vastrārthikebhyaḥ puṣpāṇi puṣpārthikebhyaḥ prādāt / evaṃ gandhadhūpamālyavilepanacūrṇa cīvaracchatradhvajapatākāratnābharaṇāsanaśayanabhavanavimānavihārārāmodyānatapovanāni hayagajarathapattivāhanayugyayānānyapi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatānyapi prādāt / svagṛhavimānāntaḥpuraparivārānapi, sarvakośānapi vivṛtya vibhajya arthikebhyaḥ prādāt yasya yenārthaḥ sa taṃ gṛhṇātu iti / janapadānapi janapadārthikebhyaḥ prādāt / grāmānapi grāmārthibhyo nagarāṇyapi nagarārthibhyaḥ prādāt / sa tān sarvayācanakān sarvāstiparityāgatayā sarvasattveṣu samapratipannaḥ sarvavastuparityāgairabhicchādayāmāsa // tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe saṃnipatitābhūt, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā, suvarṇavarṇacchavirabhinīlakeśyabhinīlanetrā manojñagandhā brahmasvarā suvastrā svalaṃkṛtā smṛtimatigatihrīdhṛtyapatrāpyeryācaryāsaṃpannā, guruṣu sagauravā, paramasaṃprajanyacāriṇī gambhīraceṣṭā meghāsaṃpannā dharmāṇāṃ grahaṇacāraṇapratibodhiṣu pūrvasukṛtakuśalamūlā dharmābhiṣyanditaprasannasaṃtānā (Gv 255) viśuddhakalyāṇāśayā udārādhimuktigaganagocaparahitapariṇatacittā buddhadarśanadigabhimukhā sarvajñajñānābhilāṣiṇī / sā khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṃhāsanasya pradakṣiṇena nātidūre sthitābhūt prāñjalistaṃ rājānaṃ namasyantī, na ca kiṃcidgṛhṇāti / ekāntasthitā caivaṃ cittamutpādayāmāsa - sulabdhā me lābhā, yadahamevaṃrūpasya kalyāṇamitrasya darśanasamavadhānapratilābhinīti / sā tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño 'ntikekalyāṇamitrasaṃjñāmanukampakasaṃjñāmanugrāhakasaṃjñāṃ buddhasaṃjñāmutpādya māyāśāṭhyāpagatena cittena paramodāraprītiprasādaprāmodyavegapratilabdhā svānyābharaṇāni kāyādavamucya yena rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ, tenābhimukhamakṣaipsīt / tāni tasya siṃhāsanavedikāmadhye adhaḥ pṛthivīmaṇḍale pratiṣṭhitānyabhūvan / sā tānyābharaṇāni pravikīrya evaṃ praṇidhimutpādayāmāsa - yathaiṣa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo 'nāthānāṃ sattvānāmandhakāraprāptānāṃ pratiśaraṇabhūtaḥ, tathāhamapyanāgate 'dhvani bhaveyam / yāmeṣa dharmatāṃ jānāti, tāmahamati jānīyām / yena yānenaiṣa niryāsyati, tenāhamapi niryāyām / yasminneva mārgapratipannaḥ, tatrāhamapi pratipadyeyam / yathāyamasecanako rūpeṇākṣayabhogo 'nantaparicāro durgharṣo 'parājito 'navamṛdyaḥ, tathāhamapi bhaveyam / yatra yatra cāsyopapattirbhavet, ahamapi tatra tatropapadyeyamiti // tāmevaṃcittamanasikāraprayuktāmājñāya rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo 'valokya evamāha - gṛhāṇa dārike, yena te 'rthaḥ / ahaṃ khalu dārike sarvāstiparityāgī sarvasattvasaṃtarpaṇāya pratipannaḥ / sā khalu samanvāhṛtā tena rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇeti bhūyasyā mātrayā prasādaṃ pratyalabhata / sā prasannacittā udāravipulakuśalamūlavegasaṃjātā rājānaṃ sarvadharmanirnādacchatramaṇḍalanirghoṣaṃ tasyāṃ velāyāmābhirgāthābhiradhyabhāṣata - pūrve iyaṃ sālaviyūhameghā anopapanne tvayi rājasiṃha / nirābhiramyā hatateja āsīt pretālayo vā yatha bhīṣaṇīyā

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/17.22

Cite as: Gandavyuhasutra 17.22, in HREEM (hreem.cc/library/Gand/17.22), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text