Library·Gandavyuhasutra·2

Gandavyuhasutra 2

अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः सर्वावन्तं बोधिसत्त्वगणं व्यवलोक्य भूयस्या मात्रया विभजन् विस्तारयन् देशयन् उत्तानीकुर्वन् संप्रकाशयन् अवभासयन् प्रभासयन् उपदिशन् धर्मधातुनयेन आकाशधातुसमतया त्र्यध्वसमतया धर्मधातुसमतया सत्त्वधातुसमतया सर्वलोकधातुसमतया सर्वकर्मवंशसमतया सत्त्वाशयसमतया सत्त्वाधिमुक्तिसमतया धर्मप्रतिभाससमतया सत्त्वपरिपाककालसमतया सर्वजगदिन्द्रियसमतया च, एवं सिंहविजृम्भितं तथागतसमाधिं चैषां बोधिसत्त्वानां संप्रकाशयति स्म दशभिर्निर्देशपदैः । कतमैर्दशभिः? यदुत सर्वधर्मधातुपर्यापन्नेषु बुद्धक्षेत्रप्रमाणुरजःसर्वबुद्धपरंपराक्षेत्रपरंपरानिर्देशः । यदुत आकाशधातुपरमेषु सर्वबुद्धक्षेत्रेषु अपरान्तकोटीगतकल्पतथागतगुणानुचरणनिर्देशः । यदुत सर्वबुद्धक्षेत्रतथागतसमुत्पत्त्यनन्तमध्याभिसंबोधिमुखसमुद्रसंदर्शननिर्देशः । यदुत आकाशधातुपरमबुद्धक्षेत्रतथागतपर्षन्मण्डलबोधिसत्त्वसंघबोधिमण्डाभिमुखावस्थाननिर्देशः । यदुत सर्वत्र्यध्वबुद्धकायसदृशनिर्माणसर्वरोममुखप्रमुञ्चनचित्तक्षणधर्मधातुस्फरणनिर्देशः । यदुत सर्वदिक्समुद्रेषु सर्वक्षेत्रसागरसमतलाधिष्ठानैककायस्फरणप्रभासनिर्देशः । यदुत सर्वारम्बणतलेषु बुद्धभूमिविकुर्वितसर्वत्र्यध्वसमवसरणधिष्ठानसंदर्शननिर्देशः । यदुत सर्वक्षेत्रपरमाणुरजःसमत्र्यध्वक्षेत्रपरंपरानानाबुद्धविकुर्वितकल्पसागरसंदर्शननिर्देशः । यदुत सर्वत्र्यध्वबुद्धप्रणिधानसागरसर्वरोमनिगर्जनापर्यन्ताधिष्ठानबोधिसत्त्वसंभवनिर्देशः । यदुत धर्मधातुप्रमाणबुद्धसिंहासनबोधिसत्त्वपर्षन्मण्डलासंभिन्नबोधिमण्डालंकारनानाधर्मचक्रप्रवर्तनापरान्ताधिष्ठाननिर्देशः । इति हि भो जिनपुत्रा एतान् दशान् प्रमुखान् कृत्वा अनभिलाप्यबुद्धक्षेत्रपरमाणूरजःसमान् एतस्य सिंहविजृम्भितस्य समाधिनिर्देशननुगच्छामि । अपि तु खलु पुनर्भो जिनपुत्राः तथागतज्ञानगोचर एषः ॥ अथ खलु समन्तभद्रो बोधिसत्त्व एतस्यैव सिंहविजृम्भितस्य तथागतसमाधेरर्थनिर्देशं द्योतयमानो बुद्धाधिष्ठानेन तथागतवदनं प्रेक्षमाणः सर्वावन्तं पर्षन्मण्डलसमुद्रं व्यवलोक्य अचिन्त्यबुद्धविषयानन्तमध्यतथागतसमाधिविकुर्वितानि व्यवलोक्य अचिन्त्यज्ञानमायागतधर्मतां व्यवलोक्य अचिन्त्यत्रयध्वबुद्धसमतां व्यवलोक्य अचिन्त्यानन्तमध्यसर्ववाक्पथनिरुक्तिसर्वधर्मनयान् व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत - सर्वक्षेत्रपरमाणुसादृशा एकरोमि जिनक्षेत्रसागराः । बोधिसत्त्वपर्षत्परीवृतस्तत्र बुद्ध स्थितु बुद्धआसने

atha khalu samantabhadro bodhisattvo mahāsattvaḥ sarvāvantaṃ bodhisattvagaṇaṃ vyavalokya bhūyasyā mātrayā vibhajan vistārayan deśayan uttānīkurvan saṃprakāśayan avabhāsayan prabhāsayan upadiśan dharmadhātunayena ākāśadhātusamatayā tryadhvasamatayā dharmadhātusamatayā sattvadhātusamatayā sarvalokadhātusamatayā sarvakarmavaṃśasamatayā sattvāśayasamatayā sattvādhimuktisamatayā dharmapratibhāsasamatayā sattvaparipākakālasamatayā sarvajagadindriyasamatayā ca, evaṃ siṃhavijṛmbhitaṃ tathāgatasamādhiṃ caiṣāṃ bodhisattvānāṃ saṃprakāśayati sma daśabhirnirdeśapadaiḥ / katamairdaśabhiḥ? yaduta sarvadharmadhātuparyāpanneṣu buddhakṣetrapramāṇurajaḥsarvabuddhaparaṃparākṣetraparaṃparānirdeśaḥ / yaduta ākāśadhātuparameṣu sarvabuddhakṣetreṣu aparāntakoṭīgatakalpatathāgataguṇānucaraṇanirdeśaḥ / yaduta sarvabuddhakṣetratathāgatasamutpattyanantamadhyābhisaṃbodhimukhasamudrasaṃdarśananirdeśaḥ / yaduta ākāśadhātuparamabuddhakṣetratathāgataparṣanmaṇḍalabodhisattvasaṃghabodhimaṇḍābhimukhāvasthānanirdeśaḥ / yaduta sarvatryadhvabuddhakāyasadṛśanirmāṇasarvaromamukhapramuñcanacittakṣaṇadharmadhātuspharaṇanirdeśaḥ / yaduta sarvadiksamudreṣu sarvakṣetrasāgarasamatalādhiṣṭhānaikakāyaspharaṇaprabhāsanirdeśaḥ / yaduta sarvārambaṇataleṣu buddhabhūmivikurvitasarvatryadhvasamavasaraṇadhiṣṭhānasaṃdarśananirdeśaḥ / yaduta sarvakṣetraparamāṇurajaḥsamatryadhvakṣetraparaṃparānānābuddhavikurvitakalpasāgarasaṃdarśananirdeśaḥ / yaduta sarvatryadhvabuddhapraṇidhānasāgarasarvaromanigarjanāparyantādhiṣṭhānabodhisattvasaṃbhavanirdeśaḥ / yaduta dharmadhātupramāṇabuddhasiṃhāsanabodhisattvaparṣanmaṇḍalāsaṃbhinnabodhimaṇḍālaṃkāranānādharmacakrapravartanāparāntādhiṣṭhānanirdeśaḥ / iti hi bho jinaputrā etān daśān pramukhān kṛtvā anabhilāpyabuddhakṣetraparamāṇūrajaḥsamān etasya siṃhavijṛmbhitasya samādhinirdeśananugacchāmi / api tu khalu punarbho jinaputrāḥ tathāgatajñānagocara eṣaḥ // atha khalu samantabhadro bodhisattva etasyaiva siṃhavijṛmbhitasya tathāgatasamādherarthanirdeśaṃ dyotayamāno buddhādhiṣṭhānena tathāgatavadanaṃ prekṣamāṇaḥ sarvāvantaṃ parṣanmaṇḍalasamudraṃ vyavalokya acintyabuddhaviṣayānantamadhyatathāgatasamādhivikurvitāni vyavalokya acintyajñānamāyāgatadharmatāṃ vyavalokya acintyatrayadhvabuddhasamatāṃ vyavalokya acintyānantamadhyasarvavākpathaniruktisarvadharmanayān vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata - sarvakṣetraparamāṇusādṛśā ekaromi jinakṣetrasāgarāḥ / bodhisattvaparṣatparīvṛtastatra buddha sthitu buddhaāsane

Sanskrit only: no published translation is held for this verse.

एकरोमि बहुक्षेत्रसागरा बोधिमण्डस्थित पद्मआसने । धर्मधातु विपुलम् करित्वना दृश्यते द्रुमवरेषु नायकः

ekaromi bahukṣetrasāgarā bodhimaṇḍasthita padmaāsane / dharmadhātu vipulam karitvanā dṛśyate drumavareṣu nāyakaḥ

Sanskrit only: no published translation is held for this verse.

सर्वक्षेत्रपरमाणुसादृशा एकरोमि जिन संनिषण्णकाः । बोधिसत्त्वपर्षत्परीवृताः सर्वभद्रचरियां प्रभाषते

sarvakṣetraparamāṇusādṛśā ekaromi jina saṃniṣaṇṇakāḥ / bodhisattvaparṣatparīvṛtāḥ sarvabhadracariyāṃ prabhāṣate

Sanskrit only: no published translation is held for this verse.

एकक्षेत्रि जिन संनिषण्णकाः सर्वक्षेत्रप्रसरान् स्फरित्वना । बोधिसत्त्व बहुमेघ अक्षया एन्ति ते दशदिशां समन्ततो

ekakṣetri jina saṃniṣaṇṇakāḥ sarvakṣetraprasarān spharitvanā / bodhisattva bahumegha akṣayā enti te daśadiśāṃ samantato

Sanskrit only: no published translation is held for this verse.

क्षेत्रकोटिपरमाणुसादृशा बोधिसत्त्वगुणसागरप्रभाः । उत्थिहन्तु पर्षासु शास्तुनो धर्मधातु स्फरिषु दश दिशः

kṣetrakoṭiparamāṇusādṛśā bodhisattvaguṇasāgaraprabhāḥ / utthihantu parṣāsu śāstuno dharmadhātu sphariṣu daśa diśaḥ

Sanskrit only: no published translation is held for this verse.

सर्वक्षेत्रप्रतिभासदर्शना धर्मराजजिनज्ञानसागराः । ते च भद्रचरियप्रतिष्ठिताः सर्वबुद्धपरिषा उपागमि

sarvakṣetrapratibhāsadarśanā dharmarājajinajñānasāgarāḥ / te ca bhadracariyapratiṣṭhitāḥ sarvabuddhapariṣā upāgami

Sanskrit only: no published translation is held for this verse.

सर्वक्षेत्रप्रसरे निषण्णका बोधिसत्त्वचरप्रीतिगोचरा । धर्ममेघ श्रुणमान सूरता एकक्षेत्रि चरि कल्पकोटियः

sarvakṣetraprasare niṣaṇṇakā bodhisattvacaraprītigocarā / dharmamegha śruṇamāna sūratā ekakṣetri cari kalpakoṭiyaḥ

Sanskrit only: no published translation is held for this verse.

बोधिसत्त्व विचरन्ति चारिकां धर्मसागरचरी विरोचना । ओतरन्ति प्रणिधानसागरांस्ते प्रतिष्ठ जिनभूमिगोचराः

bodhisattva vicaranti cārikāṃ dharmasāgaracarī virocanā / otaranti praṇidhānasāgarāṃste pratiṣṭha jinabhūmigocarāḥ

Sanskrit only: no published translation is held for this verse.

अन्यमन्यजिनधर्मसंभवास्ते समन्तचरि भद्रबुद्धिषु । सर्वबुद्धगुणवर्णसागरानोतरन्ति विपुलं विकुर्वितम्

anyamanyajinadharmasaṃbhavāste samantacari bhadrabuddhiṣu / sarvabuddhaguṇavarṇasāgarānotaranti vipulaṃ vikurvitam

Sanskrit only: no published translation is held for this verse.

धर्मधातुसुगतिं स्फरित्वना सर्वक्षेत्रपरमाणुसादृशान् । कायमेघ सततं प्रमुञ्चतो धर्मवर्षतु उपेतु बोधये

dharmadhātusugatiṃ spharitvanā sarvakṣetraparamāṇusādṛśān / kāyamegha satataṃ pramuñcato dharmavarṣatu upetu bodhaye

Sanskrit only: no published translation is held for this verse.

गगनतलावभासेन बोधिसत्त्वसमाधिना, दशतथागतबलाक्रमणविवरेण बोधिसत्त्वसमाधिना, बुद्धच्छम्भितव्यूहविक्रमविजृम्भितेन बोधिसत्त्वसमाधिना, सर्वधर्मधातुनयावर्तगर्भेण बोधिसत्त्वसमाधिना, सर्वधर्मधात्वङ्गनिगर्जनस्फरणचन्द्रेण बोधिसत्त्वसमाधिना, समन्तव्यूहधर्मप्रभेण च बोधिसत्त्वसमाधिना ते बोधिसत्त्वास्तान् भगवतो वैरोचनस्य बुद्धविकुर्वितसमुद्रानवतरन्ति । असङ्गपट्टधर्मराजध्वजेन च बोधिसत्त्वसमाधिना, सर्वावरणबुद्धसमुद्रविपश्यिना बोधिसत्त्वसमाधिना, सर्वलोकगत्यसंभेदकायप्रतिभासध्वजेन बोधिसत्त्वसमाधिना, तथागतकायासंभेदविषयप्रवेशेन बोधिसत्त्वसमाधिना, सर्वलोकावर्त्यनुप्रवर्तनकरुणार्गर्भेण च बोधिसत्त्वसमाधिना, सर्वधर्मपदप्रतिष्ठानाधिष्ठानाधिष्ठितेन च बोधिसत्त्वसमाधिना, अत्यन्तशान्तप्रशान्तसमतावभासमण्डलेन बोधिसत्त्वसमाधिना, अनिलम्भसुनिर्मितसमन्तनिर्माणप्रतिभासेन बोधिसत्त्वसमाधिना, सर्वक्षेत्रसमन्तसमवसरणाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वबुद्धक्षेत्राभिसंबोध्याकारेणाभिनिर्हारेण बोधिसत्त्वसमाधिना, सर्वजगदिन्द्रबलविवरणेन बोधिसत्त्वसमाधिना, सर्वजगद्विशेषासङ्गमण्डलविवरणेन, बोधिसत्त्वसमाधिना, सर्वतथागतजनेत्रीसंभवाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वसागरगुणप्रतिपत्त्यवतारेण बोधिसत्त्वसमाधिना, अशेषसर्वारम्बणविकुर्विताभिनिर्हारापरान्ताधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वतथागतपूर्वयोगसमुद्रावतारेण बोधिसत्त्वसमाधिना, (ग्व् २९) अपरान्तसर्वतथागतवंशसंधारणाधिष्ठानेन बोधिसत्त्वसमाधिना, प्रत्युत्पन्नदशदिक्सर्वक्षेत्रसागरपरिशुद्धाधिमुक्त्यधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वबुद्धैकचित्तक्षणविहारावभासेन बोधिसत्त्वसमाधिना, सर्वारम्बणासङ्गकोटिप्रवेशेन बोधिसत्त्वसमाधिना, सर्वलोकधात्वेकबुद्धक्षेत्राधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वबुद्धकायनिर्माणाभिनिर्हारेण बोधिसत्त्वसमाधिना, वज्रेन्द्रसर्वेन्द्रियसागरप्रतिवेधेन बोधिसत्त्वसमाधिना, सर्वतथागतैकशरीरगर्भाधिष्ठानेन बोधिसत्त्वसमाधिना, चित्तक्षणकोटिसर्वधर्मधातुनयानुगमक्षणविहारेण बोधिसत्त्वसमाधिना, सर्वधर्मधातुक्षेत्रप्रसरनिर्वृतिसंदर्शनाधिष्ठानेन बोधिसत्त्वसमाधिना, अधमूर्धतलविहाराधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वबुद्धक्षेत्रसत्त्वकायासंभेदाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वज्ञानावर्ताभिमुखसमवसरणेन बोधिसत्त्वसमाधिना, सर्वधर्मस्वभावलक्षणापरिज्ञाप्रभेदेन बोधिसत्त्वसमाधिना, त्र्यध्वैकचित्तक्षणसंभेदमण्डलेन बोधिसत्त्वसमाधिना, सर्वचित्तक्षणधर्मधातुनयशरीरगर्भेण बोधिसत्त्वसमाधिना, सर्वतथागतवंशानुगमसिंहेन बोधिसत्त्वसमाधिना, सर्वारम्बणधर्मधातुमतिचक्षुर्मण्डलेन बोधिसत्त्वसमाधिना, दशबलाक्रमविक्रमसमारम्भेन बोधिसत्त्वसमाधिना, सर्वारम्बणसमन्तदर्शनचक्षुर्मण्डलेन बोधिसत्त्वसमाधिना, सर्ववर्णमण्डलजद्रोचनाभिनिर्हारेण बोधिसत्त्वसमाधिना, अचलावर्तगर्भेण बोधिसत्त्वसमाधिना, एकधर्मसर्वधर्मसमवसरणनिर्देशेन बोधिसत्त्वसमाधिना, एकधर्मवाक्पथनिरुक्तिपदप्रभेदेन बोधिसत्त्वसमाधिना ते बोधिसत्त्वास्तान् भगवतो वैरोचनस्य बुद्धविकुर्वितसमुद्रानवतरन्ति । सर्वबुद्धध्वजाधिष्ठानधर्मनिर्देशेन बोधिसत्त्वसमाधिना, त्र्यध्वकोट्यसङ्गवभासेन बोधिसत्त्वसमाधिना, सर्वकल्पानुगमासंभिन्नज्ञानेन बोधिसत्त्वसमाधिना, सूक्ष्मनयदशबलान्तर्गतेन बोधिसत्त्वसमाधिना, अनाच्छेद्यबोधिसत्त्वचर्यासर्वकल्पाभिनिर्हारेण बोधिसत्त्वसमाधिना, सर्वदिक्समन्तजवाभिमुखमेघेन बोधिसत्त्वसमाधिना, अभिसंबोधिविकुर्वितविठपनेन बोधिसत्त्वसमाधिना, सर्ववेदयितास्पर्शक्षेमध्वजेन बोधिसत्त्वसमाधिना, सर्वव्यूहगगनालंकाराभिनिर्हारेण बोधिसत्त्वसमाधिना, क्षणक्षणजगदुपनिर्मितबिम्बमेघाभिनिर्हारेण बोधिसत्त्वसमाधिना, गगनविरजस्तथागतचन्द्रप्रभेण बोधिसत्त्वसमाधिना, सर्वतथागतगगनाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वधर्मेन्द्रियव्यूहप्रभासेन बोधिसत्त्वसमाधिना, सर्वधर्मार्थविवरणप्रदीपेन बोधिसत्त्वसमाधिना, दशबलमण्डलावभासेन बोधिसत्त्वसमाधिना, त्र्यध्वबुद्धकेतुध्वजेन बोधिसत्त्वसमाधिना, सर्वबुद्धकगर्भेण बोधिसत्त्वसमाधिना, सर्वक्षणक्षणारम्भनिष्ठेन बोधिसत्त्वसमाधिना, अक्षयपुण्यगर्भेण बोधिसत्त्वसमाधिना, अनन्तबुद्धदर्शनविनयावभासेन बोधिसत्त्वसमाधिना, सर्वधर्मवज्रसिंहप्रतिष्ठानेन बोधिसत्त्वसमाधिन, सर्वतथागतनिर्माणसंदर्शनसमन्तविज्ञप्त्यभिनिर्हारेण बोधिसत्त्वसमाधिना, सर्वतथागतदिवसाक्रमणान्तिना बोधिसत्त्वसमाधिना, एकत्र्यध्वसंतापेन बोधिसत्त्वसमाधिना, प्रकृतिशान्तसर्वधर्मसमन्तप्रभप्रमुक्तघोषस्वरेण बोधिसत्त्वसमाधिना, सर्वबुद्धदर्शनसीमावतिक्रमेण बोधिसत्त्वसमाधिना, निरवशेषसर्वधर्मधातुपद्मनलिनीप्रतिबुद्धेन (ग्व् ३०) बोधिसत्त्वसमाधिना, अनालयधर्मगगनव्यवलोकनेन बोधिसत्त्वसमाधिना, एकदिग्दशदिक्सागरसमवसरणावर्तेन बोधिसत्त्वसमाधिना, सर्वधर्मधातुतलप्रमुखप्रवेशेन बोधिसत्त्वसमाधिना, सर्वधर्मसागरवतिगर्भेण बोधिसत्त्वसमाधिना, सर्वसत्त्वप्रभामुञ्चनप्रशान्तकायेन बोधिसत्त्वसमाधिना, एकचित्तक्षणसर्वाभिज्ञाप्रणिध्यभिनिर्हारेण बोधिसत्त्वसमाधिना, सदासर्वत्रसमन्ताभिसंबोध्यधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वधर्मधात्वेकव्यूहानुगमप्रवेशेन बोधिसत्त्वसमाधिना, सर्वबुद्धस्मृतिशरीरावभासेन बोधिसत्त्वसमाधिना, सर्वजगद्भूरिविशेषज्ञानाभिज्ञेन बोधिसत्त्वसमाधिना, चित्तक्षणानन्तधर्मधातुनयस्वकायस्फरणेन बोधिसत्त्वसमाधिना, एकनयधर्मधातुसर्वधर्मैकनयव्यूहप्रभेण बोधिसत्त्वसमाधिना, सर्वबुद्धधर्ममण्डलचक्रतेजोधिष्ठानेन बोधिसत्त्वसमाधिना, इन्द्रजालसत्त्वधातुसंग्रहप्रणिधिचर्याधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वलोकधातुतलासंभेदेन बोधिसत्त्वसमाधिना, पद्मश्रीविकुर्वितसमन्तविक्रामिणा बोधिसत्त्वसमाधिना, सर्वसत्त्वकायपरिवर्तज्ञानाभिज्ञेन बोधिसत्त्वसमाधिना, सर्वसत्त्वाभिमुखकायाधिष्ठानेन बोधिसत्त्वसमाधिना, सर्वसत्त्वस्वराङ्गसागरजगन्मन्त्रसंभेदनयाभिज्ञेन बोधिसत्त्वसमाधिना, सर्वजगत्तलभेदज्ञानाभिज्ञेन बोधिसत्त्वसमाधिना, महाकरुणाकोशासंभेदगर्भेण बोधिसत्त्वसमाधिना, सर्वबुद्धतथागतकोटिप्रवेशेन बोधिसत्त्वसमाधिना, सर्वतथागतविमोक्षभवनव्यवलोकनसिंहविजृम्भितेन बोधिसत्त्वसमाधिना, एतत्प्रमुखैरनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वसमाधिवर्गावतारैस्ते बोधिसत्त्वास्तान् भगवतो वैरोचनस्य बुद्धविकुर्वितसमुद्रानवतरन्ति । पूर्वसभागचरितविकुर्वितं च समनुस्मरन्ति । चित्तक्षणे चित्तक्षणे सर्वधर्मधातुस्फरणेनावतारेण तेषां पुनर्बोधिसत्त्वानां भगवतः संमुखीभावगतानां जेतवनानुप्राप्तानां दशबुद्धक्षेत्रपरमाणुरजःसमलोकधातुविपुलनानारत्नपद्मगर्भसिंहासनसंनिषण्णानां महाज्ञानाभिज्ञाविकुर्वितनिर्यातानां तीक्ष्णज्ञानाभिज्ञावतिभूम्यनुप्राप्तानां समन्तज्ञानव्यवचाराणां प्रज्ञाकरगोत्रसंभवानां सर्वज्ञज्ञानाभिमुखानां वितिमिरज्ञानचक्षुषां सत्त्वसारथिभावानुप्राप्तानां सर्वबुद्धसमतानुगतानां सदाविकल्पधर्मचरणानां सर्वधर्मारम्बणप्रतिविद्धानां सर्वधर्मप्रकृतिशान्तरम्बणानां सर्वलोकप्रशान्तनिर्वाणालयपरमाणां सर्वलोकनानात्वप्रतिष्ठानाम् अनिकेतसर्वक्षेत्रगमनानाम् अप्रतिष्ठानसर्वधर्मपदानाम् अनार्यूहसवधमविमानप्रतिष्ठानां सर्वजगत्परिपाकविनयप्रतिपन्नानां सर्वसत्त्वक्षेमगतिसंदर्शकानाम् अभ्युद्गतज्ञानविमोक्षभवनगोचराणां विरागकोट्यनुगतज्ञानशरीराणां सर्वभवसमुद्रोच्चलितानां सर्वजगद्भूतकोटीविपश्यकानां धर्मसागरप्रज्ञावभासमण्डलानां सागरवतीधातुसमाधिसुसमाहितमहाकरुणाचित्तानां मायागतधर्मनयसुप्रतिविद्धानां स्वप्नोपमसर्वलोकधात्ववतीर्णानां प्रतिभासोपमसर्वतथागतदर्शनप्रतिविद्धानां प्रतिश्रुत्कोपमसर्वरुतरवितघोषविज्ञप्तीनां निर्मितोपमसर्वधर्माभिनिर्वृत्तिज्ञानप्रतिविद्धानां सुसमार्जितविषयप्रणिधानानां समन्तज्ञानमण्डलविशुद्धिकौशल्यानुगतानाम् अत्यन्तशान्तप्रशान्तचित्तानां सर्वधारणीगोत्रज्ञानविषयाणां अच्छम्भितसमाधिबलसमन्तपराक्रमाणां धर्मधातुस्थितिकोटीगतचक्षुषां (ग्व् ३१) सर्वधर्मानिलम्भविहारप्राप्तानां अनन्तप्रज्ञासागरविचारिणां ज्ञानपारमितापारंगतानां प्रज्ञापारमिताबलाधानप्राप्तानाम् ऋद्धिपारमितासर्वजगत्पारंगतानां समाधिपारमितावशगतानां सर्वतथागतार्थकौशल्याविपरीतज्ञानिनां धर्मकौशल्यप्रकाशनविधिज्ञानां निरुक्तिज्ञानाभिज्ञानामक्षयप्रतिभानबलधर्ममेघानां वैशारद्यर्षभसिंहनादिनाम् अनालयधर्मासमरतिरतानां वितिमिरसर्वधर्मप्रसारितचक्षुषां सर्वलोकसंवित्तिभवज्ञानचन्द्राणां प्रज्ञामण्डलसर्वसत्यनयव्यवहाररश्मीनां ज्ञानवज्रपुण्यचक्रवालानां सर्वौपम्यौपम्यसमतिक्रान्तानां सर्वधर्मेन्द्रियज्ञानाङ्कुरविरूढानां शूरध्वजानां सर्वमारध्वजप्रमर्दनवीर्याणामनन्तज्ञानमण्डलतेजसां सर्वजगदभ्युद्गतकायानां सर्वधर्मानावरणप्रज्ञानां क्षयाक्षयकोटिज्ञानविबुद्धानां समन्तकोट्यनुगतभूतकोटिप्रतिष्ठानां अनिमित्तव्यवहरणप्रत्यवेक्षज्ञानचक्षुषां सर्वबोधिसत्त्वचर्याभिनिर्हारनिमित्तकुशलानाम् अद्वयज्ञानगोचराणां सर्वलोकगतिविपश्यकानाम् अनिकेतसर्वबुद्धक्षेत्रगतिप्रतिभासप्राप्तानां सर्वधर्मान्धकारविगतानाम् अतमोज्ञानमण्डलप्रतिपन्नानां समन्तदिग्धर्मावभासप्रयुक्तानां सर्वजद्वरेण्यपुण्यक्षेत्रानाम् अमोधश्रवणदर्शनप्रणिधिचन्द्राणां सर्वलोकाभ्युद्गतपुण्यसुमेरूणां सर्वपरप्रवादिचक्रविनिग्रहशूउराणां सर्वबुद्धक्षेत्रघोषस्वरशब्दनिर्नादिनां सर्वबुद्धकायातृप्तदर्शनानां सर्वबुद्धशरीरप्रतिभासवशवर्तिनां जगद्विनयानुकूलकायाधिष्ठानानां सर्वक्षेत्रप्रसरैककायस्फरणानाम् अभिसंस्कारविमण्डलपरिशुद्धानामनावरणगगनमहाज्ञानयानपात्राणां ज्ञानमण्डलसर्वधर्मधातुकायप्रभासनानां सर्वजगदुदितज्ञानादित्यानां सर्वजगदुचितयथाशयबलानां सर्वजगदाशयेन्द्रियप्रतिविद्धज्ञानानाम् अनावरणविषयसर्वधर्मोपपन्नानाम् अनुपपत्तिसर्वधर्मस्वभावविज्ञप्तानां सूक्ष्मोदारान्योन्यसमवसरणज्ञानसंवर्धितवर्तिनां गम्भीरबुद्धभूमिगतिनिश्चितानां गम्भीरार्थपदव्यञ्जनव्यवहारज्ञानानाम् अक्षयपदव्यञ्जनार्थसूचकानां सर्वसूत्रसागरैकपदप्रवेशप्रभाषमाणानां विपुलधारणीज्ञानशरीराधिष्ठानानाम् अनन्तकल्पसंधारणानुगताधिष्ठानानाम् एकचित्तक्षणानभिलाप्यकल्पसंवासप्रतिविद्धज्ञानानाम् एकचित्तक्षणत्र्यध्वज्ञानसर्वलोकाभिज्ञानानां सर्वधर्मधारण्यनन्तबुद्धधर्मसागरप्रतिभासानां सर्वजगज्ज्ञानोपनायिकधर्मचक्रप्रवर्तनानिवर्त्यानां बुद्धविषयज्ञानावभासप्रतिलब्धानां सुदर्शनसमाधिसदासमापन्नानाम् असङ्गकोटीसर्वधर्मप्रभेदज्ञानाभिज्ञानां सर्वधर्मविशेषविमोक्षविषयज्ञानविक्रीडितानां सर्वारम्बणशुभव्यूहाधिष्ठानानां दशदिग्धर्मधातुदिगनुशरणप्रविष्टानां सर्वदिग्विभङ्गधर्मधातुसमवसरणानां सुसूक्ष्मोदारपरमाणुरजोबोधिं विबुध्यतां सुवर्णप्रकृतिसर्ववर्णसंदर्शकानां एकदिक्समवसरणानाम् एकरूपानन्तगुणज्ञानसंवर्धितज्ञानपुण्यगर्भाणां सर्वबुद्धस्तुतस्तवितप्रशस्तानाम् अक्षीणपदव्यञ्जनगुणवर्णनिर्देशानां बोधिसत्त्वानां जेतवने संनिपतितानां संनिषण्णानां तथागतगुणसमुद्रमवतरतां तथागतरश्म्यवभासितानां सर्वशरीरेभ्यः तेभ्यश्च कूटागारेभ्यो बोधिसत्त्वपरिभोगेभ्यः तेभ्यश्च बोधिसत्त्वासनेभ्यः सर्वस्माज्जेतवनान्महाप्रीतिवेगप्रतिलाभधर्मतया अचिन्त्यबोधिसत्त्वधर्मावभासप्रतिलाभेन प्रीतिवेगसंभवमहाविकुर्वितव्यूहान्निश्चरित्वा (ग्व् ३२) सर्वधर्मधातु स्फरन्ति स्म । यदुत चित्तक्षणे चित्तक्षणे विपुलरश्मिजालमेघाः सर्वजगत्संतोषणा निश्चरित्वा दश दिशः स्फरन्ति स्म । सर्वरत्नमणिघण्टामेघ निश्चरित्वा सर्वत्र्यध्वतथागतगुणवर्णनिर्देशमेघनिर्नादाननुरवन्तो दश दिशः स्फरन्ति स्म । सर्वजगद्वाद्यमेघः सर्वारम्बणेभ्यो निश्चरित्वा सर्वसत्त्वकर्मविपाकमधुरवाद्यघोषसंप्रयुक्ता अनुवरन्तो दश दिशः स्फरन्ति स्म । सर्वबोधिसत्त्वप्रणिधानविचित्रबोधिसत्त्वचर्यासंदर्शनरूपमेघा निश्चरित्वा सर्वबोधिसत्त्वप्रणिधानरुतघोषान् निगर्जन्तो दश दिशः स्फरन्ति स्म । लक्षणानुव्यञ्जनविभूषितबोधिसत्त्वकायमेघा निश्चरित्वा सर्वक्षेत्रेष्वनुगतबुद्धोपादपरंपरामुदीरयन्तो दश दिशः स्फरन्ति स्म । सर्वत्र्यध्वतथागतसदृशबोधिमण्डमेघा निश्चरित्वा सर्वतथागतातिसंबोधिनिर्याणव्यूहान् संदर्शयन्तो दश दिशः स्फरन्ति स्म । सर्वारम्बणेभ्यः सर्वनागेन्द्रकायमेघा निश्चरित्वा सर्वगन्धवर्षाणि प्रवर्षन्तो दश दिशः स्फरन्ति स्म । सर्वजगदिन्द्रसदृशकायमेघा निश्चरित्वा समन्तभद्रबोधिसत्त्वचर्यामुदीरयन्तो दश दिशः स्फरन्ति स्म । सर्वारम्बणेभ्यः सर्वरत्नमयसर्वपरिशुद्धबुद्धक्षेत्रप्रतिभासमेघा निश्चरित्वा सर्वतथागतधर्मचक्रप्रवर्तनानि दर्शयन्तो दश दिशः स्फरन्ति स्म । एवंप्रमुखा अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमा महाव्यूहविकुर्वितमेघा निश्चरन्ति स्म तेषां बोधिसत्त्वानामधिष्ठानेन अचिन्त्यधर्मसमुद्रावभासप्रतिलाभधर्मतया च ॥ अथ खलु मञ्जुश्रीर्बोधिसत्त्वो बुद्धाधिष्ठानेन एतान्येव सर्वविकुर्वितानि संदर्शयन् दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत - संप्रेक्षतो जेतवने अनन्तं बुद्धाधिष्ठानं विपुलं प्रवृत्तम् । आरम्बणा सर्वतु कायमेघा निश्चार्य ते सर्वदिशः स्फरन्ति

gaganatalāvabhāsena bodhisattvasamādhinā, daśatathāgatabalākramaṇavivareṇa bodhisattvasamādhinā, buddhacchambhitavyūhavikramavijṛmbhitena bodhisattvasamādhinā, sarvadharmadhātunayāvartagarbheṇa bodhisattvasamādhinā, sarvadharmadhātvaṅganigarjanaspharaṇacandreṇa bodhisattvasamādhinā, samantavyūhadharmaprabheṇa ca bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti / asaṅgapaṭṭadharmarājadhvajena ca bodhisattvasamādhinā, sarvāvaraṇabuddhasamudravipaśyinā bodhisattvasamādhinā, sarvalokagatyasaṃbhedakāyapratibhāsadhvajena bodhisattvasamādhinā, tathāgatakāyāsaṃbhedaviṣayapraveśena bodhisattvasamādhinā, sarvalokāvartyanupravartanakaruṇārgarbheṇa ca bodhisattvasamādhinā, sarvadharmapadapratiṣṭhānādhiṣṭhānādhiṣṭhitena ca bodhisattvasamādhinā, atyantaśāntapraśāntasamatāvabhāsamaṇḍalena bodhisattvasamādhinā, anilambhasunirmitasamantanirmāṇapratibhāsena bodhisattvasamādhinā, sarvakṣetrasamantasamavasaraṇādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrābhisaṃbodhyākāreṇābhinirhāreṇa bodhisattvasamādhinā, sarvajagadindrabalavivaraṇena bodhisattvasamādhinā, sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena, bodhisattvasamādhinā, sarvatathāgatajanetrīsaṃbhavādhiṣṭhānena bodhisattvasamādhinā, sarvasāgaraguṇapratipattyavatāreṇa bodhisattvasamādhinā, aśeṣasarvārambaṇavikurvitābhinirhārāparāntādhiṣṭhānena bodhisattvasamādhinā, sarvatathāgatapūrvayogasamudrāvatāreṇa bodhisattvasamādhinā, (Gv 29) aparāntasarvatathāgatavaṃśasaṃdhāraṇādhiṣṭhānena bodhisattvasamādhinā, pratyutpannadaśadiksarvakṣetrasāgarapariśuddhādhimuktyadhiṣṭhānena bodhisattvasamādhinā, sarvabuddhaikacittakṣaṇavihārāvabhāsena bodhisattvasamādhinā, sarvārambaṇāsaṅgakoṭipraveśena bodhisattvasamādhinā, sarvalokadhātvekabuddhakṣetrādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakāyanirmāṇābhinirhāreṇa bodhisattvasamādhinā, vajrendrasarvendriyasāgaraprativedhena bodhisattvasamādhinā, sarvatathāgataikaśarīragarbhādhiṣṭhānena bodhisattvasamādhinā, cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāreṇa bodhisattvasamādhinā, sarvadharmadhātukṣetraprasaranirvṛtisaṃdarśanādhiṣṭhānena bodhisattvasamādhinā, adhamūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrasattvakāyāsaṃbhedādhiṣṭhānena bodhisattvasamādhinā, sarvajñānāvartābhimukhasamavasaraṇena bodhisattvasamādhinā, sarvadharmasvabhāvalakṣaṇāparijñāprabhedena bodhisattvasamādhinā, tryadhvaikacittakṣaṇasaṃbhedamaṇḍalena bodhisattvasamādhinā, sarvacittakṣaṇadharmadhātunayaśarīragarbheṇa bodhisattvasamādhinā, sarvatathāgatavaṃśānugamasiṃhena bodhisattvasamādhinā, sarvārambaṇadharmadhātumaticakṣurmaṇḍalena bodhisattvasamādhinā, daśabalākramavikramasamārambhena bodhisattvasamādhinā, sarvārambaṇasamantadarśanacakṣurmaṇḍalena bodhisattvasamādhinā, sarvavarṇamaṇḍalajadrocanābhinirhāreṇa bodhisattvasamādhinā, acalāvartagarbheṇa bodhisattvasamādhinā, ekadharmasarvadharmasamavasaraṇanirdeśena bodhisattvasamādhinā, ekadharmavākpathaniruktipadaprabhedena bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti / sarvabuddhadhvajādhiṣṭhānadharmanirdeśena bodhisattvasamādhinā, tryadhvakoṭyasaṅgavabhāsena bodhisattvasamādhinā, sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā, sūkṣmanayadaśabalāntargatena bodhisattvasamādhinā, anācchedyabodhisattvacaryāsarvakalpābhinirhāreṇa bodhisattvasamādhinā, sarvadiksamantajavābhimukhameghena bodhisattvasamādhinā, abhisaṃbodhivikurvitaviṭhapanena bodhisattvasamādhinā, sarvavedayitāsparśakṣemadhvajena bodhisattvasamādhinā, sarvavyūhagaganālaṃkārābhinirhāreṇa bodhisattvasamādhinā, kṣaṇakṣaṇajagadupanirmitabimbameghābhinirhāreṇa bodhisattvasamādhinā, gaganavirajastathāgatacandraprabheṇa bodhisattvasamādhinā, sarvatathāgatagaganādhiṣṭhānena bodhisattvasamādhinā, sarvadharmendriyavyūhaprabhāsena bodhisattvasamādhinā, sarvadharmārthavivaraṇapradīpena bodhisattvasamādhinā, daśabalamaṇḍalāvabhāsena bodhisattvasamādhinā, tryadhvabuddhaketudhvajena bodhisattvasamādhinā, sarvabuddhakagarbheṇa bodhisattvasamādhinā, sarvakṣaṇakṣaṇārambhaniṣṭhena bodhisattvasamādhinā, akṣayapuṇyagarbheṇa bodhisattvasamādhinā, anantabuddhadarśanavinayāvabhāsena bodhisattvasamādhinā, sarvadharmavajrasiṃhapratiṣṭhānena bodhisattvasamādhina, sarvatathāgatanirmāṇasaṃdarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā, sarvatathāgatadivasākramaṇāntinā bodhisattvasamādhinā, ekatryadhvasaṃtāpena bodhisattvasamādhinā, prakṛtiśāntasarvadharmasamantaprabhapramuktaghoṣasvareṇa bodhisattvasamādhinā, sarvabuddhadarśanasīmāvatikrameṇa bodhisattvasamādhinā, niravaśeṣasarvadharmadhātupadmanalinīpratibuddhena (Gv 30) bodhisattvasamādhinā, anālayadharmagaganavyavalokanena bodhisattvasamādhinā, ekadigdaśadiksāgarasamavasaraṇāvartena bodhisattvasamādhinā, sarvadharmadhātutalapramukhapraveśena bodhisattvasamādhinā, sarvadharmasāgaravatigarbheṇa bodhisattvasamādhinā, sarvasattvaprabhāmuñcanapraśāntakāyena bodhisattvasamādhinā, ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāreṇa bodhisattvasamādhinā, sadāsarvatrasamantābhisaṃbodhyadhiṣṭhānena bodhisattvasamādhinā, sarvadharmadhātvekavyūhānugamapraveśena bodhisattvasamādhinā, sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā, sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā, cittakṣaṇānantadharmadhātunayasvakāyaspharaṇena bodhisattvasamādhinā, ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā, sarvabuddhadharmamaṇḍalacakratejodhiṣṭhānena bodhisattvasamādhinā, indrajālasattvadhātusaṃgrahapraṇidhicaryādhiṣṭhānena bodhisattvasamādhinā, sarvalokadhātutalāsaṃbhedena bodhisattvasamādhinā, padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā, sarvasattvakāyaparivartajñānābhijñena bodhisattvasamādhinā, sarvasattvābhimukhakāyādhiṣṭhānena bodhisattvasamādhinā, sarvasattvasvarāṅgasāgarajaganmantrasaṃbhedanayābhijñena bodhisattvasamādhinā, sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā, mahākaruṇākośāsaṃbhedagarbheṇa bodhisattvasamādhinā, sarvabuddhatathāgatakoṭipraveśena bodhisattvasamādhinā, sarvatathāgatavimokṣabhavanavyavalokanasiṃhavijṛmbhitena bodhisattvasamādhinā, etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraiste bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti / pūrvasabhāgacaritavikurvitaṃ ca samanusmaranti / cittakṣaṇe cittakṣaṇe sarvadharmadhātuspharaṇenāvatāreṇa teṣāṃ punarbodhisattvānāṃ bhagavataḥ saṃmukhībhāvagatānāṃ jetavanānuprāptānāṃ daśabuddhakṣetraparamāṇurajaḥsamalokadhātuvipulanānāratnapadmagarbhasiṃhāsanasaṃniṣaṇṇānāṃ mahājñānābhijñāvikurvitaniryātānāṃ tīkṣṇajñānābhijñāvatibhūmyanuprāptānāṃ samantajñānavyavacārāṇāṃ prajñākaragotrasaṃbhavānāṃ sarvajñajñānābhimukhānāṃ vitimirajñānacakṣuṣāṃ sattvasārathibhāvānuprāptānāṃ sarvabuddhasamatānugatānāṃ sadāvikalpadharmacaraṇānāṃ sarvadharmārambaṇapratividdhānāṃ sarvadharmaprakṛtiśāntarambaṇānāṃ sarvalokapraśāntanirvāṇālayaparamāṇāṃ sarvalokanānātvapratiṣṭhānām aniketasarvakṣetragamanānām apratiṣṭhānasarvadharmapadānām anāryūhasavadhamavimānapratiṣṭhānāṃ sarvajagatparipākavinayapratipannānāṃ sarvasattvakṣemagatisaṃdarśakānām abhyudgatajñānavimokṣabhavanagocarāṇāṃ virāgakoṭyanugatajñānaśarīrāṇāṃ sarvabhavasamudroccalitānāṃ sarvajagadbhūtakoṭīvipaśyakānāṃ dharmasāgaraprajñāvabhāsamaṇḍalānāṃ sāgaravatīdhātusamādhisusamāhitamahākaruṇācittānāṃ māyāgatadharmanayasupratividdhānāṃ svapnopamasarvalokadhātvavatīrṇānāṃ pratibhāsopamasarvatathāgatadarśanapratividdhānāṃ pratiśrutkopamasarvarutaravitaghoṣavijñaptīnāṃ nirmitopamasarvadharmābhinirvṛttijñānapratividdhānāṃ susamārjitaviṣayapraṇidhānānāṃ samantajñānamaṇḍalaviśuddhikauśalyānugatānām atyantaśāntapraśāntacittānāṃ sarvadhāraṇīgotrajñānaviṣayāṇāṃ acchambhitasamādhibalasamantaparākramāṇāṃ dharmadhātusthitikoṭīgatacakṣuṣāṃ (Gv 31) sarvadharmānilambhavihāraprāptānāṃ anantaprajñāsāgaravicāriṇāṃ jñānapāramitāpāraṃgatānāṃ prajñāpāramitābalādhānaprāptānām ṛddhipāramitāsarvajagatpāraṃgatānāṃ samādhipāramitāvaśagatānāṃ sarvatathāgatārthakauśalyāviparītajñānināṃ dharmakauśalyaprakāśanavidhijñānāṃ niruktijñānābhijñānāmakṣayapratibhānabaladharmameghānāṃ vaiśāradyarṣabhasiṃhanādinām anālayadharmāsamaratiratānāṃ vitimirasarvadharmaprasāritacakṣuṣāṃ sarvalokasaṃvittibhavajñānacandrāṇāṃ prajñāmaṇḍalasarvasatyanayavyavahāraraśmīnāṃ jñānavajrapuṇyacakravālānāṃ sarvaupamyaupamyasamatikrāntānāṃ sarvadharmendriyajñānāṅkuravirūḍhānāṃ śūradhvajānāṃ sarvamāradhvajapramardanavīryāṇāmanantajñānamaṇḍalatejasāṃ sarvajagadabhyudgatakāyānāṃ sarvadharmānāvaraṇaprajñānāṃ kṣayākṣayakoṭijñānavibuddhānāṃ samantakoṭyanugatabhūtakoṭipratiṣṭhānāṃ animittavyavaharaṇapratyavekṣajñānacakṣuṣāṃ sarvabodhisattvacaryābhinirhāranimittakuśalānām advayajñānagocarāṇāṃ sarvalokagativipaśyakānām aniketasarvabuddhakṣetragatipratibhāsaprāptānāṃ sarvadharmāndhakāravigatānām atamojñānamaṇḍalapratipannānāṃ samantadigdharmāvabhāsaprayuktānāṃ sarvajadvareṇyapuṇyakṣetrānām amodhaśravaṇadarśanapraṇidhicandrāṇāṃ sarvalokābhyudgatapuṇyasumerūṇāṃ sarvaparapravādicakravinigrahaśūurāṇāṃ sarvabuddhakṣetraghoṣasvaraśabdanirnādināṃ sarvabuddhakāyātṛptadarśanānāṃ sarvabuddhaśarīrapratibhāsavaśavartināṃ jagadvinayānukūlakāyādhiṣṭhānānāṃ sarvakṣetraprasaraikakāyaspharaṇānām abhisaṃskāravimaṇḍalapariśuddhānāmanāvaraṇagaganamahājñānayānapātrāṇāṃ jñānamaṇḍalasarvadharmadhātukāyaprabhāsanānāṃ sarvajagaduditajñānādityānāṃ sarvajagaducitayathāśayabalānāṃ sarvajagadāśayendriyapratividdhajñānānām anāvaraṇaviṣayasarvadharmopapannānām anupapattisarvadharmasvabhāvavijñaptānāṃ sūkṣmodārānyonyasamavasaraṇajñānasaṃvardhitavartināṃ gambhīrabuddhabhūmigatiniścitānāṃ gambhīrārthapadavyañjanavyavahārajñānānām akṣayapadavyañjanārthasūcakānāṃ sarvasūtrasāgaraikapadapraveśaprabhāṣamāṇānāṃ vipuladhāraṇījñānaśarīrādhiṣṭhānānām anantakalpasaṃdhāraṇānugatādhiṣṭhānānām ekacittakṣaṇānabhilāpyakalpasaṃvāsapratividdhajñānānām ekacittakṣaṇatryadhvajñānasarvalokābhijñānānāṃ sarvadharmadhāraṇyanantabuddhadharmasāgarapratibhāsānāṃ sarvajagajjñānopanāyikadharmacakrapravartanānivartyānāṃ buddhaviṣayajñānāvabhāsapratilabdhānāṃ sudarśanasamādhisadāsamāpannānām asaṅgakoṭīsarvadharmaprabhedajñānābhijñānāṃ sarvadharmaviśeṣavimokṣaviṣayajñānavikrīḍitānāṃ sarvārambaṇaśubhavyūhādhiṣṭhānānāṃ daśadigdharmadhātudiganuśaraṇapraviṣṭānāṃ sarvadigvibhaṅgadharmadhātusamavasaraṇānāṃ susūkṣmodāraparamāṇurajobodhiṃ vibudhyatāṃ suvarṇaprakṛtisarvavarṇasaṃdarśakānāṃ ekadiksamavasaraṇānām ekarūpānantaguṇajñānasaṃvardhitajñānapuṇyagarbhāṇāṃ sarvabuddhastutastavitapraśastānām akṣīṇapadavyañjanaguṇavarṇanirdeśānāṃ bodhisattvānāṃ jetavane saṃnipatitānāṃ saṃniṣaṇṇānāṃ tathāgataguṇasamudramavataratāṃ tathāgataraśmyavabhāsitānāṃ sarvaśarīrebhyaḥ tebhyaśca kūṭāgārebhyo bodhisattvaparibhogebhyaḥ tebhyaśca bodhisattvāsanebhyaḥ sarvasmājjetavanānmahāprītivegapratilābhadharmatayā acintyabodhisattvadharmāvabhāsapratilābhena prītivegasaṃbhavamahāvikurvitavyūhānniścaritvā (Gv 32) sarvadharmadhātu spharanti sma / yaduta cittakṣaṇe cittakṣaṇe vipularaśmijālameghāḥ sarvajagatsaṃtoṣaṇā niścaritvā daśa diśaḥ spharanti sma / sarvaratnamaṇighaṇṭāmegha niścaritvā sarvatryadhvatathāgataguṇavarṇanirdeśameghanirnādānanuravanto daśa diśaḥ spharanti sma / sarvajagadvādyameghaḥ sarvārambaṇebhyo niścaritvā sarvasattvakarmavipākamadhuravādyaghoṣasaṃprayuktā anuvaranto daśa diśaḥ spharanti sma / sarvabodhisattvapraṇidhānavicitrabodhisattvacaryāsaṃdarśanarūpameghā niścaritvā sarvabodhisattvapraṇidhānarutaghoṣān nigarjanto daśa diśaḥ spharanti sma / lakṣaṇānuvyañjanavibhūṣitabodhisattvakāyameghā niścaritvā sarvakṣetreṣvanugatabuddhopādaparaṃparāmudīrayanto daśa diśaḥ spharanti sma / sarvatryadhvatathāgatasadṛśabodhimaṇḍameghā niścaritvā sarvatathāgatātisaṃbodhiniryāṇavyūhān saṃdarśayanto daśa diśaḥ spharanti sma / sarvārambaṇebhyaḥ sarvanāgendrakāyameghā niścaritvā sarvagandhavarṣāṇi pravarṣanto daśa diśaḥ spharanti sma / sarvajagadindrasadṛśakāyameghā niścaritvā samantabhadrabodhisattvacaryāmudīrayanto daśa diśaḥ spharanti sma / sarvārambaṇebhyaḥ sarvaratnamayasarvapariśuddhabuddhakṣetrapratibhāsameghā niścaritvā sarvatathāgatadharmacakrapravartanāni darśayanto daśa diśaḥ spharanti sma / evaṃpramukhā anabhilāpyabuddhakṣetraparamāṇurajaḥsamā mahāvyūhavikurvitameghā niścaranti sma teṣāṃ bodhisattvānāmadhiṣṭhānena acintyadharmasamudrāvabhāsapratilābhadharmatayā ca // atha khalu mañjuśrīrbodhisattvo buddhādhiṣṭhānena etānyeva sarvavikurvitāni saṃdarśayan daśa diśo vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata - saṃprekṣato jetavane anantaṃ buddhādhiṣṭhānaṃ vipulaṃ pravṛttam / ārambaṇā sarvatu kāyameghā niścārya te sarvadiśaḥ spharanti

Sanskrit only: no published translation is held for this verse.

अनन्तवर्णा विपुला विशुद्धा व्यूहा विचित्राः सुगतात्मजानाम् । दृश्यन्ति सर्वेहि त आसनेभ्यः सारम्बणेभ्यः प्रतिभासप्राप्ताः

anantavarṇā vipulā viśuddhā vyūhā vicitrāḥ sugatātmajānām / dṛśyanti sarvehi ta āsanebhyaḥ sārambaṇebhyaḥ pratibhāsaprāptāḥ

Sanskrit only: no published translation is held for this verse.

नानावियूहा रत्नार्चिमेघाः स्फरन्ति क्षेत्रान्तर सर्जमानाः । रोम्णां मुखेभ्यः सुगतात्मजानां रुतानि बौद्धानि निगर्जमानाः

nānāviyūhā ratnārcimeghāḥ spharanti kṣetrāntara sarjamānāḥ / romṇāṃ mukhebhyaḥ sugatātmajānāṃ rutāni bauddhāni nigarjamānāḥ

Sanskrit only: no published translation is held for this verse.

वृक्षाण पुष्पेभि विनिश्चरित्वा व्रजन्ति ध्यानाङ्गमुदीरयन्तः

vṛkṣāṇa puṣpebhi viniścaritvā vrajanti dhyānāṅgamudīrayantaḥ

Sanskrit only: no published translation is held for this verse.

समन्तभद्रोपमबोधिसत्त्वाः सलक्षणव्यञ्जनभूषिताङ्गाः । अचिन्त्या असङ्ख्याः सुगतस्य रोम्णो अधिष्ठिता निर्मित निश्चरन्ति

samantabhadropamabodhisattvāḥ salakṣaṇavyañjanabhūṣitāṅgāḥ / acintyā asaṅkhyāḥ sugatasya romṇo adhiṣṭhitā nirmita niścaranti

Sanskrit only: no published translation is held for this verse.

त्र्यध्वोद्भवानां सुगतात्मजानाम् ये वर्णनिश्चारमहासमुद्राः । गर्जेन्ति तान् जेतवनोपविष्टांस्ते व्यूहमेघा गुणसागराणाम्

tryadhvodbhavānāṃ sugatātmajānām ye varṇaniścāramahāsamudrāḥ / garjenti tān jetavanopaviṣṭāṃste vyūhameghā guṇasāgarāṇām

Sanskrit only: no published translation is held for this verse.

ये सर्वदिक्सत्त्वगणस्य कर्ममहासमुद्रा निखिला विचित्रा । श्रूयन्ति ते जेतवने द्रुमाणां कोशान्तरेभ्यो ऽपि विनिश्चरन्तः

ye sarvadiksattvagaṇasya karmamahāsamudrā nikhilā vicitrā / śrūyanti te jetavane drumāṇāṃ kośāntarebhyo 'pi viniścarantaḥ

Sanskrit only: no published translation is held for this verse.

त्र्यध्वस्थितानामिह या जिननां क्षेत्रेषु सर्वेष्वखिला विकुर्वा । क्षेत्रादधस्तात्परमाणुसंख्या प्रत्येकमारम्बणमाविभान्ति

tryadhvasthitānāmiha yā jinanāṃ kṣetreṣu sarveṣvakhilā vikurvā / kṣetrādadhastātparamāṇusaṃkhyā pratyekamārambaṇamāvibhānti

Sanskrit only: no published translation is held for this verse.

एकैकरोम्णि प्रविभक्तु चित्रा बुद्धा दिक्क्षेत्रे समुद्रमेघाः । अभासयन्ति जिनाधिवासां प्रतिक्षणं तेषु च बुद्धमेघाः

ekaikaromṇi pravibhaktu citrā buddhā dikkṣetre samudrameghāḥ / abhāsayanti jinādhivāsāṃ pratikṣaṇaṃ teṣu ca buddhameghāḥ

Sanskrit only: no published translation is held for this verse.

जगत्समाः सर्वदिशः स्फरित्वा सत्त्वानुपायैः परिपाचयन्तः । तेषां प्रभाभ्यश्च विनिश्चरन्तो गन्धार्चिपुष्पौघसमुद्रमेघाः

jagatsamāḥ sarvadiśaḥ spharitvā sattvānupāyaiḥ paripācayantaḥ / teṣāṃ prabhābhyaśca viniścaranto gandhārcipuṣpaughasamudrameghāḥ

Sanskrit only: no published translation is held for this verse.

व्योमाप्रमाणानि विमानरत्नान् अशेषसद्व्यूहविराजितानि । स्फरन्ति सर्वाण्यपि सर्वदिक्षु क्षेत्राणि सर्वाण्यथ बोधिमण्डान्

vyomāpramāṇāni vimānaratnān aśeṣasadvyūhavirājitāni / spharanti sarvāṇyapi sarvadikṣu kṣetrāṇi sarvāṇyatha bodhimaṇḍān

Sanskrit only: no published translation is held for this verse.

ये ऽशेषतस्त्र्यश्वगता हि दिक्षु त्र्यध्वस्थितानां सुगतौरसानाम् । समन्तभद्रैश्चरितप्रकारैर्विशोधिताः क्षेत्र महौषधीनाम्

ye 'śeṣatastryaśvagatā hi dikṣu tryadhvasthitānāṃ sugataurasānām / samantabhadraiścaritaprakārairviśodhitāḥ kṣetra mahauṣadhīnām

Sanskrit only: no published translation is held for this verse.

व्यूहा विचित्रा जगदप्रमाणैर्विशोधिताः कल्पमहासमुद्रैः । दृश्यन्ति ते ऽपि प्रतिभासयोगादशेषतो जेतवनान्तरिक्षे

vyūhā vicitrā jagadapramāṇairviśodhitāḥ kalpamahāsamudraiḥ / dṛśyanti te 'pi pratibhāsayogādaśeṣato jetavanāntarikṣe

Sanskrit only: no published translation is held for this verse.