Library·Gandavyuhasutra·28

Gandavyuhasutra 28

इति हि सुधनः श्रेष्ठिदारकस्तत एकैकस्मात्कूटागारादेकैकस्मादारम्बणादिमानि च अन्यानि च अविचिन्त्यव्यूहविषयविकुर्वितान्यद्राक्षीत् । असंप्रमुषितेन स्मृतिबलाधानेन समन्तदिग्व्यवचारितया चक्षुःपरिशुद्ध्या अनावरणेन विपश्यनाकौशल्यज्ञानेन बोधिसत्त्वज्ञानाधिष्ठानवशिताप्रतिलम्भेन बोधिसत्त्वसंज्ञागतप्रसृतायां ज्ञानभूमौ स्थितः, तत्सर्वमनन्तव्यूहविषयविकुर्वितमद्राक्षीत् । तद्यथा पुरुषः सुप्तः स्वप्नान्तरगतो विविधान् रूपारम्बणविशेषान् पश्येत् यदुत गृहविमानरमणीयानि वा ग्रामनगरनिगमजनपदरमणीयानि वा वस्त्रान्नपानपरिभोगरमणीयानि वा गीतवाद्यतूर्यसंगीतिविविधरतिक्रीडारमणीयानि वा पश्येत् । उद्यानारामतपोवनरमणीयानि वा वृक्षनदीपुष्किरिणीपर्वतरमणीयानि वा मातापितृमित्रज्ञातिसालोहितसमवधानगतं वा आत्मानं संजानीते । महासमुद्रं वा पश्येत् सुमेरुं वा पर्वतराजानं सर्वदेवभवनानि वा जम्बुद्वीपं वा, अनेनकयोजनशतस्थितं वा आत्मानं संजानीते । तच्च गृहं वा अवचरकं वा विपुलं पश्येत् । सर्वगुणालंकारसमवसृतं दिवसमेव संजानीते । न रात्रिदीर्घं च संजानीते न ह्रस्वम्, न स्वप्न इति संजानीते । सुखोपस्थानं चात्मनः पश्येत् । स प्रस्रब्धकायसंस्कारो विगतस्त्यानमिद्धः सर्वरत्यपकर्षितो विपुलप्रीतिसुखसंवेदी दीर्घं च विपुलं च संजानीते । दिवसं वा सप्ताहं वा अर्धमासं वा संवत्सरं वा वर्षशतं वा ततो वा उत्तरि संजानीते । प्रतिविबुद्धश्च तत्सर्वमनुस्मरेत् । एवमेव सुधनः श्रेष्ठिदारकः बोधिसत्त्वाधिष्ठानेन सर्वत्रैधातुकस्वप्नसमवसरणज्ञानेन परीत्तसंज्ञागतनिरुद्धचेता विपुलमहद्गतानावरणबोधिसत्त्वसंज्ञागतविहारी बोधिसत्त्वविषयानुगतो ऽचिन्त्यबोधिसत्त्वनयप्रवेशानुसृतबुद्धिस्तत्सर्वव्यूहविकुर्वितमपश्यत् संजानीते ऽनुभवति विचारयति निमित्तीकरोति आलक्षयति, तत्र च स्थितमात्मानं संजानीते । तद्यथा ग्लानः पुरुषश्चरमे चित्तोत्पादे वर्तमान उपपत्यानन्तर्यचित्ते प्रत्युपस्थिते कर्मभवे आमुखीभूते यथाकृतकर्मोपचयविपाकेन अशुभकर्मप्रत्ययेन नरकं वा पश्येत्, तिर्यग्योनिं वा प्रेतविषयं वा यमपुरुषान् वा दृढप्रहरणगृहीतान् रुषितानाक्रोशतो रुदिताक्रोशितशब्दं च नारकाणां श्रुणुयात् । तां च क्षारनदीं पश्येत्, तांश्च क्षुरधारापर्वतान्, तां च कूटाशाल्मलीम्, तच्च असिपत्रवनं पश्येत् । तांश्च महानरकानादीप्तान् (ग्व् ४१५) संप्रज्वलितानेकज्वालीभूतान्, ताश्च लोहकुम्भीः पश्येत्, ताः कारणाः कार्यमाणान्, तांश्च वेदनामनुभूयमानान् संजानीत् । तानि च नैरयिकान्यग्निसंतापदुःखानि पश्येदनुभवेत् । शुभकर्मोपचयेन वा देवभवनं पश्येत् । देवपर्षदप्सरोगणं सर्वव्यूहालंकारांश्च पश्येत्, उद्यानविमाननदीपुष्करिणीरत्नपर्वतकल्पवृक्षपरिभोगान् वा पश्येदनुभवेत्, तदायुःकालं च संजानीयात् - इतश्च्युतस्तत्र वोपपन्नो ऽनन्तर्हित एव कर्मविषयाचिन्त्यतया एतां क्रियां पश्येत् संजानीत अनुभवेत् । एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वकर्मविषयाचिन्त्यतया तत्सर्वव्यूहविकुर्वितमद्राक्षीत् । तद्यथा भूतग्रहाविष्टः पुरुषो विविधानि रुपगतानि पश्यति । यच्च परिपृच्छते, तद्व्याकरोति । एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वज्ञानाधिष्ठानबलेन तान् सर्वव्यूहानद्राक्षीत् । तद्यथा नागभवनप्रविष्टः पुरुषो नागसंज्ञागतप्रवेशेन दिवसं वा सप्ताहं वा अर्धमासं वा मासं वा संवत्सरं वा वर्षशतं वा संज्ञामात्रं संजानीते, नागसंज्ञागतोत्सृष्टो मनुष्यसंज्ञागतेन मुहूर्तमात्रं पश्येत् । एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वसंज्ञागतानुस्मृतबुद्धिस्तन्मैत्रेयस्य बोधिसत्त्वस्य अधिष्ठानवशेन तन्मुहूर्तं बहूनि कल्पकोटीनियुतशतसहस्राणि संजानीते स्म । तद्यथास्ति सर्वजगद्वरव्यूहगर्भं नाम महाब्रह्मणो विमानम् । तत्र सर्वत्रिसाहस्रमहासाहस्रो लोकधातुराभासमागच्छति प्रतिभासयोगेन सर्वारम्बणामिश्रीभूतः । एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहानन्योन्यासंकीर्णान् सर्वारम्बणेषु प्रतिभासप्राप्तः तद्यथा कृत्स्नायतनसमापत्तिविहारी भिक्षुरेको ऽद्वितीयः शयने वा चंक्रमे वा निषद्यायां वा उत्थितो वा निषण्णो वा यथाकृत्स्नसमापत्तिविषयावतारेण सर्वलोकं संजानीते पश्यत्यनुभवति ध्यायिविशेषाचिन्त्यतायै । एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहान् यथाविषयावतारेण पश्यति संजानीते । तद्यथा गन्धर्वनगराणां सर्वव्यूहालंकारा गगनतले संदृश्यन्ते, न च कस्यचिदावरणत्वाय कल्पन्ते । तद्यथा यक्षविमानप्रविष्टानि मनुष्यविमानानि यक्षविमानान्तर्गतान्यन्योन्यासंभिन्नानि यथाकामविषयपरिशुद्ध्या संदृश्यन्ते । तद्यथा महासमुद्रे सर्वस्य त्रिसाहस्रमहासाहस्रस्य लोकधातोः प्रतिभाससमुद्राः संदृश्यन्ते । तद्यथा मायाकारो मन्त्रविद्यौषधिबलाधिष्ठानेन सर्वरूपगतानि सर्वक्रियाश्च संपश्यति । एवमेव सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्याधिष्ठानज्ञानमायाचिन्त्यप्रदेशेन तानि सर्वव्यूहविकुर्वितान्यद्राक्षीत् धर्मज्ञानमायाबलाभिनिर्हृतेन बोधिसत्त्ववशिताधिष्ठानज्ञानमायागतेन ॥ अथ खलु मैत्रेयो बोधिसत्त्वस्तत्कूटागारं प्रविश्य तदधिष्ठानमवसृज्य सुधनं श्रेष्ठिदारकमच्छटाशब्दं कृत्वा एतदवोचत - उत्तिष्ठ कुलपुत्र । एषा धर्माणां धर्मता । अविष्ठपनप्रत्युपस्थानलक्षणाः कुलपुत्र सर्वधर्मा बोधिसत्त्वज्ञानाधिष्ठिताः । एवं स्वभावापरिनिष्पन्ना मायास्वप्नप्रतिभासोपमाः । अथ खलु सुधनः श्रेष्ठिदारकः तेनाच्छटाशब्देन ततः समाधेर्व्युत्थितः । तं मैत्रेयो बोधिसत्त्व आह - दृष्टा ते कुलपुत्र बोधिसत्त्वाधिष्ठानविकुर्वाः? दृष्टास्ते बोधिसत्त्वसंभारबलनिष्यन्दाः? दृष्टा ते बोधिसत्त्वप्रणिधिज्ञानविठपना? दृष्टास्ते बोधिसत्त्वचर्यासमुदागमाः? श्रुतं ते बोधिसत्त्वनिर्याणमुखम्? दृष्टा ते बुद्धक्षेत्रव्यूहाप्रमाणता? दृष्टा (ग्व् ४१६) ते तथागतप्रणिधिवैशारद्यवैशेषिकता? अनुगता ते बोधिसत्त्वविमोक्षाचिन्त्यता? अनुभूतं ते बोधिसत्त्वसमाधिप्रीतिमुखम्? सुधन आह - दृष्टमार्य कल्याणमित्राधिष्ठानेन कल्याणमित्रप्रभावेण । अपि तु खलु आर्य को नामैष विमोक्षः? मैत्रेय आह - सर्वत्र्यध्वारम्बणज्ञानप्रवेशासंमोषस्मृतिव्यूहगर्भो नाम कुलपुत्र एष विमोक्षः । ईदृशानां च कुलपुत्र विमोक्षाणामनभिलाप्यानभिलाप्यानामेकजातिप्रतिबद्धो बोधिसत्त्वो लाभी । सुधन आह - क्व असौ आर्य व्यूहो गतः? मैत्रेयो बोधिसत्त्व आह - यत एवागतः । सुधन आह - कुत आगतः? मैत्रेयो बोधिसत्त्व आह - बोधिसत्त्वज्ञानाधिष्ठानाभिनिर्हारादागतः । तत्रैवाधिष्ठानेन तिष्ठति । न क्वचिद्गतो नागतो न राशीभूतो न संचयभूतो न कूटस्थो न भावस्थो न भावस्थितो न देशस्थो न प्रदेशस्थः । तद्यथा कुलपुत्र नागानां मेघजालं न कायेन चित्तेन अभ्यन्तरीभूतं न संचयस्थितं न संदृश्यते । नागचेतनावशेन अप्रमाणा वारिघाराः प्रमुञ्चति नागविषयाचिन्त्यतया । एवमेव कुलपुत्र ते व्यूहा नाध्यात्मगता न बहिर्धागता न च न संदृश्यन्ते, बोधिसत्त्वाधिष्ठानवशेन, तव च सुभाजनतया । तद्यथा कुलपुत्र मायाकारस्य सर्वमायागतविषयं संदर्शयमानस्य माया न कुतश्चिदागच्छन्ति न विगच्छन्ति न क्वचित्संक्रान्तिम्, संदृश्यते च मन्त्रौषधिबलेन । एवमेव कुलपुत्रते व्यूहा न क्वचिद्गता न कुतश्चिदागता न क्वचिद्राशीभूताः । संदृश्यन्ते च अचिन्त्यबोधिसत्त्वज्ञानमायासुशिक्षित्वात् पूर्वप्रणिधानाधिष्ठानज्ञानवशितया । सुधन आहं-कियद्दूरादार्य आगच्छसि? आह - अनागतगतिंगतः । कुलपुत्र बोधिसत्त्वानां गतिः अचलनास्थानगतिः । अनालयानिकेतगतिः । अच्युत्युपपत्तिगतिः । अस्थानसंक्रान्तिगतिः । अचलनानुत्थानगतिः । अनवेक्षानिकेतगतिः । अकर्मविपाकगतिः । अनुत्पादानिरोधगतिः । अनुच्छेदाशाश्वतगतिः । अपि तु कुलपुत्र महाकरुणागतिर्बोधिसत्त्वानां विनेयसत्त्वावेक्षणतया, महामैत्रीगतिर्बोधिसत्त्वानां दुःखितसत्त्वपरित्राणतया, शीलगतिर्बोधिसत्त्वानां यथाशयोपपत्तितया, प्रणिधानगतिर्बोधिसत्त्वानां पूर्वाधिष्ठानेन, अभिज्ञागतिर्बोधिसत्त्वानां सर्वसुखसंदर्शनतया, अनभिसंस्कारगतिर्बोधिसत्त्वानां सर्वतथागतपादमूलानुच्चलनतया, अनायूहवियूहगतिर्बोधिसत्त्वानां कायचित्तासंप्रवणतया, प्रज्ञोपायगतिर्बोधिसत्त्वानां सत्त्वानुवर्तनतया, निर्माणसंदर्शनगतिर्बोधिसत्त्वानां प्रतिभासप्रतिबिम्बनिर्मितशरीरसमतया ॥ अपि च कुलपुत्र यद्वदसि - कियद्दूरात्त्वमागच्छसीति । अहमस्मिन् कुलपुत्र आगच्छामि जन्मभूमेर्मालदेभ्यो जनपदेभ्यः कुटिग्रामकात् । तत्र गोपालको नाम श्रेष्ठी । तं बुद्धधर्मेषु प्रतिष्ठाप्य जन्मभूमकानां च मनुष्याणां यथाभाजनतया धर्मं देशयित्वा मातापितृज्ञातिसंबन्धिनश्च ब्राह्मणगृहपतीन् महायाने समादाप्य । सुधन आह - कतमा आर्य बोधिसत्त्वानां जन्मभूमिः? आह - दशेमाः कुलपुत्र बोधिसत्त्वानां जन्मभूमयः । कतमा दश? यदुत बोधिचित्तोत्पादो बोधिसत्त्वानां जन्मभूमिः । बोधिसत्त्वकुलजनक अध्याशयो बोधिसत्त्वानां जन्मभूमिः । कल्याणमित्रकुले जनयिताः॥॥॥।भूमिप्रतिष्ठानं बोधिसत्त्वानां जन्मभूमिः । पारमिताकुले जनकं॥॥॥॥ प्रणिधानाभिनिर्हारो बोधिसत्त्वानां जन्मभूमिः । अनुत्पत्तिकधर्मक्षान्तिकुले (ग्व् ४१७) जनकौ॥॥॥। । सर्वधर्मप्रतिपत्तिः कुलपुत्र बोधिसत्त्वानां जन्मभूमिः । अतीतानागतप्रत्युत्पन्नसर्वतथागतकुले जनयित्री जन्मभूमिः । इमाः कुलपुत्र बोधिसत्त्वानां दश जन्मभूमयः ॥ प्रज्ञापारमिता कुलपुत्र बोधिसत्त्वानां माता, उपायकौशल्यं पिता, दानपारमिता स्तन्यम्, शीलपारमिता धात्री, क्षान्तीपारमिता भूषणालंकारः, वीर्यपारमिता संवर्धिका, ध्यानपारमिता चर्याविशुद्धिः कल्याणमित्राणि शिक्षाचर्यः, सर्वबोध्यङ्गानि सहायाः, सर्वबोधिसत्त्वा भ्रातरः बोधिचित्तं कुलम्, प्रतिपत्तिः कुलधर्माः, भूम्यवस्थानं क्षान्तिप्रतिलम्भः, कुलाभिजातिः प्रणिधानाभिनिर्हारः, कुलविद्यालाभः, चर्याविशुद्धिः, कुलधर्मानुवर्तनता महायानसमादापना, कुलवंशाव्यवच्छेदः अभिषेकैकजातिप्रतिबद्धता, धर्मराजेषु पुत्रत्वम्, सर्वतथागतसमुदागमः कुलवंशपरिशुद्धिः । एवं हि कुलपुत्र बोधिसत्त्वो ऽतिक्रान्तो भवति बालपृथग्जनभूमिम् । अवक्रान्तो भवति बोधिसत्त्वनियामम् । संभूतो भवति तथागतकूले । प्रतिष्ठितो भवति तथागतवंशे । अव्यवच्छेदाय प्रतिपन्नो भवति त्रिरत्नवंशस्य । परिपालनाभियुक्तो भवति बोधिसत्त्वकुलस्य । परिशुद्धो भवति जातिगोत्रेण । अनुपक्रुष्टो भवति वर्णजात्योः । अनवद्यो भवति सर्वजातः । अदोषः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् । कुलीनो भवति उत्तमबुद्धकुलसंभूतो महाप्रणिधिगर्भशरीरः ॥ एवं कुलजातिसमृद्धाश्च कुलपुत्र बोधिसत्त्वाः प्रतिभासायतनसर्वधर्मपरिज्ञातत्वान्न विजुगुप्सन्ते सर्वलोकोपपत्तिषु । निर्मितोपमसर्वभवोपपत्तिपरिज्ञातत्वान्न संक्लिश्यन्ते सर्वभवगत्युपपत्तिसंवासेषु । निरात्मसर्वबुद्धत्वान्न परिखिद्यन्ते सर्वसत्त्वपरिपाकविनयेषु । महामैत्रीमहाकरुणाशरीरत्वान्न श्राम्यन्ति सर्वसत्त्वानुग्रहेषु । स्वप्नोपमसंसाराधिमुक्तत्वान्न परित्रसन्ति सर्वकल्पसंवासेषु । मायामयं च स्कन्धपरिज्ञातत्वान्न क्राम्यन्ति सर्वजन्मच्युतिमरणसंदर्शनेन । धर्मधातुप्रकृतिकत्वायतनमुचित्वान्न क्षण्यन्ते सर्वविषयेषु । मरीच्युपमसर्वसंज्ञागतसुभावितत्वान्न मुह्यन्ति सर्वसंसारगतिषु । मायोपमसर्वधर्मविक्रीडितत्वादनुपलिप्ता भवन्ति सर्वमारविषयैः । सर्वकायप्रभावितत्वादवञ्चनीया भवन्ति सर्वक्लेशैः । उपपत्तिवशितालब्धत्वाद्गतिंगता भवन्ति सर्वगतिषु । सो ऽहं कुलपुत्र सर्वलोकधातूपपत्त्यन्तर्गतेन कायेन सर्वजगद्रूपसमैर्बलविशेषैः सर्वसत्त्वोपमैर्निरुक्तिसंभेदैः सर्वजगदुपमाभिर्नामधेयविमात्रताभिः सर्वसत्त्वाधिमुक्तिसमैरीर्यापथैः, सर्वजगद्विनयप्रमाणैर्लोकानुवर्तनैः, सर्वविशुद्धिसमैर्जन्मकुलोपपत्तिसंदर्शनैः, क्रियावतारमुखैः सर्वसत्त्वसंज्ञानुप्रवेशैः सर्वबोधिसत्त्वप्रणिधिनिर्माणसमैरात्मभावसंदर्शनप्रभावनैः सर्वधर्मधातुं स्फरित्वा पूर्वसभागचरितानां सत्त्वानां प्रनष्टबोधिचित्तानां परिपाचनार्थं जम्बुद्वीपे च जन्मोपपत्तिसंदर्शनार्थमिह दक्षिणापथे मालदेषु जनपदेषु कूटाग्रामके ब्राह्मणकुलेषूपपन्नानां मातृपितृज्ञातिसंबन्धिनां विनयार्थं ब्राह्मणकुलजातिविशेषेण चैषां जात्यभिमानिकानिरभिमानतायै तथागतकुले संजननार्थमिहोपपन्नः । सो ऽहं कुलपुत्र इह दक्षिणापथे अनेनोपायेन यथाशयानां सत्त्वानां यथाविनेयानां परिपाकविनयं कुर्वन् इहैव वैरोचनव्यूहालंकारगर्भे कूटागारे (ग्व् ४१८) प्रतिवसामि । इतश्चाहं च्युतः तुषितभवने उपपत्तिं संदर्शयिष्यामि यथाशये सत्त्वानुवर्तनतायै, तुषितकायिकानां च सभागचरितानां देवपुत्राणां परिपाकाय, सर्वकामधातुसमतिक्रान्तानां बोधिसत्त्वपुण्यज्ञाननिर्माणव्यूहसंदर्शनतायै, कामरतितृष्णाविनिवर्तनतायै, सर्वसंसारानित्यत्वपरिदीपनतायै, विपत्तिपर्यवसानसर्वदेवोपपत्तिसंदर्शनतायै, च्यवनाकारं नाम महाज्ञानधर्ममुखमेकजातिबद्धैर्बोधिसत्त्वैः सार्धं संगायनाय, सहपरिपाचितानां च तत्रोपपत्तिसंग्रहणतायै, शाक्यमुनिसंप्रेषितानां च विनेयकलानां प्रबोधनतायै । काले परिपूर्णाभिप्रायसर्वज्ञतामधिगमिष्यामि । बोधिप्राप्तं च मां कुलपुत्र त्वं पुनरपि द्रक्ष्यसि सार्धं मञ्जुश्रिया कल्याणमित्रेण ॥ अपि तु खलु पुनः कुलपुत्र - गच्छ त्वं तमेव मञ्जुश्रियं कुमारभूतम् । उपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं समन्तभद्रचर्यामण्डलमवतरितव्यम्, कथमभिनिर्हर्तव्यम्, कथं प्रणिधातव्यम्, कथं विपुलीकर्तव्यम्, कथमनुसर्तव्यम्, कथं पर्यदातव्यम्, कथं प्रवेष्टव्यम्, कथं परिपूरयितव्यम्, स ते कुलपुत्र कल्याणमित्र संदर्शयिष्यति । तत्कस्य हेतोः? स कुलपुत्र बोधिसत्त्वकोटीनियुतशतसहस्राणां प्रणिधानविशेषः संविद्यते यो मञ्जुश्रियः कुमारभूतस्य । विस्तीर्णः कुलपुत्र मञ्जुश्रियः कुमारभूतस्य चर्यानिहारं । अप्रमाणो मञ्जुश्रियः कुमारभूतस्य प्रणिधानाभिनिर्हारः अप्रतिप्रस्रब्धो मञ्जुश्रियः कुमारभूतस्य सर्वबोधिसत्त्वगुणविशेषाभिनिर्हारः । माता मञ्जुश्रीः कुमारभूतो बुद्धकोटीनियुतशतसहस्राणाम् । अववादको मञ्जुश्रीः कुमारभूतो बोधिसत्त्वकोटीनियुतशतसहस्राणाम् । उद्युक्तो मञ्जुश्रीः कुमारभूतः सर्वसत्त्वधातुपरिपाकविनयाय । विस्तीर्णनामचक्रो मञ्जुश्रीः कुमारभूतो दशदिक्सर्वलोकधातुषु । कथापुरुषो मञ्जुश्रीः कुमारभूतो ऽनभिलाप्येषु तथागतपर्षन्मडलेषु । संवर्णितो मञ्जुश्रीः कुमारभूतः सर्वतथागतैः । गम्भीरधर्मज्ञानविहारी मञ्जुश्रीः कुमारभूतः सर्वधर्मयथार्थदर्शी । दुरागतगोचरो मञ्जुश्रीः कुमारभूतः सर्वविमोक्षनयेषु । अवतीर्णः समन्तभद्रबोधिसत्त्वचर्यायाम् । स ते कुलपुत्र कल्याणमित्राजनकः, तथागतकुले संवर्धकः, सर्वकुशलमूलानुत्थापकः, बोधिसंभाराणां दर्शकः, भूतकल्याणमित्राणां समादापकः सर्वगुणेषु अवतारकः, महाप्रणिधानजाले प्रतिष्ठापकः, सर्वप्रणिधानाभिनिर्हारेषु श्रावयिता, सर्वबोधिसत्त्वगुह्यानां संदर्शकः, सर्वबोधिसत्त्वचिन्त्यतायाः, सभागचरितः पूर्वजन्मसंवासेषु । तस्मात्तर्हि त्वं कुलपुत्र मञ्जुश्रीपादमूलगतः एव मा परीत्तमनमुत्पादय, मा परिखेदं जनय सर्वगुणानुशासनीप्रतिलम्भेषु । तत्कस्य हेतोः? यावन्ति त्वया सुधन कल्याणमित्राणि दृष्टानि, यावन्ति चर्यामुखानि श्रुतानि, यावन्तो विमोक्षनया अवतीर्णाः, यावन्तः प्रणिधानविशेषा अवगाढाः, सर्वं मञ्जुश्रियः कुमारभूतस्यानुभावो ऽधिष्ठानं च द्रष्टव्यम् । स च मञ्जुश्रीः कुमारभूतः परमपारमिताप्राप्तः ॥ अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पादौ शिरासाभिवन्द्य मैत्रेयं बोधिसत्त्वं महासत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रेयस्य बोधिसत्त्वस्यान्तिकात् प्रक्रान्तः

iti hi sudhanaḥ śreṣṭhidārakastata ekaikasmātkūṭāgārādekaikasmādārambaṇādimāni ca anyāni ca avicintyavyūhaviṣayavikurvitānyadrākṣīt / asaṃpramuṣitena smṛtibalādhānena samantadigvyavacāritayā cakṣuḥpariśuddhyā anāvaraṇena vipaśyanākauśalyajñānena bodhisattvajñānādhiṣṭhānavaśitāpratilambhena bodhisattvasaṃjñāgataprasṛtāyāṃ jñānabhūmau sthitaḥ, tatsarvamanantavyūhaviṣayavikurvitamadrākṣīt / tadyathā puruṣaḥ suptaḥ svapnāntaragato vividhān rūpārambaṇaviśeṣān paśyet yaduta gṛhavimānaramaṇīyāni vā grāmanagaranigamajanapadaramaṇīyāni vā vastrānnapānaparibhogaramaṇīyāni vā gītavādyatūryasaṃgītivividharatikrīḍāramaṇīyāni vā paśyet / udyānārāmatapovanaramaṇīyāni vā vṛkṣanadīpuṣkiriṇīparvataramaṇīyāni vā mātāpitṛmitrajñātisālohitasamavadhānagataṃ vā ātmānaṃ saṃjānīte / mahāsamudraṃ vā paśyet sumeruṃ vā parvatarājānaṃ sarvadevabhavanāni vā jambudvīpaṃ vā, anenakayojanaśatasthitaṃ vā ātmānaṃ saṃjānīte / tacca gṛhaṃ vā avacarakaṃ vā vipulaṃ paśyet / sarvaguṇālaṃkārasamavasṛtaṃ divasameva saṃjānīte / na rātridīrghaṃ ca saṃjānīte na hrasvam, na svapna iti saṃjānīte / sukhopasthānaṃ cātmanaḥ paśyet / sa prasrabdhakāyasaṃskāro vigatastyānamiddhaḥ sarvaratyapakarṣito vipulaprītisukhasaṃvedī dīrghaṃ ca vipulaṃ ca saṃjānīte / divasaṃ vā saptāhaṃ vā ardhamāsaṃ vā saṃvatsaraṃ vā varṣaśataṃ vā tato vā uttari saṃjānīte / prativibuddhaśca tatsarvamanusmaret / evameva sudhanaḥ śreṣṭhidārakaḥ bodhisattvādhiṣṭhānena sarvatraidhātukasvapnasamavasaraṇajñānena parīttasaṃjñāgataniruddhacetā vipulamahadgatānāvaraṇabodhisattvasaṃjñāgatavihārī bodhisattvaviṣayānugato 'cintyabodhisattvanayapraveśānusṛtabuddhistatsarvavyūhavikurvitamapaśyat saṃjānīte 'nubhavati vicārayati nimittīkaroti ālakṣayati, tatra ca sthitamātmānaṃ saṃjānīte / tadyathā glānaḥ puruṣaścarame cittotpāde vartamāna upapatyānantaryacitte pratyupasthite karmabhave āmukhībhūte yathākṛtakarmopacayavipākena aśubhakarmapratyayena narakaṃ vā paśyet, tiryagyoniṃ vā pretaviṣayaṃ vā yamapuruṣān vā dṛḍhapraharaṇagṛhītān ruṣitānākrośato ruditākrośitaśabdaṃ ca nārakāṇāṃ śruṇuyāt / tāṃ ca kṣāranadīṃ paśyet, tāṃśca kṣuradhārāparvatān, tāṃ ca kūṭāśālmalīm, tacca asipatravanaṃ paśyet / tāṃśca mahānarakānādīptān (Gv 415) saṃprajvalitānekajvālībhūtān, tāśca lohakumbhīḥ paśyet, tāḥ kāraṇāḥ kāryamāṇān, tāṃśca vedanāmanubhūyamānān saṃjānīt / tāni ca nairayikānyagnisaṃtāpaduḥkhāni paśyedanubhavet / śubhakarmopacayena vā devabhavanaṃ paśyet / devaparṣadapsarogaṇaṃ sarvavyūhālaṃkārāṃśca paśyet, udyānavimānanadīpuṣkariṇīratnaparvatakalpavṛkṣaparibhogān vā paśyedanubhavet, tadāyuḥkālaṃ ca saṃjānīyāt - itaścyutastatra vopapanno 'nantarhita eva karmaviṣayācintyatayā etāṃ kriyāṃ paśyet saṃjānīta anubhavet / evameva sudhanaḥ śreṣṭhidārako bodhisattvakarmaviṣayācintyatayā tatsarvavyūhavikurvitamadrākṣīt / tadyathā bhūtagrahāviṣṭaḥ puruṣo vividhāni rupagatāni paśyati / yacca paripṛcchate, tadvyākaroti / evameva sudhanaḥ śreṣṭhidārako bodhisattvajñānādhiṣṭhānabalena tān sarvavyūhānadrākṣīt / tadyathā nāgabhavanapraviṣṭaḥ puruṣo nāgasaṃjñāgatapraveśena divasaṃ vā saptāhaṃ vā ardhamāsaṃ vā māsaṃ vā saṃvatsaraṃ vā varṣaśataṃ vā saṃjñāmātraṃ saṃjānīte, nāgasaṃjñāgatotsṛṣṭo manuṣyasaṃjñāgatena muhūrtamātraṃ paśyet / evameva sudhanaḥ śreṣṭhidārako bodhisattvasaṃjñāgatānusmṛtabuddhistanmaitreyasya bodhisattvasya adhiṣṭhānavaśena tanmuhūrtaṃ bahūni kalpakoṭīniyutaśatasahasrāṇi saṃjānīte sma / tadyathāsti sarvajagadvaravyūhagarbhaṃ nāma mahābrahmaṇo vimānam / tatra sarvatrisāhasramahāsāhasro lokadhāturābhāsamāgacchati pratibhāsayogena sarvārambaṇāmiśrībhūtaḥ / evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhānanyonyāsaṃkīrṇān sarvārambaṇeṣu pratibhāsaprāptaḥ tadyathā kṛtsnāyatanasamāpattivihārī bhikṣureko 'dvitīyaḥ śayane vā caṃkrame vā niṣadyāyāṃ vā utthito vā niṣaṇṇo vā yathākṛtsnasamāpattiviṣayāvatāreṇa sarvalokaṃ saṃjānīte paśyatyanubhavati dhyāyiviśeṣācintyatāyai / evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhān yathāviṣayāvatāreṇa paśyati saṃjānīte / tadyathā gandharvanagarāṇāṃ sarvavyūhālaṃkārā gaganatale saṃdṛśyante, na ca kasyacidāvaraṇatvāya kalpante / tadyathā yakṣavimānapraviṣṭāni manuṣyavimānāni yakṣavimānāntargatānyanyonyāsaṃbhinnāni yathākāmaviṣayapariśuddhyā saṃdṛśyante / tadyathā mahāsamudre sarvasya trisāhasramahāsāhasrasya lokadhātoḥ pratibhāsasamudrāḥ saṃdṛśyante / tadyathā māyākāro mantravidyauṣadhibalādhiṣṭhānena sarvarūpagatāni sarvakriyāśca saṃpaśyati / evameva sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasyādhiṣṭhānajñānamāyācintyapradeśena tāni sarvavyūhavikurvitānyadrākṣīt dharmajñānamāyābalābhinirhṛtena bodhisattvavaśitādhiṣṭhānajñānamāyāgatena // atha khalu maitreyo bodhisattvastatkūṭāgāraṃ praviśya tadadhiṣṭhānamavasṛjya sudhanaṃ śreṣṭhidārakamacchaṭāśabdaṃ kṛtvā etadavocata - uttiṣṭha kulaputra / eṣā dharmāṇāṃ dharmatā / aviṣṭhapanapratyupasthānalakṣaṇāḥ kulaputra sarvadharmā bodhisattvajñānādhiṣṭhitāḥ / evaṃ svabhāvāpariniṣpannā māyāsvapnapratibhāsopamāḥ / atha khalu sudhanaḥ śreṣṭhidārakaḥ tenācchaṭāśabdena tataḥ samādhervyutthitaḥ / taṃ maitreyo bodhisattva āha - dṛṣṭā te kulaputra bodhisattvādhiṣṭhānavikurvāḥ? dṛṣṭāste bodhisattvasaṃbhārabalaniṣyandāḥ? dṛṣṭā te bodhisattvapraṇidhijñānaviṭhapanā? dṛṣṭāste bodhisattvacaryāsamudāgamāḥ? śrutaṃ te bodhisattvaniryāṇamukham? dṛṣṭā te buddhakṣetravyūhāpramāṇatā? dṛṣṭā (Gv 416) te tathāgatapraṇidhivaiśāradyavaiśeṣikatā? anugatā te bodhisattvavimokṣācintyatā? anubhūtaṃ te bodhisattvasamādhiprītimukham? sudhana āha - dṛṣṭamārya kalyāṇamitrādhiṣṭhānena kalyāṇamitraprabhāveṇa / api tu khalu ārya ko nāmaiṣa vimokṣaḥ? maitreya āha - sarvatryadhvārambaṇajñānapraveśāsaṃmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ / īdṛśānāṃ ca kulaputra vimokṣāṇāmanabhilāpyānabhilāpyānāmekajātipratibaddho bodhisattvo lābhī / sudhana āha - kva asau ārya vyūho gataḥ? maitreyo bodhisattva āha - yata evāgataḥ / sudhana āha - kuta āgataḥ? maitreyo bodhisattva āha - bodhisattvajñānādhiṣṭhānābhinirhārādāgataḥ / tatraivādhiṣṭhānena tiṣṭhati / na kvacidgato nāgato na rāśībhūto na saṃcayabhūto na kūṭastho na bhāvastho na bhāvasthito na deśastho na pradeśasthaḥ / tadyathā kulaputra nāgānāṃ meghajālaṃ na kāyena cittena abhyantarībhūtaṃ na saṃcayasthitaṃ na saṃdṛśyate / nāgacetanāvaśena apramāṇā vārighārāḥ pramuñcati nāgaviṣayācintyatayā / evameva kulaputra te vyūhā nādhyātmagatā na bahirdhāgatā na ca na saṃdṛśyante, bodhisattvādhiṣṭhānavaśena, tava ca subhājanatayā / tadyathā kulaputra māyākārasya sarvamāyāgataviṣayaṃ saṃdarśayamānasya māyā na kutaścidāgacchanti na vigacchanti na kvacitsaṃkrāntim, saṃdṛśyate ca mantrauṣadhibalena / evameva kulaputrate vyūhā na kvacidgatā na kutaścidāgatā na kvacidrāśībhūtāḥ / saṃdṛśyante ca acintyabodhisattvajñānamāyāsuśikṣitvāt pūrvapraṇidhānādhiṣṭhānajñānavaśitayā / sudhana āhaṃ-kiyaddūrādārya āgacchasi? āha - anāgatagatiṃgataḥ / kulaputra bodhisattvānāṃ gatiḥ acalanāsthānagatiḥ / anālayāniketagatiḥ / acyutyupapattigatiḥ / asthānasaṃkrāntigatiḥ / acalanānutthānagatiḥ / anavekṣāniketagatiḥ / akarmavipākagatiḥ / anutpādānirodhagatiḥ / anucchedāśāśvatagatiḥ / api tu kulaputra mahākaruṇāgatirbodhisattvānāṃ vineyasattvāvekṣaṇatayā, mahāmaitrīgatirbodhisattvānāṃ duḥkhitasattvaparitrāṇatayā, śīlagatirbodhisattvānāṃ yathāśayopapattitayā, praṇidhānagatirbodhisattvānāṃ pūrvādhiṣṭhānena, abhijñāgatirbodhisattvānāṃ sarvasukhasaṃdarśanatayā, anabhisaṃskāragatirbodhisattvānāṃ sarvatathāgatapādamūlānuccalanatayā, anāyūhaviyūhagatirbodhisattvānāṃ kāyacittāsaṃpravaṇatayā, prajñopāyagatirbodhisattvānāṃ sattvānuvartanatayā, nirmāṇasaṃdarśanagatirbodhisattvānāṃ pratibhāsapratibimbanirmitaśarīrasamatayā // api ca kulaputra yadvadasi - kiyaddūrāttvamāgacchasīti / ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt / tatra gopālako nāma śreṣṭhī / taṃ buddhadharmeṣu pratiṣṭhāpya janmabhūmakānāṃ ca manuṣyāṇāṃ yathābhājanatayā dharmaṃ deśayitvā mātāpitṛjñātisaṃbandhinaśca brāhmaṇagṛhapatīn mahāyāne samādāpya / sudhana āha - katamā ārya bodhisattvānāṃ janmabhūmiḥ? āha - daśemāḥ kulaputra bodhisattvānāṃ janmabhūmayaḥ / katamā daśa? yaduta bodhicittotpādo bodhisattvānāṃ janmabhūmiḥ / bodhisattvakulajanaka adhyāśayo bodhisattvānāṃ janmabhūmiḥ / kalyāṇamitrakule janayitāḥ.......bhūmipratiṣṭhānaṃ bodhisattvānāṃ janmabhūmiḥ / pāramitākule janakaṃ........ praṇidhānābhinirhāro bodhisattvānāṃ janmabhūmiḥ / anutpattikadharmakṣāntikule (Gv 417) janakau....... / sarvadharmapratipattiḥ kulaputra bodhisattvānāṃ janmabhūmiḥ / atītānāgatapratyutpannasarvatathāgatakule janayitrī janmabhūmiḥ / imāḥ kulaputra bodhisattvānāṃ daśa janmabhūmayaḥ // prajñāpāramitā kulaputra bodhisattvānāṃ mātā, upāyakauśalyaṃ pitā, dānapāramitā stanyam, śīlapāramitā dhātrī, kṣāntīpāramitā bhūṣaṇālaṃkāraḥ, vīryapāramitā saṃvardhikā, dhyānapāramitā caryāviśuddhiḥ kalyāṇamitrāṇi śikṣācaryaḥ, sarvabodhyaṅgāni sahāyāḥ, sarvabodhisattvā bhrātaraḥ bodhicittaṃ kulam, pratipattiḥ kuladharmāḥ, bhūmyavasthānaṃ kṣāntipratilambhaḥ, kulābhijātiḥ praṇidhānābhinirhāraḥ, kulavidyālābhaḥ, caryāviśuddhiḥ, kuladharmānuvartanatā mahāyānasamādāpanā, kulavaṃśāvyavacchedaḥ abhiṣekaikajātipratibaddhatā, dharmarājeṣu putratvam, sarvatathāgatasamudāgamaḥ kulavaṃśapariśuddhiḥ / evaṃ hi kulaputra bodhisattvo 'tikrānto bhavati bālapṛthagjanabhūmim / avakrānto bhavati bodhisattvaniyāmam / saṃbhūto bhavati tathāgatakūle / pratiṣṭhito bhavati tathāgatavaṃśe / avyavacchedāya pratipanno bhavati triratnavaṃśasya / paripālanābhiyukto bhavati bodhisattvakulasya / pariśuddho bhavati jātigotreṇa / anupakruṣṭo bhavati varṇajātyoḥ / anavadyo bhavati sarvajātaḥ / adoṣaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām / kulīno bhavati uttamabuddhakulasaṃbhūto mahāpraṇidhigarbhaśarīraḥ // evaṃ kulajātisamṛddhāśca kulaputra bodhisattvāḥ pratibhāsāyatanasarvadharmaparijñātatvānna vijugupsante sarvalokopapattiṣu / nirmitopamasarvabhavopapattiparijñātatvānna saṃkliśyante sarvabhavagatyupapattisaṃvāseṣu / nirātmasarvabuddhatvānna parikhidyante sarvasattvaparipākavinayeṣu / mahāmaitrīmahākaruṇāśarīratvānna śrāmyanti sarvasattvānugraheṣu / svapnopamasaṃsārādhimuktatvānna paritrasanti sarvakalpasaṃvāseṣu / māyāmayaṃ ca skandhaparijñātatvānna krāmyanti sarvajanmacyutimaraṇasaṃdarśanena / dharmadhātuprakṛtikatvāyatanamucitvānna kṣaṇyante sarvaviṣayeṣu / marīcyupamasarvasaṃjñāgatasubhāvitatvānna muhyanti sarvasaṃsāragatiṣu / māyopamasarvadharmavikrīḍitatvādanupaliptā bhavanti sarvamāraviṣayaiḥ / sarvakāyaprabhāvitatvādavañcanīyā bhavanti sarvakleśaiḥ / upapattivaśitālabdhatvādgatiṃgatā bhavanti sarvagatiṣu / so 'haṃ kulaputra sarvalokadhātūpapattyantargatena kāyena sarvajagadrūpasamairbalaviśeṣaiḥ sarvasattvopamairniruktisaṃbhedaiḥ sarvajagadupamābhirnāmadheyavimātratābhiḥ sarvasattvādhimuktisamairīryāpathaiḥ, sarvajagadvinayapramāṇairlokānuvartanaiḥ, sarvaviśuddhisamairjanmakulopapattisaṃdarśanaiḥ, kriyāvatāramukhaiḥ sarvasattvasaṃjñānupraveśaiḥ sarvabodhisattvapraṇidhinirmāṇasamairātmabhāvasaṃdarśanaprabhāvanaiḥ sarvadharmadhātuṃ spharitvā pūrvasabhāgacaritānāṃ sattvānāṃ pranaṣṭabodhicittānāṃ paripācanārthaṃ jambudvīpe ca janmopapattisaṃdarśanārthamiha dakṣiṇāpathe māladeṣu janapadeṣu kūṭāgrāmake brāhmaṇakuleṣūpapannānāṃ mātṛpitṛjñātisaṃbandhināṃ vinayārthaṃ brāhmaṇakulajātiviśeṣeṇa caiṣāṃ jātyabhimānikānirabhimānatāyai tathāgatakule saṃjananārthamihopapannaḥ / so 'haṃ kulaputra iha dakṣiṇāpathe anenopāyena yathāśayānāṃ sattvānāṃ yathāvineyānāṃ paripākavinayaṃ kurvan ihaiva vairocanavyūhālaṃkāragarbhe kūṭāgāre (Gv 418) prativasāmi / itaścāhaṃ cyutaḥ tuṣitabhavane upapattiṃ saṃdarśayiṣyāmi yathāśaye sattvānuvartanatāyai, tuṣitakāyikānāṃ ca sabhāgacaritānāṃ devaputrāṇāṃ paripākāya, sarvakāmadhātusamatikrāntānāṃ bodhisattvapuṇyajñānanirmāṇavyūhasaṃdarśanatāyai, kāmaratitṛṣṇāvinivartanatāyai, sarvasaṃsārānityatvaparidīpanatāyai, vipattiparyavasānasarvadevopapattisaṃdarśanatāyai, cyavanākāraṃ nāma mahājñānadharmamukhamekajātibaddhairbodhisattvaiḥ sārdhaṃ saṃgāyanāya, sahaparipācitānāṃ ca tatropapattisaṃgrahaṇatāyai, śākyamunisaṃpreṣitānāṃ ca vineyakalānāṃ prabodhanatāyai / kāle paripūrṇābhiprāyasarvajñatāmadhigamiṣyāmi / bodhiprāptaṃ ca māṃ kulaputra tvaṃ punarapi drakṣyasi sārdhaṃ mañjuśriyā kalyāṇamitreṇa // api tu khalu punaḥ kulaputra - gaccha tvaṃ tameva mañjuśriyaṃ kumārabhūtam / upasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam, kathaṃ samantabhadracaryāmaṇḍalamavataritavyam, kathamabhinirhartavyam, kathaṃ praṇidhātavyam, kathaṃ vipulīkartavyam, kathamanusartavyam, kathaṃ paryadātavyam, kathaṃ praveṣṭavyam, kathaṃ paripūrayitavyam, sa te kulaputra kalyāṇamitra saṃdarśayiṣyati / tatkasya hetoḥ? sa kulaputra bodhisattvakoṭīniyutaśatasahasrāṇāṃ praṇidhānaviśeṣaḥ saṃvidyate yo mañjuśriyaḥ kumārabhūtasya / vistīrṇaḥ kulaputra mañjuśriyaḥ kumārabhūtasya caryānihāraṃ / apramāṇo mañjuśriyaḥ kumārabhūtasya praṇidhānābhinirhāraḥ apratiprasrabdho mañjuśriyaḥ kumārabhūtasya sarvabodhisattvaguṇaviśeṣābhinirhāraḥ / mātā mañjuśrīḥ kumārabhūto buddhakoṭīniyutaśatasahasrāṇām / avavādako mañjuśrīḥ kumārabhūto bodhisattvakoṭīniyutaśatasahasrāṇām / udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya / vistīrṇanāmacakro mañjuśrīḥ kumārabhūto daśadiksarvalokadhātuṣu / kathāpuruṣo mañjuśrīḥ kumārabhūto 'nabhilāpyeṣu tathāgataparṣanmaḍaleṣu / saṃvarṇito mañjuśrīḥ kumārabhūtaḥ sarvatathāgataiḥ / gambhīradharmajñānavihārī mañjuśrīḥ kumārabhūtaḥ sarvadharmayathārthadarśī / durāgatagocaro mañjuśrīḥ kumārabhūtaḥ sarvavimokṣanayeṣu / avatīrṇaḥ samantabhadrabodhisattvacaryāyām / sa te kulaputra kalyāṇamitrājanakaḥ, tathāgatakule saṃvardhakaḥ, sarvakuśalamūlānutthāpakaḥ, bodhisaṃbhārāṇāṃ darśakaḥ, bhūtakalyāṇamitrāṇāṃ samādāpakaḥ sarvaguṇeṣu avatārakaḥ, mahāpraṇidhānajāle pratiṣṭhāpakaḥ, sarvapraṇidhānābhinirhāreṣu śrāvayitā, sarvabodhisattvaguhyānāṃ saṃdarśakaḥ, sarvabodhisattvacintyatāyāḥ, sabhāgacaritaḥ pūrvajanmasaṃvāseṣu / tasmāttarhi tvaṃ kulaputra mañjuśrīpādamūlagataḥ eva mā parīttamanamutpādaya, mā parikhedaṃ janaya sarvaguṇānuśāsanīpratilambheṣu / tatkasya hetoḥ? yāvanti tvayā sudhana kalyāṇamitrāṇi dṛṣṭāni, yāvanti caryāmukhāni śrutāni, yāvanto vimokṣanayā avatīrṇāḥ, yāvantaḥ praṇidhānaviśeṣā avagāḍhāḥ, sarvaṃ mañjuśriyaḥ kumārabhūtasyānubhāvo 'dhiṣṭhānaṃ ca draṣṭavyam / sa ca mañjuśrīḥ kumārabhūtaḥ paramapāramitāprāptaḥ // atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya pādau śirāsābhivandya maitreyaṃ bodhisattvaṃ mahāsattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitreyasya bodhisattvasyāntikāt prakrāntaḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु सुधनः श्रेष्ठिदारको दशोत्तरं नगरशतमटित्वा सुमनामुखदिक्प्रत्युद्देशं गत्वा अतिष्ठत् मञ्जुश्रियं कुमारभूतं चिन्तयन् अनुविलोकयन् मञ्जुश्रियः कुमारभूतस्य दर्शनमभिलषन् प्रार्थयमानः समवधानमाकाङ्क्षमाणः । अथ खलु मञ्जुश्रीः कुमारभूतो दशोत्तराद्योजनशतात्पाणिं प्रसार्य सुमनामुखनगरस्थितस्यैव सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठाप्य एवमाह - साधु साधु कुलपुत्र न शक्यं श्रद्धेन्द्रियविरहितैः खिन्नचित्तैः लीनचित्तैरनभ्यस्तप्रयोगैः प्रत्युदावर्त्यवीर्यैरित्वरगुणसंतुष्टैरेककुशलमूलतन्मयैश्चर्याप्रणिधानाभिनिर्हाराकुशलैः कल्याणमित्रापरिगृष्टीतैर्बुद्धासमन्वाहृतैरियं धर्मता ज्ञातुम्, एष नयः एष गोचरः एष विहारो ज्ञातुं वा अवगाहयितुं वा अवतरितुं वा अधिमोक्तुं वा कल्पयितुं वा प्रत्यवगन्तुं वा प्रतिलब्धुं वा इति ॥ स तं धर्मकथया संदर्शयित्वा समादाप्य समुत्तेज्य संप्रहर्षयित्वा असंख्येयधर्ममुखसमन्वागतं कृत्वा अनन्तज्ञानमहावभासप्राप्तं कृत्वा अपर्यन्तबोधिसत्त्वधारणीप्रतिभानसमाध्यभिज्ञज्ञानवेशाविष्टं कृत्वा समन्तभद्रचर्यामण्डले ऽवतारयित्वा स्वदेशे च प्रतिष्ठाप्य सुधनस्य श्रेष्ठिदारकस्यान्तिकात् प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārako daśottaraṃ nagaraśatamaṭitvā sumanāmukhadikpratyuddeśaṃ gatvā atiṣṭhat mañjuśriyaṃ kumārabhūtaṃ cintayan anuvilokayan mañjuśriyaḥ kumārabhūtasya darśanamabhilaṣan prārthayamānaḥ samavadhānamākāṅkṣamāṇaḥ / atha khalu mañjuśrīḥ kumārabhūto daśottarādyojanaśatātpāṇiṃ prasārya sumanāmukhanagarasthitasyaiva sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha - sādhu sādhu kulaputra na śakyaṃ śraddhendriyavirahitaiḥ khinnacittaiḥ līnacittairanabhyastaprayogaiḥ pratyudāvartyavīryairitvaraguṇasaṃtuṣṭairekakuśalamūlatanmayaiścaryāpraṇidhānābhinirhārākuśalaiḥ kalyāṇamitrāparigṛṣṭītairbuddhāsamanvāhṛtairiyaṃ dharmatā jñātum, eṣa nayaḥ eṣa gocaraḥ eṣa vihāro jñātuṃ vā avagāhayituṃ vā avatarituṃ vā adhimoktuṃ vā kalpayituṃ vā pratyavagantuṃ vā pratilabdhuṃ vā iti // sa taṃ dharmakathayā saṃdarśayitvā samādāpya samuttejya saṃpraharṣayitvā asaṃkhyeyadharmamukhasamanvāgataṃ kṛtvā anantajñānamahāvabhāsaprāptaṃ kṛtvā aparyantabodhisattvadhāraṇīpratibhānasamādhyabhijñajñānaveśāviṣṭaṃ kṛtvā samantabhadracaryāmaṇḍale 'vatārayitvā svadeśe ca pratiṣṭhāpya sudhanasya śreṣṭhidārakasyāntikāt prakrāntaḥ

Sanskrit only: no published translation is held for this verse.