Library·Gandavyuhasutra·29

Gandavyuhasutra 29

विक्रीडितं संदर्शयमानमद्राक्षीत् । यथा च दशसु दिक्षु, एवं सर्वलोकधातुषु तथागतपादमूलेषु महारत्नपद्मगर्भसिंहासने निषण्णमेतदेव विक्रीडितं संदर्शयमानमद्राक्षीत् । एवं समन्ताद्दशसु दिक्षु सर्वबुद्धक्षेत्रपरमाणुरजःसमेषु एकैकस्मिन् परमाणुरजसि धर्मधातुविपुलेषु बुद्धधर्मपर्षन्मण्डलेषु सर्वतथागतपादमूलेषु समन्तभद्रं बोधिसत्त्वमद्राक्षीत् । एकैकतश्च अस्यात्मभावात्र्यध्वप्राप्तानि सर्वारम्बणानि अभिविज्ञप्यमानानि अपश्यत्प्रतिभासयोगेन, सर्वक्षेत्राण्यपि सर्वसत्त्वानपि सर्वबुद्धोत्पादानपि सर्वबोधिसत्त्वपर्षन्मण्डलान्यभिविज्ञप्यमानानपश्यत् प्रतिभासयोगेन । सर्वसत्त्वरुतानि च सर्वबुद्धाघोषांश्च सर्वतथागतधर्मचक्रप्रवर्तनानि च सर्वानुशासन्यादेशनप्रातिहार्याणि च सर्वबोधिसत्त्वसमुदागमांश्च सर्वबुद्धविक्रीडितानि चाश्रौषीत् ॥ स तदचिन्त्यं समन्तभद्रमहाबोधिसत्त्वविक्रीडितं दृष्ट्वा श्रुत्वा च दश ज्ञानपारमिताविहारान् प्रत्यलभत । कतमान् दश? यदुत एकचित्तक्षणे सर्वबुद्धक्षेत्रकायस्फरणज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतपादमूलोपसंक्रमणासंभिन्नज्ञानपारमिताविहारं प्रत्यलभत । (ग्व् ४२५) सर्वतथागतपूजोपस्थानज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतेभ्य एकैकस्मात्तथागतात्सर्वबुद्धधर्मप्रश्नपरिपृच्छासंप्रतीच्छनज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतधर्मचक्रप्रवर्तननिध्यप्तिज्ञानपारमिताविहारं प्रत्यलभत । अचिन्त्यबुद्धविकुर्वितज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्माक्षयप्रतिसंविदपरान्तकोटीगतकल्पाधिष्ठानैकधर्मपदनिर्देशज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्ममुद्राप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्मधातुनयसागरज्ञानपारमिताविहारं प्रत्यलभत । सर्वसत्त्वसंज्ञागतसंवसनज्ञानपारमिताविहारं प्रत्यलभत । एकक्षणसमन्तभद्रबोधिसत्त्वचर्याप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत । तस्यैवं ज्ञानपारमिताविहारसमन्वागतस्य सुधनस्य श्रेष्ठिदारकस्य समन्तभद्रओ बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य मूर्ध्नि प्रतिष्ठापयामास । समनन्तरप्रतिष्ठापितश्च सुधनस्य श्रेष्ठिदारकस्य समन्तभद्रेण बोधिसत्त्वेन मूर्ध्नि पाणिः, अथ तावदेवास्य सर्वबुद्धक्षेत्रपरमाणुरजःसमानि समाधिमुखान्यवक्रान्तानि । एकैकेन च समाधिना सर्वबुद्धक्षेत्रपरमाणुरजःसमांल्लोकधातुमुद्रानवतीर्णो ऽभूत् । अदृष्टपूर्वा सर्वबुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञतासंभारा उपचयमगमन् । सर्वबुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञताधर्मसंभवाः प्रादुरभवन् । सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतामहाप्रस्थानैरम्युत्थितः । सर्वबुद्धक्षेत्रपरमाणुरजःसमांश्च प्रणिधानसागरानवतीर्णः । सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतानिर्याणपथैर्निर्यातः । सर्वबुद्धक्षेत्रपरमाणुरजःसमासु च बोधिसत्त्वचर्यासु प्रसृतः । सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतावेगैर्विवर्धितः । सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वबुद्धज्ञानावभासैः प्रभावभासितः । यथा चेह सहायां लोकधातौ भगवतो वैरोचनस्य पादमूलगतः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य मुर्ध्नि प्रतिष्ठापयामास, तथा सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास । एवं समन्तात् सर्वदिग्विदिक्षु सर्वलोकधातुपरमाणुरजोन्तर्गतेष्वपि सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास । यथा भगवतो वैरोचनस्य पादमूलगतेन समन्तभद्रेण बोधिसत्त्वेन पाणिना स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तानि, एवं सर्वसमन्तभद्रात्मभावप्रसृतैः पाणिमेघैः स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तान्यभूवन् नानानयैः ॥ अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत् - दृष्टं ते कुलपुत्र मम विकुर्वितम्? आह - दृष्टमार्य । अपि तु तथागतः प्रजानन् प्रजानीयात्तावदचिन्त्यमिदं विकुर्वितम् । सो ऽवोचत् - अहं कुलपुत्र अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् विचरितः सर्वज्ञताचित्तमभिलषमाणः । एकैकस्मिंश्च महाकल्पे ऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिता बोधिचित्तं परिशोधयता । एकैकस्मिंश्च महाकल्पे सर्वत्यागसमायुक्ताः सर्वलोकविघुष्टा महायज्ञा यष्टाः । सर्वसत्त्वप्रतिपादना सर्वज्ञतापुण्यसंभारता । एकैकस्मिंश्च महाकल्पे अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्त्यागा (ग्व् ४२६) महात्यागाः कृताः, अत्यर्थत्यागाः कृताः सर्वज्ञताधर्मानभिप्रार्थयता । एकैकस्मिंश्च महाकल्पे ऽनभिलाप्यानभिलाप्यानत्मभावाः परित्यक्ताः, महाराज्यानि च परित्यक्तानि, ग्रामनगरनिगमजनपदराष्ट्रराजधान्यः परित्यक्ताः, प्रियमनापा दुस्त्यजाः परिवारसंघाः परित्यक्ताः, पुत्रदुहितृभार्याः परित्यक्ताः । स्वशरीरमांसानि परित्यक्तानि, स्वकायेभ्यो रुधिरं याचनकेभ्यः परित्यक्तम्, अस्थिमज्जाः परित्यक्ताः । अङ्गप्रत्यङ्गानि परित्यक्तानि । कर्णनासाः परित्यक्ताः । चक्षूंषि परित्यक्तानि । स्वमुखेभ्यो जिह्वेन्द्रियाणि परित्यक्तानि बुद्धज्ञानावेक्षया कायजीवितनिरपेक्षेण । एकैकस्मिंश्च महाकल्पे ऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि स्वशिरांसि परित्यक्तानि स्वकायेभ्यः सर्वलोकाभ्युद्गतमनुत्तरसर्वज्ञताशीर्षमभिप्रार्थयता । यथा च एकैकस्मिन् महाकल्पे, तथा अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु महाकल्पसागरेषु । एकैकस्मिंश्च महाकल्पे ऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागताः परमेश्वरभूतेन सत्कृता गुरुकृता मानिताः पूजिताः, चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादिताः । तेषां च अस्मिंस्तथागतानां शासने प्रव्रजिता सर्वबुद्धानुशासनीषु प्रतिपन्नः शासनं च मे तेषां संधारितम् ॥ नाभिजानामि कुलपुत्र तावद्भिः कल्पसमुद्रेरेकचित्तोत्पादमपि तथागशासने विलोपमुत्पादयितुं नाभिजानामि । तावद्भिः कल्पसमुद्रैरेकचित्तोत्पादमपि प्रतिघसहगतमुत्पादयितुमात्मग्रहचित्तं वा आत्मग्रहपरिग्रहचित्तं वा आत्मपरनानात्वचित्तं वा बोधिमार्गविप्रवासचित्तं वा संसारसंवासपरिखेदचित्तं वा अवलीनचित्तं वा आवरणसंमोहचित्तं वा उत्पादयितुमन्यत्र अपराजितज्ञानदुर्योधनगर्भबोधिचित्तात् सर्वज्ञतासंभारेषु । इति हि कुलपुत्र सर्वकल्पसागराः क्षयं व्रजेयुः तान्निर्दिशतो ये मम पूर्वयोगसंबुद्धक्षेत्रपरिशुद्धिप्रयोगाः, ये मम महाकरुणाप्रतिलब्धचित्तस्य सर्वपरित्राणपरिपाचनपरिशोधनप्रयोगाः । एवं ये बुद्धपूजोपस्थानप्रयोगाः, ये सद्धर्मपर्येष्टिहेतोर्गुरुशुश्रूषाप्रयोगाः, ये सद्धर्मपरिग्रहहेतोरात्मभावपरित्यागप्रयोगाः, ये सद्धर्मारक्षणनिदानाः स्वजीवितपरित्यागप्रयोगाः, तावद्भ्यो मे कुलपुत्र धर्मसमुद्रेभ्यो न किंचिदेकपदव्यञ्जनमपि यन्न चक्रवर्तिराज्यपरित्यागेन क्रीतम्, यन्नास्ति सर्वास्तिपरित्यागेन क्रीतं सर्वसत्त्वपरित्राणप्रयुक्तेन स्वसंततिचित्तनिध्यप्तिप्रयुक्तेन अभिमुखपरधर्मसंप्रापणप्रयुक्तेन सर्वलौकिकज्ञानालोकप्रभावनाप्रयुक्तेन सर्वलोकोत्तरज्ञानप्रभावनाप्रयुक्तेन सर्वसत्त्वसंसारसुखसंजननप्रयुक्तेन सर्वतथागतगुणसंवर्णनगुणप्रयुक्तेन । एवमनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः कल्पसागराः क्षयं व्रजेयुर्मम स्वपूर्वयोगसंपदं निर्दिशतः ॥ तेन मया कुलपुत्र अनेन एवंरूपेण संभारबलेन मूलहेतूपचयबलेन उदाराधिमुक्तिबलेन गुणप्रतिपत्तिबलेन सर्वधर्मयथावन्निध्यप्तिबलेन प्रज्ञाचक्षुर्बलेन तथागताधिष्ठानबलेन महाप्रणिधानबलेन महाकरुणाबलेन सुपरिशोधिताभिज्ञाबलेन कल्याणमित्रपरिग्रहबलेन अत्यन्तपरिशुद्धो धर्मकायः प्रतिलब्धः सर्वत्र्यध्वासंभिन्नः । अनुत्तरश्च रूपकायः परिशोधितः (ग्व् ४२७) सर्वलोकाभुद्गतः सर्वजगद्यथाशयविज्ञपनः सर्वत्रानुगतः सर्वबुद्धक्षेत्रप्रसृतः समन्तप्रतिष्ठानः सर्वतः सर्वविकुर्वितसंदर्शनः सर्वजगदभिलक्षणीयः । प्रेक्षस्व कुलपुत्र इमामात्मभावप्रतिलाभसंपदमनन्तकल्पसागरसंभूतां बहुकल्पकोटीनियुतशतसहस्रदुर्लभप्रादुर्भावां दुर्लभसंदर्शनाम् । नाहं कुलपुत्र अनवरोपितकुशलमूलानां सत्त्वानां श्रवणपथमप्यागच्छामि प्रागेव दर्शनम् । सन्ति कुलपुत्र सत्त्वाः, ये मम नामधेयश्रवणमात्रेण अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ । सन्ति दर्शनमात्रेण, सन्ति स्पर्शनमात्रेण, सन्त्यनुव्रजनमात्रेण, सन्त्यनुबन्धनमात्रेण, सन्ति स्वप्नदर्शनेन, सन्ति स्वप्ने नामधेयश्रवणेन अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ । केचित्सत्त्वा मामेकरात्रिंदिवसमनुस्मरमाणाः परिपाकं गच्छन्ति । केचिदर्धमासं केचिन्मासं केचिद्वर्षं केचिद्वर्षशतं केचित्कल्पं केचित्कल्पशतं केचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् मामनुस्मरमाणाः परिपाकं गच्छन्ति । केचिदेकजात्या परिपाकं गच्छन्ति मामनुस्मरमाणाः । केचिज्जातिशतेन, केचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्जातिपरिवर्तैः । केचित्सत्त्वा मम प्रभादर्शनेन परिपाकं गच्छन्ति । केचिद्रश्मिप्रमोक्षसंदर्शनेन, केचित्क्षेत्रप्रकम्पनेन, केचिद्रूपकायसंदर्शनेन, केचित्संप्रहर्षणेन परिपाकं गच्छन्ति । इति हि कुलपुत्र बुद्धाक्षेत्रपरमाणुरजःसमैरुपायैः सत्त्वा अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ । ये खलु पुनः कुलपुत्र सत्त्वा मम बुद्धक्षेत्रपरिशुद्धिं शृण्वन्ति, ते परिशुद्धेषु बुद्धाक्षेत्रेषूपपद्यन्ते । ये ममात्मभावपरिशुद्धिं पश्यन्ति, ते ममात्मभावे उपपद्यन्ते । पश्य कुलपुत्र इमां ममात्मभावपरिशुद्धिम् ॥ अथ खलु सुधनः श्रेष्ठिदारकः समन्तभद्रस्य बोधिसत्त्वस्य कायमुपनिध्यायन्नद्राक्षीत् एकैकस्मिन् रोमविवरे ऽनभिलाप्यबुद्धक्षेत्रसागरान् बुद्धोत्पादपरिपूर्णान् । एकैकस्मिंश्च बुद्धक्षेत्रसागरे तथागतान् बोधिसत्त्वपर्षत्सागरपरिवृतानद्राक्षीत् । सर्वांश्च तान् क्षेत्रसागरान् नानाप्रतिष्ठानान् नानासंस्थानान् नानाव्यूहान् नानाचक्रवालान् नानामेघगगनसंछन्नान् नानाबुद्धोत्पादान् नानाधर्मचक्रनिर्घोषानपश्यत् । यथा च एकैकस्मिन् रोमविवरे, तथा अनवशेषतः सर्वरोमविवरेषु सर्वलक्षणेषु सर्वानुव्यञ्जनेषु सर्वाङ्गप्रत्यङ्गेषु । एकैकस्मिंश्च क्षेत्रसागरान् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् बुद्धकायनिर्मितमेघान्निर्गम्य दशसु दिक्षु सर्वलोकधातून् स्फरित्वा अनुत्तरायां सम्यकंबोधौ सत्त्वान् परिपाचयमानानपश्यत् ॥ अथ खलु सुधनः श्रेष्ठिदारकः समन्तभद्रबोधिसत्त्वाववादानुशासन्यनुशिष्टः समन्तभद्रबोधिसत्त्वकायान्तर्गतेषु सर्वलोकधातुष्ववतीर्य सत्त्वान् परिपाचयामास । ये च खलु पुनः सुधनस्य श्रेष्ठिदारकस्य बुद्धक्षेत्रपरमाणुरजःसमकल्याणमित्रोपसंक्रमदर्शनपर्युपासनज्ञानालोककुशलमूलोपचयाः, ते समन्तभद्रबोधिसत्त्वसहदर्शनेन कुशलमूलोपचयस्य शततमीमपि कलां नोपयान्ति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीशतसहस्रतमीमपि । संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि न क्षमन्ते सप्रथमचित्तोत्पादाय यावत्समन्तभद्रस्य बोधिसत्त्वस्य दर्शनम् । अस्मिन्नन्तरे यावतीर्बुद्धक्षेत्रसागरपरंपरा अवतीर्णस्ततो ऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमगुणाः (ग्व् ४२८) समन्तभद्रबोधिसत्त्वस्यैकस्मिन् रोमविवरे बुद्धक्षेत्रसागरपरंपराः प्रतिचित्तक्षणमवतरन्ति स्म । यथा चैकस्मिन् रोमविवरे, तथैव सर्वरोमविवरेषु प्रतिचित्तक्षणमनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुं परेण अपरान्तकोटीगतकल्पाधिष्ठानलोकधातुं परेण विक्रमेण पर्यन्तं नोपजगाम । क्षेत्रसागरपरंपराणां क्षेत्रसागरगर्भाणां क्षेत्रसागरसंभेदानां क्षेत्रसागरसमवसरणानामनभिलाप्यानभिलाप्यबुद्धक्षेत्रसागरसंभवानां क्षेत्रसागरविभवानां क्षेत्रसागरव्यूहानां बुद्धोत्पादसागरगर्भाणां बुद्धोत्पादसागरसमवसरणानां बुद्धोत्पादसागरसंभवानां बुद्धोत्पादसागरविभवानां बोधिसत्त्वसागरपर्षन्मण्डलसागराणां बोधिसत्त्वपर्षन्मण्डलसागरपरंपराणां बोधिसत्त्वपर्षमण्डलसागरगर्भाणां बोधिसत्त्वपर्षन्मण्डलसागरसंभेदानां बोधिसत्त्वपर्षन्मण्डलसागरसमवसरणानां बोधिसत्त्वपर्षन्मण्डलसागरसंभवानां बोधिसत्त्वपर्षन्मण्डलसागरविभवानां सत्त्वधातुप्रवेशानां सत्त्वेन्द्रियप्रतिक्षणज्ञानप्रवेशानां सत्त्वेइन्द्रियज्ञानप्रतिवेधानां सत्त्वपरिपाकविनयानां गम्भीरबोधिसत्त्वविकुर्वितविहाराणां बोधिसत्त्वभूम्यवक्रमणविक्रमसागराणां पर्यन्तं नोपजगाम । स क्वचित्क्षेत्रे कल्पं विचरति स्म । स क्वचित्क्षेत्रे यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् विचरति स्म । ततश्च क्षेत्रान्न चलति स्म । चित्तक्षणे चित्तक्षणे च अनन्तमध्यान् क्षेत्रसागरानवतरति स्म, सत्त्वांश्च परिपाचयति स्म अनुत्तरायां सम्यक्संबोधौ । सो ऽनुपूर्वेण यावत्समन्तभद्रबोधिसत्त्वचर्याप्रणिधानसागरसमतामनुप्राप्तः सर्वतथागतसमतां सर्वक्षेत्रकायपारणसमतां चर्यापरिपूरणसमतामभिसंबोधिविकुर्वितसंदर्शनपारणसमतां धर्मचक्रप्रवर्तनसमतां प्रतिसंविद्विशुद्धिसमतां घोषोदाहारसमतां सर्वस्वराङ्गसागरसंप्रयोगसमतां बलवैशारद्यसमतां बुद्धविहारसमतां महामैत्रीमहाकरुणासमतामचिन्त्यबोधिसत्त्वविमोक्षविकुर्वितसमतामनुप्राप्तः इति ॥ अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः एवमेव लोकधातुपरंपरानभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् कल्पप्रसरानभिद्योतयमानो भूयस्या मात्रया गाथाभिगीतेन प्रणिधानमकार्षीत् - यावत केचि दशद्दिशि लोके सर्वत्रियध्वगता नरसिंहाः । तानहु वन्दमि सर्वि अशेषान् कायतु वाच मनेन प्रसन्नः

vikrīḍitaṃ saṃdarśayamānamadrākṣīt / yathā ca daśasu dikṣu, evaṃ sarvalokadhātuṣu tathāgatapādamūleṣu mahāratnapadmagarbhasiṃhāsane niṣaṇṇametadeva vikrīḍitaṃ saṃdarśayamānamadrākṣīt / evaṃ samantāddaśasu dikṣu sarvabuddhakṣetraparamāṇurajaḥsameṣu ekaikasmin paramāṇurajasi dharmadhātuvipuleṣu buddhadharmaparṣanmaṇḍaleṣu sarvatathāgatapādamūleṣu samantabhadraṃ bodhisattvamadrākṣīt / ekaikataśca asyātmabhāvātryadhvaprāptāni sarvārambaṇāni abhivijñapyamānāni apaśyatpratibhāsayogena, sarvakṣetrāṇyapi sarvasattvānapi sarvabuddhotpādānapi sarvabodhisattvaparṣanmaṇḍalānyabhivijñapyamānānapaśyat pratibhāsayogena / sarvasattvarutāni ca sarvabuddhāghoṣāṃśca sarvatathāgatadharmacakrapravartanāni ca sarvānuśāsanyādeśanaprātihāryāṇi ca sarvabodhisattvasamudāgamāṃśca sarvabuddhavikrīḍitāni cāśrauṣīt // sa tadacintyaṃ samantabhadramahābodhisattvavikrīḍitaṃ dṛṣṭvā śrutvā ca daśa jñānapāramitāvihārān pratyalabhata / katamān daśa? yaduta ekacittakṣaṇe sarvabuddhakṣetrakāyaspharaṇajñānapāramitāvihāraṃ pratyalabhata / sarvatathāgatapādamūlopasaṃkramaṇāsaṃbhinnajñānapāramitāvihāraṃ pratyalabhata / (Gv 425) sarvatathāgatapūjopasthānajñānapāramitāvihāraṃ pratyalabhata / sarvatathāgatebhya ekaikasmāttathāgatātsarvabuddhadharmapraśnaparipṛcchāsaṃpratīcchanajñānapāramitāvihāraṃ pratyalabhata / sarvatathāgatadharmacakrapravartananidhyaptijñānapāramitāvihāraṃ pratyalabhata / acintyabuddhavikurvitajñānapāramitāvihāraṃ pratyalabhata / sarvadharmākṣayapratisaṃvidaparāntakoṭīgatakalpādhiṣṭhānaikadharmapadanirdeśajñānapāramitāvihāraṃ pratyalabhata / sarvadharmamudrāpratyakṣajñānapāramitāvihāraṃ pratyalabhata / sarvadharmadhātunayasāgarajñānapāramitāvihāraṃ pratyalabhata / sarvasattvasaṃjñāgatasaṃvasanajñānapāramitāvihāraṃ pratyalabhata / ekakṣaṇasamantabhadrabodhisattvacaryāpratyakṣajñānapāramitāvihāraṃ pratyalabhata / tasyaivaṃ jñānapāramitāvihārasamanvāgatasya sudhanasya śreṣṭhidārakasya samantabhadrao bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya mūrdhni pratiṣṭhāpayāmāsa / samanantarapratiṣṭhāpitaśca sudhanasya śreṣṭhidārakasya samantabhadreṇa bodhisattvena mūrdhni pāṇiḥ, atha tāvadevāsya sarvabuddhakṣetraparamāṇurajaḥsamāni samādhimukhānyavakrāntāni / ekaikena ca samādhinā sarvabuddhakṣetraparamāṇurajaḥsamāṃllokadhātumudrānavatīrṇo 'bhūt / adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṃbhārā upacayamagaman / sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṃbhavāḥ prādurabhavan / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ / sarvabuddhakṣetraparamāṇurajaḥsamāṃśca praṇidhānasāgarānavatīrṇaḥ / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāniryāṇapathairniryātaḥ / sarvabuddhakṣetraparamāṇurajaḥsamāsu ca bodhisattvacaryāsu prasṛtaḥ / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāvegairvivardhitaḥ / sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvabuddhajñānāvabhāsaiḥ prabhāvabhāsitaḥ / yathā ceha sahāyāṃ lokadhātau bhagavato vairocanasya pādamūlagataḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya murdhni pratiṣṭhāpayāmāsa, tathā sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa / evaṃ samantāt sarvadigvidikṣu sarvalokadhātuparamāṇurajontargateṣvapi sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṃ pāṇiṃ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa / yathā bhagavato vairocanasya pādamūlagatena samantabhadreṇa bodhisattvena pāṇinā spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntāni, evaṃ sarvasamantabhadrātmabhāvaprasṛtaiḥ pāṇimeghaiḥ spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntānyabhūvan nānānayaiḥ // atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṃ śreṣṭhidārakametadavocat - dṛṣṭaṃ te kulaputra mama vikurvitam? āha - dṛṣṭamārya / api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṃ vikurvitam / so 'vocat - ahaṃ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṃ pariśodhayatā / ekaikasmiṃśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ / sarvasattvapratipādanā sarvajñatāpuṇyasaṃbhāratā / ekaikasmiṃśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā (Gv 426) mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyānatmabhāvāḥ parityaktāḥ, mahārājyāni ca parityaktāni, grāmanagaranigamajanapadarāṣṭrarājadhānyaḥ parityaktāḥ, priyamanāpā dustyajāḥ parivārasaṃghāḥ parityaktāḥ, putraduhitṛbhāryāḥ parityaktāḥ / svaśarīramāṃsāni parityaktāni, svakāyebhyo rudhiraṃ yācanakebhyaḥ parityaktam, asthimajjāḥ parityaktāḥ / aṅgapratyaṅgāni parityaktāni / karṇanāsāḥ parityaktāḥ / cakṣūṃṣi parityaktāni / svamukhebhyo jihvendriyāṇi parityaktāni buddhajñānāvekṣayā kāyajīvitanirapekṣeṇa / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni svaśirāṃsi parityaktāni svakāyebhyaḥ sarvalokābhyudgatamanuttarasarvajñatāśīrṣamabhiprārthayatā / yathā ca ekaikasmin mahākalpe, tathā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu mahākalpasāgareṣu / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ / teṣāṃ ca asmiṃstathāgatānāṃ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṃ ca me teṣāṃ saṃdhāritam // nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṃ nābhijānāmi / tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṃ vā ātmagrahaparigrahacittaṃ vā ātmaparanānātvacittaṃ vā bodhimārgavipravāsacittaṃ vā saṃsārasaṃvāsaparikhedacittaṃ vā avalīnacittaṃ vā āvaraṇasaṃmohacittaṃ vā utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṃbhāreṣu / iti hi kulaputra sarvakalpasāgarāḥ kṣayaṃ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṃbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ / evaṃ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṃcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṃ sarvasattvaparitrāṇaprayuktena svasaṃtaticittanidhyaptiprayuktena abhimukhaparadharmasaṃprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṃsārasukhasaṃjananaprayuktena sarvatathāgataguṇasaṃvarṇanaguṇaprayuktena / evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṃ vrajeyurmama svapūrvayogasaṃpadaṃ nirdiśataḥ // tena mayā kulaputra anena evaṃrūpeṇa saṃbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṃbhinnaḥ / anuttaraśca rūpakāyaḥ pariśodhitaḥ (Gv 427) sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṃdarśanaḥ sarvajagadabhilakṣaṇīyaḥ / prekṣasva kulaputra imāmātmabhāvapratilābhasaṃpadamanantakalpasāgarasaṃbhūtāṃ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṃ durlabhasaṃdarśanām / nāhaṃ kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ śravaṇapathamapyāgacchāmi prāgeva darśanam / santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / kecitsattvā māmekarātriṃdivasamanusmaramāṇāḥ paripākaṃ gacchanti / kecidardhamāsaṃ kecinmāsaṃ kecidvarṣaṃ kecidvarṣaśataṃ kecitkalpaṃ kecitkalpaśataṃ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṃ gacchanti / kecidekajātyā paripākaṃ gacchanti māmanusmaramāṇāḥ / kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ / kecitsattvā mama prabhādarśanena paripākaṃ gacchanti / kecidraśmipramokṣasaṃdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṃdarśanena, kecitsaṃpraharṣaṇena paripākaṃ gacchanti / iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṃ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante / ye mamātmabhāvapariśuddhiṃ paśyanti, te mamātmabhāve upapadyante / paśya kulaputra imāṃ mamātmabhāvapariśuddhim // atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya kāyamupanidhyāyannadrākṣīt ekaikasmin romavivare 'nabhilāpyabuddhakṣetrasāgarān buddhotpādaparipūrṇān / ekaikasmiṃśca buddhakṣetrasāgare tathāgatān bodhisattvaparṣatsāgaraparivṛtānadrākṣīt / sarvāṃśca tān kṣetrasāgarān nānāpratiṣṭhānān nānāsaṃsthānān nānāvyūhān nānācakravālān nānāmeghagaganasaṃchannān nānābuddhotpādān nānādharmacakranirghoṣānapaśyat / yathā ca ekaikasmin romavivare, tathā anavaśeṣataḥ sarvaromavivareṣu sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvāṅgapratyaṅgeṣu / ekaikasmiṃśca kṣetrasāgarān sarvabuddhakṣetraparamāṇurajaḥsamān buddhakāyanirmitameghānnirgamya daśasu dikṣu sarvalokadhātūn spharitvā anuttarāyāṃ samyakaṃbodhau sattvān paripācayamānānapaśyat // atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrabodhisattvāvavādānuśāsanyanuśiṣṭaḥ samantabhadrabodhisattvakāyāntargateṣu sarvalokadhātuṣvavatīrya sattvān paripācayāmāsa / ye ca khalu punaḥ sudhanasya śreṣṭhidārakasya buddhakṣetraparamāṇurajaḥsamakalyāṇamitropasaṃkramadarśanaparyupāsanajñānālokakuśalamūlopacayāḥ, te samantabhadrabodhisattvasahadarśanena kuśalamūlopacayasya śatatamīmapi kalāṃ nopayānti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi / saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamante saprathamacittotpādāya yāvatsamantabhadrasya bodhisattvasya darśanam / asminnantare yāvatīrbuddhakṣetrasāgaraparaṃparā avatīrṇastato 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamaguṇāḥ (Gv 428) samantabhadrabodhisattvasyaikasmin romavivare buddhakṣetrasāgaraparaṃparāḥ praticittakṣaṇamavataranti sma / yathā caikasmin romavivare, tathaiva sarvaromavivareṣu praticittakṣaṇamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuṃ pareṇa aparāntakoṭīgatakalpādhiṣṭhānalokadhātuṃ pareṇa vikrameṇa paryantaṃ nopajagāma / kṣetrasāgaraparaṃparāṇāṃ kṣetrasāgaragarbhāṇāṃ kṣetrasāgarasaṃbhedānāṃ kṣetrasāgarasamavasaraṇānāmanabhilāpyānabhilāpyabuddhakṣetrasāgarasaṃbhavānāṃ kṣetrasāgaravibhavānāṃ kṣetrasāgaravyūhānāṃ buddhotpādasāgaragarbhāṇāṃ buddhotpādasāgarasamavasaraṇānāṃ buddhotpādasāgarasaṃbhavānāṃ buddhotpādasāgaravibhavānāṃ bodhisattvasāgaraparṣanmaṇḍalasāgarāṇāṃ bodhisattvaparṣanmaṇḍalasāgaraparaṃparāṇāṃ bodhisattvaparṣamaṇḍalasāgaragarbhāṇāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhedānāṃ bodhisattvaparṣanmaṇḍalasāgarasamavasaraṇānāṃ bodhisattvaparṣanmaṇḍalasāgarasaṃbhavānāṃ bodhisattvaparṣanmaṇḍalasāgaravibhavānāṃ sattvadhātupraveśānāṃ sattvendriyapratikṣaṇajñānapraveśānāṃ sattveindriyajñānaprativedhānāṃ sattvaparipākavinayānāṃ gambhīrabodhisattvavikurvitavihārāṇāṃ bodhisattvabhūmyavakramaṇavikramasāgarāṇāṃ paryantaṃ nopajagāma / sa kvacitkṣetre kalpaṃ vicarati sma / sa kvacitkṣetre yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicarati sma / tataśca kṣetrānna calati sma / cittakṣaṇe cittakṣaṇe ca anantamadhyān kṣetrasāgarānavatarati sma, sattvāṃśca paripācayati sma anuttarāyāṃ samyaksaṃbodhau / so 'nupūrveṇa yāvatsamantabhadrabodhisattvacaryāpraṇidhānasāgarasamatāmanuprāptaḥ sarvatathāgatasamatāṃ sarvakṣetrakāyapāraṇasamatāṃ caryāparipūraṇasamatāmabhisaṃbodhivikurvitasaṃdarśanapāraṇasamatāṃ dharmacakrapravartanasamatāṃ pratisaṃvidviśuddhisamatāṃ ghoṣodāhārasamatāṃ sarvasvarāṅgasāgarasaṃprayogasamatāṃ balavaiśāradyasamatāṃ buddhavihārasamatāṃ mahāmaitrīmahākaruṇāsamatāmacintyabodhisattvavimokṣavikurvitasamatāmanuprāptaḥ iti // atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṃparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt - yāvata keci daśaddiśi loke sarvatriyadhvagatā narasiṃhāḥ / tānahu vandami sarvi aśeṣān kāyatu vāca manena prasannaḥ

Sanskrit only: no published translation is held for this verse.

क्षेत्ररजोपमकायप्रमाणैः सर्वजिनान करोमि प्रणामम् । सर्वजिनाभिमुखेन मनेन भद्रचरीप्रणिधानबलेन

kṣetrarajopamakāyapramāṇaiḥ sarvajināna karomi praṇāmam / sarvajinābhimukhena manena bhadracarīpraṇidhānabalena

Sanskrit only: no published translation is held for this verse.

एवमशेषत धर्मतधातुं सर्वाधिमुच्यमि पूर्ण जिनेभिः

evamaśeṣata dharmatadhātuṃ sarvādhimucyami pūrṇa jinebhiḥ

Sanskrit only: no published translation is held for this verse.

तेषु च अक्षयवर्णसमुद्रान् सर्वस्वराङ्गसमुद्ररुतेभिः । सर्वजिनान गुणान् भणमानस्तान् सुगतान् स्तवमी अहु सर्वान्

teṣu ca akṣayavarṇasamudrān sarvasvarāṅgasamudrarutebhiḥ / sarvajināna guṇān bhaṇamānastān sugatān stavamī ahu sarvān

Sanskrit only: no published translation is held for this verse.

पुष्पवरेभि च माल्यवरेभिर्वाद्यविलेपनछत्रवरेभिः । दीपवरेभि च धूपवरेभिः पूजन तेष जिनान करोमि

puṣpavarebhi ca mālyavarebhirvādyavilepanachatravarebhiḥ / dīpavarebhi ca dhūpavarebhiḥ pūjana teṣa jināna karomi

Sanskrit only: no published translation is held for this verse.

वस्त्रवरेभि च गन्धवरेभिश्चूर्णपुटेभि च मेरुसमेभिः । सर्वविशिष्टवियूहवरेभिः पूजन तेष जिनान करोमि

vastravarebhi ca gandhavarebhiścūrṇapuṭebhi ca merusamebhiḥ / sarvaviśiṣṭaviyūhavarebhiḥ pūjana teṣa jināna karomi

Sanskrit only: no published translation is held for this verse.

या च अनुत्तर पूज उदारा तानधिमुच्यमि सर्वजिनानाम् । भद्रचरीअधिमुक्तिबलेन वन्दमि पूजयमी जिन सर्वान्

yā ca anuttara pūja udārā tānadhimucyami sarvajinānām / bhadracarīadhimuktibalena vandami pūjayamī jina sarvān

Sanskrit only: no published translation is held for this verse.

यच्च कृतं मयि पापु भवेय्या रागतु द्वेषतु मोहवशेन । कायतु वाच मनेन तथैव तं प्रतिदेशयमी अहु सर्वम्

yacca kṛtaṃ mayi pāpu bhaveyyā rāgatu dveṣatu mohavaśena / kāyatu vāca manena tathaiva taṃ pratideśayamī ahu sarvam

Sanskrit only: no published translation is held for this verse.

यच्च दशद्दिशि पुण्य जगस्य शैक्ष अशैक्षप्रत्येकजिनानाम् । बुद्धसुतानथ सर्वजिनानां तं अनुमोदयमी अहु सर्वम्

yacca daśaddiśi puṇya jagasya śaikṣa aśaikṣapratyekajinānām / buddhasutānatha sarvajinānāṃ taṃ anumodayamī ahu sarvam

Sanskrit only: no published translation is held for this verse.

ये च दशद्दिशि लोकप्रदीपा बोधिविबुद्ध असङ्गतप्राप्ताः । तानहु सर्वि अध्येषमि नाथां चक्रु अनुत्तरु वर्तनतायै

ye ca daśaddiśi lokapradīpā bodhivibuddha asaṅgataprāptāḥ / tānahu sarvi adhyeṣami nāthāṃ cakru anuttaru vartanatāyai

Sanskrit only: no published translation is held for this verse.

क्षेत्ररजोपमकल्प स्थिहन्तु सर्वजगस्य हिताय सुखाय

kṣetrarajopamakalpa sthihantu sarvajagasya hitāya sukhāya

Sanskrit only: no published translation is held for this verse.

वन्दनपूजनदेशनताय मोदनध्येषणयाचनताय । यच्च शुभं मयि संचितु किंचिद्बोधयि नामयमी अहु सर्वम्

vandanapūjanadeśanatāya modanadhyeṣaṇayācanatāya / yacca śubhaṃ mayi saṃcitu kiṃcidbodhayi nāmayamī ahu sarvam

Sanskrit only: no published translation is held for this verse.

पूजित भोन्तु अतीतक बुद्धा ये च घ्रियन्ति दशद्दिशि लोके । ये च अनागत ते लघु भोन्तु पूर्णमनोरथ बोधिविबुद्धाः

pūjita bhontu atītaka buddhā ye ca ghriyanti daśaddiśi loke / ye ca anāgata te laghu bhontu pūrṇamanoratha bodhivibuddhāḥ

Sanskrit only: no published translation is held for this verse.

यावत् केचि दशद्दिशि क्षेत्रास्ते परिशुद्ध भवन्तु उदाराः । बोधिद्रुमेन्द्रगतेभि जिनेभिर्बुद्धसुतेभि च भोन्तु प्रपूर्णाः

yāvat keci daśaddiśi kṣetrāste pariśuddha bhavantu udārāḥ / bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapūrṇāḥ

Sanskrit only: no published translation is held for this verse.

यावत् केचि दशद्दिशि सत्त्वास्ते सुखिताः सद भोन्तु अरोगाः । सर्वजगस्य च धर्मिकु अर्थो भोन्तु प्रदक्षिणु ऋध्यतु आशा

yāvat keci daśaddiśi sattvāste sukhitāḥ sada bhontu arogāḥ / sarvajagasya ca dharmiku artho bhontu pradakṣiṇu ṛdhyatu āśā

Sanskrit only: no published translation is held for this verse.

बोधिचरिं च अहं चरमाणो भवि जातिस्मरु सर्वगतीषु । सर्वसु जन्मसु च्युत्युपपत्ती प्रव्रजितो अहु नित्यु भवेय्या

bodhicariṃ ca ahaṃ caramāṇo bhavi jātismaru sarvagatīṣu / sarvasu janmasu cyutyupapattī pravrajito ahu nityu bhaveyyā

Sanskrit only: no published translation is held for this verse.

सर्वजिनाननुशिक्षयमाणो भद्रचरिं परिपूरयमाणः । शीलचरिं विमलां परिशुद्धां नित्यमखण्डमच्छिद्र चरेयम्

sarvajinānanuśikṣayamāṇo bhadracariṃ paripūrayamāṇaḥ / śīlacariṃ vimalāṃ pariśuddhāṃ nityamakhaṇḍamacchidra careyam

Sanskrit only: no published translation is held for this verse.

देवरुतेभि च नागरुतेभिर्यक्षकुम्भाण्डमनुष्यरुतेभिः । यानि च सर्वरुतानि जगस्य सर्वरुतेष्वहु देशयि धर्मम्

devarutebhi ca nāgarutebhiryakṣakumbhāṇḍamanuṣyarutebhiḥ / yāni ca sarvarutāni jagasya sarvaruteṣvahu deśayi dharmam

Sanskrit only: no published translation is held for this verse.

ये ऽपि च पापक आवरणीयास्तेषु परिक्षयु भोतु अशेषम्

ye 'pi ca pāpaka āvaraṇīyāsteṣu parikṣayu bhotu aśeṣam

Sanskrit only: no published translation is held for this verse.

कर्मतु क्लेशतु मारपथातो लोकगतीषु विमुक्तु चरेयम् । पद्म यथा सलिलेन अलिप्तः सूर्य शशी गगनेव असक्तः

karmatu kleśatu mārapathāto lokagatīṣu vimuktu careyam / padma yathā salilena aliptaḥ sūrya śaśī gaganeva asaktaḥ

Sanskrit only: no published translation is held for this verse.

सर्वि अपायदुखां प्रशमन्तो सर्वजगत् सुखि स्थापयमानः । सर्वजगस्य हिताय चरेयं यावत क्षेत्रपथा दिशतासु

sarvi apāyadukhāṃ praśamanto sarvajagat sukhi sthāpayamānaḥ / sarvajagasya hitāya careyaṃ yāvata kṣetrapathā diśatāsu

Sanskrit only: no published translation is held for this verse.

सत्त्वचरिं अनुवर्तयमानो बोधिचरिं परिपुरयमाणः । भद्रचरिं च प्रभावयमानः सर्वि अनागतकल्प चरेयम्

sattvacariṃ anuvartayamāno bodhicariṃ paripurayamāṇaḥ / bhadracariṃ ca prabhāvayamānaḥ sarvi anāgatakalpa careyam

Sanskrit only: no published translation is held for this verse.

ये च सभागत मम चर्याये तेभि समागमु नित्यु भवेय्या । कायतु वाचतु चेतनतो वा एकचरि प्रणिधान चरेयम्

ye ca sabhāgata mama caryāye tebhi samāgamu nityu bhaveyyā / kāyatu vācatu cetanato vā ekacari praṇidhāna careyam

Sanskrit only: no published translation is held for this verse.

ये ऽपि च मित्रा मम हितकामा भद्रचरीय निदर्शयितारः । तेभि समागमु नित्यु भवेय्या तांश्च अहं न विरागयि जातु

ye 'pi ca mitrā mama hitakāmā bhadracarīya nidarśayitāraḥ / tebhi samāgamu nityu bhaveyyā tāṃśca ahaṃ na virāgayi jātu

Sanskrit only: no published translation is held for this verse.

संमुख नित्यमहं जिन पश्ये बुद्धसुतेभि परीवृतु नाथान् । तेषु च पूज करेय उदारां सर्वि अनागतकल्पमखिन्नः

saṃmukha nityamahaṃ jina paśye buddhasutebhi parīvṛtu nāthān / teṣu ca pūja kareya udārāṃ sarvi anāgatakalpamakhinnaḥ

Sanskrit only: no published translation is held for this verse.

धारयमाणु जिनान सद्धर्मं बोधिचरिं परिदीपयमानः । भद्रचरिं च विशोधयमानः सर्वि अनागतकल्प चरेयम्

dhārayamāṇu jināna saddharmaṃ bodhicariṃ paridīpayamānaḥ / bhadracariṃ ca viśodhayamānaḥ sarvi anāgatakalpa careyam

Sanskrit only: no published translation is held for this verse.

सर्वभवेषु च संसरमाणः पुण्यतु ज्ञानतु अक्षयप्राप्तः । प्रज्ञौपायसमाधिविमोक्षैः सर्वगुणैर्भवि अक्षयकोशः

sarvabhaveṣu ca saṃsaramāṇaḥ puṇyatu jñānatu akṣayaprāptaḥ / prajñaupāyasamādhivimokṣaiḥ sarvaguṇairbhavi akṣayakośaḥ

Sanskrit only: no published translation is held for this verse.

एकरजाग्रि रजोपमक्षेत्रा तत्र च क्षेत्रि अचिन्तिय बुद्धान् । बुद्धसुतान निषण्णकु मध्ये पश्यिय बोधिचरिं चरमाणः

ekarajāgri rajopamakṣetrā tatra ca kṣetri acintiya buddhān / buddhasutāna niṣaṇṇaku madhye paśyiya bodhicariṃ caramāṇaḥ

Sanskrit only: no published translation is held for this verse.

एवमशेषत सर्वदिशासु बालपथेषु त्रियध्वप्रमाणान् । बुद्धसमुद्र थ क्षेत्रसमुद्रानोतरि चारिककल्पसमुद्रान्

evamaśeṣata sarvadiśāsu bālapatheṣu triyadhvapramāṇān / buddhasamudra tha kṣetrasamudrānotari cārikakalpasamudrān

Sanskrit only: no published translation is held for this verse.

एकस्वराङ्गसमुद्ररुतेभिः सर्वजिनान स्वराङ्गविशुद्धिम् । सर्वजिनान यथाशयघोषान् बुद्धसरस्वतिमोतरि नित्यम्

ekasvarāṅgasamudrarutebhiḥ sarvajināna svarāṅgaviśuddhim / sarvajināna yathāśayaghoṣān buddhasarasvatimotari nityam

Sanskrit only: no published translation is held for this verse.

तेषु च अक्षयघोषरुतेषु सर्वत्रियध्वगतान जिनानाम् । चक्रनयं परिवर्तयमानो बुद्धिबलेन अहं प्रविशेयम्

teṣu ca akṣayaghoṣaruteṣu sarvatriyadhvagatāna jinānām / cakranayaṃ parivartayamāno buddhibalena ahaṃ praviśeyam

Sanskrit only: no published translation is held for this verse.

एकक्षणेन अनागत सर्वान् कल्पप्रवेश अहं प्रविशेयम् । ये ऽपि च कल्प त्रियध्वप्रमाणास्तान् क्षणकोटिप्रविष्ट चरेयम्

ekakṣaṇena anāgata sarvān kalpapraveśa ahaṃ praviśeyam / ye 'pi ca kalpa triyadhvapramāṇāstān kṣaṇakoṭipraviṣṭa careyam

Sanskrit only: no published translation is held for this verse.

ये च त्रियध्वगता नरसिंहास्तानहु पश्यिय एकक्षणेन । तेषु च गोचरिमोतरि नित्यं मायगतेन विमोक्षबलेन

ye ca triyadhvagatā narasiṃhāstānahu paśyiya ekakṣaṇena / teṣu ca gocarimotari nityaṃ māyagatena vimokṣabalena

Sanskrit only: no published translation is held for this verse.

एवमशेषत सर्वदिशासु ओतरि क्षेत्रवियूह जिनानाम्

evamaśeṣata sarvadiśāsu otari kṣetraviyūha jinānām

Sanskrit only: no published translation is held for this verse.

ये च आनागत लोकप्रदीपास्तेषु विबुध्यन चक्रप्रवृत्तिम् । निर्वृतिदर्शननिष्ठ प्रशान्तिं सर्वि अहं उपसंक्रमि नाथान्

ye ca ānāgata lokapradīpāsteṣu vibudhyana cakrapravṛttim / nirvṛtidarśananiṣṭha praśāntiṃ sarvi ahaṃ upasaṃkrami nāthān

Sanskrit only: no published translation is held for this verse.

ऋद्धिबलेन समन्तजवेन ज्ञानबलेन समन्तमुखेन । चर्यबलेन समन्तगुणेन मैत्रबलेन समन्तगतेन

ṛddhibalena samantajavena jñānabalena samantamukhena / caryabalena samantaguṇena maitrabalena samantagatena

Sanskrit only: no published translation is held for this verse.

पुण्यबलेन समन्तशुभेन ज्ञानबलेन असङ्गगतेन । प्रज्ञौपायसमाधिबलेन बोधिबलं समुदानयमानः

puṇyabalena samantaśubhena jñānabalena asaṅgagatena / prajñaupāyasamādhibalena bodhibalaṃ samudānayamānaḥ

Sanskrit only: no published translation is held for this verse.

कर्मबलं परिशोधयमानः क्लेशबलं परिमर्दयमानः । मारबलं अबलंकरमाणः पूरयि भद्रचरीबल सर्वान्

karmabalaṃ pariśodhayamānaḥ kleśabalaṃ parimardayamānaḥ / mārabalaṃ abalaṃkaramāṇaḥ pūrayi bhadracarībala sarvān

Sanskrit only: no published translation is held for this verse.

क्षेत्रसमुद्र विशोधयमानः सत्त्वसमुद्र विमोचयमानः । धर्मसमुद्र विपश्ययमानो ज्ञानसमुद्र विगाहयमानः

kṣetrasamudra viśodhayamānaḥ sattvasamudra vimocayamānaḥ / dharmasamudra vipaśyayamāno jñānasamudra vigāhayamānaḥ

Sanskrit only: no published translation is held for this verse.

चर्यसमुद्र विशोधयमानः प्रणिधिसमुद्र प्रपूरयमाणः । बुद्धसमुद्र प्रपूजयमानः कल्पसमुद्र चरेयमखिन्नः

caryasamudra viśodhayamānaḥ praṇidhisamudra prapūrayamāṇaḥ / buddhasamudra prapūjayamānaḥ kalpasamudra careyamakhinnaḥ

Sanskrit only: no published translation is held for this verse.

ये च त्रियध्वगतान जिनानां बोधिचरिप्रणिधानविशेषाः । तानहु पूरयि सर्वि अशेषान् भद्रचरीय विबुध्यिय बोधिम्

ye ca triyadhvagatāna jinānāṃ bodhicaripraṇidhānaviśeṣāḥ / tānahu pūrayi sarvi aśeṣān bhadracarīya vibudhyiya bodhim

Sanskrit only: no published translation is held for this verse.

ज्येष्ठकु यः सुतु सर्वजिनानां यस्य च नाम समन्ततभद्रः । तस्य विदुस्य सभागचरीये नामयमी कुशलं इमु सर्वम्

jyeṣṭhaku yaḥ sutu sarvajinānāṃ yasya ca nāma samantatabhadraḥ / tasya vidusya sabhāgacarīye nāmayamī kuśalaṃ imu sarvam

Sanskrit only: no published translation is held for this verse.

कायतु वाच मनस्य विशुद्धिश्चर्यविशुद्ध्यथ क्षेत्रविशुद्धिः । यादृश नामन भद्र विदुस्य तादृश भोतु समं मम तेन

kāyatu vāca manasya viśuddhiścaryaviśuddhyatha kṣetraviśuddhiḥ / yādṛśa nāmana bhadra vidusya tādṛśa bhotu samaṃ mama tena

Sanskrit only: no published translation is held for this verse.

भद्रचरीय समन्तशुभाये मञ्जुशिरिप्रणिधान चरेयम् । सर्वि अनागत कल्पमखिन्नः पूरयि तां क्रिय सर्वि अशेषाम्

bhadracarīya samantaśubhāye mañjuśiripraṇidhāna careyam / sarvi anāgata kalpamakhinnaḥ pūrayi tāṃ kriya sarvi aśeṣām

Sanskrit only: no published translation is held for this verse.

नो च प्रमाणु भवेय्य चरीये नो च प्रमाणु भवेय्य गुणानाम् । अप्रमाण चरियाय स्थिहित्वा जानमि सर्वि विकुर्वितु तेषाम्

no ca pramāṇu bhaveyya carīye no ca pramāṇu bhaveyya guṇānām / apramāṇa cariyāya sthihitvā jānami sarvi vikurvitu teṣām

Sanskrit only: no published translation is held for this verse.

यावत निष्ठ नभस्य भवेय्या सत्त्व अशेषत निष्ठ तथैव । कर्मतु क्लेशतु यावत निष्ठा तावतनिष्ठ मम प्रणिधानम्

yāvata niṣṭha nabhasya bhaveyyā sattva aśeṣata niṣṭha tathaiva / karmatu kleśatu yāvata niṣṭhā tāvataniṣṭha mama praṇidhānam

Sanskrit only: no published translation is held for this verse.

ये च दशद्दिशि क्षेत्र अनन्ता रथअलंकृतु दद्यु जिनानाम् । दिव्य च मानुष सौख्यविशिष्टां क्षेत्ररजोपम कल्प ददेयम्

ye ca daśaddiśi kṣetra anantā rathaalaṃkṛtu dadyu jinānām / divya ca mānuṣa saukhyaviśiṣṭāṃ kṣetrarajopama kalpa dadeyam

Sanskrit only: no published translation is held for this verse.

यश्च इमं परिणामनराजं श्रुत्व सकृज्जनयेदधिमुक्तिम् । बोधिवरामनुप्रार्थयमानो अग्रु विशिष्ट भवेदिमु पुण्यम्

yaśca imaṃ pariṇāmanarājaṃ śrutva sakṛjjanayedadhimuktim / bodhivarāmanuprārthayamāno agru viśiṣṭa bhavedimu puṇyam

Sanskrit only: no published translation is held for this verse.

वर्जित तेन भवन्ति अपाया वर्जित तेन भवन्ति कुमित्राः । क्षिप्रु स पश्यति तं अमिताभं यस्यिमु भद्रचरिप्रणिधानम्

varjita tena bhavanti apāyā varjita tena bhavanti kumitrāḥ / kṣipru sa paśyati taṃ amitābhaṃ yasyimu bhadracaripraṇidhānam

Sanskrit only: no published translation is held for this verse.

लाभ सुलब्ध सुजीवितु तेषां स्वागत ते इमु मानुष जन्म । यादृश सो हि समन्ततभद्रस्ते ऽपि तथा नचिरेण भवन्ति

lābha sulabdha sujīvitu teṣāṃ svāgata te imu mānuṣa janma / yādṛśa so hi samantatabhadraste 'pi tathā nacireṇa bhavanti

Sanskrit only: no published translation is held for this verse.

पापक पञ्च अनन्तरियाणि येन अज्ञानवशेन कृतानि । सो इमु भद्रचरिं भणमानः क्षिप्रु परिक्षयु नेति अशेषम्

pāpaka pañca anantariyāṇi yena ajñānavaśena kṛtāni / so imu bhadracariṃ bhaṇamānaḥ kṣipru parikṣayu neti aśeṣam

Sanskrit only: no published translation is held for this verse.

ज्ञानतु रूपतु लक्षणतश्च वर्णतु गोत्रतु भोतिरुपेतः । तीर्थिकमारगणेभिरघृष्यः पूजितु भोति स सर्वत्रिलोके

jñānatu rūpatu lakṣaṇataśca varṇatu gotratu bhotirupetaḥ / tīrthikamāragaṇebhiraghṛṣyaḥ pūjitu bhoti sa sarvatriloke

Sanskrit only: no published translation is held for this verse.

क्षिप्रु स गच्छति बोधिद्रुमेन्द्रं गत्व निषीदति सत्त्वहिताय । बुध्यति बोधि प्रवर्तयि चक्रं धर्षति मारु ससैन्यकु सर्वम्

kṣipru sa gacchati bodhidrumendraṃ gatva niṣīdati sattvahitāya / budhyati bodhi pravartayi cakraṃ dharṣati māru sasainyaku sarvam

Sanskrit only: no published translation is held for this verse.

यो इमु भद्रचरिप्रणिधानं धारयि वाचयि देशयितो वा । बुद्ध विजानति यो ऽत्र विपाको बोधि विशिष्ट म काङ्क्ष जनेथ

yo imu bhadracaripraṇidhānaṃ dhārayi vācayi deśayito vā / buddha vijānati yo 'tra vipāko bodhi viśiṣṭa ma kāṅkṣa janetha

Sanskrit only: no published translation is held for this verse.

मञ्जुशिरी यथ जानति शूरः सो च समन्ततभद्र तथैव । तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वम्

mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva / teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvam

Sanskrit only: no published translation is held for this verse.

सर्वत्रियध्वगतेभि जिनेभिर्या परिणामन वर्णित अग्रा । ताय अहं कुशलं इमु सर्वं नामयमी वरभद्रचरीये

sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā / tāya ahaṃ kuśalaṃ imu sarvaṃ nāmayamī varabhadracarīye

Sanskrit only: no published translation is held for this verse.

कालक्रियां च अहं करमाणो आवरणान् विनिवर्तिय सर्वान् । संमुख पश्यिय तं अमिताभं तं च सुखावतिक्षेत्र व्रजेयम्

kālakriyāṃ ca ahaṃ karamāṇo āvaraṇān vinivartiya sarvān / saṃmukha paśyiya taṃ amitābhaṃ taṃ ca sukhāvatikṣetra vrajeyam

Sanskrit only: no published translation is held for this verse.

तत्र गतस्य इमि प्रणिधाना आमुखि सर्वि भवेय्यु समग्रा । तांश्च अहं परिपूर्य अशेषान् सत्त्वहितं करि यावत लोके

tatra gatasya imi praṇidhānā āmukhi sarvi bhaveyyu samagrā / tāṃśca ahaṃ paripūrya aśeṣān sattvahitaṃ kari yāvata loke

Sanskrit only: no published translation is held for this verse.

तहि जिनमण्डलि शोभनि रम्ये पद्मवरे रुचिरे उपपन्नः । व्याकरणं अहु तत्र लभेय्या संमुखतो अभिताभजिनस्य

tahi jinamaṇḍali śobhani ramye padmavare rucire upapannaḥ / vyākaraṇaṃ ahu tatra labheyyā saṃmukhato abhitābhajinasya

Sanskrit only: no published translation is held for this verse.

व्याकरणं प्रतिलभ्य त तस्मिन् निर्मितकोटिशतेभिरनेकैः । सत्त्वहितानि बहून्यहु कुर्यां दिक्षु दशस्वपि बुद्धिबलेन

vyākaraṇaṃ pratilabhya ta tasmin nirmitakoṭiśatebhiranekaiḥ / sattvahitāni bahūnyahu kuryāṃ dikṣu daśasvapi buddhibalena

Sanskrit only: no published translation is held for this verse.

भद्रचरिप्रणिधान पठित्वा यत्कुशलं मयि संचितु किंचित् । एकक्षणेन समृध्यतु सर्वं तेन जगस्य शुभं प्रणिधानम्

bhadracaripraṇidhāna paṭhitvā yatkuśalaṃ mayi saṃcitu kiṃcit / ekakṣaṇena samṛdhyatu sarvaṃ tena jagasya śubhaṃ praṇidhānam

Sanskrit only: no published translation is held for this verse.

भद्रचरिं परिणाम्य यदाप्तं पुण्यमनन्तमतीव विशिष्टम् । तेन जगद्व्यसनौघनिमग्नं यात्वमिताभपुरिं वरमेव

bhadracariṃ pariṇāmya yadāptaṃ puṇyamanantamatīva viśiṣṭam / tena jagadvyasanaughanimagnaṃ yātvamitābhapuriṃ varameva

Sanskrit only: no published translation is held for this verse.