अथ खलु आयुष्मान् शारिपुत्रो गच्छन्नेव मार्गं सर्वास्तान् भिक्षूनवलोक्य सागरबुद्धिं भिक्षुमामन्त्रयामास - पश्य सागरबुद्धे मञ्जुश्रियो बोधिसत्त्वस्य कायपरिशुद्धिमचिन्त्यां सदेवकेन लोकेन, लक्षणानुव्यञ्जनविचित्रितां प्रभामण्डलपरिशुद्धिं च, अप्रमेयसत्त्वसंजननीरश्मिजालव्यूहं च, अपरिमाणसर्वदुःखप्रशमनं परिवारसंपदं च, पूर्वकुशलमूलसुपरिगृहीतान् मार्गव्यूहांश्च गच्छतो ऽष्टापदो मार्गः संतिष्ठते । मार्गविक्रमव्यूहांश्च सर्वदिग्मण्डलाभिमुखान् वर्तमानान् पुण्यसम्यग्व्यूहांश्च वामदक्षिणेन महानिधानान्युद्वेलानि भवन्ति । पूर्वबुद्धोपस्थानकुशलमूलनिष्यन्दैश्च सर्ववृक्षकोशेभ्यो व्यूहा निर्गच्छन्ति । सर्वलोकेन्द्राः पूजामेघानभिप्रवर्षन्तः प्रणमन्ति । दशभ्यो दिग्भ्यः सर्वतथागतोर्णाकोशेभ्यो रश्मिजालमण्डलानि निश्चरित्वा सर्वबुद्धधर्मान्निगर्जमानान् मूर्ध्नि निपतन्ति । एवंप्रमुखानायुष्मान् शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य अपरिमाणान् मार्गक्रमणगुणव्यूहांस्तेषां भिक्षूणां संदर्शयति, भाषते उदीरयति प्रभावयति संवर्णयति विवरति विभजति उत्तानीकरोति । यथा यथा स्वविरः शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य गुणानुदीरयति, तथा तथा तेषां भिक्षूणां चित्तानि विशुद्ध्यन्ति प्रसीदन्ति, प्रीतिवेगा विवर्धन्ते, हर्ष उत्पद्यते, संतानानि चैषां कर्मण्यानि भवन्ति, इन्द्रियाणि प्रसीदन्ति, सौमनस्यं विवर्धते, दौर्मनस्यं प्रहीयते, चित्तमलो ऽपगच्छति, सर्वावरणानि विनिवर्तन्ते, बुद्धदर्शनमभिमुखीभवति, बुद्धधर्मेषु चित्तानि परिणमन्ति, बोधिसत्त्वेन्द्रियाणि परिशुद्ध्यन्ते, बोधिसत्त्वप्रसादवेगा उत्पद्यन्ते, महाकरुणा संभवति, पारमितामण्डलमवक्रामति, महाप्रणिधानानि संजायन्ते, दशसु दिक्षु बुद्धसमुद्रा आभासीभवन्ति । ते एवमुदारं सर्वज्ञताप्रसादवेगं प्रतिलब्धा एतदवोचन् - उपनयतु उपाध्यायो ऽस्मानेतस्य सत्पुरुषस्य सकाशम् । अथ खलु आयुष्मान् शारिपुत्र त्रैर्भिक्षुभिः सार्धं येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य एतदवोचत् - इमे मञ्जुश्रीः भिक्षवः त्वद्दर्शनकामाः । अथ खलु मञ्जुश्रीः कुमारभूतो महता बोधिसत्त्वविकुर्वितेन सार्ध पर्षन्मण्डलप्रमाणेन भूमिमण्डलेन नागावलोकितेन प्रत्युदावृत्य तान् भिक्षूनवलोकयामास । अथ खलु ते भिक्षवो मञ्जुश्रियः कुमारभूतस्य पादौ शिरोभिरभिवन्द्य अञ्जलीन् प्रगृह्य एतदवोचन् - अनेन वयं सत्पुरुष त्वद्दर्शनकुशलमूलेन यदप्यस्माकमन्यत्कुशलमूलं त्वं जानीषे, उपाध्यायश्च, यच्च भगवतः शाक्यमुनेस्तथागतस्य प्रत्यक्षम्, तेन वयं कुशलमूलेन ईदृशा एव भवेम्, यादृशस्त्वम् । एवंरूपं च कायं प्रतिलभेम, एवंरूपं घोषम्, एवंरूपाणि लक्षणानि, ईदृशानि विकुर्वितानि यादृशानि तव ॥ एवमुक्ते एभिर्भिक्षुभिः मञ्जुश्रीः कुमारभूतस्तान् भिक्षूनिदमवोचत् - दशभिरपरिखेदचित्तोत्पादैः समन्वागतो भिक्षवो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा (ग्व् ३८) तथागतभूमिमवक्रामति, प्रागेव बोधिसत्त्वभूमिम् । कतमैर्दशभिः? यदुत सर्वतथागतदर्शनपर्युपासनपूजोपस्थानेष्वपरिखेदचित्तोत्पादेन, सर्वकुशलमूलोपचयेष्वनिवर्त्यापरिखेदचित्तोत्पादेन, सर्वधर्मपर्येष्टिष्वपरिखेदचित्तोत्पादेन, सर्वबोधिसत्त्वपारमिताप्रयोगेष्वपरिखेदचित्तोत्पादेन, सर्वबोधिसत्त्वसमाधिपरिनिष्पादनेष्वपरिखेदचित्तोत्पादेन, सर्वाध्वपरंपरावतारेष्वपरिखेदचित्तोत्पादेन, दशदिक्सर्वबुद्धक्षेत्रसमुद्रस्फरणपरिशुद्धिषु अपरिखेदचित्तोत्पादेन, सर्वसत्त्वधातुपरिपाकविनयेष्वपरिखेदचित्तोत्पादेन, सर्वक्षेत्रकल्पबोधिसत्त्वचर्यानिर्हारेषु अपरिखेदचित्तोत्पादेन, सर्वबुद्धक्षेत्रपरमाणुरजःसमपारमिताप्रयोगैकसत्त्वपरिपाचनक्रमेण सर्वसत्त्वधातुपरिपाचनेन, एकतथागतबलपरिनिष्पादनेषु अपरिखेदचित्तोत्पादेन । एभिर्भिक्षवो दशभिरपरिखेदचित्तोत्पादैः समन्वागतः श्राद्धः कुलपुत्रः कुलदुहिता वा संवर्तते सर्वकुशलमूलेषु, विवर्तते सर्वसंसारगतिभ्यः, उच्चलति सर्वलोकवंशेभ्यः, अतिक्रामति सर्वश्रावकप्रत्येकबुद्धभूमिभ्यश्च । संभवति सर्वतथागतकुलवंशेषु, संपद्यते बोधिसत्त्वप्रणिधानेषु, विशुध्यते सर्वतथागतगुणप्रतिपत्तिषु, परिशुध्यते सर्वबोधिसत्त्वचर्यासु, समुदागच्छति सर्वतथागतबलेषु, प्रमर्दति सर्वमारपरप्रवादिनः, आक्रामति सर्वबोधिसत्त्वभूमीः, आसन्नीभवति तथागतभूमेः ॥ अथ खलु ते भिक्षव इमं धर्मनयं श्रुत्वा सर्वबुद्धविदर्शनासङ्गचक्षुर्विषयं नाम समाधिं प्रत्यलभन्त, यस्यानुभावाद्दशदिगनन्तापर्यन्तलोकधातुस्थितांस्तथागतान् पर्षन्मण्डलानद्राक्षुः । ये च तेषु लोकधातुषु सर्वजगत्युपपन्नाः सत्त्वास्तानशेषानद्राक्षुः । तांश्च लोकधातून् नानाविभक्तितानपश्यन् । यानि च तेषु लोकधातुषु परमाणुरजांसि, तान्यपि गणनायोगेन प्रजानन्ति स्म । ये च तेषां सत्त्वानां नानारत्नमया भवनविमानपरिभोगास्तानपि पश्यन्ति स्म । तेषां च तथागतानां स्वराङ्गसमुद्रानश्रौषुः । तां च धर्मदेशनां नानापदव्यञ्जननिरुक्तिमन्त्रनामसंज्ञाभिराजानन्ति स्म । तेषां च सत्त्वानां चित्तेन्द्रियाशयान् व्यवलोकयन्ति स्म । दश च पूर्वान्तापरान्तजातिपरिवर्ताननुस्मरन्ति स्म । तेषां च तथागतानां दशधर्मचक्रनिरुक्तिनिर्हारानवतरन्ति स्म । दशर्द्धिविकुर्वितविहारान् दशादेशनानयनिर्हारान् दशानुशास्तिपदनिर्हारानवतरन्ति स्म । तेषां च तथागतानां दशप्रतिसंविन्नयाभिनिर्हारानवतरन्ति स्म । सहप्रतिलम्भादस्य समाधेर्दशबोधिचित्ताङ्गसहस्राणि परिनिष्पादयन्ति स्म । दशसमाधिसहस्राण्यवक्रामन्ति स्म । दशपारमिताङ्गसहस्राणि विशोधयन्ति स्म । ते महावभासप्रतिलब्धा महाप्रज्ञामण्डलावभासिता दश बोधिसत्त्वाभिज्ञाः प्रतिलभन्ते स्म । तान् मृदुसूक्ष्माभिज्ञाङ्कुरप्रतिलब्धान् बोधिचित्तोत्पाददृढप्रतिष्ठितान् मञ्जुश्रीः कुमारभूतः समन्तभद्रायां बोधिसत्त्वचर्यायां समादाप्य प्रतिष्ठापयामास । ते समन्तभद्रबोधिसत्त्वचर्याप्रतिष्ठिता महाप्रणिधानसमुद्रानवतीर्य अभिनिर्हरन्ति स्म । ते महाप्रणिधानसागराभिनिर्हृतया चित्तविशुद्ध्या कायविशुद्धिं प्रतिलभन्ते स्म । कायविशुद्ध्या कायलघुतां प्रतिलभन्ते स्म, यया कायविशुद्ध्या (ग्व् ३९) कायलघुतया तान्यभिज्ञामुखानि विपुलीकुर्वन्ते, अच्युतागामिनीरभिज्ञाः प्रतिलभन्ते स्म, येनाभिज्ञाप्रतिलाभेन मञ्जुश्रियश्च कुमारभूतस्य पादमूलान्न चलन्ति । दशसु च दिक्षु सर्वतथागतकायमेघानभिनिर्हरन्ति स्म सर्वबुद्धधर्मपरिनिष्पत्तये ॥ अथ खलु मञ्जुश्रीः कुमारभूतस्तान् भिक्षूननुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य अनुपूर्वेण जनपदचर्यां चरन् येन दक्षिणापथे धन्याकरं नाम महानगरं तेनोपजगाम । उपेत्य धन्याकरस्य महानगरस्य पूर्वेण विचित्रसारध्वजव्यूहं नाम महावनषण्डं पूर्वबुद्धाध्युषितचैत्यं तथागताधिष्ठितं सत्त्वपरिपाकाय अनन्तक्षेत्रानुरवितनामनिर्घोषम्, यत्र भगवता पूर्वं बोधिसत्त्वचर्यां चरता अनेके दुष्करपरित्यागाः परित्यक्ताः, यस्मिन् पृथिवीप्रदेशे सततसमितं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः पूजां प्रत्युत्सुकाः, तत्र वासमुपगतः सार्धं सपरिवारेण । तत्र मञ्जुश्रीः कुमारभूतो धर्मधातुनयप्रभासं नाम सूत्रान्तं प्रकाशयामास दशसूत्रान्तकोटीनियुतशतसहस्रप्रस्रवम् । तस्य संप्रकाशयतो महासमुद्रादनेकानि नागकोटीनियुतशतसहस्राण्युपसंक्रान्तानि । ते तं धर्मनयं श्रुत्वा नागगतिं विजुगुप्सन्तस्तथागतगुणान् स्पृहयन्तो नागगतिं विवर्त्य देवमनुष्योपपत्तिं परिगृह्णन्ति स्म । तत्र दश नागसहस्राण्यवैवर्तिकान्यभूवन्ननुत्तरायाः सम्यक्संबोधेः । तस्य तं धर्मं देशयतः कालान्तरेण अनन्तमध्यसत्त्वधातुर्विनयं गतस्त्रिभिर्यानैः ॥ अश्रौषुर्धन्याकरमनुष्याः - मञ्जुश्रीः कुमारभूतः इदं धन्याकरं नगरमनुप्राप्तः, इहैव विचित्रसारध्वजव्यूहे चैत्ये विहरतीति । श्रुत्वा च पुनरुपासकोपासिका दारकदारिका महाप्रज्ञोपासकश्रेष्ठिपूर्वंगमाः प्रत्येकं पञ्चशतपरिवारा धन्याकरान्नगरान्निष्क्रम्य येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रान्ताः । तत्र महाप्रज्ञोपासकः सुदत्तेन चोपासकेन सार्धं वसुदत्तेन च पुण्यप्रभेण च यशोदेवेन च सोमश्रित्या च सोमनन्दिना च सुमतिना च महामतिना च राहुलभद्रेण च भद्रश्रिया चोपासकेन सार्धमेतत्प्रमुखैः पञ्चभिरुपासकशतैः परिवृतः पुरस्कृतः येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् ॥ तत्र महाप्रज्ञा नामोपासिका सुप्रभया चोपासिकया सार्धं सुगात्रया च सुभद्रया च भद्रश्रिया च चन्द्रप्रभासया च केतुप्रभया च श्रीभद्रया च सुलोचनया चोपासिकया सार्धमेतत्प्रमुखैः पञ्चभिरुपासिकाशतैः परिवृता पुरस्कृता येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् ॥ तत्र सुधनः श्रेष्ठिदारकः सुव्रतेन च श्रेष्ठिदारकेण सार्धं सुशीलेन च स्वाचारेण च सुविक्रामीणा च सुचिन्तिना च सुमतिना च सुबुद्धिना च सुनेत्रेण च सुबाहुना च (ग्व् ४०) सुप्रभेण च श्रेष्ठिदारकेण सार्धमेतत्प्रमुखैः पञ्चभिः श्रेइष्ठिदारकशतैः परिवृतः पुरस्कृतो येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् ॥ तत्र सुभद्रा दारिका महाप्रज्ञस्य गृहपतेर्दुहिता भद्रया च दारिकया सार्धमभिरामवर्तया च दृढमत्या च श्रीभद्रया च ब्रह्मदत्तया च श्रीप्रभया च सुप्रभया दारिकया सार्धमेतत्प्रमुखैः पञ्चभिर्दारिकाशतैः परिवृता पुरस्कृता येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत् ॥ अथ खलु मञ्जुश्रीः कुमारभूतो धन्याकरान्नगरात् ताः स्त्रीपुरुषदारकदारिकाः संनिपतिताः संनिषण्णा विदित्वा यथाशयं संदर्शनाधिपत्येनाभिभूय महामैत्र्याधिपत्येन प्रह्लाद्य महाकरुणाधिपत्येन धर्मदेशनामभिनिर्हृत्य ज्ञानाधिपत्येन चित्ताशयान् प्रविचिन्त्य महाप्रतिसंविदा धर्ममुपदेष्टुकामः सुधनं श्रेइष्ठिदारकम्वलोकयामास । (सुधनः खलु पुनः श्रेष्ठिदारकः केन कारणेनोच्यते सुधन इति? सुधनस्य खलु श्रेष्ठिदारकस्य समनन्तरावक्रान्तस्य मातुः कुक्षौ तस्मिन् गृहे सप्त रत्नाङ्कुराः प्रादुर्भूताः समन्ताद्गृहस्य सुविभक्ताः । तेषां च रत्नाङ्कुराणामधः सप्त महानिधानानि, यतस्ते रत्नाङ्कुराः समुत्पत्य धरणितलमभिनिर्भिद्य अभ्युद्गताः सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसाअरगल्वस्य सप्तमस्य रत्नस्य । स यदा सर्वाङ्गप्रत्यङ्गैः परिपूर्णो दशानां मासानामत्ययाज्जातः, तदा तानि सप्त महानिधानानि सप्तहस्तायामविस्तारोद्वेधप्रमाणानि धरणितलादभ्युद्गम्य विवृत्तानि विरोचन्ति भ्राजन्ते स्म । पञ्च च भाजनशतानि तस्मिन् गृहे प्रादुर्भूतानि नानारत्नमयानि, यदुत सर्पिभाजनानि तैलभाजनानि मधुभाजनानि नवनीतभाजनानि, प्रत्येकं च सर्वोपकरणपरिपूर्णानि । यदुत वज्रभाजनानि सर्वगन्धपरिपूर्णानि सुगन्धभाजनानि, नानावस्त्रपरिपूर्णानि शिलाभाजनानि, नानाभक्ष्यभोज्यरसरसाग्रपरिपूर्णानि मणिभाजनानि, नानारत्नपरिपूर्णानि सुवर्णभाजनानि रूप्यचूर्णपरिपूर्णानि, रूप्यभाजनानि सुवर्णवर्णचूर्णपरिपूर्णानि, सुवर्णरूप्यभाजनानि वैडूर्यमणिरत्नपरिपूर्णानि, स्फटिकभाजनानि मुसारगल्वपरिपूर्णानि, मुसारगल्वभाजनानि स्फटिकरत्नपरिपूर्णानि, अश्मगर्भभाजनानि लोहितमुक्तापरिपूर्णानि, लोहितमुक्ताभाजनानि अश्मगर्भपरिपूर्णानि, ज्योतिर्ध्वजमणीरत्नभाजनानि उदकप्रसादकमणीरत्नपरिपूर्णानि, उदकप्रसादकमणीरत्नभाजनानि ज्योतिर्ध्वजमणिरत्नपरिपूर्णानि । एतत्प्रमुखानि पञ्च रत्नभाजनशतानि सहजातस्य खलु सुधनस्य श्रेष्ठिदारकस्य गृहे सर्वकोशकोष्ठागारेषु धनधान्यहिरण्यसुवर्णविविधरत्नवर्षाण्यभिप्रवर्षितानि । तस्य नैमित्तिकैर्ब्राह्मणैर्मातापितृभ्यां ज्ञातिवर्गेण च विपुलसमृद्धिरस्य जातमात्रस्य गृहे प्रादुर्भूतेति सुधनः सुधन इति नामधेयं कृतम् ।) सुधनः खलु श्रेष्ठिदारकः पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलः (ग्व् ४१) उदाराधिमुक्तिकः कल्याणमित्रानुगताशयो ऽनवद्यकायवाङ्मनस्कर्मसमुदाचारो बोधिसत्त्वमार्गपरिशोधनप्रयुक्तः सर्वज्ञताभिमुखो भाजनीभूतो बुद्धधर्माणामाशयगमनपरिशुद्धो ऽसङ्गबोधिचित्तपरिनिष्पन्नः ॥ अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्ठिदारकमवलोक्य प्रतिसंमोदते स्म, धर्मं चास्य देशयामास - यदुत सर्वबुद्धधर्मानारभ्य सर्वबुद्धधर्मसमुदयावाप्तिमारभ्य सर्वबुद्धानन्ततामारभ्य सर्वबुद्धपरंपरावतारमारभ्य सर्वबुद्धपर्षन्मण्डलविशुद्धिमारभ्य सर्वबुद्धधर्मचक्रनिर्वाणव्यूहमारभ्य सर्वबुद्धरूपकायलक्षणानुव्यञ्जनविशुद्धिमारभ्य सर्वबुद्धधर्मकायपरिनिष्पत्तिमारभ्य सर्वबुद्धसरस्वतिव्यूहमारभ्य सर्वबुद्धप्रभामण्डलव्यूहविशुद्धिमारभ्य सर्वबुद्धसमतामारभ्य धर्मं देशयामास ॥ अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्ठिदारकं तं च महाजनकायं धर्मकथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्षयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पूर्वकुशलमूलं संस्मार्य धन्याकरे महानगरे यथाशयानां सत्त्वानां धर्मदेशनाधिष्ठानं प्रतिप्रस्रभ्य प्रक्रान्तः ॥ अथ खलु सुधनः श्रेष्ठिदारको मञ्जुश्रियः कुमारभूतस्य सकाशादिदमेवंरूपं बुद्धगुणमाहात्म्यं श्रुत्वा अनुत्तरसम्यक्संबोध्यभिलाषपरमः पृष्ठतः पृष्ठतो ऽनुबद्धो मञ्जुश्रियं कुमारभूतं गाथाभिरभ्यष्टावीत् - त्वत्प्रभावत अहं महामते बोधि प्रस्थितु हिताय देहिनाम् । तत्र निश्चयु अनन्तगोचरो यो ममा भवति तं शृणोहि मे
atha khalu āyuṣmān śāriputro gacchanneva mārgaṃ sarvāstān bhikṣūnavalokya sāgarabuddhiṃ bhikṣumāmantrayāmāsa - paśya sāgarabuddhe mañjuśriyo bodhisattvasya kāyapariśuddhimacintyāṃ sadevakena lokena, lakṣaṇānuvyañjanavicitritāṃ prabhāmaṇḍalapariśuddhiṃ ca, aprameyasattvasaṃjananīraśmijālavyūhaṃ ca, aparimāṇasarvaduḥkhapraśamanaṃ parivārasaṃpadaṃ ca, pūrvakuśalamūlasuparigṛhītān mārgavyūhāṃśca gacchato 'ṣṭāpado mārgaḥ saṃtiṣṭhate / mārgavikramavyūhāṃśca sarvadigmaṇḍalābhimukhān vartamānān puṇyasamyagvyūhāṃśca vāmadakṣiṇena mahānidhānānyudvelāni bhavanti / pūrvabuddhopasthānakuśalamūlaniṣyandaiśca sarvavṛkṣakośebhyo vyūhā nirgacchanti / sarvalokendrāḥ pūjāmeghānabhipravarṣantaḥ praṇamanti / daśabhyo digbhyaḥ sarvatathāgatorṇākośebhyo raśmijālamaṇḍalāni niścaritvā sarvabuddhadharmānnigarjamānān mūrdhni nipatanti / evaṃpramukhānāyuṣmān śāriputro mañjuśriyaḥ kumārabhūtasya aparimāṇān mārgakramaṇaguṇavyūhāṃsteṣāṃ bhikṣūṇāṃ saṃdarśayati, bhāṣate udīrayati prabhāvayati saṃvarṇayati vivarati vibhajati uttānīkaroti / yathā yathā svaviraḥ śāriputro mañjuśriyaḥ kumārabhūtasya guṇānudīrayati, tathā tathā teṣāṃ bhikṣūṇāṃ cittāni viśuddhyanti prasīdanti, prītivegā vivardhante, harṣa utpadyate, saṃtānāni caiṣāṃ karmaṇyāni bhavanti, indriyāṇi prasīdanti, saumanasyaṃ vivardhate, daurmanasyaṃ prahīyate, cittamalo 'pagacchati, sarvāvaraṇāni vinivartante, buddhadarśanamabhimukhībhavati, buddhadharmeṣu cittāni pariṇamanti, bodhisattvendriyāṇi pariśuddhyante, bodhisattvaprasādavegā utpadyante, mahākaruṇā saṃbhavati, pāramitāmaṇḍalamavakrāmati, mahāpraṇidhānāni saṃjāyante, daśasu dikṣu buddhasamudrā ābhāsībhavanti / te evamudāraṃ sarvajñatāprasādavegaṃ pratilabdhā etadavocan - upanayatu upādhyāyo 'smānetasya satpuruṣasya sakāśam / atha khalu āyuṣmān śāriputra trairbhikṣubhiḥ sārdhaṃ yena mañjuśrīḥ kumārabhūtastenopasaṃkramya etadavocat - ime mañjuśrīḥ bhikṣavaḥ tvaddarśanakāmāḥ / atha khalu mañjuśrīḥ kumārabhūto mahatā bodhisattvavikurvitena sārdha parṣanmaṇḍalapramāṇena bhūmimaṇḍalena nāgāvalokitena pratyudāvṛtya tān bhikṣūnavalokayāmāsa / atha khalu te bhikṣavo mañjuśriyaḥ kumārabhūtasya pādau śirobhirabhivandya añjalīn pragṛhya etadavocan - anena vayaṃ satpuruṣa tvaddarśanakuśalamūlena yadapyasmākamanyatkuśalamūlaṃ tvaṃ jānīṣe, upādhyāyaśca, yacca bhagavataḥ śākyamunestathāgatasya pratyakṣam, tena vayaṃ kuśalamūlena īdṛśā eva bhavem, yādṛśastvam / evaṃrūpaṃ ca kāyaṃ pratilabhema, evaṃrūpaṃ ghoṣam, evaṃrūpāṇi lakṣaṇāni, īdṛśāni vikurvitāni yādṛśāni tava // evamukte ebhirbhikṣubhiḥ mañjuśrīḥ kumārabhūtastān bhikṣūnidamavocat - daśabhiraparikhedacittotpādaiḥ samanvāgato bhikṣavo mahāyānasaṃprasthitaḥ kulaputro vā kuladuhitā vā (Gv 38) tathāgatabhūmimavakrāmati, prāgeva bodhisattvabhūmim / katamairdaśabhiḥ? yaduta sarvatathāgatadarśanaparyupāsanapūjopasthāneṣvaparikhedacittotpādena, sarvakuśalamūlopacayeṣvanivartyāparikhedacittotpādena, sarvadharmaparyeṣṭiṣvaparikhedacittotpādena, sarvabodhisattvapāramitāprayogeṣvaparikhedacittotpādena, sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena, sarvādhvaparaṃparāvatāreṣvaparikhedacittotpādena, daśadiksarvabuddhakṣetrasamudraspharaṇapariśuddhiṣu aparikhedacittotpādena, sarvasattvadhātuparipākavinayeṣvaparikhedacittotpādena, sarvakṣetrakalpabodhisattvacaryānirhāreṣu aparikhedacittotpādena, sarvabuddhakṣetraparamāṇurajaḥsamapāramitāprayogaikasattvaparipācanakrameṇa sarvasattvadhātuparipācanena, ekatathāgatabalapariniṣpādaneṣu aparikhedacittotpādena / ebhirbhikṣavo daśabhiraparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā vā saṃvartate sarvakuśalamūleṣu, vivartate sarvasaṃsāragatibhyaḥ, uccalati sarvalokavaṃśebhyaḥ, atikrāmati sarvaśrāvakapratyekabuddhabhūmibhyaśca / saṃbhavati sarvatathāgatakulavaṃśeṣu, saṃpadyate bodhisattvapraṇidhāneṣu, viśudhyate sarvatathāgataguṇapratipattiṣu, pariśudhyate sarvabodhisattvacaryāsu, samudāgacchati sarvatathāgatabaleṣu, pramardati sarvamāraparapravādinaḥ, ākrāmati sarvabodhisattvabhūmīḥ, āsannībhavati tathāgatabhūmeḥ // atha khalu te bhikṣava imaṃ dharmanayaṃ śrutvā sarvabuddhavidarśanāsaṅgacakṣurviṣayaṃ nāma samādhiṃ pratyalabhanta, yasyānubhāvāddaśadiganantāparyantalokadhātusthitāṃstathāgatān parṣanmaṇḍalānadrākṣuḥ / ye ca teṣu lokadhātuṣu sarvajagatyupapannāḥ sattvāstānaśeṣānadrākṣuḥ / tāṃśca lokadhātūn nānāvibhaktitānapaśyan / yāni ca teṣu lokadhātuṣu paramāṇurajāṃsi, tānyapi gaṇanāyogena prajānanti sma / ye ca teṣāṃ sattvānāṃ nānāratnamayā bhavanavimānaparibhogāstānapi paśyanti sma / teṣāṃ ca tathāgatānāṃ svarāṅgasamudrānaśrauṣuḥ / tāṃ ca dharmadeśanāṃ nānāpadavyañjananiruktimantranāmasaṃjñābhirājānanti sma / teṣāṃ ca sattvānāṃ cittendriyāśayān vyavalokayanti sma / daśa ca pūrvāntāparāntajātiparivartānanusmaranti sma / teṣāṃ ca tathāgatānāṃ daśadharmacakraniruktinirhārānavataranti sma / daśarddhivikurvitavihārān daśādeśanānayanirhārān daśānuśāstipadanirhārānavataranti sma / teṣāṃ ca tathāgatānāṃ daśapratisaṃvinnayābhinirhārānavataranti sma / sahapratilambhādasya samādherdaśabodhicittāṅgasahasrāṇi pariniṣpādayanti sma / daśasamādhisahasrāṇyavakrāmanti sma / daśapāramitāṅgasahasrāṇi viśodhayanti sma / te mahāvabhāsapratilabdhā mahāprajñāmaṇḍalāvabhāsitā daśa bodhisattvābhijñāḥ pratilabhante sma / tān mṛdusūkṣmābhijñāṅkurapratilabdhān bodhicittotpādadṛḍhapratiṣṭhitān mañjuśrīḥ kumārabhūtaḥ samantabhadrāyāṃ bodhisattvacaryāyāṃ samādāpya pratiṣṭhāpayāmāsa / te samantabhadrabodhisattvacaryāpratiṣṭhitā mahāpraṇidhānasamudrānavatīrya abhinirharanti sma / te mahāpraṇidhānasāgarābhinirhṛtayā cittaviśuddhyā kāyaviśuddhiṃ pratilabhante sma / kāyaviśuddhyā kāyalaghutāṃ pratilabhante sma, yayā kāyaviśuddhyā (Gv 39) kāyalaghutayā tānyabhijñāmukhāni vipulīkurvante, acyutāgāminīrabhijñāḥ pratilabhante sma, yenābhijñāpratilābhena mañjuśriyaśca kumārabhūtasya pādamūlānna calanti / daśasu ca dikṣu sarvatathāgatakāyameghānabhinirharanti sma sarvabuddhadharmapariniṣpattaye // atha khalu mañjuśrīḥ kumārabhūtastān bhikṣūnanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpya anupūrveṇa janapadacaryāṃ caran yena dakṣiṇāpathe dhanyākaraṃ nāma mahānagaraṃ tenopajagāma / upetya dhanyākarasya mahānagarasya pūrveṇa vicitrasāradhvajavyūhaṃ nāma mahāvanaṣaṇḍaṃ pūrvabuddhādhyuṣitacaityaṃ tathāgatādhiṣṭhitaṃ sattvaparipākāya anantakṣetrānuravitanāmanirghoṣam, yatra bhagavatā pūrvaṃ bodhisattvacaryāṃ caratā aneke duṣkaraparityāgāḥ parityaktāḥ, yasmin pṛthivīpradeśe satatasamitaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ pūjāṃ pratyutsukāḥ, tatra vāsamupagataḥ sārdhaṃ saparivāreṇa / tatra mañjuśrīḥ kumārabhūto dharmadhātunayaprabhāsaṃ nāma sūtrāntaṃ prakāśayāmāsa daśasūtrāntakoṭīniyutaśatasahasraprasravam / tasya saṃprakāśayato mahāsamudrādanekāni nāgakoṭīniyutaśatasahasrāṇyupasaṃkrāntāni / te taṃ dharmanayaṃ śrutvā nāgagatiṃ vijugupsantastathāgataguṇān spṛhayanto nāgagatiṃ vivartya devamanuṣyopapattiṃ parigṛhṇanti sma / tatra daśa nāgasahasrāṇyavaivartikānyabhūvannanuttarāyāḥ samyaksaṃbodheḥ / tasya taṃ dharmaṃ deśayataḥ kālāntareṇa anantamadhyasattvadhāturvinayaṃ gatastribhiryānaiḥ // aśrauṣurdhanyākaramanuṣyāḥ - mañjuśrīḥ kumārabhūtaḥ idaṃ dhanyākaraṃ nagaramanuprāptaḥ, ihaiva vicitrasāradhvajavyūhe caitye viharatīti / śrutvā ca punarupāsakopāsikā dārakadārikā mahāprajñopāsakaśreṣṭhipūrvaṃgamāḥ pratyekaṃ pañcaśataparivārā dhanyākarānnagarānniṣkramya yena mañjuśrīḥ kumārabhūtastenopasaṃkrāntāḥ / tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṃ vasudattena ca puṇyaprabheṇa ca yaśodevena ca somaśrityā ca somanandinā ca sumatinā ca mahāmatinā ca rāhulabhadreṇa ca bhadraśriyā copāsakena sārdhametatpramukhaiḥ pañcabhirupāsakaśataiḥ parivṛtaḥ puraskṛtaḥ yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat // tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṃ sugātrayā ca subhadrayā ca bhadraśriyā ca candraprabhāsayā ca ketuprabhayā ca śrībhadrayā ca sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhirupāsikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat // tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṃ suśīlena ca svācāreṇa ca suvikrāmīṇā ca sucintinā ca sumatinā ca subuddhinā ca sunetreṇa ca subāhunā ca (Gv 40) suprabheṇa ca śreṣṭhidārakeṇa sārdhametatpramukhaiḥ pañcabhiḥ śreiṣṭhidārakaśataiḥ parivṛtaḥ puraskṛto yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat // tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāmavartayā ca dṛḍhamatyā ca śrībhadrayā ca brahmadattayā ca śrīprabhayā ca suprabhayā dārikayā sārdhametatpramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṃkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṃ kumārabhūtaṃ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat // atha khalu mañjuśrīḥ kumārabhūto dhanyākarānnagarāt tāḥ strīpuruṣadārakadārikāḥ saṃnipatitāḥ saṃniṣaṇṇā viditvā yathāśayaṃ saṃdarśanādhipatyenābhibhūya mahāmaitryādhipatyena prahlādya mahākaruṇādhipatyena dharmadeśanāmabhinirhṛtya jñānādhipatyena cittāśayān pravicintya mahāpratisaṃvidā dharmamupadeṣṭukāmaḥ sudhanaṃ śreiṣṭhidārakamvalokayāmāsa / (sudhanaḥ khalu punaḥ śreṣṭhidārakaḥ kena kāraṇenocyate sudhana iti? sudhanasya khalu śreṣṭhidārakasya samanantarāvakrāntasya mātuḥ kukṣau tasmin gṛhe sapta ratnāṅkurāḥ prādurbhūtāḥ samantādgṛhasya suvibhaktāḥ / teṣāṃ ca ratnāṅkurāṇāmadhaḥ sapta mahānidhānāni, yataste ratnāṅkurāḥ samutpatya dharaṇitalamabhinirbhidya abhyudgatāḥ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāaragalvasya saptamasya ratnasya / sa yadā sarvāṅgapratyaṅgaiḥ paripūrṇo daśānāṃ māsānāmatyayājjātaḥ, tadā tāni sapta mahānidhānāni saptahastāyāmavistārodvedhapramāṇāni dharaṇitalādabhyudgamya vivṛttāni virocanti bhrājante sma / pañca ca bhājanaśatāni tasmin gṛhe prādurbhūtāni nānāratnamayāni, yaduta sarpibhājanāni tailabhājanāni madhubhājanāni navanītabhājanāni, pratyekaṃ ca sarvopakaraṇaparipūrṇāni / yaduta vajrabhājanāni sarvagandhaparipūrṇāni sugandhabhājanāni, nānāvastraparipūrṇāni śilābhājanāni, nānābhakṣyabhojyarasarasāgraparipūrṇāni maṇibhājanāni, nānāratnaparipūrṇāni suvarṇabhājanāni rūpyacūrṇaparipūrṇāni, rūpyabhājanāni suvarṇavarṇacūrṇaparipūrṇāni, suvarṇarūpyabhājanāni vaiḍūryamaṇiratnaparipūrṇāni, sphaṭikabhājanāni musāragalvaparipūrṇāni, musāragalvabhājanāni sphaṭikaratnaparipūrṇāni, aśmagarbhabhājanāni lohitamuktāparipūrṇāni, lohitamuktābhājanāni aśmagarbhaparipūrṇāni, jyotirdhvajamaṇīratnabhājanāni udakaprasādakamaṇīratnaparipūrṇāni, udakaprasādakamaṇīratnabhājanāni jyotirdhvajamaṇiratnaparipūrṇāni / etatpramukhāni pañca ratnabhājanaśatāni sahajātasya khalu sudhanasya śreṣṭhidārakasya gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni / tasya naimittikairbrāhmaṇairmātāpitṛbhyāṃ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṃ kṛtam /) sudhanaḥ khalu śreṣṭhidārakaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlaḥ (Gv 41) udārādhimuktikaḥ kalyāṇamitrānugatāśayo 'navadyakāyavāṅmanaskarmasamudācāro bodhisattvamārgapariśodhanaprayuktaḥ sarvajñatābhimukho bhājanībhūto buddhadharmāṇāmāśayagamanapariśuddho 'saṅgabodhicittapariniṣpannaḥ // atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreṣṭhidārakamavalokya pratisaṃmodate sma, dharmaṃ cāsya deśayāmāsa - yaduta sarvabuddhadharmānārabhya sarvabuddhadharmasamudayāvāptimārabhya sarvabuddhānantatāmārabhya sarvabuddhaparaṃparāvatāramārabhya sarvabuddhaparṣanmaṇḍalaviśuddhimārabhya sarvabuddhadharmacakranirvāṇavyūhamārabhya sarvabuddharūpakāyalakṣaṇānuvyañjanaviśuddhimārabhya sarvabuddhadharmakāyapariniṣpattimārabhya sarvabuddhasarasvativyūhamārabhya sarvabuddhaprabhāmaṇḍalavyūhaviśuddhimārabhya sarvabuddhasamatāmārabhya dharmaṃ deśayāmāsa // atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṃ śreṣṭhidārakaṃ taṃ ca mahājanakāyaṃ dharmakathayā saṃdarśya samādāpya samuttejya saṃpraharṣayitvā anuttarāyāṃ samyaksaṃbodhau cittamutpādya pūrvakuśalamūlaṃ saṃsmārya dhanyākare mahānagare yathāśayānāṃ sattvānāṃ dharmadeśanādhiṣṭhānaṃ pratiprasrabhya prakrāntaḥ // atha khalu sudhanaḥ śreṣṭhidārako mañjuśriyaḥ kumārabhūtasya sakāśādidamevaṃrūpaṃ buddhaguṇamāhātmyaṃ śrutvā anuttarasamyaksaṃbodhyabhilāṣaparamaḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddho mañjuśriyaṃ kumārabhūtaṃ gāthābhirabhyaṣṭāvīt - tvatprabhāvata ahaṃ mahāmate bodhi prasthitu hitāya dehinām / tatra niścayu anantagocaro yo mamā bhavati taṃ śṛṇohi me
Sanskrit only: no published translation is held for this verse.