अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्राचिन्त्यगोचरनिर्यातः उदाराधिमुक्तिविशुद्धो महायानाभिमुखो बुद्धज्ञानाभिलाषी बुद्धधर्मसमवसरणः कल्याणमित्रानुबन्धनाभिकाङ्क्षी धर्मगोचरविचारी असङ्गज्ञानाभिमुखो भूतकोटीसुविनिश्चितः ज्ञानकोटीस्थितविषयः त्रध्वक्षणकोट्यनुगतः आकाशकोट्यद्वयाभिमुखः अद्वयकोटीविनिश्चयप्राप्तो धर्मधातुकोट्यविकल्पविहारी अनावरणकोटीविनयप्रतिषेधप्रविष्टः कर्मकोट्यविरोधपरमः तथागतकोट्यविकल्पविहारी सर्वसत्त्वसंज्ञाजालविकिरणज्ञानपरमः सर्वक्षेत्राभिनिवेशविगतः सर्वबुद्धपर्षन्मण्डलेष्वनुनीतचित्तः सर्वबुद्धपरिशुद्धिष्वनिकेतविहारी सर्वसत्त्वेषु निरात्मनिःसत्त्वसंज्ञी सर्वशब्देषु वाक्पथोपमावतीर्णः सर्वरूपेषु रूपप्रतिभाषविज्ञप्तिपरमो ऽनुपूर्वेण येन सिंहविजृम्भितं नगरं तेनोपसंक्रम्य मैत्रायणीं कन्यामन्वेषमाणः परिमार्गमाणो ऽश्रौषीत् - एषा मैत्रायणी कन्या राज्ञः सिंहकेतोर्दुहिता पञ्चकन्याशतपरिवारा वैरोचनगर्भप्रासादतलाभिरूढा उरगसारचन्दनपादे सुवर्णसूत्रजालश्च्योते दिव्यचीवरप्रज्ञप्ते भद्रासने उपविष्टा धर्मं देशयति । श्रुत्वा च पुनः सिंहविजृम्भितं नगरं प्रविश्य येन राज्ञः सिंहकेतोर्गृहं तेनोपसंक्रम्य राज्ञो बहिर्द्वारशालायां प्रत्यस्थात् मैत्रायण्याः कन्याया दर्शनकामः । स तत्राद्राक्षीदनेकानि प्राणिशतानि, अनेकानि प्राणिसहस्राणि, अनेकानि प्राणिशतसहस्राणि प्रविशमानानि । दृष्ट्वा च परिपृच्छति - क्व यूयं गच्छथ कुलपुत्राः, क्व वा आगच्छथ? ते ऽवोचन् - मैत्रायण्याः सकाशं धर्मश्रवणाय । तस्यैतदभवत् - नात्र कश्चित्प्रतिनिवार्यते ऽनुप्रविशन् । इति स प्राविशत् । प्रविष्टो ऽद्राक्षीत्तं वैरोचनगर्भं प्रासादं स्फटिकसंस्थिततलायां पृथिव्यां वैडूर्यमयैःस्तम्भैर्वज्रमयैर्भित्तिभिर्जाम्बूनदकनककूटनिर्यूहशतसहस्रालंकारमसंख्येयमणिरत्नविचित्रसहस्रगर्भरत्नादर्शमण्डलरचितं जगद्रोचनमणिरत्नव्यूहमसंख्येयरत्नजालपरिक्षिप्तं सुवर्णघण्टानां शतसहस्रसमीरितं मधुरनिर्घोषाचिन्त्यव्यूहालंकारम्, तां च मैत्रायणीकन्यामद्राक्षीत् अभिनीलनेत्रामभिनीलकेशीं सुवर्णवर्णच्छविम् । स तस्याः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । आह - प्रेक्षस्व कुलपुत्र मम भवनव्यूहानिति । स समन्तादनुविलोकयन्नद्राक्षीदेकैकस्या भित्तेरेकैकस्मात्स्तम्भादेकैकस्मादादर्शमण्डलादेकैकस्मादाकारादेकैकस्मात्संस्थानादेकैकस्मान्मणिरत्नात् एकैकस्याः सुवर्णघण्टायाः एकैकस्माद्रत्नवृक्षादेकैकस्माद्रोमविवरादेकैकस्माद्रत्नहारात् धर्मधातुगर्भांस्तथागतान् सप्रथमचित्तोत्पादान् सचर्याप्रणिधानविषयान् सनिर्याणव्यूहान् साभिसंबोधिविकुर्वितान् सधर्मचक्रप्रवर्तनान् सपरिनिर्वाणदर्शनान् प्रतिभासयोगेन । यथा च (ग्व् ९७) एकस्मादारम्बणात्, तथा सर्वारम्बणेभ्यः । तद्यथापि नाम उदकसरसि स्वच्छे ऽनाविले विप्रसन्ने गगनं चन्द्रादित्यं ज्योतिर्गणप्रतिमण्डितं संदृश्यते प्रतिभासयोगेन, एवमेव वैरोचनगर्भप्रासादस्य एकैकस्मादारम्बणाद्धर्मधातुगतास्तथागताः संदृश्यन्ते प्रतिभासयोगेन, यदुत मैत्रायण्याः कन्यायाः पूर्वकुशलमूलनिष्यन्देन । सो ऽनुविलोक्य तद्बुद्धदर्शनव्यूहनिमित्तं संधारयन् प्राञ्जलीभूतो मैत्र्यायण्याः कन्याया वचनं संप्रेक्षते स्म । सा प्रोवाच - अहं कुलपुत्र समन्तव्यूहस्य प्रज्ञापारमितामुखपरिवर्तस्य लाभिनी । एष च मे समन्तव्यूहः प्रज्ञापारमितामुखपरिवर्तः षट्त्रिंशद्गङ्गानदीवालिकासमानां तथागतनामन्तिकात्पर्यन्विष्टः । ते च मे तथागता नानामुखप्रवेशैरेतं समन्तव्यूहं प्रज्ञापारमितामुखपरिवर्तमवतारयामासुः । यच्चैकेन देशितम्, न तद् द्वितीयेन । आह - क एतस्य आर्ये समन्तव्यूहस्य प्रज्ञापारमितामुखपरिवर्तस्य विषयः? आह - एतन्मम कुलपुत्र समन्तव्यूहं प्रज्ञापारमितामुखपरिवर्तमभिमुखीकुर्वन्त्या उपनिध्यायन्त्या अनुसरन्त्या व्यवचारयन्त्या अनुविचिन्तयन्त्या आकारयन्त्या आधारयन्त्या व्यूहयन्त्या अभिनिर्हरन्त्याः समलंकुर्वन्त्याः प्रविचिन्वन्त्याः समन्तमुखा नाम धारणी आजायते, यत्र धारणीमण्डले दश धर्ममुखासंख्येयशतसहस्राण्यावर्तन्ते समवसरन्ति आमुखीभवन्ति अभिपतन्ति परिवर्तन्ते - यदुत बुद्धक्षेत्रमुखं बुद्धमुखं धर्ममुखं सर्वसत्त्वमुखमतीतमुखमनागतमुखं प्रत्युत्पन्नमुखं स्थितकोटीमुखं पुण्यमुखं पुण्यसंभारमुखं ज्ञानमुखं ज्ञानसंभारमुखं प्रणिधानमुखं प्रणिधानविकल्पमुखं चर्यामुखं चर्याविशुद्धिमुखं चर्यासमुदयमुखं चर्यापरिपूरिमुखं कर्ममुखं कर्मविरोचनमुखं कर्मस्रोतमुखं कर्माभिसंस्कारमुखं कर्मविषयमुखं विषमकर्मपरिवर्जनमुखं सम्यक्कर्मप्रतिपत्तिमुखं कर्मवशितामुखं सुचरितमुखं सुचरितसमादापनमुखं समाधिमुखं समाध्यनुचारमुखं समाधिविचारमुखं समाधिगोचरमुखं समाधिव्युत्थानमुखमभिज्ञामुखं चित्तसागरमुखं चित्तपर्यायमुखं चित्तलतापरिशुद्धिमुखं चित्तगहनावभासमुखं चित्तसरःप्रसादनमुखं चित्तसंभवमुखं चित्तविचारमुखं सत्त्वसंक्लेशप्रचारमुखं क्लेशवासनामुखं क्लेशप्रयोगमुखमधिमुक्तिमुखं सत्त्वचर्यामुखं सत्त्वचर्याविमात्रतामुखं लोकसंभवमुखं सत्त्वाशयमुखं सत्त्वसंज्ञागतमुखं दिङ्मुखं धर्मदिङ्मुखं महाकरुणामुखं महामैत्रीमुखं शान्तिमुखं वाक्पथमुखं नयमुखमनुगममुखं विभक्तिमुखं समवसरणमुखमसङ्गकोटीमुखं समन्तमुखं बुद्धधर्ममुखं बोधिसत्त्वधर्ममुखं श्रावकधर्ममुखं प्रत्येकबुद्धधर्ममुखं लोकधर्ममुखं लोकसंभवधर्ममुखं लोकविभवधर्ममुखं लोकसंस्थानधर्ममुखं लोकधातुविशुद्धिमुखं लोकधातुसंक्लिष्टमुखं संक्लिष्टविशुद्धिलोकधातुमुखं विशुद्धिसंक्लिष्टलोकधातुमुखमेकान्तसंक्लिष्टलोकधातुमुखमेकान्तविशुद्धलोकधातुमुखं लोकधातुसमतलानुगममुखं व्यत्यस्तलोकधातुमुखमवमूर्धहारमुखमिन्द्रजालप्रवेशमुखं लोकधातुपरिवर्तमुखं प्रतिष्ठानसंज्ञागतमुखं सूक्ष्मोदारानुगममुखमुदारसूक्ष्मप्रवेशमुखं बुद्धदर्शनमुखं बुद्धकायवैमात्र्यमुखं बुद्धरश्मिजालवैचित्र्यमुखं बुद्धस्वरमण्डलविभक्तिमुखं बुद्धधर्मचक्राभिनिर्हारमुखं बुद्धधर्मचक्रासंभेदमुखं बुद्धधर्मचक्रनिरुक्तिमुखं बुद्धधर्मचक्रावर्तपरिवर्तमुखं बुद्धकायमुखं बुद्धपर्षन्मण्डलमुखं (ग्व् ९८) बुद्धपर्षन्मण्डलविभक्तिमुखं बुद्धपर्षन्मण्डलसागरावतरणमुखं बुद्धबलावभासमुखं बुद्धसमाधिमुखं बुद्धसमाधिविकुर्वणमुखं बुद्धविहारमुखं बुद्धाधिष्ठानमुखं बुद्धनिर्माणमुखं बुद्धपरसत्त्वचित्तविज्ञप्तिमुखं बुद्धविकुर्वितमुखं तुषितभवनसंवासमुखं यावत्परिनिर्वाणसंदर्शनमुखम् अप्रमाणसत्त्वार्थक्रियामुखं गम्भीरधर्मनयमुखं विचित्रधर्मनयमुखं बोधिसत्त्वधर्मरूपमुखं बोधिचित्तसंभवरूपधर्ममुखं बोधिचित्तसंभाररूपमुखं प्रणिधिरूपमुखं चर्यारूपमुखमभिज्ञारूपमुखं निर्याणरूपमुखं धारणीविशुद्धिरूपमुखं ज्ञानमण्डलविशुद्धिरूपमुखं प्रज्ञापरिशुद्धिरूपमुखं बोध्यप्रमाणरूपमुखं स्मृतिविशुद्धिरूपमुखम् । एतमहं कुलपुत्र समन्तस्मृतिव्यूहं प्रज्ञापारमितामुखपरिवर्तं जानामि । किं मया शक्यमाकाशधातुसमचित्तानां बोधिसत्त्वानां धर्मधातुविपुलमतीनां पुण्यसंभारोपस्तब्धसंतानानां लोकोत्तरप्रतिपत्प्रतिपन्नानामसमुदाचारलोकधर्माणां वितिमिरज्ञानालोकचक्षुःप्रतिलब्धानामतमःसर्वधर्मधातुप्रतिविद्धानां गगनकल्पाप्रमाणबुद्धीनां सर्वारम्बणानुस्मृतचक्षुषां असङ्गभूम्यालोकगर्भाणां सर्वधर्मार्थपदप्रभेदकुशलानां सर्वलोकानाभिभूतानां लोकचारित्रविधिविचाराणां सर्वलोकगत्यनवद्यानां सर्वलोकार्थक्रियापरमाणां सर्वजगत्प्रतिशरणानां सर्वजगद्वागुपचारविधिज्ञानां सर्वजगन्निवासाशयानां यथाशयविज्ञप्तिनिदर्शनानां सर्वकालचक्रवशवर्तिनां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे त्रिनयनो नाम जनपदः । तत्र सुदर्शनो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारको मैत्रायण्याः कन्यायाः पादौ शिरसाभिवन्द्य मैत्रायणीं कन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रायण्याः कन्यायाः सकाशात् प्रक्रान्तः
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrācintyagocaraniryātaḥ udārādhimuktiviśuddho mahāyānābhimukho buddhajñānābhilāṣī buddhadharmasamavasaraṇaḥ kalyāṇamitrānubandhanābhikāṅkṣī dharmagocaravicārī asaṅgajñānābhimukho bhūtakoṭīsuviniścitaḥ jñānakoṭīsthitaviṣayaḥ tradhvakṣaṇakoṭyanugataḥ ākāśakoṭyadvayābhimukhaḥ advayakoṭīviniścayaprāpto dharmadhātukoṭyavikalpavihārī anāvaraṇakoṭīvinayapratiṣedhapraviṣṭaḥ karmakoṭyavirodhaparamaḥ tathāgatakoṭyavikalpavihārī sarvasattvasaṃjñājālavikiraṇajñānaparamaḥ sarvakṣetrābhiniveśavigataḥ sarvabuddhaparṣanmaṇḍaleṣvanunītacittaḥ sarvabuddhapariśuddhiṣvaniketavihārī sarvasattveṣu nirātmaniḥsattvasaṃjñī sarvaśabdeṣu vākpathopamāvatīrṇaḥ sarvarūpeṣu rūpapratibhāṣavijñaptiparamo 'nupūrveṇa yena siṃhavijṛmbhitaṃ nagaraṃ tenopasaṃkramya maitrāyaṇīṃ kanyāmanveṣamāṇaḥ parimārgamāṇo 'śrauṣīt - eṣā maitrāyaṇī kanyā rājñaḥ siṃhaketorduhitā pañcakanyāśataparivārā vairocanagarbhaprāsādatalābhirūḍhā uragasāracandanapāde suvarṇasūtrajālaścyote divyacīvaraprajñapte bhadrāsane upaviṣṭā dharmaṃ deśayati / śrutvā ca punaḥ siṃhavijṛmbhitaṃ nagaraṃ praviśya yena rājñaḥ siṃhaketorgṛhaṃ tenopasaṃkramya rājño bahirdvāraśālāyāṃ pratyasthāt maitrāyaṇyāḥ kanyāyā darśanakāmaḥ / sa tatrādrākṣīdanekāni prāṇiśatāni, anekāni prāṇisahasrāṇi, anekāni prāṇiśatasahasrāṇi praviśamānāni / dṛṣṭvā ca paripṛcchati - kva yūyaṃ gacchatha kulaputrāḥ, kva vā āgacchatha? te 'vocan - maitrāyaṇyāḥ sakāśaṃ dharmaśravaṇāya / tasyaitadabhavat - nātra kaścitpratinivāryate 'nupraviśan / iti sa prāviśat / praviṣṭo 'drākṣīttaṃ vairocanagarbhaṃ prāsādaṃ sphaṭikasaṃsthitatalāyāṃ pṛthivyāṃ vaiḍūryamayaiḥstambhairvajramayairbhittibhirjāmbūnadakanakakūṭaniryūhaśatasahasrālaṃkāramasaṃkhyeyamaṇiratnavicitrasahasragarbharatnādarśamaṇḍalaracitaṃ jagadrocanamaṇiratnavyūhamasaṃkhyeyaratnajālaparikṣiptaṃ suvarṇaghaṇṭānāṃ śatasahasrasamīritaṃ madhuranirghoṣācintyavyūhālaṃkāram, tāṃ ca maitrāyaṇīkanyāmadrākṣīt abhinīlanetrāmabhinīlakeśīṃ suvarṇavarṇacchavim / sa tasyāḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjaliḥ sthitvā evamāha - mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / āha - prekṣasva kulaputra mama bhavanavyūhāniti / sa samantādanuvilokayannadrākṣīdekaikasyā bhitterekaikasmātstambhādekaikasmādādarśamaṇḍalādekaikasmādākārādekaikasmātsaṃsthānādekaikasmānmaṇiratnāt ekaikasyāḥ suvarṇaghaṇṭāyāḥ ekaikasmādratnavṛkṣādekaikasmādromavivarādekaikasmādratnahārāt dharmadhātugarbhāṃstathāgatān saprathamacittotpādān sacaryāpraṇidhānaviṣayān saniryāṇavyūhān sābhisaṃbodhivikurvitān sadharmacakrapravartanān saparinirvāṇadarśanān pratibhāsayogena / yathā ca (Gv 97) ekasmādārambaṇāt, tathā sarvārambaṇebhyaḥ / tadyathāpi nāma udakasarasi svacche 'nāvile viprasanne gaganaṃ candrādityaṃ jyotirgaṇapratimaṇḍitaṃ saṃdṛśyate pratibhāsayogena, evameva vairocanagarbhaprāsādasya ekaikasmādārambaṇāddharmadhātugatāstathāgatāḥ saṃdṛśyante pratibhāsayogena, yaduta maitrāyaṇyāḥ kanyāyāḥ pūrvakuśalamūlaniṣyandena / so 'nuvilokya tadbuddhadarśanavyūhanimittaṃ saṃdhārayan prāñjalībhūto maitryāyaṇyāḥ kanyāyā vacanaṃ saṃprekṣate sma / sā provāca - ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī / eṣa ca me samantavyūhaḥ prajñāpāramitāmukhaparivartaḥ ṣaṭtriṃśadgaṅgānadīvālikāsamānāṃ tathāgatanāmantikātparyanviṣṭaḥ / te ca me tathāgatā nānāmukhapraveśairetaṃ samantavyūhaṃ prajñāpāramitāmukhaparivartamavatārayāmāsuḥ / yaccaikena deśitam, na tad dvitīyena / āha - ka etasya ārye samantavyūhasya prajñāpāramitāmukhaparivartasya viṣayaḥ? āha - etanmama kulaputra samantavyūhaṃ prajñāpāramitāmukhaparivartamabhimukhīkurvantyā upanidhyāyantyā anusarantyā vyavacārayantyā anuvicintayantyā ākārayantyā ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṃkurvantyāḥ pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṃkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti abhipatanti parivartante - yaduta buddhakṣetramukhaṃ buddhamukhaṃ dharmamukhaṃ sarvasattvamukhamatītamukhamanāgatamukhaṃ pratyutpannamukhaṃ sthitakoṭīmukhaṃ puṇyamukhaṃ puṇyasaṃbhāramukhaṃ jñānamukhaṃ jñānasaṃbhāramukhaṃ praṇidhānamukhaṃ praṇidhānavikalpamukhaṃ caryāmukhaṃ caryāviśuddhimukhaṃ caryāsamudayamukhaṃ caryāparipūrimukhaṃ karmamukhaṃ karmavirocanamukhaṃ karmasrotamukhaṃ karmābhisaṃskāramukhaṃ karmaviṣayamukhaṃ viṣamakarmaparivarjanamukhaṃ samyakkarmapratipattimukhaṃ karmavaśitāmukhaṃ sucaritamukhaṃ sucaritasamādāpanamukhaṃ samādhimukhaṃ samādhyanucāramukhaṃ samādhivicāramukhaṃ samādhigocaramukhaṃ samādhivyutthānamukhamabhijñāmukhaṃ cittasāgaramukhaṃ cittaparyāyamukhaṃ cittalatāpariśuddhimukhaṃ cittagahanāvabhāsamukhaṃ cittasaraḥprasādanamukhaṃ cittasaṃbhavamukhaṃ cittavicāramukhaṃ sattvasaṃkleśapracāramukhaṃ kleśavāsanāmukhaṃ kleśaprayogamukhamadhimuktimukhaṃ sattvacaryāmukhaṃ sattvacaryāvimātratāmukhaṃ lokasaṃbhavamukhaṃ sattvāśayamukhaṃ sattvasaṃjñāgatamukhaṃ diṅmukhaṃ dharmadiṅmukhaṃ mahākaruṇāmukhaṃ mahāmaitrīmukhaṃ śāntimukhaṃ vākpathamukhaṃ nayamukhamanugamamukhaṃ vibhaktimukhaṃ samavasaraṇamukhamasaṅgakoṭīmukhaṃ samantamukhaṃ buddhadharmamukhaṃ bodhisattvadharmamukhaṃ śrāvakadharmamukhaṃ pratyekabuddhadharmamukhaṃ lokadharmamukhaṃ lokasaṃbhavadharmamukhaṃ lokavibhavadharmamukhaṃ lokasaṃsthānadharmamukhaṃ lokadhātuviśuddhimukhaṃ lokadhātusaṃkliṣṭamukhaṃ saṃkliṣṭaviśuddhilokadhātumukhaṃ viśuddhisaṃkliṣṭalokadhātumukhamekāntasaṃkliṣṭalokadhātumukhamekāntaviśuddhalokadhātumukhaṃ lokadhātusamatalānugamamukhaṃ vyatyastalokadhātumukhamavamūrdhahāramukhamindrajālapraveśamukhaṃ lokadhātuparivartamukhaṃ pratiṣṭhānasaṃjñāgatamukhaṃ sūkṣmodārānugamamukhamudārasūkṣmapraveśamukhaṃ buddhadarśanamukhaṃ buddhakāyavaimātryamukhaṃ buddharaśmijālavaicitryamukhaṃ buddhasvaramaṇḍalavibhaktimukhaṃ buddhadharmacakrābhinirhāramukhaṃ buddhadharmacakrāsaṃbhedamukhaṃ buddhadharmacakraniruktimukhaṃ buddhadharmacakrāvartaparivartamukhaṃ buddhakāyamukhaṃ buddhaparṣanmaṇḍalamukhaṃ (Gv 98) buddhaparṣanmaṇḍalavibhaktimukhaṃ buddhaparṣanmaṇḍalasāgarāvataraṇamukhaṃ buddhabalāvabhāsamukhaṃ buddhasamādhimukhaṃ buddhasamādhivikurvaṇamukhaṃ buddhavihāramukhaṃ buddhādhiṣṭhānamukhaṃ buddhanirmāṇamukhaṃ buddhaparasattvacittavijñaptimukhaṃ buddhavikurvitamukhaṃ tuṣitabhavanasaṃvāsamukhaṃ yāvatparinirvāṇasaṃdarśanamukham apramāṇasattvārthakriyāmukhaṃ gambhīradharmanayamukhaṃ vicitradharmanayamukhaṃ bodhisattvadharmarūpamukhaṃ bodhicittasaṃbhavarūpadharmamukhaṃ bodhicittasaṃbhārarūpamukhaṃ praṇidhirūpamukhaṃ caryārūpamukhamabhijñārūpamukhaṃ niryāṇarūpamukhaṃ dhāraṇīviśuddhirūpamukhaṃ jñānamaṇḍalaviśuddhirūpamukhaṃ prajñāpariśuddhirūpamukhaṃ bodhyapramāṇarūpamukhaṃ smṛtiviśuddhirūpamukham / etamahaṃ kulaputra samantasmṛtivyūhaṃ prajñāpāramitāmukhaparivartaṃ jānāmi / kiṃ mayā śakyamākāśadhātusamacittānāṃ bodhisattvānāṃ dharmadhātuvipulamatīnāṃ puṇyasaṃbhāropastabdhasaṃtānānāṃ lokottarapratipatpratipannānāmasamudācāralokadharmāṇāṃ vitimirajñānālokacakṣuḥpratilabdhānāmatamaḥsarvadharmadhātupratividdhānāṃ gaganakalpāpramāṇabuddhīnāṃ sarvārambaṇānusmṛtacakṣuṣāṃ asaṅgabhūmyālokagarbhāṇāṃ sarvadharmārthapadaprabhedakuśalānāṃ sarvalokānābhibhūtānāṃ lokacāritravidhivicārāṇāṃ sarvalokagatyanavadyānāṃ sarvalokārthakriyāparamāṇāṃ sarvajagatpratiśaraṇānāṃ sarvajagadvāgupacāravidhijñānāṃ sarvajagannivāsāśayānāṃ yathāśayavijñaptinidarśanānāṃ sarvakālacakravaśavartināṃ caryāṃ jñātuṃ guṇān vā vaktum // gaccha kulaputra, ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ / tatra sudarśano nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam // atha khalu sudhanaḥ śreṣṭhidārako maitrāyaṇyāḥ kanyāyāḥ pādau śirasābhivandya maitrāyaṇīṃ kanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitrāyaṇyāḥ kanyāyāḥ sakāśāt prakrāntaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.