Library·Gandavyuhasutra·6·6.25

Gandavyuhasutra 6.25

Gand 6.25

स क्वचिदासनपरिवारे महेश्वरदेवपुत्रप्रमुखानां शुद्धावासकायिकानां देवपुत्राणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयविमोक्षसंभेदं नाम धर्ममुखं प्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे रुचिरब्रह्मप्रमुखानां ब्रह्मकायिकानां देवपुत्राणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्ततलभेदं नाम स्वरमण्डलविशुद्धिं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे वशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बोधिसत्त्वाशयविशुद्धिवशिताव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सुनिर्मितदेवराजप्रमुखानां निर्माणरतीनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वधर्मशुभव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे संतुषितदेवराजप्रमुखानां तुषितकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं स्वचित्तकोशावर्तं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सुयामदेवराजप्रमुखानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनन्तव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे शक्रदेवराजप्रमुखानां त्रायस्त्रिंशकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमुद्वेगमुखं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सागरनागराजप्रमुखानां शतरश्मिनन्दोपनन्दमनस्यैरावतानवतप्तप्रभृतीनां नागराज्ञां सनागकन्यानां नागकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धविषयप्रभाव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे वैश्रवणमहाराजप्रमुखानां यक्षेन्द्राणां सयक्षकन्यायक्षकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं जगत्परित्राणकोशं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे धृतराष्ट्रगन्धर्वराजप्रमुखानां गन्धर्वाणां सगन्धर्वकन्यागन्धर्वकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयप्रहर्षणं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे राह्वसुरेन्द्रप्रमुखानामसुरेन्द्राणां सासुरकन्यासुरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं धर्मधातुज्ञानयवेगव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे महावेगधारिगरुडेन्द्रप्रमुखानां गरुडेन्द्राणां सगरुडकन्यागरूडकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं भवसागरसंत्रासविषयं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे द्रुमकिन्नरराजप्रमुखानां किन्नरेन्द्राणां सकिन्नरकन्याकिन्नरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धचर्यावभासं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे भृकुटीमुखमहोरगेन्द्रप्रमुखानां महोरगेन्द्राणां समहोरगकन्यामहोरगकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धप्रीतिसंभवं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे ऽनेकेषां स्त्रीपुरुषदारकदारिकाशतसहस्राणां (ग्व् १५१) संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं ज्ञानविशेषगमनं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे नित्यौजोहरद्रुमराजराक्षसेन्द्रप्रमुखानां राक्षसेन्द्राणां सराक्षसकन्याराक्षसकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं कृपासंभवं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे श्रावकयानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं ज्ञानविशेषप्रभावं नाम धर्ममुखं संप्रकाशयमानापश्यत् । क्वचिदासनपरिवारे प्रत्येकबुद्धयानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमुदारबुद्धगुणावभासं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे महायानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्तमुखं नाम समाधिज्ञानालोकमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वबुद्धप्रणिधिकूटं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे द्वितीयभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं विरजोमण्डलं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे तृतीयभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं प्रशान्तव्यूहं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे चतुर्थीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वज्ञतावेगविषयसंभवं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे पञ्चमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं चित्तलताकुसुमगर्भं नाम समाधिमुखं संप्रकाशयमानमपश्यत् । क्वचिदासनपरिवारे षष्ठीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं वैरोचनगर्भं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे सप्तमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्तभूम्यलंकारं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे अष्टमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं धर्मधातुपञ्जरसुविभक्तशरीरविषयं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे नवमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनिलम्भबलनिलयव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे दशमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनावरणमण्डलं नाम समाधिमुखं संप्रकाशयमानामपश्यत् । क्वचिदासनपरिवारे संनिषण्णस्य वज्रपाणिपर्षन्मण्डलस्य सिंहविजृम्भितां भिक्षुणीं ज्ञानवज्रनारायणव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत् । इति हि यावत्यः सर्वोपपत्त्यायतनसंभेदेषु सत्त्वप्रज्ञप्तयः सत्त्वगतयः, तासु ये सत्त्वाः परिपक्वा वैनयिका भाजनीभूताः, तेषां तस्मिन् महोद्याने समवसृत्य प्रत्येकमासनपरिवारसंनिषण्णानां नानाशयानां नानाधिमुक्तानां नियताशयानां घनरसश्रद्धानां सिंहविजृम्भितां भिक्षुणीं (ग्व् १५२) तथा तथा धर्मं देशयमानामपश्यत्, यत्सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ । तत्कस्य हेतोः? यथापि तत्सिंहविजृम्भिताया भिक्षुण्याः समन्तचक्षुरुपेक्षावतीप्रमुखानि सर्वबुद्धधर्मनिर्देशप्रमुखानि धर्मधातुतलप्रभेदप्रमुखानि सर्वावरणमण्डलविकिरणप्रमुखानि सर्वजगत्कुशलचित्तसंभवप्रमुखानि विशेषवतिव्यूहप्रमुखानि असङ्गनयगर्भप्रमुखानि धर्मधातुमण्डलप्रमुखानि चित्तकोशप्रमुखानि समन्तरुचिताभिनिर्हारगर्भप्रमुखानि दशप्रज्ञापारमितामुखासंख्येयशतसहस्राण्यवक्रान्तानि । ये च तत्सूर्यप्रभं महोद्यानं बोधिसत्त्वास्तदन्ये वा सत्त्वाः प्रविशन्ति सिंहविजृम्भिताया भिक्षुण्या दर्शनाय धर्मश्रवणाय, सर्वे ते सिंहविजृम्भिताया भिक्षुण्याः प्रथमं कुशलमूलधर्मसमुदानेषु नियोजिता यावदनुत्तरायाः सम्यक्संबोधेरविवर्त्याः कृताः ॥ अथ खलु सुधनः श्रेष्ठिदारकः सिंहविजृम्भिताया भिक्षुण्या इमामेवंरूपामुद्यानसंपदं विहारसंपदं चंक्रमसंपदं परिभोगसंपदं शय्यासनसंपदं पर्षन्मण्डलसंपदमाधिपतेयसंपदमृद्धिविकुर्वितसंपदं सरस्वतीव्यूहसंपदं दृष्ट्वा अचिन्त्यं च धर्मनयं श्रुत्वा विपुलधर्ममेघाभिष्यन्दितचित्तः सिंहविजृम्भिताया भिक्षुण्या अभिमुखमाशयविशुद्धिसंपदं संप्रणीतो ऽनेकशतसहस्रकृत्वः प्रदक्षिणीकरिष्यामीति । अथ सिंहविजृम्भिताया भिक्षुण्याः सर्वं तन्महोद्यानं सपर्षन्मण्डलव्यूहमुदारेणावभासेन स्फुटमवभासितम् । अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्वा एवं संजानाति - प्रदक्षिणीकुर्वंश्च समन्तादभिमुखं सिंहविजृम्भितां भिक्षुणीमद्राक्षीत् । स पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्या - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ सा अवोचत् - अहं कुलपुत्र सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य लाभिनी । आह - क एतस्य आर्ये सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य विषयः? आह - एष कुलपुत्र त्र्यध्वगतव्यूहैकचित्तक्षणकोटिविज्ञप्तिस्वभावो ज्ञानालोकः । आह - क एतस्य आर्ये ज्ञानालोकस्य विषयः? आह - एतन्मम कुलपुत्र ज्ञानालोकमुखमायूहत्या निर्यूहत्याः सर्वधर्मोपपन्नो नाम समाधिराजायते, यस्य समाधेः सहप्रतिलाभेन मनोमयैः कायैः सर्वासु दशसु दिक्षु सर्वलोकधातुष्वेकजातिप्रतिबद्धानां तुषितभवनगतानां सर्वबोधिसत्त्वानामेकैकस्य बोधिसत्त्वस्य अनभिलाप्यबुद्धक्षेत्रपरमाणुरजः समैरात्मभावैरनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाभिः पूजाविमात्राभिः पूजाप्रयोगायोपसंक्रमामि, यदुत देवैन्द्रकायैर्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्येन्द्रकायैः पुष्पमेघपरिगृहीतैर्गन्धमेघपरिगृहीतैर्धूपमेघपरिगृहीतैर्माल्यमेघपरिगृहीतैर्विलेपनमेघपरिगृहीतैश्चूर्णमेघपरिगृहीतैर्वस्त्रमेघपरिगृहीतैश्छत्रमेघपरिगृहीतैर्ध्वजमेघपरिगृहीतैः पताकामेघपरिगृहीतै रत्नाभरणमेघपरिगृहीतै रत्नजालव्यूहमेघपरिगृहीतै रत्नवितानव्यूहमेघपरिगृहीतै रत्नप्रदीपव्यूहमेघपरिगृहीतै रत्नासनव्यूहमेघपरिगृहीतैः पूजाप्रयोगाय (ग्व् १५३) उपसंक्रमामि । यथा तुषितभवनगतानामेकजातिप्रतिबद्धानां बोधिसत्त्वानां पूजाप्रयोगायोपसंक्रमामि, एवं कुक्षिगतानां जायमानानामन्तःपुरमध्यगतानामभिनिष्क्रमतां बोधिमण्डमुपसंक्रमतां बोधिमण्डवरगतानामनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां सर्वतथागतानां सर्वधर्मचक्रंप्रवर्तयतामेवं देवभवनगतानां नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यभवनगतानां यावत्सर्वजगच्चित्ताशयान् संतोषयित्वा परिनिर्वायमाणामेवंरूपैर्मनोमयैरात्मभावैरेवंरूपां पूजां कुर्वाणानां सर्वतथागतानामुपसंक्रमामि । ये च सत्त्वा ममेदं बुद्धपूजोपस्थानकर्म प्रजानन्ति, ते सर्वे नियता भवन्ति अनुत्तरायां सम्यक्संबोधौ । ये च सत्त्वा मामुपसंक्रामन्ति, तेषामहं सर्वेषामेतामेव प्रज्ञापारमिताववादानुशासनीं ददामि । अहं कुलपुत्र ज्ञानचक्षुषा सर्वसत्त्वान् पश्यामि । न च सत्त्वसंज्ञामुत्पादयामि, न मन्ये । सर्वजगन्मन्त्रसंज्ञामुद्रां शृणोमि, न च मन्ये सर्ववाक्पथानभिनिविष्टत्वात् । सर्वतथागतान् पश्यामि, न च मन्ये धर्मशरीरपरिज्ञानत्वात् । सर्वतथागतधर्मचक्राणि च संघारयामि, न च मन्ये धर्मस्वभावानुबुद्धत्वात् । प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरामि, न च मन्ये मायागतधर्मतावबुद्धत्वात् । एतमहं कुलपुत्र सर्वमन्यनासमुद्धातितं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं बोधिसत्त्वानामनन्तमध्यधर्मधात्ववतीर्णानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, ये ते सर्वधर्ममन्यनाविहारिणश्च एकपर्यङ्केन च सर्वधर्मधातुं स्फरन्ति । ये ते स्वकायान्तर्गतानि सर्वबुद्धक्षेत्राणि संदर्शयन्ति, एकक्षणेन च सर्वतथागतानुपसंक्रामन्ति । येषामात्मभावे सर्वबुद्धविकुर्वितानि प्रवर्तन्ते । ये एकरोम्ना बह्वनभिलाप्यानभिलाप्यानि बुद्धक्षेत्राण्यभूत्क्षिपन्ति । ये ते स्वरोमविवरे ऽनभिलाप्यानभिलाप्यलोकधातुसंवर्तविवर्तकल्पानादर्शयन्ति । ये एकक्षणेनानभिलाप्यानभिलाप्यकल्पसंवाससमतां समवसरन्ति । ये एकक्षणेन अनभिलाप्यानभिलाप्यान् कल्पान् संसरन्ति । गच्छ कुलपुत्र, इहैव दक्षिणापथे दुर्गे जनपदे रत्नव्यूहं नाम नगरम् । तत्र वसुमित्रा नाम भागवती प्रतिवसति । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकः सिंहविजृम्भिताया भिक्षुण्याः पादौ शिरसाभिवन्द्य सिंहविजृम्भितां भिक्षुणीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सिंहविजृम्भिताया भिक्षुण्या अन्तिकात् प्रक्रान्तः

sa kvacidāsanaparivāre maheśvaradevaputrapramukhānāṃ śuddhāvāsakāyikānāṃ devaputrāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmakṣayavimokṣasaṃbhedaṃ nāma dharmamukhaṃ prakāśayamānāmapaśyat / kvacidāsanaparivāre rucirabrahmapramukhānāṃ brahmakāyikānāṃ devaputrāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantatalabhedaṃ nāma svaramaṇḍalaviśuddhiṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre vaśavartidevarājapramukhānāṃ paranirmitavaśavartidevarājapramukhānāṃ paranirmitavaśavartināṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ bodhisattvāśayaviśuddhivaśitāvyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre sunirmitadevarājapramukhānāṃ nirmāṇaratīnāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvadharmaśubhavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre saṃtuṣitadevarājapramukhānāṃ tuṣitakāyikānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ svacittakośāvartaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre suyāmadevarājapramukhānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanantavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre śakradevarājapramukhānāṃ trāyastriṃśakāyikānāṃ devaputrāṇāṃ sadevakanyāparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmudvegamukhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre sāgaranāgarājapramukhānāṃ śataraśminandopanandamanasyairāvatānavataptaprabhṛtīnāṃ nāgarājñāṃ sanāgakanyānāṃ nāgakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhaviṣayaprabhāvyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre vaiśravaṇamahārājapramukhānāṃ yakṣendrāṇāṃ sayakṣakanyāyakṣakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jagatparitrāṇakośaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre dhṛtarāṣṭragandharvarājapramukhānāṃ gandharvāṇāṃ sagandharvakanyāgandharvakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmakṣayapraharṣaṇaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre rāhvasurendrapramukhānāmasurendrāṇāṃ sāsurakanyāsurakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ dharmadhātujñānayavegavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre mahāvegadhārigaruḍendrapramukhānāṃ garuḍendrāṇāṃ sagaruḍakanyāgarūḍakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ bhavasāgarasaṃtrāsaviṣayaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre drumakinnararājapramukhānāṃ kinnarendrāṇāṃ sakinnarakanyākinnarakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhacaryāvabhāsaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre bhṛkuṭīmukhamahoragendrapramukhānāṃ mahoragendrāṇāṃ samahoragakanyāmahoragakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ buddhaprītisaṃbhavaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre 'nekeṣāṃ strīpuruṣadārakadārikāśatasahasrāṇāṃ (Gv 151) saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānaviśeṣagamanaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre nityaujoharadrumarājarākṣasendrapramukhānāṃ rākṣasendrāṇāṃ sarākṣasakanyārākṣasakumāraparivārāṇāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ kṛpāsaṃbhavaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre śrāvakayānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānaviśeṣaprabhāvaṃ nāma dharmamukhaṃ saṃprakāśayamānāpaśyat / kvacidāsanaparivāre pratyekabuddhayānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmudārabuddhaguṇāvabhāsaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre mahāyānādhimuktānāṃ sattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantamukhaṃ nāma samādhijñānālokamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre prathamacittotpādikānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvabuddhapraṇidhikūṭaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre dvitīyabhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ virajomaṇḍalaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre tṛtīyabhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ praśāntavyūhaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre caturthībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ sarvajñatāvegaviṣayasaṃbhavaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre pañcamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ cittalatākusumagarbhaṃ nāma samādhimukhaṃ saṃprakāśayamānamapaśyat / kvacidāsanaparivāre ṣaṣṭhībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ vairocanagarbhaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre saptamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ samantabhūmyalaṃkāraṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre aṣṭamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ dharmadhātupañjarasuvibhaktaśarīraviṣayaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre navamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanilambhabalanilayavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre daśamībhūmipratiṣṭhitānāṃ bodhisattvānāṃ saṃniṣaṇṇānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīmanāvaraṇamaṇḍalaṃ nāma samādhimukhaṃ saṃprakāśayamānāmapaśyat / kvacidāsanaparivāre saṃniṣaṇṇasya vajrapāṇiparṣanmaṇḍalasya siṃhavijṛmbhitāṃ bhikṣuṇīṃ jñānavajranārāyaṇavyūhaṃ nāma dharmamukhaṃ saṃprakāśayamānāmapaśyat / iti hi yāvatyaḥ sarvopapattyāyatanasaṃbhedeṣu sattvaprajñaptayaḥ sattvagatayaḥ, tāsu ye sattvāḥ paripakvā vainayikā bhājanībhūtāḥ, teṣāṃ tasmin mahodyāne samavasṛtya pratyekamāsanaparivārasaṃniṣaṇṇānāṃ nānāśayānāṃ nānādhimuktānāṃ niyatāśayānāṃ ghanarasaśraddhānāṃ siṃhavijṛmbhitāṃ bhikṣuṇīṃ (Gv 152) tathā tathā dharmaṃ deśayamānāmapaśyat, yatsarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau / tatkasya hetoḥ? yathāpi tatsiṃhavijṛmbhitāyā bhikṣuṇyāḥ samantacakṣurupekṣāvatīpramukhāni sarvabuddhadharmanirdeśapramukhāni dharmadhātutalaprabhedapramukhāni sarvāvaraṇamaṇḍalavikiraṇapramukhāni sarvajagatkuśalacittasaṃbhavapramukhāni viśeṣavativyūhapramukhāni asaṅganayagarbhapramukhāni dharmadhātumaṇḍalapramukhāni cittakośapramukhāni samantarucitābhinirhāragarbhapramukhāni daśaprajñāpāramitāmukhāsaṃkhyeyaśatasahasrāṇyavakrāntāni / ye ca tatsūryaprabhaṃ mahodyānaṃ bodhisattvāstadanye vā sattvāḥ praviśanti siṃhavijṛmbhitāyā bhikṣuṇyā darśanāya dharmaśravaṇāya, sarve te siṃhavijṛmbhitāyā bhikṣuṇyāḥ prathamaṃ kuśalamūladharmasamudāneṣu niyojitā yāvadanuttarāyāḥ samyaksaṃbodheravivartyāḥ kṛtāḥ // atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyā imāmevaṃrūpāmudyānasaṃpadaṃ vihārasaṃpadaṃ caṃkramasaṃpadaṃ paribhogasaṃpadaṃ śayyāsanasaṃpadaṃ parṣanmaṇḍalasaṃpadamādhipateyasaṃpadamṛddhivikurvitasaṃpadaṃ sarasvatīvyūhasaṃpadaṃ dṛṣṭvā acintyaṃ ca dharmanayaṃ śrutvā vipuladharmameghābhiṣyanditacittaḥ siṃhavijṛmbhitāyā bhikṣuṇyā abhimukhamāśayaviśuddhisaṃpadaṃ saṃpraṇīto 'nekaśatasahasrakṛtvaḥ pradakṣiṇīkariṣyāmīti / atha siṃhavijṛmbhitāyā bhikṣuṇyāḥ sarvaṃ tanmahodyānaṃ saparṣanmaṇḍalavyūhamudāreṇāvabhāsena sphuṭamavabhāsitam / anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvā evaṃ saṃjānāti - pradakṣiṇīkurvaṃśca samantādabhimukhaṃ siṃhavijṛmbhitāṃ bhikṣuṇīmadrākṣīt / sa purataḥ prāñjaliḥ sthitvā evamāha - mayā ārye, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam / śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti / tadvadatu me āryā - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam // sā avocat - ahaṃ kulaputra sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya lābhinī / āha - ka etasya ārye sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya viṣayaḥ? āha - eṣa kulaputra tryadhvagatavyūhaikacittakṣaṇakoṭivijñaptisvabhāvo jñānālokaḥ / āha - ka etasya ārye jñānālokasya viṣayaḥ? āha - etanmama kulaputra jñānālokamukhamāyūhatyā niryūhatyāḥ sarvadharmopapanno nāma samādhirājāyate, yasya samādheḥ sahapratilābhena manomayaiḥ kāyaiḥ sarvāsu daśasu dikṣu sarvalokadhātuṣvekajātipratibaddhānāṃ tuṣitabhavanagatānāṃ sarvabodhisattvānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥ samairātmabhāvairanabhilāpyabuddhakṣetraparamāṇurajaḥsamābhiḥ pūjāvimātrābhiḥ pūjāprayogāyopasaṃkramāmi, yaduta devaindrakāyairnāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyendrakāyaiḥ puṣpameghaparigṛhītairgandhameghaparigṛhītairdhūpameghaparigṛhītairmālyameghaparigṛhītairvilepanameghaparigṛhītaiścūrṇameghaparigṛhītairvastrameghaparigṛhītaiśchatrameghaparigṛhītairdhvajameghaparigṛhītaiḥ patākāmeghaparigṛhītai ratnābharaṇameghaparigṛhītai ratnajālavyūhameghaparigṛhītai ratnavitānavyūhameghaparigṛhītai ratnapradīpavyūhameghaparigṛhītai ratnāsanavyūhameghaparigṛhītaiḥ pūjāprayogāya (Gv 153) upasaṃkramāmi / yathā tuṣitabhavanagatānāmekajātipratibaddhānāṃ bodhisattvānāṃ pūjāprayogāyopasaṃkramāmi, evaṃ kukṣigatānāṃ jāyamānānāmantaḥpuramadhyagatānāmabhiniṣkramatāṃ bodhimaṇḍamupasaṃkramatāṃ bodhimaṇḍavaragatānāmanuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ sarvatathāgatānāṃ sarvadharmacakraṃpravartayatāmevaṃ devabhavanagatānāṃ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavanagatānāṃ yāvatsarvajagaccittāśayān saṃtoṣayitvā parinirvāyamāṇāmevaṃrūpairmanomayairātmabhāvairevaṃrūpāṃ pūjāṃ kurvāṇānāṃ sarvatathāgatānāmupasaṃkramāmi / ye ca sattvā mamedaṃ buddhapūjopasthānakarma prajānanti, te sarve niyatā bhavanti anuttarāyāṃ samyaksaṃbodhau / ye ca sattvā māmupasaṃkrāmanti, teṣāmahaṃ sarveṣāmetāmeva prajñāpāramitāvavādānuśāsanīṃ dadāmi / ahaṃ kulaputra jñānacakṣuṣā sarvasattvān paśyāmi / na ca sattvasaṃjñāmutpādayāmi, na manye / sarvajaganmantrasaṃjñāmudrāṃ śṛṇomi, na ca manye sarvavākpathānabhiniviṣṭatvāt / sarvatathāgatān paśyāmi, na ca manye dharmaśarīraparijñānatvāt / sarvatathāgatadharmacakrāṇi ca saṃghārayāmi, na ca manye dharmasvabhāvānubuddhatvāt / praticittakṣaṇaṃ sarvadharmadhātuṃ spharāmi, na ca manye māyāgatadharmatāvabuddhatvāt / etamahaṃ kulaputra sarvamanyanāsamuddhātitaṃ bodhisattvavimokṣaṃ prajānāmi / kiṃ mayā śakyaṃ bodhisattvānāmanantamadhyadharmadhātvavatīrṇānāṃ caryāṃ jñātuṃ guṇān vā vaktum, ye te sarvadharmamanyanāvihāriṇaśca ekaparyaṅkena ca sarvadharmadhātuṃ spharanti / ye te svakāyāntargatāni sarvabuddhakṣetrāṇi saṃdarśayanti, ekakṣaṇena ca sarvatathāgatānupasaṃkrāmanti / yeṣāmātmabhāve sarvabuddhavikurvitāni pravartante / ye ekaromnā bahvanabhilāpyānabhilāpyāni buddhakṣetrāṇyabhūtkṣipanti / ye te svaromavivare 'nabhilāpyānabhilāpyalokadhātusaṃvartavivartakalpānādarśayanti / ye ekakṣaṇenānabhilāpyānabhilāpyakalpasaṃvāsasamatāṃ samavasaranti / ye ekakṣaṇena anabhilāpyānabhilāpyān kalpān saṃsaranti / gaccha kulaputra, ihaiva dakṣiṇāpathe durge janapade ratnavyūhaṃ nāma nagaram / tatra vasumitrā nāma bhāgavatī prativasati / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam // atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyāḥ pādau śirasābhivandya siṃhavijṛmbhitāṃ bhikṣuṇīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya siṃhavijṛmbhitāyā bhikṣuṇyā antikāt prakrāntaḥ

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/6.25

Cite as: Gandavyuhasutra 6.25, in HREEM (hreem.cc/library/Gand/6.25), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text