ॐ अमुकगोत्र ! अस्मत्पितः ! अमुकदेवदर्शन् ! सपत्नीक ! एतत्ते पिण्डासनं स्वधा । इत्थं रेखामध्ये पितामहाय खव्याहृतिकां गायत्त्रीं मधुवातेति त्रर्जपन्नन्नं साज्यं पिण्डं कृत्वा कुशोपरि अमुकगोत्र अस्मत्पितः ! अमुकदेवश्रमन् ! सपत्नीक एष पिण्डस्ते स्वधा । इत्थं रेखामध्ये पितामहाय । ततः सव्याहृतिकां गायत्त्रीं मधुवातेति त्रिर्जंपन्पिण्डविकिरणं पिण्डान्तिके । ॐ लेपभुजः प्रीयन्तमिति स्तरण्कुशेषु हस्तमार्जनं प्रक्षालितपिण्डोदकेन ॐ अमुकगोत्र ! अस्मत्पितः ! अमुकशर्मन् सपत्नीक एतत्ते जलमवनेक्ष्व ये चात्रत्वामनुजाश्च त्वामनु तस्मै तेस्वधेति पितृपिण्डसेचनम् । पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलिः ॐ पितरो मादयध्वं यथाभागमावृषायध्वमिति जपेत् । अपः स्पृष्ट्वा वामेन परावृत्त्य उदङ्मुखः प्राणांस्त्रिः संयम्य षड्भ्य ऋतुभ्यो नमः इति जपः
oṃ amukagotra ! asmatpitaḥ ! amukadevadarśan ! sapatnīka ! etatte piṇḍāsanaṃ svadhā / itthaṃ rekhāmadhye pitāmahāya khavyāhṛtikāṃ gāyattrīṃ madhuvāteti trarjapannannaṃ sājyaṃ piṇḍaṃ kṛtvā kuśopari amukagotra asmatpitaḥ ! amukadevaśraman ! sapatnīka eṣa piṇḍaste svadhā / itthaṃ rekhāmadhye pitāmahāya / tataḥ savyāhṛtikāṃ gāyattrīṃ madhuvāteti trirjaṃpanpiṇḍavikiraṇaṃ piṇḍāntike / oṃ lepabhujaḥ prīyantamiti staraṇkuśeṣu hastamārjanaṃ prakṣālitapiṇḍodakena oṃ amukagotra ! asmatpitaḥ ! amukaśarman sapatnīka etatte jalamavanekṣva ye cātratvāmanujāśca tvāmanu tasmai tesvadheti pitṛpiṇḍasecanam / piṇḍapātramadhomukhaṃ kṛtvā baddhāñjaliḥ oṃ pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti japet / apaḥ spṛṣṭvā vāmena parāvṛttya udaṅmukhaḥ prāṇāṃstriḥ saṃyamya ṣaḍbhya ṛtubhyo namaḥ iti japaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.