इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पञ्चविंशो ऽध्यायः श्रीगरूडमहापुराणम्- २६ सूत उवाच । अनन्तरं करन्यासः । विद्याकरी शुद्धिः कार्या । पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्यात् । कैं कनिष्ठायै नमः । नैं अनामिकायै नमः । मैं मध्यमायै नमः । तैं तर्जन्यै नमः । अं अङ्गुष्ठायै नमः । लां करतलायै नमः । वां करपृष्ठायै नमः
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ śrīgarūḍamahāpurāṇam- 26 sūta uvāca / anantaraṃ karanyāsaḥ / vidyākarī śuddhiḥ kāryā / padmamudrāṃ baddhvā mantranyāsaṃ kuryāt / kaiṃ kaniṣṭhāyai namaḥ / naiṃ anāmikāyai namaḥ / maiṃ madhyamāyai namaḥ / taiṃ tarjanyai namaḥ / aṃ aṅguṣṭhāyai namaḥ / lāṃ karatalāyai namaḥ / vāṃ karapṛṣṭhāyai namaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.