श्रीगरुडमहापुराणम् श्रीगणेशायनमः । श्रीलक्ष्मीनृसिंहाय नमः । श्रीदत्तात्रेयाय नमः । श्रीवेदव्यासाय नमः । श्रीहयग्रीवाय नमः । अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते । ॐ मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनो ऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गे ऽच्युतः साग्रजः
śrīgaruḍamahāpurāṇam śrīgaṇeśāyanamaḥ / śrīlakṣmīnṛsiṃhāya namaḥ / śrīdattātreyāya namaḥ / śrīvedavyāsāya namaḥ / śrīhayagrīvāya namaḥ / atha gāruḍe brahmakāṇḍastṛtīya ārabhyate / oṃ mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān gopānāṃ svajano 'satāṃ kṣitibhṛtāṃ śāstā svapitroḥ śiśuḥ / mṛtyurbhojapatervidhātṛvihita stattvaṃ paraṃ yogināṃ vṛṣṇīnāṃ ca patiḥ sadaiva śuśubhe raṅge 'cyutaḥ sāgrajaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.