* यस्मात् ॥ ग्क्त् १।१अब्:३४] वेत्ता नवगणस्यास्य संस्कर्ता गुरुर् उच्यते
* yasmāt // GkT 1.1ab:34] vettā navagaṇasyāsya saṃskartā gurur ucyate
Sanskrit only: no published translation is held for this verse.
Library·Bhasarvajna: Ganakarika [Gk]·1
* यस्मात् ॥ ग्क्त् १।१अब्:३४] वेत्ता नवगणस्यास्य संस्कर्ता गुरुर् उच्यते
* yasmāt // GkT 1.1ab:34] vettā navagaṇasyāsya saṃskartā gurur ucyate
Sanskrit only: no published translation is held for this verse.
* के ऽष्ट पञ्चकाः कश् च त्रिकात्मको गणः इत्य् अत आह ॥ ग्क्त् १।१च्द्:४] लाभा मला उपायाश् च देशावस्थाविशुद्धयः । दीक्षाकारिबलान्य् अष्ट पञ्चकास् त्रीणि वृत्तयः
* ke 'ṣṭa pañcakāḥ kaś ca trikātmako gaṇaḥ ity ata āha // GkT 1.1cd:4] lābhā malā upāyāś ca deśāvasthāviśuddhayaḥ / dīkṣākāribalāny aṣṭa pañcakās trīṇi vṛttayaḥ
Sanskrit only: no published translation is held for this verse.
* अथवा सर्वारम्भाणां लाभार्थत्वात् तत्प्राधान्यज्ञापनार्थं पूर्वम् आदौ लाभा उद्दिष्टा इदानीं पुनः सर्वेऽपि लाभा उपायसाध्यास्ते चोपाया बलहीनैः पुरुषैरनुष्ठातुं न शक्यन्त इत्यतः प्राधान्यज्ञापनार्थं बलानाम् आदौ निर्देशम् आह ॥ ग्क्त् १।२:३७] गुरुभक्तिः प्रसादश् च मतेर् द्वंद्वजयस् तथा । धर्मश् चैवाप्रमादश् च बलं पञ्चविधं स्मृतम्
* athavā sarvārambhāṇāṃ lābhārthatvāt tatprādhānyajñāpanārthaṃ pūrvam ādau lābhā uddiṣṭā idānīṃ punaḥ sarve'pi lābhā upāyasādhyāste copāyā balahīnaiḥ puruṣairanuṣṭhātuṃ na śakyanta ityataḥ prādhānyajñāpanārthaṃ balānām ādau nirdeśam āha // GkT 1.2:37] gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā / dharmaś caivāpramādaś ca balaṃ pañcavidhaṃ smṛtam
Sanskrit only: no published translation is held for this verse.
* अत्रापि साधकस्याज्ञानादिशत्रुहान्युपपत्तेस् तत्प्रतिपादनार्थम् आह ॥ ग्क्त् १।३:४८] अज्ञानहान्यधर्मस्य हानिः सङ्गकरस्य च । च्युतिहानिः पशुत्वस्य शुद्धिः पञ्चविधा स्मृता
* atrāpi sādhakasyājñānādiśatruhānyupapattes tatpratipādanārtham āha // GkT 1.3:48] ajñānahānyadharmasya hāniḥ saṅgakarasya ca / cyutihāniḥ paśutvasya śuddhiḥ pañcavidhā smṛtā
Sanskrit only: no published translation is held for this verse.
* यतस् तत्कारणप्रतिपादनार्थम् इदम् आह ॥ ग्क्त् १।५अब्:२४] द्रव्यं कालः क्रिया मूर्तिर् गुरुश् चैवेह पञ्चमः
* yatas tatkāraṇapratipādanārtham idam āha // GkT 1.5ab:24] dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ
Sanskrit only: no published translation is held for this verse.
* यतस् तदर्थम् इदम् आह ॥ ग्क्त् १।६अब्:१८५] गुरुजनगुहादेशः श्मशानं रुद्र एव च
* yatas tadartham idam āha // GkT 1.6ab:185] gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca
Sanskrit only: no published translation is held for this verse.
* यतस् तत्प्रतिपादनार्थम् आह ॥ ग्क्त् १।६च्द्:२२] वासश्चर्या जपध्यानं सदारुद्रस्मृतिस्तथा । प्रसादश्चैव लाभानामुपायाः पञ्च निश्चिताः
* yatas tatpratipādanārtham āha // GkT 1.6cd:22] vāsaścaryā japadhyānaṃ sadārudrasmṛtistathā / prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ
Sanskrit only: no published translation is held for this verse.
* के पुनस्ते इत्याह ॥ ग्क्त् १।७:१२१] मिथ्याज्ञानमधर्मश्च सक्तिहेतुश् च्युतिस्तथा । पशुत्वं मूलं पञ्चैते तन्त्रे हेयाधिकारतः
* ke punaste ityāha // GkT 1.7:121] mithyājñānamadharmaśca saktihetuś cyutistathā / paśutvaṃ mūlaṃ pañcaite tantre heyādhikārataḥ
Sanskrit only: no published translation is held for this verse.