Library·Yuktidipika·13

Yuktidipika 13

ISk 13

। तथा च वार्षगणाः पठन्ति- "तदेतत् त्रैलोक्यं व्यक्तेरपैति, न सत्त्वादपेतमप्यस्ति विनाशप्रतिषेधात् । असंसर्गाच्चास्य सौक्ष्म्यं सौक्ष्म्याच्चानुपलब्धिस्तस्माद्व्यक्त्यपगमो विनाशः । स तु द्विविधः- आ सर्गप्रलयात् तत्त्वानां किञ्चित्कालान्तरावस्थानादितरेषाम्" इति । आह- अयुक्तमेतत् । कस्मात् ? विप्रतिपत्तेः । सर्वमेव क्षणिकं बुद्धिबोध्यमाकाशनिरोधवर्जितमिति शाक्यपुत्रीयाः प्रतिपन्नाः । तेषां प्रतिषेधो वक्तव्यो वा न वक्तव्यं द्विविधमनित्यमिति । उच्यते- न, हेत्वनुपगमात् । प्रतिक्षणमुच्छिद्यते त्रैलोक्यमित्यत्र लिङ्गमभियुक्ता अपि नोपलभामहे । तस्मात् नैतदस्माकं बुद्धाववतिष्ठत इति । आह- अन्ते क्षयदर्शनात्, इह यस्यान्ते क्षयस्तस्य क्षणिकत्वं दृष्टम् । तद्यथा, प्रदीपज्वालाबुद्धिशब्दानाम् । अस्ति चान्ते क्षयः संस्काराणां तस्मात् क्षणिकाः उच्यन्ते । तदनुपपत्तिः, साध्यत्वात् । इह तु सिद्धेनातिदेशो भवति । तद् यथा गवा गवयस्य । न तु प्रदीपज्वालाबुद्धिशब्दानां क्षणिकत्वं प्रसिद्धम् । अतो न किञ्चिदेतत् । आह- नैतदप्रसिद्धम् । कस्मात् ? वृद्ध्यदर्शनात् । यदि हि अविनष्टायां ज्वालायामिन्धनान्तराले ज्वालान्तरमुत्पद्येत वृद्धिरपि स्यात्, न तु दृश्यते । तस्मादनवस्थिता प्रदीपज्वाला । किञ्चाश्रयाभावात् । यदाश्रया ज्वालोत्पत्तिस्तदुत्पद्यमानैवासौ निरुणद्धीति न युक्तमस्या विनाश्रयेणावस्थातुम् । उपयुक्तेन्धनाया अप्यवस्थानप्रसङ्गात् । किञ्चावरणोपरिपातेन प्रभाभेदप्रसङ्गात् । ज्वालानामवस्थानमिच्छत उपरिष्टादावरणोपनिपातात् प्रभायास्तन्तोरिव द्वैधीकरणं स्यात् । अनिष्टञ्चैतत् । तस्मान्न दीपे ज्वालानामवस्थितिरस्तीति । एतेन शब्दो ऽपि प्रत्युक्तः । कथम् ? तस्यापि यदि विनाशो न स्यात्, द्रुतपवनाम्बुधाराभिघातात् प्रतिक्षणमपूर्वशब्दाविर्भावात् पूर्वशब्दविनाशाच्च वृद्धिः स्यात् । अदृष्टा चासौ । किञ्च, प्रत्यक्षत उपलब्धेः । पाण्युपघातजो हि शब्द उत्पत्तेरूर्ध्वं न भवतीति प्रत्यक्षसिद्धम् । अभिव्यक्तिरिति चेन्न, नियमादर्शनात् । शब्दानां वाच्यवक्तृभेदभिन्नानां कारणनियमो दृष्टः । न चैतदस्ति समानेन्द्रियग्राह्याणाम् । किञ्च- पृथक् श्रुतेः । अभिव्यक्तिकारणदेशाच्च पृथक् श्रूयते शब्दः । न चैतदभिव्यङ्ग्यानां घटादीनां दृष्टमिति । क्षणिकबुद्धेस्तु प्रागेवोक्ता नाशहेतवः । तत्र यदुक्तं साध्यत्वात् प्रदीपज्वालाबुद्धिशब्दादीनां क्षणिकत्वस्य न संस्काराः क्षणिका इत्येतदयुक्तम् । उच्यते- यदुक्तं वृद्ध्यदर्शनादिति, अत्र ब्रूमः- अयुक्तमेतत् । कस्मात् ? विशेषप्रतिपत्तेः । क्षणिकमित्युक्तपरिमाणो ऽयं कालनिर्देश आश्रीयते, वृद्ध्यभावादिभ्यश्च कदाचिद्विनाशमात्रं प्रतीयते । स तु विनाश एकक्षणमवस्थितानां ज्वालानां भवति न पुनः क्षणद्वयमित्येतदप्रमाणकमाज्ञामात्रञ्च गृहीतशिक्षाकः कः प्रतिपत्तुमुत्सहेत ? यत्तूक्तमावरणोपनिपातात् प्रभाभेदप्रसङ्ग इति, एतदप्ययुक्तम् । कस्मात् ? उभयथानुपपत्तेः । किं तावद्यस्य द्वैधीभावो दृष्टस्तदक्षणिकमाहोस्विद् यस्य न दृष्टस्तत् क्षणिकमिति । किञ्चातः ? तद्यदि तावदेवमभ्युपगम्यते यस्य द्वैधीभावस्तदक्षणिकमिति तन्तोरक्षणिकत्वप्रसङ्गः । अथ मतं यस्य द्वैधीकरणं न दृष्टं तत् क्षणिकमिति यथा किमत्रोदाहरणम् । कुतः ? यस्मात् न ह्यनुदाहृतो वादः । एतेन शब्दवृद्धिः प्रत्युक्ता । यत्पुनरेतदुक्तं पाण्युपघातजशब्दानवस्थानादिति, तत्र भवतैवोक्तं व्यङ्ग्यत्वादिति । यत्तूक्तं नियमदर्शनान्न व्यङ्ग्यः शब्द इति तदयुक्तम्, अनेकान्तात् । यथा शुक्लकृष्णौ नियमतः शुक्लकृष्णशब्दाभ्यां प्रत्याय्येते, न च तौ तयोर्न व्यङ्ग्यौ । एवं शब्दस्यापि वक्त्यवादिनियमः स्यात्, न चाव्यङ्ग्यः स्यात् । यदप्युक्तं व्यङ्ग्यव्यञ्जकयोर्देशभेदानुपपत्तेर्न व्यङ्ग्यः शब्द इति, तदप्ययुक्तम् । कस्मात् ? चक्षुर्वत् तत्सिद्धेः । तद्यथा- चक्षुषो रूपस्य च देशभेदे ऽपि व्यङ्ग्यव्यञ्जकभावः, एवं शब्दस्यापि स्यात् । तस्मान्न शब्दो ऽपि क्षणिकः । बुद्धेस्तु स्वाधिकार एव क्षणिकत्वे हेतुरिति करणो (कारणम् ?) वक्ष्यामः । तत्र यदुक्तमन्ते क्षयदर्शनात् प्रदीपज्वालाबुद्धिशब्दवत् क्षणिकाः संस्कारा इत्येतदयुक्तमिति । आह- इतस्तर्हि प्रदीपादीनामन्येषां च भावानां क्षणिकत्वम् । कुतः ? अनवस्थानहेत्वभावात् । नष्टश्चेदर्थो ऽभ्युपगम्यते ननु प्राप्तमिदमुत्पन्नमात्रस्यास्य विनाशविघ्नो नास्तीति कौटस्थ्यं सर्वभावानां प्राप्तमिति । उच्यते- न, कारणोपपत्तेः । अधिकारो हि सर्वभूतानां संस्कारवशादुत्पत्तिस्तदवस्थानमेव तेषामलं स्थितये । सति विनश्वरत्वे संस्कारोपयोगे तु स्थित्यपभ्रंश इत्यतो ऽस्ति किञ्चित्कालमवस्थानं भावानाम् । न च कौटस्थ्यप्रसङ्गः । किञ्चान्यत्- सन्ततिविनाशप्रसङ्गात् । नंष्टुश्चेदुत्पत्तिसमनन्तरं विनाश इष्यते, सन्ततिरप्यन्ते क्षयदर्शनात् नंष्ट्री । तस्या अपि तथैव विनाशः प्राप्तः । ततश्च तडिद्विलसितवत्क्षणदृष्टनष्टस्य त्रैलोक्यस्याभावे संसारोच्छेदप्रसङ्गः । तस्मादयुक्तं नंष्टुरुत्पत्तिसमकालमेव विनाश इति । कारणावस्थानात् न दोष इति चेत्- स्यान्मतम्, अस्ति कारणं पूर्वोत्पन्नो भाव उत्तरस्योत्पत्तौ । स चाप्युत्तरस्य, इत्येवं सन्ततेरनुच्छेदो विरोधिभावान्तरसंसर्गात् तूभयतस्तथोत्पत्तेर्भ्रंश इति । एतदप्ययुक्तम् । कस्मात् ? पूर्वहेतुत्यागात् । प्रागुक्तं येन नंष्टव्यमसौ मन्त्रौषधप्रयोगैरपि क्षणादूर्द्ध्वं नावतिष्ठते । साम्प्रतं तु नंष्ट्री सन्ततिः कारणवशादेव तिष्ठतीति सो ऽयं पूर्वहेतुत्यागः । विनाशहेत्वभावात् क्षणिकत्वमिति चेत्, स्यादेतत् नास्ति भावानां विनाशहेतोरुपलम्भ इति । अतः स्वाभाविकः प्रध्वंसः । तस्मादुत्पत्तिसमकालमसौ केन वार्यते । इदमप्ययुक्तम् । कस्मात् ? अनभ्युपगमात् । को ह्येतदवमंस्यति अहेतुको विनाशः । किं तर्हि प्रागेवोक्तमर्थवशाद्भावानां स्थितिस्तदव॥॥विरोधिद्रव्यान्तरसम्बन्धेनाध्यात्मिकादिना भवतीति । विनाशस्य विनाशप्रसङ्गादयुक्तमिति चेत्, यदि तर्ह्यभावो ऽपि हेतुमान् परिकल्प्यते; प्राप्तमस्यापि घटवद् विनाशित्वम् । अनिष्टं चैतत् । तस्मादहेतुको विनाश इत्येतदयुक्तम् । कस्मात् ? व्यक्त्यपगमप्रतिज्ञानात् । भावविनाशिनं प्रति सत्यमेवायमुपालम्भः स्यात् । व्यक्त्यपगमस्तु नो विनाशः । स तु हेतुमत्त्वेन कथं विरोत्स्यत इति । तस्मान्न विनाशहेत्वभावात् क्षणिकं संस्कृतमिति । इतश्च न क्षणिकम् । कस्मात् ? अग्रहणप्रसङ्गात् । इहासतो ऽग्रहणं दृष्टम् । तद्यथा द्वितीयस्य शिरसः । क्षणादूर्ध्वं च ते घटादयो न भवन्ति । तस्मात्तेषामप्यग्रहणप्रसङ्गः । तत्सदृशोत्पत्तेरदोष इति चेत् स्यादेतत् - उत्पत्तिसमकालं निरोधे ऽपि घटस्यान्यस्य तादृशस्योत्पत्तिर्भवति, तन्निरोधे ऽन्यस्येत्येवमविच्छेदेन ग्रहणं भवति, ज्वालानदीस्रोतो ऽनुसन्धानवदिति । एतदप्ययुक्तम् । कुतः ? कारणाभावात् । स्यादेतदेवं यदि तदानीं सदृशोत्पत्तौ कारणं स्यात् । न तु तदस्ति, प्रागेव निरोधात् । तस्मादसदेतत् । पूर्वोत्पन्नस्य कारणभावात्तत्सिद्धिरिति चेन्न, उपादानात् तन्निष्पत्तिप्रसिद्धेः । इहोपादानान्मृत्पिण्डकसंज्ञकाल्लोके घटनिष्पत्तिः प्रसिद्धा । न च तदानिमस्ति मृत्पिण्डः । किञ्च क्रमनुपलब्धेः । इह शिबिकादीनामनुक्रमेण घटोत्पत्तिरुपलभ्यते । न चानुक्रमो ऽस्ति । किञ्च कारकसामग्र्याभवात् । इह कुम्भकारदण्डचक्रसूत्रोपलसामग्र्याद् घटनिष्पत्तिः प्रसिद्धा । न चास्त्येषां तत्र सम्भवः । किञ्च तदुत्पाद्यान्तरोत्पाद्यस्यानिष्पत्तेः । इह घटाद् घटे निर्वृत्तिर्न प्रसिद्धा लोके । न चाप्रसिद्धो ऽस्ति दृष्टान्तः । बुद्धिशब्दवदिति चेत् स्यादेतत् यथा बुद्धिर्बुद्ध्यन्तरं सदृशं सूते, शब्दश्च शब्दान्तरमेवं घटाद्घटनिष्पत्तिर्भवति इति । एतदप्यसत् । कस्मात् ? सिद्धं हि बुद्धेर्बुद्ध्यन्तरं शब्दाच्च शब्दान्तरं जायत इत्येतदप्यस्माकं प्रसिद्धम् । तस्मात्प्रलापमात्रमेतत् । तत्र यदुक्तं सदृशोत्पत्तेः सो ऽयमिति ग्रहणमविच्छिन्नं क्षणिकत्वे ऽपि भावानामित्येतदयुक्तम् । किञ्चान्यत् । कार्योत्पत्तिकाले कारणनिवृत्तेः । यदा न कारणमस्ति न तदा कार्यमुत्पद्यते द्वयोर्घटयोर्युगपदुपलब्धिप्रसङ्गात् । यदा तु कार्यमुत्पद्यते तदा कारणं निरुद्धमिति निर्बीजः प्रदुर्भावः प्राप्नोति । अनिष्टं चैतत्, सततोत्पत्तिप्रसंगात् । अनुत्पन्ने हेतुसामर्थ्याददोष इति चेत् स्यात्तदनुत्पन्ने कार्ये कारणेन प्रयोजनम् । उत्पन्ने तद्व्यापारानर्थक्यात् । अस्ति चानुत्पन्ने कार्ये कारणम् । अतो न निर्बीजः प्रादुर्भाव इति । एतदप्ययुक्तम् । कस्मात् ? अभावे ऽपि तदुत्पत्तिप्रसङ्गात् । अंग तावत् अणुशो विभज्यतामग्नौ वा क्षिप्यन्ताम्, तन्तवस्तदापि प्रसिद्धविनाशानामभूवन्निति शक्यमुपदेष्टुं, यदि तेभ्यः पट उत्पद्यते । तस्माद्भ्रान्तिरियम् । युगपत्कार्यकारणयोरुत्पत्तिनिरोधौ तुलानतोन्नतवदिति चेत् स्यादेतद्यथा नामोन्नामौ तुलान्तर्या (?) यौगपद्येन भवत एवमुत्पत्तिविनाशौ कार्यकारणयोरिति । तदप्ययुक्तम् । कस्मात् ? कार्यकारणभावादर्शनात् । किमिदमुदके निमज्जद्भिः फेनमवलम्ब्यते ? तुल्या तस्य ह्येकस्यावनतिरवस्था तद् द्वितीयस्योन्नतये हेतुर्भवति, भवतः कारणविनाशः कार्योत्पत्तिश्च यौगपद्येन भवतः । न च तयोर्हेतुमद्भावः शक्यः कल्पयितुम् । तस्मादयुक्तमेतत् । विशेषग्रहणात् क्षणिकत्वसिद्धिरिति चेत् स्यान्मतम्- यद्युत्पन्नमात्रोपरतिर्नास्ति भावानां, किंकयुतः शरीरादीनां प्राणापानश्रमरूपादिकृतो ऽब्जाश्मप्रभृतीनां च शीतोष्णस्पर्शकृतो भेदः ? घण्टादीनां चाशब्दकानां पश्चाच्छब्दवतां ग्रहणम्, तस्मादनिषिद्धः क्षणभङ्ग इत्येतच्चायुक्तम् । कस्मात् ? उक्तत्वात् । उक्तमत्रोत्तरं कारणाभावे ऽनुत्पत्तिप्रसङ्गाएदिति । किञ्च संस्थानान्तरानुपलधेः । न ह्यत्र पूर्वसंशानविपरीतं संस्थानान्तरं गृह्णीमहे । तस्मादविशिष्टास्त इत्येवमवगम्यताम् । विशेषग्रहणन्त्ववस्त्वन्तरानुग्रहे शक्त्यन्तराविर्भावात् । उउक्तं च- "व्यक्तेरपगमो ऽभीष्टः पूर्वसंस्थानहानितः । तदभावादसिधो ऽस्य विशे॥॥ ---------------------------------------------------------------------- कारिका १३ ---------------------------------------------------------------------- सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः एवशब्दः प्रत्येकं परिशमाप्यते । सत्त्वं लघु प्रकाषकमेवेष्टम् । यत् किंचित्कार्यकरणे लघु प्रकाशं च तत्सत्त्वरूपमिति प्रत्यवगन्तव्यम् । तत्र कार्यस्य तावदुद्गमहेतुर्धर्मो लघुत्वम्, करणस्य वृत्तिपटुत्वहेतुः । प्रकाशस्तु पृथिवीधर्मस्य च्छायालक्षणस्य तमसस्तिरस्कारेण द्रव्यान्तरप्रकाशनम् । करणस्यापि ग्रहणं सङ्कल्पाभिमानाध्यवसायविषयेषु यथास्वं प्रवर्तमानम् । उपष्टम्भकं चलमेव रजः । यः कश्चिदुपस्तम्भश्चलता चोपलभ्यते तद्रजोरूपमित्यवगन्तव्यम् । तत्रोपस्तम्भः प्रयत्नः, चलता क्रिया । सा च द्विविधा, परिंणामलक्षणा प्रस्पन्दलक्षणा च । तत्र परिणामलक्षणया सहकारिभावान्तरानुगृहीतस्य धर्मिणः पूर्वधर्मात्प्रच्युतिः । प्रस्पन्दलक्षणा प्राणादयः कर्मेन्द्रियवृत्तयश्च वचनाद्याः । बाह्यानां द्रव्याणामुत्पतननिपतनभ्रमणादीनि । गुरु वरणकमेव तमः । यत्किंचिद् गौरवं वरणं चोपलभ्यते तत्तमोरूपमिति प्रत्यवगन्तव्यम् । तत्र गुरुत्वं कार्यस्याधोगमनहेतुर्धर्मः करणस्य वृत्तिमन्दता । वरणमपि कार्यगतं च द्रव्यान्तरतिरोधानम् । करणगता चाशुद्धिः प्रकाशप्रतिद्वन्द्विभूता । इत्येष सत्त्वादीनामव्यतिकरेण स्वभावोपलम्भो यत एषां नानात्वमवसीयते । यत्पुनरेतदुक्तं स्त्रीक्षत्रमेघेषु स्वभावव्यतिकरोपलम्भादेको गुणस्त्रिरूपः, सर्वे वा सर्वरूपा, रूपान्तरस्य वा सत उत्पत्तिरिति अत्र ब्रूमः न, गुणभूतस्य भक्तित उपकारात्प्रधानरूपोपपत्तेः । इह गुणभूतस्य भक्तितः प्रधानोपकारित्वे सति भक्तितस्तद्रूपोपपत्तिर्दृष्टा । तद्यथा क्षीरादेः । तद्धि मुखादिषु दृष्टप्रतिलब्धप्रवृत्तिः पित्तस्य स्वेन रूपेणाङ्गभावं गच्छंस्तस्योपकारात्तिक्तं संपद्यते । न च तथा सदेव । सत्त्वमपि स्त्रैणगुणभूतं सपत्नीरजसः स्वेन रूपेणाङ्गभावं गच्छंस्तस्योपकाराद्दुःखं संपद्यते । तमसो मोहः । एवं क्षात्रं रजः आर्यदारलक्षणस्य सत्त्वस्य दस्युलक्षणस्य च तमसः । एवं मेध्यं तमः कार्षिके सत्त्वस्य प्रोषितदयितायाश्च रजसः । तस्मान्नास्ति गुणानां स्वाभावव्यतिकरः । किं चान्यत् । अगुणभूतानां स्वभावग्रहणात् । यदा चैते ऽङ्गभावमपगच्छन्तो मध्यस्थास्तुल्यसंस्काराश्च प्रतिपद्यन्ते तदा स्वरूपेणैव । तस्मादसंकीर्णं गुणरूपम् । आह- न, सन्देहात् । उभयथा हि रूपान्तरग्रहणं क्षीरादिषु दृष्टम् । ताद्रूप्यात्तैश्च विपरिणतानां गुणभावाच्च । यथोक्तं तत्र कथमिदमेकान्तेन निश्चीयन्ते गुणभावात्सत्त्वादीनां रूपान्तरग्रहणं न पुनस्ताद्रूप्यादेवेति ? उच्यते- ग्रहणविकल्पोपलम्भात् । यदि स्त्रैणं सत्त्वं ताद्रूप्यादेव सपत्न्या तेन गृह्यते तेन भर्तुरपि तथा ग्रहणप्रसंगो मध्यस्थानां तुल्यसंस्काराणां च । अनिष्टं चैतत् । तस्माद् भाक्तो ऽयं गुणविकल्पोपलम्भः । किं चान्यत् । उत्तरकालं स्वरूपग्रहणान्निवृत्तानुशयाभिश्चैकार्थतामुपगताभिः सपत्नीभिः स्वेनैव रूपेण स्त्रैणस्य सत्त्वस्य ग्रहणमुपलभ्यते । स्वगृहसमवस्थितैश्चार्यदारैः क्षत्रियाणाम् । निष्पन्नशस्यैश्च कृषीवलैर्मेघानाम् । तस्माद्भाक्तो ऽयं ग्रहणविकल्पोपलम्भः । तस्माद्युक्तमेतत् अन्यो ऽन्यजननवृत्तयो गुणाः, न च संकीर्णस्वभावा इति । यत्पुनरेतदुक्तम् अन्योन्यमिथुनत्वानुपपत्तिः, सत्त्वस्येतरविरोधात्, इत्यत्र ब्रूमः - अस्ति चायं विरोधो गुणानां प्रदीपवच्चार्थतो वृत्तिः

/ tathā ca vārṣagaṇāḥ paṭhanti- "tadetat trailokyaṃ vyakterapaiti, na sattvādapetamapyasti vināśapratiṣedhāt / asaṃsargāccāsya saukṣmyaṃ saukṣmyāccānupalabdhistasmādvyaktyapagamo vināśaḥ / sa tu dvividhaḥ- ā sargapralayāt tattvānāṃ kiñcitkālāntarāvasthānāditareṣām" iti / āha- ayuktametat / kasmāt ? vipratipatteḥ / sarvameva kṣaṇikaṃ buddhibodhyamākāśanirodhavarjitamiti śākyaputrīyāḥ pratipannāḥ / teṣāṃ pratiṣedho vaktavyo vā na vaktavyaṃ dvividhamanityamiti / ucyate- na, hetvanupagamāt / pratikṣaṇamucchidyate trailokyamityatra liṅgamabhiyuktā api nopalabhāmahe / tasmāt naitadasmākaṃ buddhāvavatiṣṭhata iti / āha- ante kṣayadarśanāt, iha yasyānte kṣayastasya kṣaṇikatvaṃ dṛṣṭam / tadyathā, pradīpajvālābuddhiśabdānām / asti cānte kṣayaḥ saṃskārāṇāṃ tasmāt kṣaṇikāḥ ucyante / tadanupapattiḥ, sādhyatvāt / iha tu siddhenātideśo bhavati / tad yathā gavā gavayasya / na tu pradīpajvālābuddhiśabdānāṃ kṣaṇikatvaṃ prasiddham / ato na kiñcidetat / āha- naitadaprasiddham / kasmāt ? vṛddhyadarśanāt / yadi hi avinaṣṭāyāṃ jvālāyāmindhanāntarāle jvālāntaramutpadyeta vṛddhirapi syāt, na tu dṛśyate / tasmādanavasthitā pradīpajvālā / kiñcāśrayābhāvāt / yadāśrayā jvālotpattistadutpadyamānaivāsau niruṇaddhīti na yuktamasyā vināśrayeṇāvasthātum / upayuktendhanāyā apyavasthānaprasaṅgāt / kiñcāvaraṇoparipātena prabhābhedaprasaṅgāt / jvālānāmavasthānamicchata upariṣṭādāvaraṇopanipātāt prabhāyāstantoriva dvaidhīkaraṇaṃ syāt / aniṣṭañcaitat / tasmānna dīpe jvālānāmavasthitirastīti / etena śabdo 'pi pratyuktaḥ / katham ? tasyāpi yadi vināśo na syāt, drutapavanāmbudhārābhighātāt pratikṣaṇamapūrvaśabdāvirbhāvāt pūrvaśabdavināśācca vṛddhiḥ syāt / adṛṣṭā cāsau / kiñca, pratyakṣata upalabdheḥ / pāṇyupaghātajo hi śabda utpatterūrdhvaṃ na bhavatīti pratyakṣasiddham / abhivyaktiriti cenna, niyamādarśanāt / śabdānāṃ vācyavaktṛbhedabhinnānāṃ kāraṇaniyamo dṛṣṭaḥ / na caitadasti samānendriyagrāhyāṇām / kiñca- pṛthak śruteḥ / abhivyaktikāraṇadeśācca pṛthak śrūyate śabdaḥ / na caitadabhivyaṅgyānāṃ ghaṭādīnāṃ dṛṣṭamiti / kṣaṇikabuddhestu prāgevoktā nāśahetavaḥ / tatra yaduktaṃ sādhyatvāt pradīpajvālābuddhiśabdādīnāṃ kṣaṇikatvasya na saṃskārāḥ kṣaṇikā ityetadayuktam / ucyate- yaduktaṃ vṛddhyadarśanāditi, atra brūmaḥ- ayuktametat / kasmāt ? viśeṣapratipatteḥ / kṣaṇikamityuktaparimāṇo 'yaṃ kālanirdeśa āśrīyate, vṛddhyabhāvādibhyaśca kadācidvināśamātraṃ pratīyate / sa tu vināśa ekakṣaṇamavasthitānāṃ jvālānāṃ bhavati na punaḥ kṣaṇadvayamityetadapramāṇakamājñāmātrañca gṛhītaśikṣākaḥ kaḥ pratipattumutsaheta ? yattūktamāvaraṇopanipātāt prabhābhedaprasaṅga iti, etadapyayuktam / kasmāt ? ubhayathānupapatteḥ / kiṃ tāvadyasya dvaidhībhāvo dṛṣṭastadakṣaṇikamāhosvid yasya na dṛṣṭastat kṣaṇikamiti / kiñcātaḥ ? tadyadi tāvadevamabhyupagamyate yasya dvaidhībhāvastadakṣaṇikamiti tantorakṣaṇikatvaprasaṅgaḥ / atha mataṃ yasya dvaidhīkaraṇaṃ na dṛṣṭaṃ tat kṣaṇikamiti yathā kimatrodāharaṇam / kutaḥ ? yasmāt na hyanudāhṛto vādaḥ / etena śabdavṛddhiḥ pratyuktā / yatpunaretaduktaṃ pāṇyupaghātajaśabdānavasthānāditi, tatra bhavataivoktaṃ vyaṅgyatvāditi / yattūktaṃ niyamadarśanānna vyaṅgyaḥ śabda iti tadayuktam, anekāntāt / yathā śuklakṛṣṇau niyamataḥ śuklakṛṣṇaśabdābhyāṃ pratyāyyete, na ca tau tayorna vyaṅgyau / evaṃ śabdasyāpi vaktyavādiniyamaḥ syāt, na cāvyaṅgyaḥ syāt / yadapyuktaṃ vyaṅgyavyañjakayordeśabhedānupapatterna vyaṅgyaḥ śabda iti, tadapyayuktam / kasmāt ? cakṣurvat tatsiddheḥ / tadyathā- cakṣuṣo rūpasya ca deśabhede 'pi vyaṅgyavyañjakabhāvaḥ, evaṃ śabdasyāpi syāt / tasmānna śabdo 'pi kṣaṇikaḥ / buddhestu svādhikāra eva kṣaṇikatve heturiti karaṇo (kāraṇam ?) vakṣyāmaḥ / tatra yaduktamante kṣayadarśanāt pradīpajvālābuddhiśabdavat kṣaṇikāḥ saṃskārā ityetadayuktamiti / āha- itastarhi pradīpādīnāmanyeṣāṃ ca bhāvānāṃ kṣaṇikatvam / kutaḥ ? anavasthānahetvabhāvāt / naṣṭaścedartho 'bhyupagamyate nanu prāptamidamutpannamātrasyāsya vināśavighno nāstīti kauṭasthyaṃ sarvabhāvānāṃ prāptamiti / ucyate- na, kāraṇopapatteḥ / adhikāro hi sarvabhūtānāṃ saṃskāravaśādutpattistadavasthānameva teṣāmalaṃ sthitaye / sati vinaśvaratve saṃskāropayoge tu sthityapabhraṃśa ityato 'sti kiñcitkālamavasthānaṃ bhāvānām / na ca kauṭasthyaprasaṅgaḥ / kiñcānyat- santativināśaprasaṅgāt / naṃṣṭuścedutpattisamanantaraṃ vināśa iṣyate, santatirapyante kṣayadarśanāt naṃṣṭrī / tasyā api tathaiva vināśaḥ prāptaḥ / tataśca taḍidvilasitavatkṣaṇadṛṣṭanaṣṭasya trailokyasyābhāve saṃsārocchedaprasaṅgaḥ / tasmādayuktaṃ naṃṣṭurutpattisamakālameva vināśa iti / kāraṇāvasthānāt na doṣa iti cet- syānmatam, asti kāraṇaṃ pūrvotpanno bhāva uttarasyotpattau / sa cāpyuttarasya, ityevaṃ santateranucchedo virodhibhāvāntarasaṃsargāt tūbhayatastathotpatterbhraṃśa iti / etadapyayuktam / kasmāt ? pūrvahetutyāgāt / prāguktaṃ yena naṃṣṭavyamasau mantrauṣadhaprayogairapi kṣaṇādūrddhvaṃ nāvatiṣṭhate / sāmprataṃ tu naṃṣṭrī santatiḥ kāraṇavaśādeva tiṣṭhatīti so 'yaṃ pūrvahetutyāgaḥ / vināśahetvabhāvāt kṣaṇikatvamiti cet, syādetat nāsti bhāvānāṃ vināśahetorupalambha iti / ataḥ svābhāvikaḥ pradhvaṃsaḥ / tasmādutpattisamakālamasau kena vāryate / idamapyayuktam / kasmāt ? anabhyupagamāt / ko hyetadavamaṃsyati ahetuko vināśaḥ / kiṃ tarhi prāgevoktamarthavaśādbhāvānāṃ sthitistadava....virodhidravyāntarasambandhenādhyātmikādinā bhavatīti / vināśasya vināśaprasaṅgādayuktamiti cet, yadi tarhyabhāvo 'pi hetumān parikalpyate; prāptamasyāpi ghaṭavad vināśitvam / aniṣṭaṃ caitat / tasmādahetuko vināśa ityetadayuktam / kasmāt ? vyaktyapagamapratijñānāt / bhāvavināśinaṃ prati satyamevāyamupālambhaḥ syāt / vyaktyapagamastu no vināśaḥ / sa tu hetumattvena kathaṃ virotsyata iti / tasmānna vināśahetvabhāvāt kṣaṇikaṃ saṃskṛtamiti / itaśca na kṣaṇikam / kasmāt ? agrahaṇaprasaṅgāt / ihāsato 'grahaṇaṃ dṛṣṭam / tadyathā dvitīyasya śirasaḥ / kṣaṇādūrdhvaṃ ca te ghaṭādayo na bhavanti / tasmātteṣāmapyagrahaṇaprasaṅgaḥ / tatsadṛśotpatteradoṣa iti cet syādetat - utpattisamakālaṃ nirodhe 'pi ghaṭasyānyasya tādṛśasyotpattirbhavati, tannirodhe 'nyasyetyevamavicchedena grahaṇaṃ bhavati, jvālānadīsroto 'nusandhānavaditi / etadapyayuktam / kutaḥ ? kāraṇābhāvāt / syādetadevaṃ yadi tadānīṃ sadṛśotpattau kāraṇaṃ syāt / na tu tadasti, prāgeva nirodhāt / tasmādasadetat / pūrvotpannasya kāraṇabhāvāttatsiddhiriti cenna, upādānāt tanniṣpattiprasiddheḥ / ihopādānānmṛtpiṇḍakasaṃjñakālloke ghaṭaniṣpattiḥ prasiddhā / na ca tadānimasti mṛtpiṇḍaḥ / kiñca kramanupalabdheḥ / iha śibikādīnāmanukrameṇa ghaṭotpattirupalabhyate / na cānukramo 'sti / kiñca kārakasāmagryābhavāt / iha kumbhakāradaṇḍacakrasūtropalasāmagryād ghaṭaniṣpattiḥ prasiddhā / na cāstyeṣāṃ tatra sambhavaḥ / kiñca tadutpādyāntarotpādyasyāniṣpatteḥ / iha ghaṭād ghaṭe nirvṛttirna prasiddhā loke / na cāprasiddho 'sti dṛṣṭāntaḥ / buddhiśabdavaditi cet syādetat yathā buddhirbuddhyantaraṃ sadṛśaṃ sūte, śabdaśca śabdāntaramevaṃ ghaṭādghaṭaniṣpattirbhavati iti / etadapyasat / kasmāt ? siddhaṃ hi buddherbuddhyantaraṃ śabdācca śabdāntaraṃ jāyata ityetadapyasmākaṃ prasiddham / tasmātpralāpamātrametat / tatra yaduktaṃ sadṛśotpatteḥ so 'yamiti grahaṇamavicchinnaṃ kṣaṇikatve 'pi bhāvānāmityetadayuktam / kiñcānyat / kāryotpattikāle kāraṇanivṛtteḥ / yadā na kāraṇamasti na tadā kāryamutpadyate dvayorghaṭayoryugapadupalabdhiprasaṅgāt / yadā tu kāryamutpadyate tadā kāraṇaṃ niruddhamiti nirbījaḥ pradurbhāvaḥ prāpnoti / aniṣṭaṃ caitat, satatotpattiprasaṃgāt / anutpanne hetusāmarthyādadoṣa iti cet syāttadanutpanne kārye kāraṇena prayojanam / utpanne tadvyāpārānarthakyāt / asti cānutpanne kārye kāraṇam / ato na nirbījaḥ prādurbhāva iti / etadapyayuktam / kasmāt ? abhāve 'pi tadutpattiprasaṅgāt / aṃga tāvat aṇuśo vibhajyatāmagnau vā kṣipyantām, tantavastadāpi prasiddhavināśānāmabhūvanniti śakyamupadeṣṭuṃ, yadi tebhyaḥ paṭa utpadyate / tasmādbhrāntiriyam / yugapatkāryakāraṇayorutpattinirodhau tulānatonnatavaditi cet syādetadyathā nāmonnāmau tulāntaryā (?) yaugapadyena bhavata evamutpattivināśau kāryakāraṇayoriti / tadapyayuktam / kasmāt ? kāryakāraṇabhāvādarśanāt / kimidamudake nimajjadbhiḥ phenamavalambyate ? tulyā tasya hyekasyāvanatiravasthā tad dvitīyasyonnataye heturbhavati, bhavataḥ kāraṇavināśaḥ kāryotpattiśca yaugapadyena bhavataḥ / na ca tayorhetumadbhāvaḥ śakyaḥ kalpayitum / tasmādayuktametat / viśeṣagrahaṇāt kṣaṇikatvasiddhiriti cet syānmatam- yadyutpannamātroparatirnāsti bhāvānāṃ, kiṃkayutaḥ śarīrādīnāṃ prāṇāpānaśramarūpādikṛto 'bjāśmaprabhṛtīnāṃ ca śītoṣṇasparśakṛto bhedaḥ ? ghaṇṭādīnāṃ cāśabdakānāṃ paścācchabdavatāṃ grahaṇam, tasmādaniṣiddhaḥ kṣaṇabhaṅga ityetaccāyuktam / kasmāt ? uktatvāt / uktamatrottaraṃ kāraṇābhāve 'nutpattiprasaṅgāediti / kiñca saṃsthānāntarānupaladheḥ / na hyatra pūrvasaṃśānaviparītaṃ saṃsthānāntaraṃ gṛhṇīmahe / tasmādaviśiṣṭāsta ityevamavagamyatām / viśeṣagrahaṇantvavastvantarānugrahe śaktyantarāvirbhāvāt / uuktaṃ ca- "vyakterapagamo 'bhīṣṭaḥ pūrvasaṃsthānahānitaḥ / tadabhāvādasidho 'sya viśe.... ---------------------------------------------------------------------- kārikā 13 ---------------------------------------------------------------------- sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / guru varaṇakameva tamaḥ evaśabdaḥ pratyekaṃ pariśamāpyate / sattvaṃ laghu prakāṣakameveṣṭam / yat kiṃcitkāryakaraṇe laghu prakāśaṃ ca tatsattvarūpamiti pratyavagantavyam / tatra kāryasya tāvadudgamaheturdharmo laghutvam, karaṇasya vṛttipaṭutvahetuḥ / prakāśastu pṛthivīdharmasya cchāyālakṣaṇasya tamasastiraskāreṇa dravyāntaraprakāśanam / karaṇasyāpi grahaṇaṃ saṅkalpābhimānādhyavasāyaviṣayeṣu yathāsvaṃ pravartamānam / upaṣṭambhakaṃ calameva rajaḥ / yaḥ kaścidupastambhaścalatā copalabhyate tadrajorūpamityavagantavyam / tatropastambhaḥ prayatnaḥ, calatā kriyā / sā ca dvividhā, pariṃṇāmalakṣaṇā praspandalakṣaṇā ca / tatra pariṇāmalakṣaṇayā sahakāribhāvāntarānugṛhītasya dharmiṇaḥ pūrvadharmātpracyutiḥ / praspandalakṣaṇā prāṇādayaḥ karmendriyavṛttayaśca vacanādyāḥ / bāhyānāṃ dravyāṇāmutpatananipatanabhramaṇādīni / guru varaṇakameva tamaḥ / yatkiṃcid gauravaṃ varaṇaṃ copalabhyate tattamorūpamiti pratyavagantavyam / tatra gurutvaṃ kāryasyādhogamanaheturdharmaḥ karaṇasya vṛttimandatā / varaṇamapi kāryagataṃ ca dravyāntaratirodhānam / karaṇagatā cāśuddhiḥ prakāśapratidvandvibhūtā / ityeṣa sattvādīnāmavyatikareṇa svabhāvopalambho yata eṣāṃ nānātvamavasīyate / yatpunaretaduktaṃ strīkṣatramegheṣu svabhāvavyatikaropalambhādeko guṇastrirūpaḥ, sarve vā sarvarūpā, rūpāntarasya vā sata utpattiriti atra brūmaḥ na, guṇabhūtasya bhaktita upakārātpradhānarūpopapatteḥ / iha guṇabhūtasya bhaktitaḥ pradhānopakāritve sati bhaktitastadrūpopapattirdṛṣṭā / tadyathā kṣīrādeḥ / taddhi mukhādiṣu dṛṣṭapratilabdhapravṛttiḥ pittasya svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārāttiktaṃ saṃpadyate / na ca tathā sadeva / sattvamapi straiṇaguṇabhūtaṃ sapatnīrajasaḥ svena rūpeṇāṅgabhāvaṃ gacchaṃstasyopakārādduḥkhaṃ saṃpadyate / tamaso mohaḥ / evaṃ kṣātraṃ rajaḥ āryadāralakṣaṇasya sattvasya dasyulakṣaṇasya ca tamasaḥ / evaṃ medhyaṃ tamaḥ kārṣike sattvasya proṣitadayitāyāśca rajasaḥ / tasmānnāsti guṇānāṃ svābhāvavyatikaraḥ / kiṃ cānyat / aguṇabhūtānāṃ svabhāvagrahaṇāt / yadā caite 'ṅgabhāvamapagacchanto madhyasthāstulyasaṃskārāśca pratipadyante tadā svarūpeṇaiva / tasmādasaṃkīrṇaṃ guṇarūpam / āha- na, sandehāt / ubhayathā hi rūpāntaragrahaṇaṃ kṣīrādiṣu dṛṣṭam / tādrūpyāttaiśca vipariṇatānāṃ guṇabhāvācca / yathoktaṃ tatra kathamidamekāntena niścīyante guṇabhāvātsattvādīnāṃ rūpāntaragrahaṇaṃ na punastādrūpyādeveti ? ucyate- grahaṇavikalpopalambhāt / yadi straiṇaṃ sattvaṃ tādrūpyādeva sapatnyā tena gṛhyate tena bharturapi tathā grahaṇaprasaṃgo madhyasthānāṃ tulyasaṃskārāṇāṃ ca / aniṣṭaṃ caitat / tasmād bhākto 'yaṃ guṇavikalpopalambhaḥ / kiṃ cānyat / uttarakālaṃ svarūpagrahaṇānnivṛttānuśayābhiścaikārthatāmupagatābhiḥ sapatnībhiḥ svenaiva rūpeṇa straiṇasya sattvasya grahaṇamupalabhyate / svagṛhasamavasthitaiścāryadāraiḥ kṣatriyāṇām / niṣpannaśasyaiśca kṛṣīvalairmeghānām / tasmādbhākto 'yaṃ grahaṇavikalpopalambhaḥ / tasmādyuktametat anyo 'nyajananavṛttayo guṇāḥ, na ca saṃkīrṇasvabhāvā iti / yatpunaretaduktam anyonyamithunatvānupapattiḥ, sattvasyetaravirodhāt, ityatra brūmaḥ - asti cāyaṃ virodho guṇānāṃ pradīpavaccārthato vṛttiḥ

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/ISk/13

Cite as: Yuktidipika 13, in HREEM (hreem.cc/library/ISk/13), after GRETIL, Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/samkhya/yuktdipu.htm — Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn // " ITALICS for commentator's references to Īśvar

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text