तस्मादपि षोडशकाद्गणाद्यः पञ्चको गणस्ततः पञ्च महाभूतान्युत्पद्यन्ते । पूर्वपदलोपेनात्र महाभूतानीति वक्तव्ये भूतानीत्युच्यते । भूतसंज्ञा हि तन्मात्राणां न पृथिव्यादीनामत्र तु सांख्याचार्याणामविप्रतिपत्तिः भूतकौटस्थ्यवादिनस्तु मीमांसका आर्हताश्च । तत्प्रतिक्षेपेणेदमुच्यत इति ॥ २२ ॥ ----------------------------------------------------------------------- कारिका २३ ----------------------------------------------------------------------- आह, उक्तं प्रधानाद्बुद्धिरुत्पद्यत इति । तत्र वक्तव्यं किंलक्षणा पुनर्बुद्धिरित्युच्यते अध्यवसायो बुद्धिः को ऽयमध्यवसायः ? गौरेवायं, पुरुष एवायमिति यः प्रत्ययो निश्चयो ऽर्थग्रहणं सो ऽध्यवसायः । अत्र क्षणिकवाद्याह यद्यर्थग्रहणं बुद्धिः, अनित्या । कस्मात् ? हेत्वपेक्षणात् । अर्थग्रहणं हीन्द्रियादिविषयसन्निधानमावरणाद्यभावं चापेक्षते । न च नित्यस्य कारणापेक्षोपपद्यते । तस्मादनित्या बुद्धिः । अभिव्यक्तेरदोष इति चेत्स्यादेतन्नेन्द्रियसन्निधानादिभिरर्थग्रहणं जन्यते किं तर्ह्यभिव्यज्यत इति । तच्च नैवम् । द्विधा दोषात् । सा ह्यभिव्यक्तिः स्वरूपलाभो वा स्यात् ग्रहणप्रतिबन्धव्युदासो वा । किं चातः ? तद्यदि तावत्स्वरूपलाभः क्रियते ऽर्थग्रहणमिति प्राप्तम् । अर्थग्रहणप्रतिबन्धस्यान्धकारस्य व्युदासस्तदप्ययुक्तम् । विप्रतिषेधात् । ग्रहणं च स्यात्तत्प्रतिबन्धश्चेति विप्रतिषिद्धम् । किंच भेदात् । व्यङ्ग्यं हि घटादि चन्द्रार्कौषधिमणिरत्नप्रदीपभेदान्न भिद्यते । अस्ति बुद्धीनामर्थभेदाद् भेदः । वृत्तिभेदाददोषो मृद्वदिति चेत् स्यान्मतम् , यथा मृद्द्रव्यस्य घटादिसंस्थानवृत्तिभेदे ऽप्यभेद एवं बुद्धेरिति । तदप्ययुक्तम् । अनन्यत्वात् । यदा बुद्धिरन्या वृत्तिभ्यः, प्राप्तस्तद्भेदे बुद्धिभेदः । किंच दृष्टान्तासिद्धेः । साध्यं चैतत् किं तदेव मृद्द्रव्यं घटादिवृत्तिभेदमनुभवति आहोस्वित्प्रत्ययान्तरवशादन्यच्चान्यच्चोत्पद्यते इति ? अवयवभेदाच्च । उपेत्य वानुवृत्तिं ब्रूमः- न हि तदेकं मृद्द्रव्यम्, किं तर्हि बहवो मृत्परमाणवो ऽनेकदेशावच्छिन्नवृत्तय इति । किं चान्यत् । निवृत्तिविभक्तिग्रहणात् । तद्धि मृद्द्रव्यं संस्थानमपेक्ष्यापि गृह्यते, न त्वर्थग्रहणमनपेक्ष्य बुद्धेर्ग्रहणमस्ति । तस्माद्विषमो दृष्टान्तः । परिमाणाददोष इति चेत् स्यान्मतम् सत्त्वादीनामङ्गाङ्गिभावनियमात्तेन तेनार्थग्रहणात्मना विपरिणामो वृत्तिरिति । एतच्चायुक्तम् । उभयकल्पने दोषप्रसंगात् । यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती, दत्तोत्तर एष पक्षः । अथ नाशोत्पादौ तेन धर्मधर्मिणोरनन्यत्वाद्धर्माणां नाशोत्पादाद्बुद्धेरपि नाशोत्पादप्रसंगः । तदनभ्युपगमे वान्यत्वमिति दोषः । आह च नष्टोत्पन्नमनन्यत्वादनित्यं नित्यमेव वा । नष्टोत्पन्नाविनष्टानां नित्यं तो नास्ति चैकदा ॥ यदप्युक्तम्- सत्त्वादीनामङ्गाङ्गिभावनियमादिति, तदयुक्तम् । अत एवानित्यत्वसिद्धेः । तुल्यानां गुणप्रधानभावानुपपत्तेः । सत्त्वादीनानङ्गाङ्गिभावाभ्युपगमात् वृद्धिक्षयावभ्युपगन्तव्यौ । ततश्च बुद्धिरनित्येति प्राप्तम् । तेभ्यो ऽनन्यत्वात् । अथ मतं तदवस्थाप्यसौ नित्येति, न तर्हि सत्वाद्यात्मभूता बुद्धिरिति प्राप्तम् । ततश्च कार्यकारणयोरविवेक इत्यस्य विरोधः । तस्मादनित्या बुद्धिरिति । उच्यते- यत्तावदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति तदयुक्तम् । कस्मात् ? सिद्धसाधनात् । कस्यात्र विप्रतिपत्तिरनित्या वा बुद्धिः स्यान्नित्या वेति ? किं तर्हि हेतुमदनित्यं व्यक्तमिति वचनादनित्यैव । तस्मादिष्टमेवैतत्सङ्गृहीतम् । अतएव क्षणिकत्वमिति चेत्, अथापि स्याद्धेत्वपेक्षा हि संस्कृतत्वम् । संस्कृतं तु क्षणिकम् । तद्यथा प्रदीप इति । तस्मादनित्ये सत्यपि विशेषानभिधाने क्षणिकत्वमेवानेन हेतुना बुद्धेः प्रतिपाद्यत इति । कस्मात् ? उत्तरवचनविरोधप्रसंगात् । एवमपि यदुत्तरं क्षणिकत्वप्रसिद्ध्यर्थमुच्यते प्रत्यर्थग्रहणान्यत्वादनित्येत्यादि तस्यानर्थक्यम् । तस्मात् पूर्वोत्तरविरुद्धत्वात्सकलमेवेदं प्रकरणं नाध्ययनं, न प्रत्याख्यानमर्हति । परेषां त्वभिनिष्टा बुद्धिरत्रेत्यसंगतार्थोत्तरापवाददोषमनपेक्ष्यापि प्रत्येकमप्येतदसाधनम्, वृत्तिविषयत्वात् । स्वकारणपरिनिष्पन्नाया हि बुद्धेर्व्यापारो ऽर्थग्रहणसंज्ञक इन्द्रियादिसन्निधानापेक्षो न बुद्धिः । तदनन्यत्वात्प्रसंगनिवृत्तिरिति चेदथ मतम्, वृत्तिवृत्तिमतोरनन्यत्वादित्थमपि कल्पयित्वायं प्रसंगो न निवर्तते । तथा चोक्तम्- स्वालक्षण्यं वृत्तिस्त्रयस्येति (इस्क् २९) । तदप्यबाधकम् । कस्मात् ? उपचारात् । सत्यमनन्या, वृत्तिवृत्तिमतोर्भेदेनाग्रहणात्, तथाप्युपरतव्यापारस्यापि परश्वादेर्वृत्तिमतः स्वरूप नोपरमतीति भेदमुपचर्य व्यवहारो नानाकार्यविषयः प्रवर्तते । अतएवान्यत्वमपि स्यादिति तदयुक्तम्, एकान्तात् । तद्यथा सेनापङ्क्तिसेनाकुण्डलाद्युपरमे न तत्सन्निवेशिनामुपरमः कार्यभेदश्च, न चान्यत्वम् । एवं वृत्तितद्वतोरपि च स्यात् । तस्माद्युक्तमेतद्धेत्वपेक्षणस्य वृत्तिविषयत्वान्न बुद्धेरनित्यत्वमिति । एतेन व्यक्तिविकल्पः प्रयुक्तः, सो ऽपि वृत्तिविषय इति कृत्वा तदप्युक्तमिन्द्रियादिभेदे भेदादिति । तदप्यनेनैवोक्तम् । वृत्तिभेदो ऽत्र न भेद इति । किं चानेकान्तात् । यथोदकादिभेदात्प्रतिबिम्बभेदो न चाव्यङ्ग्यत्वमेवमन्यत्रापि स्यात् । द्रव्यान्तरोत्पत्तेरदोष इति चेत्स्यान्मतम्, उदकस्याननसंयोगाद्द्रव्यान्तरमेव प्रतिबिम्बलक्षणमुत्पद्यते न तु मुखं भिद्यते इति असदेतत् । कस्मात् ? उभयोः कारणत्वेन कल्पनानुपपत्तेः । न हि मुखः निमित्तं शक्यं वक्तुम् , विप्रकृष्टत्वान्नासादयो मुखापगमे ऽप्युपलब्धिप्रसंगात्पाकजवत् । यत्पुनरेतदुक्तं वृत्तिभेदाददोषो मृद्वदिति तथा तदस्तु । यत्तूक्तमनन्यत्वाद्दृष्टान्तासिद्धेश्चेति वृत्त्यनन्यत्वमिदानीमेव प्रत्युक्तम् । क्षणभङ्गप्रतिषेधे चोक्तं न पृथिव्यादीनामन्यथा चान्यथा चोत्पत्तिः । यत्पुनरेतदुक्तं नैकं मृद्द्रव्यमिति तत्र बुद्धिः प्रमाणम् । यदेकबुद्धिनिमित्तं तदेकं, तत्र यदि मृदो ऽनेकत्वेन प्रयोजनं बुद्धिरुपलभ्यते- वयमिति । यत्पुनरेतदुक्तम्, मृद्द्रव्यस्य संस्थानव्यतिरेकेण स्वभावो ऽवधार्यते न तु बुद्धेरर्थग्रहणमन्तरेण स्वरूपग्रहणमिति, तदयुक्तम् । अभावस्यारूपत्वात् । उपेत्य वा यथा बाह्याद्यवस्थासु व्याकारा चित्तसन्ततिः । विद्यते बीजमात्रा वस्तथा धीरिति गृह्यताम् ॥ यथा बाह्यार्थाकारवच्चित्तसन्ततिरथ च सुप्तमूर्छितविरोधसमापन्नानामर्थरूपादृते बीजमात्रास्तीत्युपगम्यते सा चिति कापि वावस्थेति वचनात्, न च गृह्यते तथा बुद्धिरपीति कस्मान्न परिकल्प्यते ? यत्पुनरेतदुक्तम् यदि धर्मान्तरोपादानपरित्यागौ व्यक्तव्यक्ती दत्तोत्तर एष पक्ष इति । तदितरत्र तुल्यम् । अस्माभिरपि तर्ह्यसत्कार्यप्रत्याख्याने दत्तोत्तर एष पक्षो व्यक्तितर्न क्रियते इति । नाशोत्पादौ तु अनिष्टावेवेति न परिहारं प्रत्यादरः क्रियते । यदप्युक्तं नष्टादुत्पन्नाच्चानष्टमनुत्पन्नं चान्यन्नास्तीति तदयुक्तम्, अनभ्युपगमात् । नाशोत्पादौ कः प्रतिजानीते यं प्रत्येतदर्थवत्स्यात् ? किं च त्वत्पक्षप्राप्तेः । भवत एव नष्टोत्पन्नेभ्यः स्कन्धेभ्यो नान्या सन्ततिरथ च नास्ति दोषः । कयापि युक्तया स्यादेतदन्यैवासाविति ततश्चैका सन्ततिरिति हीनम् । यदप्युक्तं गुणवृद्धिक्षये ऽनित्यत्वमिति तदनुपपन्नम् । कस्मात् ? रूपान्तराप्यायनात् । सत्त्वं हि प्रकर्षमनुभवद्रजस्तमसी च न्यूनतां धर्मादिरूपां बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नो खल्वप्यभावम्, एवं रहस्तमो वा प्रकर्षमनुभवत्सत्त्वं च न्यूनताधर्मादिरूपं बुद्धेराप्यायन्ति, नार्थान्तरं कुर्वन्ति नाभावम् । एवं गुणवृद्धिक्षये ऽपि रूपान्तराप्यायनान्नास्ति क्षयो बुद्धेः । तत्र यदुक्तं हेत्वपेक्षणादनित्या बुद्धिरिति एतदयुक्तम् ।यत्पुनरेतदुक्तं प्रत्यक्षग्रहणान्यत्वात्प्रतिक्षणं दीपादितैलधारासु शब्दभेदाच्च क्षणिकेति, अत्र ब्रूमः- ग्रहणान्यत्वे चोक्तं वृत्तिभेदो न वृत्तिमद्भेदः । किं चान्यत् । भिन्नार्थग्रहणैकत्वात् । उपेत्य वा ब्रूमः- यदि प्रत्यर्थमन्यदन्यद्ग्रहणं कल्प्यते, विकल्पबाधसमुच्चयसंशयद्वित्वातिशयनिवारणेषु, तथा कल्माषं शबलं चित्रमित्यनेकार्थरूपमेकं ग्रहणं न स्यात् । दृष्टं तत् । तस्मान्नायं क्षणिकत्वे हेतुः । एवमवस्थितमिदं- अध्यवसायो बुद्धिर्न क्षणिकेति । बुद्धेस्तु त्रिगुणात्मकत्वात्तस्य गुणस्य प्रकर्षे तत्तद्रूपान्तरमुत्पद्यत इति । आह, कस्य गुणस्य प्रकर्षे बुद्धेः किं लक्षणं रूपान्तरमुपजायते ? इत्युच्यते धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद् रूपम् अत्र त्वेतद्रूपमिति सत्यपि धर्मादिभेदे बुद्धिरित्यभेदविवक्षाविषय एकवचननिर्देशः क्रियते । एतदुक्तं भवति यदा रजस्तमसी वशमापाद्य बुद्धिगतं सत्त्वमुत्कृष्टं भवति तदा धर्मो ज्ञानं विराग ऐश्वर्यमित्येतद्रूपं भवति । तत्र श्रुतिस्मृतिविहितानां कर्मणामनुष्ठानाद्बुद्ध्यवस्थः सत्त्वावयव आशयभूतो धर्म इत्युच्यते । स तु द्विविधः । ब्रह्मादिस्थानेष्वभिप्रेतशरीरेन्द्रियविषयोपभोगनिर्वर्तको ज्ञानाद्यङ्गभूतश्च प्रथमः । अग्निहोत्रहवनादिक्रियानुष्ठानसाधनो यमनियमसाधन इतरः । तत्राहिंसा सत्यमस्तेयमकल्कता ब्रह्मचर्यमिति पञ्च यमाः । अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवमप्रमाद इति पञ्च नियमाः । एतेषामविलोपेनानुष्ठानाद्यतेरेवंविधोत्तरणे सत्त्वधर्म आशयतां प्रतिपद्यते, यो ज्ञानादीनां रूपाणामाप्यायनं करोति । एतदभ्युदयनिःश्रेयसयोः सोपानभूतं प्रथमं पर्व । यत्रायमवस्थितो यतिरितरेषां पर्वणामनुष्ठाने योग्यो भवति । ज्ञानं द्विविधं शब्दाद्युपलब्धिलक्षणं गुणपुरुषान्तरोपलब्धिलक्षणं च । तत्र शब्दाद्युपलब्धिलक्षणं प्रत्यक्षानुमानागमरूपम् । गुणपुरुषान्तरोपलब्धिलक्षणं च द्विविधं अपूर्वमभ्यासजं च । तयोरपूर्वम्- ऊहः शब्दो ऽध्ययनमिति (इस्क् ५१) सिद्धिकाण्डानुपतितानि प्रमाणानि । अभ्यासजं पुनः वैराग्यपूर्वावजयपृष्ठलब्धं शान्तममलं ध्रुवं सकलभवाभवप्रतिपक्षभूतम् । यदाचार्यो वक्ष्यति- एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानमिति ॥ (इस्क् ६४) विरागस्तु रागप्रतिपक्षभूतो ज्ञानाभ्यासोपजनितो बुद्धेः प्रसादः । तस्य तु यतमानव्यतिरेकैकेन्द्रियवशीकारलक्षणाश्चतस्रो ऽवस्था भवन्ति । तत्रेन्द्रियाणां विषयाभिलाषलक्षणकषायपाचनं प्रति यः प्रयत्न उत्साहः सा यतमानसंज्ञा । यतमानको ह्ययमस्मिन्पर्वण्यवस्थितो यतिर्भवति । यदा तु केषांचिदिन्द्रियाणां परिपक्वं सा व्यतिरेकसंज्ञा । व्यतिरिच्यन्ते हि तदा यतेरिन्द्रियाणि परिपक्वाण्यपरिपक्वेभ्यो विशिष्टतराणि भवन्तीत्यर्थः । विपरिपक्वसर्वेन्द्रियस्तु संकल्पमात्रावस्थितकषायो यदा भवति तदैकेन्द्रियसंज्ञा । निवृत्तसर्वेन्द्रियविषयेच्छस्य यतेरेकमेव मनोलक्षणमिन्द्रियं तदा परिपक्वं भवति । संकल्पमात्रावस्थितस्यापि परिपाको वशीकारसंज्ञा । संकल्पमूलोच्छिन्नविषयमृगतृष्णो हि अयं यतिरिन्द्रियाणामन्तःकरणस्य च प्रवृत्तिनिवृत्त्योरीष्टे । एकाग्र एकरामो ऽविद्यापर्वणो ऽतिक्रान्तः, परस्य ब्रह्मणः प्रत्यनन्तरो भवति । तदेवं चतुरवस्थं वैराग्यपर्व विज्ञाय तदनुष्ठानाय यतिः प्रयतेत । तस्योपायो दृष्टानुश्रविकविषयप्रत्याख्याने य उपदिष्टो यश्च तुष्टिषु वक्ष्यमाणस्तमेकीकृत्योत्तरोत्तरां तत्त्वभूमिं विज्ञानस्य विषयीकुर्वन्पूर्वस्यां तत्त्वभूमौ मध्यस्थः स्यात् । ऐश्वर्यमप्रतिघातलक्षणम्, यत्पुनरष्टविधं अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायित्वमिति । अत्राणिमा, महिमा, लघिमा, गरिमेति भूतवैशेषिकम् । बुद्धेस्तु प्राप्त्यादि । एवमेतच्चतुर्विधं महतः सात्त्विकं रूपमिति । आह, अथ गुणान्तररूपं किम् ? उच्यते तामसमस्माद्विपर्यस्तम्
tasmādapi ṣoḍaśakādgaṇādyaḥ pañcako gaṇastataḥ pañca mahābhūtānyutpadyante / pūrvapadalopenātra mahābhūtānīti vaktavye bhūtānītyucyate / bhūtasaṃjñā hi tanmātrāṇāṃ na pṛthivyādīnāmatra tu sāṃkhyācāryāṇāmavipratipattiḥ bhūtakauṭasthyavādinastu mīmāṃsakā ārhatāśca / tatpratikṣepeṇedamucyata iti // 22 // ----------------------------------------------------------------------- kārikā 23 ----------------------------------------------------------------------- āha, uktaṃ pradhānādbuddhirutpadyata iti / tatra vaktavyaṃ kiṃlakṣaṇā punarbuddhirityucyate adhyavasāyo buddhiḥ ko 'yamadhyavasāyaḥ ? gaurevāyaṃ, puruṣa evāyamiti yaḥ pratyayo niścayo 'rthagrahaṇaṃ so 'dhyavasāyaḥ / atra kṣaṇikavādyāha yadyarthagrahaṇaṃ buddhiḥ, anityā / kasmāt ? hetvapekṣaṇāt / arthagrahaṇaṃ hīndriyādiviṣayasannidhānamāvaraṇādyabhāvaṃ cāpekṣate / na ca nityasya kāraṇāpekṣopapadyate / tasmādanityā buddhiḥ / abhivyakteradoṣa iti cetsyādetannendriyasannidhānādibhirarthagrahaṇaṃ janyate kiṃ tarhyabhivyajyata iti / tacca naivam / dvidhā doṣāt / sā hyabhivyaktiḥ svarūpalābho vā syāt grahaṇapratibandhavyudāso vā / kiṃ cātaḥ ? tadyadi tāvatsvarūpalābhaḥ kriyate 'rthagrahaṇamiti prāptam / arthagrahaṇapratibandhasyāndhakārasya vyudāsastadapyayuktam / vipratiṣedhāt / grahaṇaṃ ca syāttatpratibandhaśceti vipratiṣiddham / kiṃca bhedāt / vyaṅgyaṃ hi ghaṭādi candrārkauṣadhimaṇiratnapradīpabhedānna bhidyate / asti buddhīnāmarthabhedād bhedaḥ / vṛttibhedādadoṣo mṛdvaditi cet syānmatam , yathā mṛddravyasya ghaṭādisaṃsthānavṛttibhede 'pyabheda evaṃ buddheriti / tadapyayuktam / ananyatvāt / yadā buddhiranyā vṛttibhyaḥ, prāptastadbhede buddhibhedaḥ / kiṃca dṛṣṭāntāsiddheḥ / sādhyaṃ caitat kiṃ tadeva mṛddravyaṃ ghaṭādivṛttibhedamanubhavati āhosvitpratyayāntaravaśādanyaccānyaccotpadyate iti ? avayavabhedācca / upetya vānuvṛttiṃ brūmaḥ- na hi tadekaṃ mṛddravyam, kiṃ tarhi bahavo mṛtparamāṇavo 'nekadeśāvacchinnavṛttaya iti / kiṃ cānyat / nivṛttivibhaktigrahaṇāt / taddhi mṛddravyaṃ saṃsthānamapekṣyāpi gṛhyate, na tvarthagrahaṇamanapekṣya buddhergrahaṇamasti / tasmādviṣamo dṛṣṭāntaḥ / parimāṇādadoṣa iti cet syānmatam sattvādīnāmaṅgāṅgibhāvaniyamāttena tenārthagrahaṇātmanā vipariṇāmo vṛttiriti / etaccāyuktam / ubhayakalpane doṣaprasaṃgāt / yadi dharmāntaropādānaparityāgau vyaktavyaktī, dattottara eṣa pakṣaḥ / atha nāśotpādau tena dharmadharmiṇorananyatvāddharmāṇāṃ nāśotpādādbuddherapi nāśotpādaprasaṃgaḥ / tadanabhyupagame vānyatvamiti doṣaḥ / āha ca naṣṭotpannamananyatvādanityaṃ nityameva vā / naṣṭotpannāvinaṣṭānāṃ nityaṃ to nāsti caikadā // yadapyuktam- sattvādīnāmaṅgāṅgibhāvaniyamāditi, tadayuktam / ata evānityatvasiddheḥ / tulyānāṃ guṇapradhānabhāvānupapatteḥ / sattvādīnānaṅgāṅgibhāvābhyupagamāt vṛddhikṣayāvabhyupagantavyau / tataśca buddhiranityeti prāptam / tebhyo 'nanyatvāt / atha mataṃ tadavasthāpyasau nityeti, na tarhi satvādyātmabhūtā buddhiriti prāptam / tataśca kāryakāraṇayoraviveka ityasya virodhaḥ / tasmādanityā buddhiriti / ucyate- yattāvaduktaṃ hetvapekṣaṇādanityā buddhiriti tadayuktam / kasmāt ? siddhasādhanāt / kasyātra vipratipattiranityā vā buddhiḥ syānnityā veti ? kiṃ tarhi hetumadanityaṃ vyaktamiti vacanādanityaiva / tasmādiṣṭamevaitatsaṅgṛhītam / ataeva kṣaṇikatvamiti cet, athāpi syāddhetvapekṣā hi saṃskṛtatvam / saṃskṛtaṃ tu kṣaṇikam / tadyathā pradīpa iti / tasmādanitye satyapi viśeṣānabhidhāne kṣaṇikatvamevānena hetunā buddheḥ pratipādyata iti / kasmāt ? uttaravacanavirodhaprasaṃgāt / evamapi yaduttaraṃ kṣaṇikatvaprasiddhyarthamucyate pratyarthagrahaṇānyatvādanityetyādi tasyānarthakyam / tasmāt pūrvottaraviruddhatvātsakalamevedaṃ prakaraṇaṃ nādhyayanaṃ, na pratyākhyānamarhati / pareṣāṃ tvabhiniṣṭā buddhiratretyasaṃgatārthottarāpavādadoṣamanapekṣyāpi pratyekamapyetadasādhanam, vṛttiviṣayatvāt / svakāraṇapariniṣpannāyā hi buddhervyāpāro 'rthagrahaṇasaṃjñaka indriyādisannidhānāpekṣo na buddhiḥ / tadananyatvātprasaṃganivṛttiriti cedatha matam, vṛttivṛttimatorananyatvāditthamapi kalpayitvāyaṃ prasaṃgo na nivartate / tathā coktam- svālakṣaṇyaṃ vṛttistrayasyeti (ISk 29) / tadapyabādhakam / kasmāt ? upacārāt / satyamananyā, vṛttivṛttimatorbhedenāgrahaṇāt, tathāpyuparatavyāpārasyāpi paraśvādervṛttimataḥ svarūpa noparamatīti bhedamupacarya vyavahāro nānākāryaviṣayaḥ pravartate / ataevānyatvamapi syāditi tadayuktam, ekāntāt / tadyathā senāpaṅktisenākuṇḍalādyuparame na tatsanniveśināmuparamaḥ kāryabhedaśca, na cānyatvam / evaṃ vṛttitadvatorapi ca syāt / tasmādyuktametaddhetvapekṣaṇasya vṛttiviṣayatvānna buddheranityatvamiti / etena vyaktivikalpaḥ prayuktaḥ, so 'pi vṛttiviṣaya iti kṛtvā tadapyuktamindriyādibhede bhedāditi / tadapyanenaivoktam / vṛttibhedo 'tra na bheda iti / kiṃ cānekāntāt / yathodakādibhedātpratibimbabhedo na cāvyaṅgyatvamevamanyatrāpi syāt / dravyāntarotpatteradoṣa iti cetsyānmatam, udakasyānanasaṃyogāddravyāntarameva pratibimbalakṣaṇamutpadyate na tu mukhaṃ bhidyate iti asadetat / kasmāt ? ubhayoḥ kāraṇatvena kalpanānupapatteḥ / na hi mukhaḥ nimittaṃ śakyaṃ vaktum , viprakṛṣṭatvānnāsādayo mukhāpagame 'pyupalabdhiprasaṃgātpākajavat / yatpunaretaduktaṃ vṛttibhedādadoṣo mṛdvaditi tathā tadastu / yattūktamananyatvāddṛṣṭāntāsiddheśceti vṛttyananyatvamidānīmeva pratyuktam / kṣaṇabhaṅgapratiṣedhe coktaṃ na pṛthivyādīnāmanyathā cānyathā cotpattiḥ / yatpunaretaduktaṃ naikaṃ mṛddravyamiti tatra buddhiḥ pramāṇam / yadekabuddhinimittaṃ tadekaṃ, tatra yadi mṛdo 'nekatvena prayojanaṃ buddhirupalabhyate- vayamiti / yatpunaretaduktam, mṛddravyasya saṃsthānavyatirekeṇa svabhāvo 'vadhāryate na tu buddherarthagrahaṇamantareṇa svarūpagrahaṇamiti, tadayuktam / abhāvasyārūpatvāt / upetya vā yathā bāhyādyavasthāsu vyākārā cittasantatiḥ / vidyate bījamātrā vastathā dhīriti gṛhyatām // yathā bāhyārthākāravaccittasantatiratha ca suptamūrchitavirodhasamāpannānāmartharūpādṛte bījamātrāstītyupagamyate sā citi kāpi vāvastheti vacanāt, na ca gṛhyate tathā buddhirapīti kasmānna parikalpyate ? yatpunaretaduktam yadi dharmāntaropādānaparityāgau vyaktavyaktī dattottara eṣa pakṣa iti / taditaratra tulyam / asmābhirapi tarhyasatkāryapratyākhyāne dattottara eṣa pakṣo vyaktitarna kriyate iti / nāśotpādau tu aniṣṭāveveti na parihāraṃ pratyādaraḥ kriyate / yadapyuktaṃ naṣṭādutpannāccānaṣṭamanutpannaṃ cānyannāstīti tadayuktam, anabhyupagamāt / nāśotpādau kaḥ pratijānīte yaṃ pratyetadarthavatsyāt ? kiṃ ca tvatpakṣaprāpteḥ / bhavata eva naṣṭotpannebhyaḥ skandhebhyo nānyā santatiratha ca nāsti doṣaḥ / kayāpi yuktayā syādetadanyaivāsāviti tataścaikā santatiriti hīnam / yadapyuktaṃ guṇavṛddhikṣaye 'nityatvamiti tadanupapannam / kasmāt ? rūpāntarāpyāyanāt / sattvaṃ hi prakarṣamanubhavadrajastamasī ca nyūnatāṃ dharmādirūpāṃ buddherāpyāyanti, nārthāntaraṃ kurvanti no khalvapyabhāvam, evaṃ rahastamo vā prakarṣamanubhavatsattvaṃ ca nyūnatādharmādirūpaṃ buddherāpyāyanti, nārthāntaraṃ kurvanti nābhāvam / evaṃ guṇavṛddhikṣaye 'pi rūpāntarāpyāyanānnāsti kṣayo buddheḥ / tatra yaduktaṃ hetvapekṣaṇādanityā buddhiriti etadayuktam /yatpunaretaduktaṃ pratyakṣagrahaṇānyatvātpratikṣaṇaṃ dīpāditailadhārāsu śabdabhedācca kṣaṇiketi, atra brūmaḥ- grahaṇānyatve coktaṃ vṛttibhedo na vṛttimadbhedaḥ / kiṃ cānyat / bhinnārthagrahaṇaikatvāt / upetya vā brūmaḥ- yadi pratyarthamanyadanyadgrahaṇaṃ kalpyate, vikalpabādhasamuccayasaṃśayadvitvātiśayanivāraṇeṣu, tathā kalmāṣaṃ śabalaṃ citramityanekārtharūpamekaṃ grahaṇaṃ na syāt / dṛṣṭaṃ tat / tasmānnāyaṃ kṣaṇikatve hetuḥ / evamavasthitamidaṃ- adhyavasāyo buddhirna kṣaṇiketi / buddhestu triguṇātmakatvāttasya guṇasya prakarṣe tattadrūpāntaramutpadyata iti / āha, kasya guṇasya prakarṣe buddheḥ kiṃ lakṣaṇaṃ rūpāntaramupajāyate ? ityucyate dharmo jñānaṃ virāga aiśvaryam / sāttvikametad rūpam atra tvetadrūpamiti satyapi dharmādibhede buddhirityabhedavivakṣāviṣaya ekavacananirdeśaḥ kriyate / etaduktaṃ bhavati yadā rajastamasī vaśamāpādya buddhigataṃ sattvamutkṛṣṭaṃ bhavati tadā dharmo jñānaṃ virāga aiśvaryamityetadrūpaṃ bhavati / tatra śrutismṛtivihitānāṃ karmaṇāmanuṣṭhānādbuddhyavasthaḥ sattvāvayava āśayabhūto dharma ityucyate / sa tu dvividhaḥ / brahmādisthāneṣvabhipretaśarīrendriyaviṣayopabhoganirvartako jñānādyaṅgabhūtaśca prathamaḥ / agnihotrahavanādikriyānuṣṭhānasādhano yamaniyamasādhana itaraḥ / tatrāhiṃsā satyamasteyamakalkatā brahmacaryamiti pañca yamāḥ / akrodho guruśuśrūṣā śaucamāhāralāghavamapramāda iti pañca niyamāḥ / eteṣāmavilopenānuṣṭhānādyaterevaṃvidhottaraṇe sattvadharma āśayatāṃ pratipadyate, yo jñānādīnāṃ rūpāṇāmāpyāyanaṃ karoti / etadabhyudayaniḥśreyasayoḥ sopānabhūtaṃ prathamaṃ parva / yatrāyamavasthito yatiritareṣāṃ parvaṇāmanuṣṭhāne yogyo bhavati / jñānaṃ dvividhaṃ śabdādyupalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca / tatra śabdādyupalabdhilakṣaṇaṃ pratyakṣānumānāgamarūpam / guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhaṃ apūrvamabhyāsajaṃ ca / tayorapūrvam- ūhaḥ śabdo 'dhyayanamiti (ISk 51) siddhikāṇḍānupatitāni pramāṇāni / abhyāsajaṃ punaḥ vairāgyapūrvāvajayapṛṣṭhalabdhaṃ śāntamamalaṃ dhruvaṃ sakalabhavābhavapratipakṣabhūtam / yadācāryo vakṣyati- evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam / aviparyayādviśuddhaṃ kevalamutpadyate jñānamiti // (ISk 64) virāgastu rāgapratipakṣabhūto jñānābhyāsopajanito buddheḥ prasādaḥ / tasya tu yatamānavyatirekaikendriyavaśīkāralakṣaṇāścatasro 'vasthā bhavanti / tatrendriyāṇāṃ viṣayābhilāṣalakṣaṇakaṣāyapācanaṃ prati yaḥ prayatna utsāhaḥ sā yatamānasaṃjñā / yatamānako hyayamasminparvaṇyavasthito yatirbhavati / yadā tu keṣāṃcidindriyāṇāṃ paripakvaṃ sā vyatirekasaṃjñā / vyatiricyante hi tadā yaterindriyāṇi paripakvāṇyaparipakvebhyo viśiṣṭatarāṇi bhavantītyarthaḥ / viparipakvasarvendriyastu saṃkalpamātrāvasthitakaṣāyo yadā bhavati tadaikendriyasaṃjñā / nivṛttasarvendriyaviṣayecchasya yaterekameva manolakṣaṇamindriyaṃ tadā paripakvaṃ bhavati / saṃkalpamātrāvasthitasyāpi paripāko vaśīkārasaṃjñā / saṃkalpamūlocchinnaviṣayamṛgatṛṣṇo hi ayaṃ yatirindriyāṇāmantaḥkaraṇasya ca pravṛttinivṛttyorīṣṭe / ekāgra ekarāmo 'vidyāparvaṇo 'tikrāntaḥ, parasya brahmaṇaḥ pratyanantaro bhavati / tadevaṃ caturavasthaṃ vairāgyaparva vijñāya tadanuṣṭhānāya yatiḥ prayateta / tasyopāyo dṛṣṭānuśravikaviṣayapratyākhyāne ya upadiṣṭo yaśca tuṣṭiṣu vakṣyamāṇastamekīkṛtyottarottarāṃ tattvabhūmiṃ vijñānasya viṣayīkurvanpūrvasyāṃ tattvabhūmau madhyasthaḥ syāt / aiśvaryamapratighātalakṣaṇam, yatpunaraṣṭavidhaṃ aṇimā mahimā laghimā garimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvamiti / atrāṇimā, mahimā, laghimā, garimeti bhūtavaiśeṣikam / buddhestu prāptyādi / evametaccaturvidhaṃ mahataḥ sāttvikaṃ rūpamiti / āha, atha guṇāntararūpaṃ kim ? ucyate tāmasamasmādviparyastam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.