Library·Yuktidipika·5

Yuktidipika 5

ISk 5

उच्यते- रागादिविषयं यद्विज्ञानं लिङ्गलिङ्गिपूर्वकम्, योगिनां च ध्यानभूमिकासु विहरतामनुमानागमतीतं प्रातिभं यद्विज्ञानमुत्पद्यते तदुपसंख्येयं स्यात् । कुतः ? न हि सुखादयः श्रोत्रादिवृत्तिबाह्याः, योगिनां चातीन्द्रियं ज्ञानमिति । यथान्यासं तु क्रियमाने ते ऽपि विषयाः, तेषां यो ऽध्यवसायस्तस्य प्रत्यक्षत्वं केन वार्यते ? आह- प्रतिविषयग्रहणं तर्हि किमर्थम् ? उच्यते - प्रतिविषयग्रहणमसद्व्युदासार्थम् । अध्यवसायो दृष्टमितीयत्युच्यमाने मृगतृष्णिकालातचक्रगन्धर्वनगरादिषु अपि यो ऽध्यवसायस्तद् दृष्टमिति । प्रतिविषयग्रहणात्तु तेषां व्युदासः कृतो भवति । आह- यद्येवं विषयाध्यवसाय इत्येव चोच्यताम् । किम्प्रतिग्रहणेन ? उच्यते- प्रतिग्रहणं सन्निकर्षार्थम् । विषयाध्यवसायो दृष्टमितीयत्युच्यमाने विषयमात्रे सम्प्रत्ययः स्यात् । प्रतिग्रहणे पुनः क्रियमाणे प्रतिराभिमुख्ये वर्तते । तेन सन्निकृष्टेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायस्तद् दृष्टमित्युपलभ्यते । आह- कस्य पुनरतीन्द्रियसन्निकर्षे प्रत्यक्षत्वं प्राप्नोति ? उच्यते- अनुमानस्य । कस्मात् ? तद्धि लिङ्गदर्शनादसन्निकृष्टे विषये भवति । आह- अनुमानस्याप्रसङ्गः । सामान्यविहितस्य विशेषविहितेन बाधनात् । सामान्ये हि विषयमात्रे ऽध्यवसायस्य प्रत्यक्षत्वं विधाय विशेषे लिङ्गलिङ्गिपूर्वके ऽनुमानं शास्ति । सामान्यविहितं च विशेषविहितेन बाध्यते, यथा तद्धि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति । उच्यते- स्मृतेस्तर्हि प्रत्यक्षत्वं प्राप्नोति । तत्रायमपवादो नाभिनिविशत इति । आह न, स्मृतेः, प्रमाणाधिकारात् । प्रमाणाधिकारो ऽयम् । न च स्मृत्या किंचित् प्रमीयते । स्मृतेः प्रमिते ऽर्थे प्रादुर्भावात् । उच्यते- संशयस्य तर्हि प्राप्नोति । न संशयस्य, अध्यवसायग्रहणात् । अध्यवसायो हि दृष्टमित्युच्यते । न च संशयो ऽध्यवसायो ऽनिश्चितत्वात् । उच्यते- इन्द्रियान्तराकूतविषये तु प्रसङ्गः । एवं तर्हीन्द्रियार्थसन्निकृष्टेन्द्रियवृत्त्युपनिपातीति दोषो न भवति । आह- रागाद्युपसंख्यानम् । यदि सन्निकृष्टेन्द्रियवृत्त्युपनिपाती यो ऽध्यवसायस्तद् दृष्टमित्यभ्युपेयते, तेन रागादिविषयं विज्ञानमतीन्द्रियत्वात्प्रत्यक्षं न प्राप्नोति । तस्योपसंख्यानम् कर्तव्यम् । उच्यते- न तर्हीदं प्रतिग्रहणमिन्द्रियविशेषणं विषयं विषयं प्रति यो वर्तते तस्मिन् यो ऽध्यवसायस्तद् दृष्टमिति । किन्तर्हि- अध्यवसायविशेषणं विषयं विषयं प्रति यो ऽध्यवसाय इति । आह- अध्यवसायविशेषणमिति चेत्, शब्दाद्युपसंख्यानम् । शब्दादीनामेव तेन प्रत्यक्षत्वं प्राप्नोति । तेषामुपसंख्यानं कर्तव्यं प्राप्नोति । किं कारणम् ? अन्तःकरणस्य तैः सन्निकर्षानुपपत्तेः । प्रतिग्रहणं सन्निकर्षार्थमिति पूर्वमतिसृष्टं भवता । तच्चेदानीमन्तःकरणविशेषणम् । न चान्तःकरणस्य शब्दादिभिः सन्निकर्ष उपपद्यते, श्रोत्रादिवैयर्थ्यप्रसङ्गात् । द्वारिद्वारभावस्यापघातप्रसङ्गाच्च । तस्मात्सुदूरमपि गत्वा प्रतिग्रहणं प्रत्याख्यानान्न मुच्यते । रागाद्युपसंख्यानाद्वेति । उच्यते- अस्तु तर्हीन्द्रियाणां प्रति विषयग्रहणं विशेषणम् । यत्तूक्तं रागादीनामुपसंख्यानं कर्तव्यमिति तत्र ब्रूमः । एकशेषनिर्देशात् सिद्धम् । एवं तर्हि प्रतिविषयाध्यवसायश्च प्रतिविषयाध्यवसायश्च प्रतिविषयाध्यवसाय इति सरूपाणामेकशेषः करिष्यते । तत्रैकेन बहिरङ्गस्यैन्द्रियस्य प्रत्यक्षस्य परिग्रहः । द्वितीयेनान्तरङ्गस्य प्रातिभस्येति रागादिविषयं योगिनां च यद्विज्ञानं तत् संगृहीतं भवतीति व्याख्यातं प्रत्यक्षम् । आह- अनुमानमिदानीं वक्तव्यम् । उच्यते- त्रिविधमनुमाममाख्यातम् । अनुमानं त्रिप्रकारमाचार्यैराख्यातम् । पूर्ववत्, शेषवत्, सामान्यतोदृष्टं च । तत्र पूर्वमिति कारणमुच्यते । यस्य हि यत् कारणं स लोके तत्पूर्वक इत्युच्यते । यथा तन्तुपूर्वकः पटो, देवदत्तपूर्वको यज्ञदत्त इति । पूर्वमस्यास्तीति पूर्ववत् । शेष इति विकारनाम, शिष्यत इति कृत्वा । तथा चोक्तम्- न शेषो ऽग्नेरन्यस्य जातमित्यस्ति । नापत्यमन्येन जातं सम्भवतीत्यर्थः । शेषो ऽस्यास्तीति शेषवत् । तत्र पूर्ववत् यदा कारणमभ्युदितं भविषयत्त्वं कार्यस्य प्रतिपद्यते । तद्यथा मेघोदये भविष्यत्त्वं वृष्टेः । आह- नैतदस्त्युदाहरणमनेकान्तात् । न हि मेघोदयो ऽवश्यं वृष्टेः कारणं भवति, वाय्वादिनिमित्तप्रतिबन्धसम्भवात् । उच्यते- यदि तर्हि कारणशक्तिं सहकारिशक्त्यन्तरानुगृहीतामप्रतियोगिनीं दृष्ट्वा कार्यस्य व्यक्तिं प्रतिपद्यते । तद्यथा यदा लौहदण्डादिसाधनसम्पन्ने व्यापारवता कुम्भकारेणाधिष्ठितां मृदमुपलभ्य घटस्य, तदा पूर्ववत् । शेषवत्- यदा कार्यनिर्वृतिं दृष्ट्वा कारणसद्भावं प्रतिपद्यते । तद्यथा कुमारकं दृष्ट्वा द्वयसमापत्तिम् । आह- नैतदस्त्युदाहरणम् । अनेकान्तात् । न हि द्वयसमापत्तिपूर्वक एव प्राणभृतां प्रादुर्भावो, द्रोणादीनामन्यथोत्पत्तिविशेषश्रवणात् । उच्यते- यदा तर्हि प्रभानुरंजितमन्तरिक्षं दृष्ट्वा चन्द्रार्कयोरुदयं प्रतिपद्यते तदा शेषवत् । आह- एतदपि नास्त्युदाहरणम् । अनेकान्तात् । न हि प्रभानुरागो ऽन्तरिक्षे चन्द्रार्कनिमित्त एव भवति । किन्तर्हि दिग्दाहादिनिमित्तो ऽपि । उच्यते - यदा तु नदीपूरं दृष्ट्वा वृष्टिं प्रतिपद्यते तदा शेषवत् । एतदपि नास्त्युदाहरणम् । अनेकान्तात् । नदीपूरस्य हि निमित्तमनेकविधं भवतीति हिमिलयनसेतुभंगगजक्रीडादि । तस्मादयुक्तमेतत् । उच्यते यदा तर्हि पर्णं दृष्ट्वा शालूकं प्रतिपद्यते, अंकुरं वा दृष्ट्वा बीजमिति तदा शेषवत् । अथवा पुनरस्तु पूर्वकमेवोदाहरणम् । यत्तूक्तं- अनेकान्तादिति अत्र ब्रूमः- वीतावीतसामर्थ्यात् । वीतावीताभ्यां हेतुभूताभ्यामभिप्रेतार्थसिद्धिरिति वक्ष्यामः । प्रसंगिधर्मान्तरनिवृत्तिमुखेन चावीतप्रयोगः । तत्र यदा प्रसंगिनां हिमविलयनादीनां देशकाललिङ्गैः प्रतिषेधः क्रियते तदा मुक्तसंशयं प्रतिपत्तिर्भवति । देशस्तावत्तद् यथा- दक्षिणापथे नास्ति हिमविलयनसम्भवः । कालतो यथा प्रावृट्काले । लिङ्गतो ऽपि यस्मान्मुद्गगवेधुकश्यामाककाष्ठसूत्रशकृत्प्रभृतीनामनुपलम्भस्तथोष्मकलुषत्वादीनामुपलम्भः । तस्मात् परिशेषतो मेध्या एवाप इति । तस्मान्नानेकान्तः । एवं कृत्वा पूर्वाण्यप्युदाहरणानि उपपन्नानि भवन्ति । देशादिविचारसामर्थ्यात् । सामान्यतोदृष्टं नाम यत्रैकदार्थयोरव्यभिचारमुपलभ्य देशान्तरे कालान्तरे च तज्जातीययोरव्यभिचारं प्रतिपद्यते । तद्यथा क्वचिद्धूमाग्निसम्बन्धं दृष्ट्वा क्वचिद्धूमान्तरेणाग्न्यन्तरस्यास्तित्वं प्रतिपद्यते । आह- नैतदस्त्युदाहरणम् । अविशेषप्रसङ्गात् । सर्वत्रैव ह्यनुमाने क्वचिदर्थयोरव्यभिचारमुपलभ्यान्यत्र तज्जातीययोरर्थयोरव्यभिचारं प्रतिपद्यते । तद्यथा क्वचित् साधनवतो मृत्पिण्डाद् घटनिष्पत्तिमुपलभ्यान्यत्र साधनवतः पिण्डान्तराद्घटान्तरनिष्पत्तिं प्रतिपद्यते, तथैकत्र नदीपूराद् वृष्टिमुपलभ्यान्यत्र नदीपूरान्तराद्वृष्ट्यन्तरमवसीयते । तथा च सति त्रयाणामविशेषप्रसंगः । उच्यते- यदा तर्हि सहभुवामेकस्य विशिष्टगुणमुपलभ्य शेषाणामपि तद्वत्त्वमनुमीयते तदा सामान्यतोदृष्टम् । तद्यथा वृक्षादेकस्य फलस्य पाकमुपलभ्य शेषाणां वृक्षान्तराणां च पाको ऽनुमीयते । आह- एतदपि नास्त्युदाहरणम् । अनेकातन्तात् । न हि सर्वेषां फलानां तुल्यकालं पाको भवति । पूर्वापरकालनिष्पन्नत्वात्, निमित्तभेदाच्च । उच्यते- यदा तर्हि समुद्रादेकमुदबबिन्दुं प्राश्य शेषस्य लवणतानुमीअते । स्थाल्यां वैकं पुलाकमुपलभ्य शेषाणां पाको ऽनुमीयते तदा सामान्यतोदृष्टम् । आह- नैतदस्त्युदाहरणम् । अकृत्स्नसङ्ग्रहात् । वक्ष्यत्ययमुपरिष्टादाचार्यः "सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानादिति" (इस्क् ६) । तत्रैवं प्रमाणे परिकल्प्यमाने कार्यकारणयोस्तत्संघातानां च सुखदुःखमोहस्वभावोपलम्भात्तन्मात्राहङकारप्रधानानां समधिगमः स्यात् । न पुरुषस्य, तज्जातीयार्थानुपलम्भात् । उच्यते- यदा तर्हि क्वचिद्धर्मेण धर्मान्तरस्याव्यभिचारमुपलभ्यैकधर्मोपलम्भाद्भिन्नजातीये ऽत्यन्तानुपलब्धस्य धर्मान्तरस्य प्रतिपत्तिस्तदा सामान्यतोदृष्टम् । तद्यथा - देवदत्ते गमनाद्देशान्तरप्राप्तिमुपलभ्यात्यन्तादृष्टज्योतिषां देशान्तरप्राप्तेर्गमनमनुमीयते । तथा प्रासादादीनां वृद्धिपूर्वकं दीर्घत्वमुपलभ्यौषधिवनस्पतीनां दीर्घत्वदर्शनाद्वृद्धिरनुमीयते । आह- नैतदप्यस्त्युदाहरणम् । पूर्वेणाविशेषात् । कार्यात् कारणस्याधिगमः शेषवदिति पूर्वमतिसृष्टं भवता । अत्रापि च देशान्तरप्राप्तिलक्षणात् कार्याद् गतिलक्षणस्य कारणस्याधिगमः । तस्मात् शेषवत्सामान्यतोदृष्टयोरभेदप्रसंगः । उच्यते- न, अनियमात् । यत्र हि नियमतः कार्येण कारणमधिगम्यते तच्छेषवदिति अयमस्मदभिसन्धिः । न तु तदस्ति सामान्यतोदृष्टे । कस्मात् ? संघातत्वसामान्यात् । पारार्थ्यसामान्यसाधनमपि दृश्यते । यथाह- अव्यभिचाराद्विशेषास्तु प्रतीताः प्रतिपादकाः इति । साध्यसाधनसामान्ययोरपि दृश्यते, यथानित्यः शब्दः कृतकत्वादिति । तत्रैवं सति नियमवादिनः प्रतिज्ञाहानिः । एतेनासिद्धविरुद्धानैकान्तिकसाधनाभासाः प्रत्युक्ताः । ते हि संशयविपर्ययाज्ञानहेतुकत्वादगमका इति व्याख्यातमनुमानम् । आह- आप्तवचनस्य किं लक्षणमिति ? उच्यते- आप्तश्रुतिराप्तवचनन्तु

ucyate- rāgādiviṣayaṃ yadvijñānaṃ liṅgaliṅgipūrvakam, yogināṃ ca dhyānabhūmikāsu viharatāmanumānāgamatītaṃ prātibhaṃ yadvijñānamutpadyate tadupasaṃkhyeyaṃ syāt / kutaḥ ? na hi sukhādayaḥ śrotrādivṛttibāhyāḥ, yogināṃ cātīndriyaṃ jñānamiti / yathānyāsaṃ tu kriyamāne te 'pi viṣayāḥ, teṣāṃ yo 'dhyavasāyastasya pratyakṣatvaṃ kena vāryate ? āha- prativiṣayagrahaṇaṃ tarhi kimartham ? ucyate - prativiṣayagrahaṇamasadvyudāsārtham / adhyavasāyo dṛṣṭamitīyatyucyamāne mṛgatṛṣṇikālātacakragandharvanagarādiṣu api yo 'dhyavasāyastad dṛṣṭamiti / prativiṣayagrahaṇāttu teṣāṃ vyudāsaḥ kṛto bhavati / āha- yadyevaṃ viṣayādhyavasāya ityeva cocyatām / kimpratigrahaṇena ? ucyate- pratigrahaṇaṃ sannikarṣārtham / viṣayādhyavasāyo dṛṣṭamitīyatyucyamāne viṣayamātre sampratyayaḥ syāt / pratigrahaṇe punaḥ kriyamāṇe pratirābhimukhye vartate / tena sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityupalabhyate / āha- kasya punaratīndriyasannikarṣe pratyakṣatvaṃ prāpnoti ? ucyate- anumānasya / kasmāt ? taddhi liṅgadarśanādasannikṛṣṭe viṣaye bhavati / āha- anumānasyāprasaṅgaḥ / sāmānyavihitasya viśeṣavihitena bādhanāt / sāmānye hi viṣayamātre 'dhyavasāyasya pratyakṣatvaṃ vidhāya viśeṣe liṅgaliṅgipūrvake 'numānaṃ śāsti / sāmānyavihitaṃ ca viśeṣavihitena bādhyate, yathā taddhi brāhmaṇebhyo dīyatāṃ takraṃ kauṇḍinyāyeti / ucyate- smṛtestarhi pratyakṣatvaṃ prāpnoti / tatrāyamapavādo nābhiniviśata iti / āha na, smṛteḥ, pramāṇādhikārāt / pramāṇādhikāro 'yam / na ca smṛtyā kiṃcit pramīyate / smṛteḥ pramite 'rthe prādurbhāvāt / ucyate- saṃśayasya tarhi prāpnoti / na saṃśayasya, adhyavasāyagrahaṇāt / adhyavasāyo hi dṛṣṭamityucyate / na ca saṃśayo 'dhyavasāyo 'niścitatvāt / ucyate- indriyāntarākūtaviṣaye tu prasaṅgaḥ / evaṃ tarhīndriyārthasannikṛṣṭendriyavṛttyupanipātīti doṣo na bhavati / āha- rāgādyupasaṃkhyānam / yadi sannikṛṣṭendriyavṛttyupanipātī yo 'dhyavasāyastad dṛṣṭamityabhyupeyate, tena rāgādiviṣayaṃ vijñānamatīndriyatvātpratyakṣaṃ na prāpnoti / tasyopasaṃkhyānam kartavyam / ucyate- na tarhīdaṃ pratigrahaṇamindriyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo vartate tasmin yo 'dhyavasāyastad dṛṣṭamiti / kintarhi- adhyavasāyaviśeṣaṇaṃ viṣayaṃ viṣayaṃ prati yo 'dhyavasāya iti / āha- adhyavasāyaviśeṣaṇamiti cet, śabdādyupasaṃkhyānam / śabdādīnāmeva tena pratyakṣatvaṃ prāpnoti / teṣāmupasaṃkhyānaṃ kartavyaṃ prāpnoti / kiṃ kāraṇam ? antaḥkaraṇasya taiḥ sannikarṣānupapatteḥ / pratigrahaṇaṃ sannikarṣārthamiti pūrvamatisṛṣṭaṃ bhavatā / taccedānīmantaḥkaraṇaviśeṣaṇam / na cāntaḥkaraṇasya śabdādibhiḥ sannikarṣa upapadyate, śrotrādivaiyarthyaprasaṅgāt / dvāridvārabhāvasyāpaghātaprasaṅgācca / tasmātsudūramapi gatvā pratigrahaṇaṃ pratyākhyānānna mucyate / rāgādyupasaṃkhyānādveti / ucyate- astu tarhīndriyāṇāṃ prati viṣayagrahaṇaṃ viśeṣaṇam / yattūktaṃ rāgādīnāmupasaṃkhyānaṃ kartavyamiti tatra brūmaḥ / ekaśeṣanirdeśāt siddham / evaṃ tarhi prativiṣayādhyavasāyaśca prativiṣayādhyavasāyaśca prativiṣayādhyavasāya iti sarūpāṇāmekaśeṣaḥ kariṣyate / tatraikena bahiraṅgasyaindriyasya pratyakṣasya parigrahaḥ / dvitīyenāntaraṅgasya prātibhasyeti rāgādiviṣayaṃ yogināṃ ca yadvijñānaṃ tat saṃgṛhītaṃ bhavatīti vyākhyātaṃ pratyakṣam / āha- anumānamidānīṃ vaktavyam / ucyate- trividhamanumāmamākhyātam / anumānaṃ triprakāramācāryairākhyātam / pūrvavat, śeṣavat, sāmānyatodṛṣṭaṃ ca / tatra pūrvamiti kāraṇamucyate / yasya hi yat kāraṇaṃ sa loke tatpūrvaka ityucyate / yathā tantupūrvakaḥ paṭo, devadattapūrvako yajñadatta iti / pūrvamasyāstīti pūrvavat / śeṣa iti vikāranāma, śiṣyata iti kṛtvā / tathā coktam- na śeṣo 'gneranyasya jātamityasti / nāpatyamanyena jātaṃ sambhavatītyarthaḥ / śeṣo 'syāstīti śeṣavat / tatra pūrvavat yadā kāraṇamabhyuditaṃ bhaviṣayattvaṃ kāryasya pratipadyate / tadyathā meghodaye bhaviṣyattvaṃ vṛṣṭeḥ / āha- naitadastyudāharaṇamanekāntāt / na hi meghodayo 'vaśyaṃ vṛṣṭeḥ kāraṇaṃ bhavati, vāyvādinimittapratibandhasambhavāt / ucyate- yadi tarhi kāraṇaśaktiṃ sahakāriśaktyantarānugṛhītāmapratiyoginīṃ dṛṣṭvā kāryasya vyaktiṃ pratipadyate / tadyathā yadā lauhadaṇḍādisādhanasampanne vyāpāravatā kumbhakāreṇādhiṣṭhitāṃ mṛdamupalabhya ghaṭasya, tadā pūrvavat / śeṣavat- yadā kāryanirvṛtiṃ dṛṣṭvā kāraṇasadbhāvaṃ pratipadyate / tadyathā kumārakaṃ dṛṣṭvā dvayasamāpattim / āha- naitadastyudāharaṇam / anekāntāt / na hi dvayasamāpattipūrvaka eva prāṇabhṛtāṃ prādurbhāvo, droṇādīnāmanyathotpattiviśeṣaśravaṇāt / ucyate- yadā tarhi prabhānuraṃjitamantarikṣaṃ dṛṣṭvā candrārkayorudayaṃ pratipadyate tadā śeṣavat / āha- etadapi nāstyudāharaṇam / anekāntāt / na hi prabhānurāgo 'ntarikṣe candrārkanimitta eva bhavati / kintarhi digdāhādinimitto 'pi / ucyate - yadā tu nadīpūraṃ dṛṣṭvā vṛṣṭiṃ pratipadyate tadā śeṣavat / etadapi nāstyudāharaṇam / anekāntāt / nadīpūrasya hi nimittamanekavidhaṃ bhavatīti himilayanasetubhaṃgagajakrīḍādi / tasmādayuktametat / ucyate yadā tarhi parṇaṃ dṛṣṭvā śālūkaṃ pratipadyate, aṃkuraṃ vā dṛṣṭvā bījamiti tadā śeṣavat / athavā punarastu pūrvakamevodāharaṇam / yattūktaṃ- anekāntāditi atra brūmaḥ- vītāvītasāmarthyāt / vītāvītābhyāṃ hetubhūtābhyāmabhipretārthasiddhiriti vakṣyāmaḥ / prasaṃgidharmāntaranivṛttimukhena cāvītaprayogaḥ / tatra yadā prasaṃgināṃ himavilayanādīnāṃ deśakālaliṅgaiḥ pratiṣedhaḥ kriyate tadā muktasaṃśayaṃ pratipattirbhavati / deśastāvattad yathā- dakṣiṇāpathe nāsti himavilayanasambhavaḥ / kālato yathā prāvṛṭkāle / liṅgato 'pi yasmānmudgagavedhukaśyāmākakāṣṭhasūtraśakṛtprabhṛtīnāmanupalambhastathoṣmakaluṣatvādīnāmupalambhaḥ / tasmāt pariśeṣato medhyā evāpa iti / tasmānnānekāntaḥ / evaṃ kṛtvā pūrvāṇyapyudāharaṇāni upapannāni bhavanti / deśādivicārasāmarthyāt / sāmānyatodṛṣṭaṃ nāma yatraikadārthayoravyabhicāramupalabhya deśāntare kālāntare ca tajjātīyayoravyabhicāraṃ pratipadyate / tadyathā kvaciddhūmāgnisambandhaṃ dṛṣṭvā kvaciddhūmāntareṇāgnyantarasyāstitvaṃ pratipadyate / āha- naitadastyudāharaṇam / aviśeṣaprasaṅgāt / sarvatraiva hyanumāne kvacidarthayoravyabhicāramupalabhyānyatra tajjātīyayorarthayoravyabhicāraṃ pratipadyate / tadyathā kvacit sādhanavato mṛtpiṇḍād ghaṭaniṣpattimupalabhyānyatra sādhanavataḥ piṇḍāntarādghaṭāntaraniṣpattiṃ pratipadyate, tathaikatra nadīpūrād vṛṣṭimupalabhyānyatra nadīpūrāntarādvṛṣṭyantaramavasīyate / tathā ca sati trayāṇāmaviśeṣaprasaṃgaḥ / ucyate- yadā tarhi sahabhuvāmekasya viśiṣṭaguṇamupalabhya śeṣāṇāmapi tadvattvamanumīyate tadā sāmānyatodṛṣṭam / tadyathā vṛkṣādekasya phalasya pākamupalabhya śeṣāṇāṃ vṛkṣāntarāṇāṃ ca pāko 'numīyate / āha- etadapi nāstyudāharaṇam / anekātantāt / na hi sarveṣāṃ phalānāṃ tulyakālaṃ pāko bhavati / pūrvāparakālaniṣpannatvāt, nimittabhedācca / ucyate- yadā tarhi samudrādekamudababinduṃ prāśya śeṣasya lavaṇatānumīate / sthālyāṃ vaikaṃ pulākamupalabhya śeṣāṇāṃ pāko 'numīyate tadā sāmānyatodṛṣṭam / āha- naitadastyudāharaṇam / akṛtsnasaṅgrahāt / vakṣyatyayamupariṣṭādācāryaḥ "sāmānyatastu dṛṣṭādatīndriyāṇāṃ pratītiranumānāditi" (ISk 6) / tatraivaṃ pramāṇe parikalpyamāne kāryakāraṇayostatsaṃghātānāṃ ca sukhaduḥkhamohasvabhāvopalambhāttanmātrāhaṅakārapradhānānāṃ samadhigamaḥ syāt / na puruṣasya, tajjātīyārthānupalambhāt / ucyate- yadā tarhi kvaciddharmeṇa dharmāntarasyāvyabhicāramupalabhyaikadharmopalambhādbhinnajātīye 'tyantānupalabdhasya dharmāntarasya pratipattistadā sāmānyatodṛṣṭam / tadyathā - devadatte gamanāddeśāntaraprāptimupalabhyātyantādṛṣṭajyotiṣāṃ deśāntaraprāptergamanamanumīyate / tathā prāsādādīnāṃ vṛddhipūrvakaṃ dīrghatvamupalabhyauṣadhivanaspatīnāṃ dīrghatvadarśanādvṛddhiranumīyate / āha- naitadapyastyudāharaṇam / pūrveṇāviśeṣāt / kāryāt kāraṇasyādhigamaḥ śeṣavaditi pūrvamatisṛṣṭaṃ bhavatā / atrāpi ca deśāntaraprāptilakṣaṇāt kāryād gatilakṣaṇasya kāraṇasyādhigamaḥ / tasmāt śeṣavatsāmānyatodṛṣṭayorabhedaprasaṃgaḥ / ucyate- na, aniyamāt / yatra hi niyamataḥ kāryeṇa kāraṇamadhigamyate taccheṣavaditi ayamasmadabhisandhiḥ / na tu tadasti sāmānyatodṛṣṭe / kasmāt ? saṃghātatvasāmānyāt / pārārthyasāmānyasādhanamapi dṛśyate / yathāha- avyabhicārādviśeṣāstu pratītāḥ pratipādakāḥ iti / sādhyasādhanasāmānyayorapi dṛśyate, yathānityaḥ śabdaḥ kṛtakatvāditi / tatraivaṃ sati niyamavādinaḥ pratijñāhāniḥ / etenāsiddhaviruddhānaikāntikasādhanābhāsāḥ pratyuktāḥ / te hi saṃśayaviparyayājñānahetukatvādagamakā iti vyākhyātamanumānam / āha- āptavacanasya kiṃ lakṣaṇamiti ? ucyate- āptaśrutirāptavacanantu

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/ISk/5

Cite as: Yuktidipika 5, in HREEM (hreem.cc/library/ISk/5), after GRETIL, Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/samkhya/yuktdipu.htm — Yuktidipika, a commentary on Īśvarakṛṣṇa's Sāṃkhyakārikā Based on the ed. by Shiv Kumar and D.N. Bhargava (2 vols., Delhi 1990-1992) Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's kārikās: " .......... // ISk_nn // " ITALICS for commentator's references to Īśvar

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text