तत्र तुष्टयः प्रकृत्याद्या वक्ष्यमाणाः, तासां द्विविधो विपर्ययः । अव्युत्पन्नस्य योगधर्मेण तस्यां भूमावप्रवृत्तिः, व्युत्पन्नस्य चोत्तरभूम्यपरिज्ञानात्पूर्वस्यां भूमावक्षेमरूपेण ग्रहणम् । आत्मविदो वा सर्वासु भूमिषु । तेषु यत्पूर्वं तदशक्तिभावाभिप्रेतम् । यन्मध्यमं तदापेक्षिकम् । कथम् ? तन्मात्रभूम्यवस्थो हि योग्यस्मितादिभूम्यनवजयात्तुष्टो महाभूतातिक्रमात्सिद्धः । तथा विजितास्मितारूपो महदाद्यवस्थापेक्षया तुष्टः, पूर्वभूम्यपेक्षया सिद्धः । एवं महदवस्थः प्रधानापेक्षया पूर्वापेक्षया च । प्रधानावस्थः पुरुषापेक्षया पूर्वापेक्षया च । गुणपुरुषान्तरज्ञस्तु सिद्ध एव । तस्मादव्युत्पन्नस्याम्भःप्रभृतिषु नवानम्भःप्रभृतयो बुद्धिवधाः । तारकादिविपर्ययेणाष्टावतारकादयः । एषा खल्वशक्तिरष्टाविंशतिभेदा । तुष्टिस्तु सन्निहितविषयसन्तोषाच्चिकीर्षितादर्थादूनेन निवृत्तिः सामान्यत एकैव, प्रत्यर्थमनन्ता, शतेन तुष्टः सहस्रेणेति । शास्त्रे तु बाह्याध्यात्मिकानां सुखदुःखमोहानां प्राप्तिष्वपगमेषु वाचाव्यवस्थ्यलक्षणा उपायनवत्वान्नव तुष्टयो भवन्ति ॥ ४९ ॥ ----------------------------------------------------------------------- कारिका ५० ----------------------------------------------------------------------- तासाम् आध्यात्मिक्यश्चतस्रः । प्रकृत्युपादानकालभाग्याख्याः । आध्यात्मिकी इति शरीरशरीरिणोर्विशेषमुपलिप्समानेन योगिना यदनात्मन्यात्मबुद्धिरवस्थाप्यते सा खल्वाध्यात्मिकी सिद्धिः तुष्टिः सन्तोषः क्षेम इत्यर्थः । तासां प्रकृत्याख्या । यदा वीतावीतैः प्रधानमधिगम्य तत्पूर्वकत्वं च महदादीनां विकाराणामानन्त्याच्च प्रधानात्मनः कृत्स्नस्य महदादिभावेन विपरिणामासम्भवादेकदेशस्याप्रकृतिविकारभूतस्य भोक्तृत्वमकर्तृत्वं चाध्यवस्य सङ्गद्वेषनिवृत्तिं लभते, साद्या तुष्टिरम्भ इत्यभिधीयते । कस्मात् ? अमितं हि प्रधानतत्त्वं भाति जगद्बीजभूतत्वान्महदादिभावपरिणामेन न्यूनस्यैकदेशस्यात्मन एवापूरात् । तद्व्यतिरेकेण चान्यस्यैकदेशस्योभयधर्मिणो भोक्तृभूतस्य सद्भावात्संप्रक्षालने ऽपि चापसंहृतम्, वैश्वरूप्यस्यानुच्छेदात् । तथा च शास्त्रमाह- अम्भ इति गुणलिङ्गसन्निचयमेवाधिकुरुते । गुणाश्च सत्त्वरजस्तमांसि । लिङ्गं च महदादि अत्र सन्निहितं भवति । तदिदं प्रधानममितं भात्यमितमुपलभ्यत इत्यम्भः । स खल्वयं योगी प्रधानलक्षणां भूमिमवजित्य तन्महिम्ना च तदशून्यं दृष्ट्वा व्यतिरिक्तस्य पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । भिन्ने च देहे प्रकृतौ लयं गच्छति, ततश्च पुनरावर्तते । तस्यां च तुष्टावन्ये सप्त महदादिकारणिनो ऽवरुद्धा द्रष्टव्याः । तत्र यथा प्राधानिकस्य पुरुषे नास्ति विज्ञानं एवमितरेषामुत्तरेषु तत्त्वेषु । महत्कारणिनः प्रधाने ऽस्मिताकारणिनो महति, तन्मात्रकारणिनो ऽहंकारे । तदेकदेशाश्चैषां भोक्तारः पूर्ववत् । अत्रापि च सत्त्वादीनां संहतविविक्तपरिणतव्यस्तसमस्तानां भेदादविद्यावच्छेदानन्त्यमवसेयम् । आह, तुष्ट्यविद्ययोरभेदः लक्षणैकत्वात् । अष्टासु प्रकृतिष्वात्मबुद्धिस्तुष्टिः । तदेव च तम इत्यविद्याकाण्डे निर्दिष्टम् । तस्मात्पदार्थसंकर इति । उच्यते- न, प्रत्ययविशेषात् । तमःप्रधानपुरुषोपदेशे सति प्रत्ययनिर्दिधारयिषया तयोः प्रधानमेव ज्यायो न पुरुष इत्यभिनिविशेत । तुष्टिस्तु किं परमित्याश्रित्य प्रवृत्तः प्रधानज्ञानमात्रे सन्तोषात्पदार्थान्तरं विज्ञातुमेव नाद्रियते । किं च प्रहाणविशेषात् । निरूढमूलो ह्यनात्मनि आत्मग्रहो ज्ञानोत्तरकालभावनया प्रहातव्यः । तमोबहुलत्वात्तम इत्यभिधीयते । पेलवस्तु सत्त्वबहुलो दर्शनप्रणयस्तुष्टिः । किंच तत्त्वाभिजयात् । विजितभूमिकस्य हि योगिनस्तन्माहात्म्यवशीकृतत्वाद् भूम्यन्तरे प्रवृत्तिस्तुष्टिः । इतरस्य त्वभिनिवेशमात्रमेवेत्यनयोर्विशेषः । तस्मान्न पदार्थसंकर इति व्याख्याता प्रकृत्याख्या तुष्टिः । यदा तु सत्यपि प्रकृतिसामर्थ्ये नानपेक्ष्य यथास्वमुपादानं भावानामुत्पत्तिः सम्भवति प्रकृत्यविशेषे सर्वकालमुत्पत्तिप्रसंगात्, प्रकृतिकृत्यमेवेदं विश्वमित्यभ्युपगच्छतस्तदविशेषाद् गोः पुरुषादुत्पत्तिप्रसंगः, पुरुषस्य वा महिषात् । किं च जात्यभेदप्रसंगात् । प्रकृतिकृत्यमिदं विश्वमित्यभ्युपगच्छतो जातिभेदो न स्यात्, तदविशेषात् । दृष्टं तूपादानाज्जात्यनुविधानं भावानाम् । तस्मात्तदेव कारणत्वेन परिकल्पयितुं न्याय्यम् । उपादानैकदेश एव च कार्यकारणविधात्मा भोक्तेत्येतस्माद् दर्शनात्सङ्गद्वेषनिवृत्तिं लभते, सा द्वितीया तुष्टिः सलिलमित्यभिधीयते । कथं पुनरेतत्सलिलम् ? सत्युपादाने विकारो लीयत इति । तथा च कृत्वा शास्रमाह "सलिलं सलिलमिति वैकारिकोपनिपातमेवाधिकुरुते, सति तस्मिंल्लीयते जगदिति" । स खल्वयं योगी पार्थिवानवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । भिन्ने च देहे पृथिव्यादिषु लीयते । ततश्च पुनरावर्तते । यदा च सत्युपादानसामर्थ्ये न तावतैव भावानां प्रादुर्भावः किं तर्हि सन्निहितसाधनानामपि कालं प्रत्यपेक्षा भवति- कालविशेषाद्बीजादङ्कुरो जायते, अङ्कुरान्नालं, नालात्काण्डम्, काण्डात्प्रसव इत्यादि । अन्यथा तूपादानानां सन्निधानमात्रात्क्षणेनैवामीषामवस्थाविशेषाणामभिव्यक्तिः स्यात् । किंच कालविपर्ययेणोत्पत्तिप्रसंगात् । न चैतदिष्टम् । किं च तदनभिधानात् । दृश्यन्ते च प्राणिनां कालानुरूपाः स्वाभावाहारविहारव्यवस्थाः । तस्मादसावेव कारणम् । तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते, सा तृतीया तुष्टिरोघ इत्यभिधीयते । कथं पुनरयं काल ओघ इत्युच्यते ? सलिलौघवत्सर्वाभ्यावहनात् । तद्यथा सलिलौघस्तृणं काष्ठमश्मानं प्राणिनं वा स्वमूर्तिसंसृष्टं सर्वमेवाभ्यावहति, एवमयं कालो गर्भाद्बाल्यं, बाल्यात्कौमारं, कौमाराद्यौवनं, यौवनात्स्थाविर्यम्, स्थाविर्यान्मरणं, तथा बीजान्मूलं मूलादङ्कुरमिति वहति । तथा चाह यामेव प्रथमां रात्रिं गर्भे भवति पूरुषः । संप्रस्थितस्तां भवति स गच्छन्न निवर्तते ॥ तस्मादोघसामान्यादोघः कालः । स खल्वयं योगी कालमवजित्य पदार्थान्तराभावं मन्यमानस्तामेव भूमिं कैवल्यमिति मन्यते । देहभेदे च कालमनुप्रविशति । ततश्च पुनरावर्तते । यदा तु सत्यपि कालसामर्थ्ये भावानामुत्पत्तिः भाग्यानपेक्षते । कस्मात् ? तत्सन्निधाने ऽप्यप्रादुर्भावात् । सत्यपि साधनसामर्थ्ये कालविशेषे च कस्यचिदुत्पत्तिर्भवति कस्यचिन्नेति । तस्मादस्ति कारणान्तरं यदपेक्ष्य भावानामुत्पत्तिरनुत्पत्तिश्च । किं चाभ्युत्थानानुपपत्तिप्रसंगात् । कालमात्रात्फलं भवतीत्येतदिच्छतः शास्त्रोक्तेषु क्रियाविशेषेष्वभिषेचनव्रतोपवासाग्निहोत्रादिष्वभ्युत्थानं न स्यात् । कस्मात् ? आनर्थक्यात् । अस्ति च, तस्मान्न कालनिमित्ता भावानामुत्पत्तिः । किं च तदनुविधानात् । दृश्यन्ते खल्वपि प्रकृत्युपादानकालाविशेषे ऽपि भाग्यविशेषात्फलविशेषाः । तस्मात्तत्संकार एव कारणम् । तदेकदेशश्चाप्रकृतिविकारभूतो भोक्तेत्येतस्माद्दर्शनात्संगद्वेषनिवृत्तिं लभते । सा चतुर्थी तुष्टिर्वृष्टिरित्यभिधीयते । कथं पुनर्वृष्टिरित्युच्यते । सर्वसत्त्वाप्यायनात् । यथा हि शीर्णानामपि तृणलतादीनां वृष्टिं प्राप्य पुनराप्यायनं भवति, एवमेव सर्वेषां प्राणिनां भाग्यविपरिणामात्पुनराप्यायनं भवति । तस्माद्वृष्टिसाम्याद् भाग्याख्या तुष्टिर्वृष्टिरित्यभिधीयते । शास्त्रमप्याह- "वृष्टिर्वृष्टिरिति श्रिय एवोपनिपातमधिकुरुते । सा हि वृष्टिवत्सर्वमाप्यायतीति ।" स खल्वयं योगी भाग्यान्यवजित्य तन्महिम्ना जगदशून्यं दृष्ट्वा पदार्थान्तरस्याभावं मन्यमानस्तामेव भूमिं कैवल्यमिति गृह्णाति । स तस्यामेव देहभेदे लीयते । ततश्च पुनरावर्तत इति । आह, कालभाग्ययोरप्रतिपत्तिः, समाख्यापरिज्ञानात् । प्रकृत्यात्मकस्य तावद्योगिनो ऽष्टौ प्रकृतयो विषय इत्युक्तं पुरस्तात् । उपादानात्मकस्य च पृथिव्यादीनि महाभूतानि । कालभाग्ययोस्तु न तथोक्तम् । तस्माद्वक्तव्यं कस्य तत्त्वस्यैषा समाख्येति ? उच्यते- न, उक्तत्वात् । प्रागेवैतदपदिष्टं न कालो नाम कश्चित्पदार्थो ऽस्ति । किं तर्हि क्रियासु कालसंज्ञा । ताश्च करणवृत्तिरिति । प्रतिपादितम् । न चान्या वृत्तिर्वृत्तिमतः । तस्मात्कारणचैतन्यप्रतिज्ञः कालात्मक इति । भाग्यसंज्ञा तु धर्माधर्मयोः । तौ च बुद्धिधर्माविति प्रागपदिष्टम् । तस्माद्भाग्यवादी बुद्धिचैतनिक इति । आह, न तुष्ट्यन्तरत्वात् । प्रकृतित्वान्महान्पूर्वं प्रकृत्याख्यायां तुष्टाववरुद्धः । तस्येदानीं तुष्ट्यन्तरत्वेन परिकल्पनं नातिसमञ्जसमिति । उच्यते- महांस्तर्हि पूर्वतुष्टिविषयभावादपकृष्यत इति । कार्यकरणवृत्तिक्रियारूपां वृत्तिमद्द्योत्यां परिकल्प्य तस्यां कालत्वमयमाह । महतश्च रूपं धर्मादिकं महतो ऽर्थान्तरं भाग्यमिति भाग्यवान् । अथवा बाह्य एवायं कालः कर्मकारणं निर्दिश्यते । तत्र चान्ये ऽपि स्वमतिपरिकल्पितपदार्थान्तरात्मभावग्रहा एवेति साङ्ख्याः प्रवादिनः प्रतिक्षिप्ता बोद्धव्या इति । अपर आह, प्रकृतिचैतनिकः प्रधानभावाशाद्युपादानकालभाग्यवादिनो महदहङ्कारतन्मात्रवादिन इति । तदेतदपसिद्धत्वादयुक्तम् । न हि महदहङ्कारतन्मात्रलक्षणाः प्रकृतय उपादानकालभाग्यभावेन प्रसिद्धाः । तस्मादिदमप्ययुक्तम् । एवमेता आध्यात्मिक्यश्चतस्रस्तुष्टयः । बाह्या विषयोपरमात् पञ्च च नव तुष्टयो ऽभिहिताः
tatra tuṣṭayaḥ prakṛtyādyā vakṣyamāṇāḥ, tāsāṃ dvividho viparyayaḥ / avyutpannasya yogadharmeṇa tasyāṃ bhūmāvapravṛttiḥ, vyutpannasya cottarabhūmyaparijñānātpūrvasyāṃ bhūmāvakṣemarūpeṇa grahaṇam / ātmavido vā sarvāsu bhūmiṣu / teṣu yatpūrvaṃ tadaśaktibhāvābhipretam / yanmadhyamaṃ tadāpekṣikam / katham ? tanmātrabhūmyavastho hi yogyasmitādibhūmyanavajayāttuṣṭo mahābhūtātikramātsiddhaḥ / tathā vijitāsmitārūpo mahadādyavasthāpekṣayā tuṣṭaḥ, pūrvabhūmyapekṣayā siddhaḥ / evaṃ mahadavasthaḥ pradhānāpekṣayā pūrvāpekṣayā ca / pradhānāvasthaḥ puruṣāpekṣayā pūrvāpekṣayā ca / guṇapuruṣāntarajñastu siddha eva / tasmādavyutpannasyāmbhaḥprabhṛtiṣu navānambhaḥprabhṛtayo buddhivadhāḥ / tārakādiviparyayeṇāṣṭāvatārakādayaḥ / eṣā khalvaśaktiraṣṭāviṃśatibhedā / tuṣṭistu sannihitaviṣayasantoṣāccikīrṣitādarthādūnena nivṛttiḥ sāmānyata ekaiva, pratyarthamanantā, śatena tuṣṭaḥ sahasreṇeti / śāstre tu bāhyādhyātmikānāṃ sukhaduḥkhamohānāṃ prāptiṣvapagameṣu vācāvyavasthyalakṣaṇā upāyanavatvānnava tuṣṭayo bhavanti // 49 // ----------------------------------------------------------------------- kārikā 50 ----------------------------------------------------------------------- tāsām ādhyātmikyaścatasraḥ / prakṛtyupādānakālabhāgyākhyāḥ / ādhyātmikī iti śarīraśarīriṇorviśeṣamupalipsamānena yoginā yadanātmanyātmabuddhiravasthāpyate sā khalvādhyātmikī siddhiḥ tuṣṭiḥ santoṣaḥ kṣema ityarthaḥ / tāsāṃ prakṛtyākhyā / yadā vītāvītaiḥ pradhānamadhigamya tatpūrvakatvaṃ ca mahadādīnāṃ vikārāṇāmānantyācca pradhānātmanaḥ kṛtsnasya mahadādibhāvena vipariṇāmāsambhavādekadeśasyāprakṛtivikārabhūtasya bhoktṛtvamakartṛtvaṃ cādhyavasya saṅgadveṣanivṛttiṃ labhate, sādyā tuṣṭirambha ityabhidhīyate / kasmāt ? amitaṃ hi pradhānatattvaṃ bhāti jagadbījabhūtatvānmahadādibhāvapariṇāmena nyūnasyaikadeśasyātmana evāpūrāt / tadvyatirekeṇa cānyasyaikadeśasyobhayadharmiṇo bhoktṛbhūtasya sadbhāvātsaṃprakṣālane 'pi cāpasaṃhṛtam, vaiśvarūpyasyānucchedāt / tathā ca śāstramāha- ambha iti guṇaliṅgasannicayamevādhikurute / guṇāśca sattvarajastamāṃsi / liṅgaṃ ca mahadādi atra sannihitaṃ bhavati / tadidaṃ pradhānamamitaṃ bhātyamitamupalabhyata ityambhaḥ / sa khalvayaṃ yogī pradhānalakṣaṇāṃ bhūmimavajitya tanmahimnā ca tadaśūnyaṃ dṛṣṭvā vyatiriktasya padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe prakṛtau layaṃ gacchati, tataśca punarāvartate / tasyāṃ ca tuṣṭāvanye sapta mahadādikāraṇino 'varuddhā draṣṭavyāḥ / tatra yathā prādhānikasya puruṣe nāsti vijñānaṃ evamitareṣāmuttareṣu tattveṣu / mahatkāraṇinaḥ pradhāne 'smitākāraṇino mahati, tanmātrakāraṇino 'haṃkāre / tadekadeśāścaiṣāṃ bhoktāraḥ pūrvavat / atrāpi ca sattvādīnāṃ saṃhataviviktapariṇatavyastasamastānāṃ bhedādavidyāvacchedānantyamavaseyam / āha, tuṣṭyavidyayorabhedaḥ lakṣaṇaikatvāt / aṣṭāsu prakṛtiṣvātmabuddhistuṣṭiḥ / tadeva ca tama ityavidyākāṇḍe nirdiṣṭam / tasmātpadārthasaṃkara iti / ucyate- na, pratyayaviśeṣāt / tamaḥpradhānapuruṣopadeśe sati pratyayanirdidhārayiṣayā tayoḥ pradhānameva jyāyo na puruṣa ityabhiniviśeta / tuṣṭistu kiṃ paramityāśritya pravṛttaḥ pradhānajñānamātre santoṣātpadārthāntaraṃ vijñātumeva nādriyate / kiṃ ca prahāṇaviśeṣāt / nirūḍhamūlo hyanātmani ātmagraho jñānottarakālabhāvanayā prahātavyaḥ / tamobahulatvāttama ityabhidhīyate / pelavastu sattvabahulo darśanapraṇayastuṣṭiḥ / kiṃca tattvābhijayāt / vijitabhūmikasya hi yoginastanmāhātmyavaśīkṛtatvād bhūmyantare pravṛttistuṣṭiḥ / itarasya tvabhiniveśamātramevetyanayorviśeṣaḥ / tasmānna padārthasaṃkara iti vyākhyātā prakṛtyākhyā tuṣṭiḥ / yadā tu satyapi prakṛtisāmarthye nānapekṣya yathāsvamupādānaṃ bhāvānāmutpattiḥ sambhavati prakṛtyaviśeṣe sarvakālamutpattiprasaṃgāt, prakṛtikṛtyamevedaṃ viśvamityabhyupagacchatastadaviśeṣād goḥ puruṣādutpattiprasaṃgaḥ, puruṣasya vā mahiṣāt / kiṃ ca jātyabhedaprasaṃgāt / prakṛtikṛtyamidaṃ viśvamityabhyupagacchato jātibhedo na syāt, tadaviśeṣāt / dṛṣṭaṃ tūpādānājjātyanuvidhānaṃ bhāvānām / tasmāttadeva kāraṇatvena parikalpayituṃ nyāyyam / upādānaikadeśa eva ca kāryakāraṇavidhātmā bhoktetyetasmād darśanātsaṅgadveṣanivṛttiṃ labhate, sā dvitīyā tuṣṭiḥ salilamityabhidhīyate / kathaṃ punaretatsalilam ? satyupādāne vikāro līyata iti / tathā ca kṛtvā śāsramāha "salilaṃ salilamiti vaikārikopanipātamevādhikurute, sati tasmiṃllīyate jagaditi" / sa khalvayaṃ yogī pārthivānavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / bhinne ca dehe pṛthivyādiṣu līyate / tataśca punarāvartate / yadā ca satyupādānasāmarthye na tāvataiva bhāvānāṃ prādurbhāvaḥ kiṃ tarhi sannihitasādhanānāmapi kālaṃ pratyapekṣā bhavati- kālaviśeṣādbījādaṅkuro jāyate, aṅkurānnālaṃ, nālātkāṇḍam, kāṇḍātprasava ityādi / anyathā tūpādānānāṃ sannidhānamātrātkṣaṇenaivāmīṣāmavasthāviśeṣāṇāmabhivyaktiḥ syāt / kiṃca kālaviparyayeṇotpattiprasaṃgāt / na caitadiṣṭam / kiṃ ca tadanabhidhānāt / dṛśyante ca prāṇināṃ kālānurūpāḥ svābhāvāhāravihāravyavasthāḥ / tasmādasāveva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate, sā tṛtīyā tuṣṭirogha ityabhidhīyate / kathaṃ punarayaṃ kāla ogha ityucyate ? salilaughavatsarvābhyāvahanāt / tadyathā salilaughastṛṇaṃ kāṣṭhamaśmānaṃ prāṇinaṃ vā svamūrtisaṃsṛṣṭaṃ sarvamevābhyāvahati, evamayaṃ kālo garbhādbālyaṃ, bālyātkaumāraṃ, kaumārādyauvanaṃ, yauvanātsthāviryam, sthāviryānmaraṇaṃ, tathā bījānmūlaṃ mūlādaṅkuramiti vahati / tathā cāha yāmeva prathamāṃ rātriṃ garbhe bhavati pūruṣaḥ / saṃprasthitastāṃ bhavati sa gacchanna nivartate // tasmādoghasāmānyādoghaḥ kālaḥ / sa khalvayaṃ yogī kālamavajitya padārthāntarābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti manyate / dehabhede ca kālamanupraviśati / tataśca punarāvartate / yadā tu satyapi kālasāmarthye bhāvānāmutpattiḥ bhāgyānapekṣate / kasmāt ? tatsannidhāne 'pyaprādurbhāvāt / satyapi sādhanasāmarthye kālaviśeṣe ca kasyacidutpattirbhavati kasyacinneti / tasmādasti kāraṇāntaraṃ yadapekṣya bhāvānāmutpattiranutpattiśca / kiṃ cābhyutthānānupapattiprasaṃgāt / kālamātrātphalaṃ bhavatītyetadicchataḥ śāstrokteṣu kriyāviśeṣeṣvabhiṣecanavratopavāsāgnihotrādiṣvabhyutthānaṃ na syāt / kasmāt ? ānarthakyāt / asti ca, tasmānna kālanimittā bhāvānāmutpattiḥ / kiṃ ca tadanuvidhānāt / dṛśyante khalvapi prakṛtyupādānakālāviśeṣe 'pi bhāgyaviśeṣātphalaviśeṣāḥ / tasmāttatsaṃkāra eva kāraṇam / tadekadeśaścāprakṛtivikārabhūto bhoktetyetasmāddarśanātsaṃgadveṣanivṛttiṃ labhate / sā caturthī tuṣṭirvṛṣṭirityabhidhīyate / kathaṃ punarvṛṣṭirityucyate / sarvasattvāpyāyanāt / yathā hi śīrṇānāmapi tṛṇalatādīnāṃ vṛṣṭiṃ prāpya punarāpyāyanaṃ bhavati, evameva sarveṣāṃ prāṇināṃ bhāgyavipariṇāmātpunarāpyāyanaṃ bhavati / tasmādvṛṣṭisāmyād bhāgyākhyā tuṣṭirvṛṣṭirityabhidhīyate / śāstramapyāha- "vṛṣṭirvṛṣṭiriti śriya evopanipātamadhikurute / sā hi vṛṣṭivatsarvamāpyāyatīti /" sa khalvayaṃ yogī bhāgyānyavajitya tanmahimnā jagadaśūnyaṃ dṛṣṭvā padārthāntarasyābhāvaṃ manyamānastāmeva bhūmiṃ kaivalyamiti gṛhṇāti / sa tasyāmeva dehabhede līyate / tataśca punarāvartata iti / āha, kālabhāgyayorapratipattiḥ, samākhyāparijñānāt / prakṛtyātmakasya tāvadyogino 'ṣṭau prakṛtayo viṣaya ityuktaṃ purastāt / upādānātmakasya ca pṛthivyādīni mahābhūtāni / kālabhāgyayostu na tathoktam / tasmādvaktavyaṃ kasya tattvasyaiṣā samākhyeti ? ucyate- na, uktatvāt / prāgevaitadapadiṣṭaṃ na kālo nāma kaścitpadārtho 'sti / kiṃ tarhi kriyāsu kālasaṃjñā / tāśca karaṇavṛttiriti / pratipāditam / na cānyā vṛttirvṛttimataḥ / tasmātkāraṇacaitanyapratijñaḥ kālātmaka iti / bhāgyasaṃjñā tu dharmādharmayoḥ / tau ca buddhidharmāviti prāgapadiṣṭam / tasmādbhāgyavādī buddhicaitanika iti / āha, na tuṣṭyantaratvāt / prakṛtitvānmahānpūrvaṃ prakṛtyākhyāyāṃ tuṣṭāvavaruddhaḥ / tasyedānīṃ tuṣṭyantaratvena parikalpanaṃ nātisamañjasamiti / ucyate- mahāṃstarhi pūrvatuṣṭiviṣayabhāvādapakṛṣyata iti / kāryakaraṇavṛttikriyārūpāṃ vṛttimaddyotyāṃ parikalpya tasyāṃ kālatvamayamāha / mahataśca rūpaṃ dharmādikaṃ mahato 'rthāntaraṃ bhāgyamiti bhāgyavān / athavā bāhya evāyaṃ kālaḥ karmakāraṇaṃ nirdiśyate / tatra cānye 'pi svamatiparikalpitapadārthāntarātmabhāvagrahā eveti sāṅkhyāḥ pravādinaḥ pratikṣiptā boddhavyā iti / apara āha, prakṛticaitanikaḥ pradhānabhāvāśādyupādānakālabhāgyavādino mahadahaṅkāratanmātravādina iti / tadetadapasiddhatvādayuktam / na hi mahadahaṅkāratanmātralakṣaṇāḥ prakṛtaya upādānakālabhāgyabhāvena prasiddhāḥ / tasmādidamapyayuktam / evametā ādhyātmikyaścatasrastuṣṭayaḥ / bāhyā viṣayoparamāt pañca ca nava tuṣṭayo 'bhihitāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.