हे अग्ने! नय गमय सुपथा शोभनेन मार्गेण । सुप्रथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णो ऽहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुनर्गमनागमनवर्जितेन शोभनेन पथा नय । राये धनाय कर्मफलभोगायेत्यर्थः, अस्मान्यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव! वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जानन् । किञ्च युयोधि वियोजय विनाशय अस्मदस्मत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम् । ततो वयं विशुद्धाः सन्त इष्टं प्राप्स्याम इत्यभिप्रायः । किन्तु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् । भूयिष्ठां बहुतरां ते तुभ्यं नम उक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः । ऽअविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ।ऽ (ईउ।११) ऽविनाशेन मृत्युं तीर्त्वासम्भूत्यामृतमश्नुतेऽ (ईउ।१४) इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निराकरणार्थं संक्षेपतो विचारणां करिष्यामः । तत्र तावक्तिन्निमित्तः संशय इत्युच्यते । विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते ऽमृतत्वञ्च । नानुक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् । यथाविद्यानुष्ठानं विद्योपासनञ्च शास्त्रप्रमाणकं तथा तद्विरोधाविरोधावपि । यथा च न हिंस्यात्सर्वा भूतानीति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ऽध्वरे पशुं हिंस्यादिति । एवं विद्याविद्ययोरपि स्यात् । विद्याकर्मणोश्च समुच्चयः । न"दूरमेते विपरीते विषूची अविद्या या च विद्या"(कौ।१ । २ । ४) इति श्रुतेः । विद्यां चाविद्यां चेति वचनादविरोध इति चेत्? न ; हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात्समुच्चयविधानादविरोध एवेति चेत्? न? सहसम्भवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत्? न ; विद्योत्पत्तौ अविद्याया ह्यास्तत्वात्तदाश्रये ऽविद्यानुपपत्तेः । न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नं तस्मिन्नेवाश्रये शीतो ऽग्निरप्रकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयो ऽज्ञानं वा"यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः"(ईउ।७) इति शोकमोहाद्यसम्भवश्रुतेः । अविद्यासम्भवात्तदुपादानस्य कर्मणो ऽप्यनुपपत्तिम् अवोचाम । अमृतमश्नुत इत्यापेक्षिकम् अमृतम् । विद्याशब्देन परमात्मविद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्यात् । तस्मादुपासनया समुच्चयो न परमात्मविज्ञानेनेति यथास्माभिर्व्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते
he agne! naya gamaya supathā śobhanena mārgeṇa / supratheti viśeṣaṇaṃ dakṣiṇamārganivṛttyartham / nirviṇṇo 'haṃ dakṣiṇena mārgeṇa gatāgatalakṣaṇenāto yāce tvāṃ punaḥ punargamanāgamanavarjitena śobhanena pathā naya / rāye dhanāya karmaphalabhogāyetyarthaḥ, asmānyathoktadharmaphalaviśiṣṭān viśvāni sarvāṇi he deva! vayunāni karmāṇi prajñānāni vā vidvāñjānan / kiñca yuyodhi viyojaya vināśaya asmadasmatto juhurāṇaṃ kuṭilaṃ vañcanātmakamenaḥ pāpam / tato vayaṃ viśuddhāḥ santa iṣṭaṃ prāpsyāma ityabhiprāyaḥ / kintu vayamidānīṃ te na śaknumaḥ paricaryāṃ kartum / bhūyiṣṭhāṃ bahutarāṃ te tubhyaṃ nama uktiṃ namaskāravacanaṃ vidhema namaskāreṇa paricarema ityarthaḥ / 'avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute /' (ī.u.11) 'vināśena mṛtyuṃ tīrtvāsambhūtyāmṛtamaśnute' (ī.u.14) iti śrutvā kecitsaṃśayaṃ kurvanti / atastannirākaraṇārthaṃ saṃkṣepato vicāraṇāṃ kariṣyāmaḥ / tatra tāvaktinnimittaḥ saṃśaya ityucyate / vidyāśabdena mukhyā paramātmavidyaiva kasmānna gṛhyate 'mṛtatvañca / nānuktāyāḥ paramātmavidyāyāḥ karmaṇaśca virodhātsamuccayānupapattiḥ / satyam / virodhastu nāvagamyate virodhāvirodhayoḥ śāstrapramāṇakatvāt / yathāvidyānuṣṭhānaṃ vidyopāsanañca śāstrapramāṇakaṃ tathā tadvirodhāvirodhāvapi / yathā ca na hiṃsyātsarvā bhūtānīti śāstrādavagataṃ punaḥ śāstreṇaiva bādhyate 'dhvare paśuṃ hiṃsyāditi / evaṃ vidyāvidyayorapi syāt / vidyākarmaṇośca samuccayaḥ / na"dūramete viparīte viṣūcī avidyā yā ca vidyā"(ka.u.1 / 2 / 4) iti śruteḥ / vidyāṃ cāvidyāṃ ceti vacanādavirodha iti cet? na ; hetusvarūpaphalavirodhāt / vidyāvidyāvirodhāvirodhayorvikalpāsambhavātsamuccayavidhānādavirodha eveti cet? na? sahasambhavānupapatteḥ / krameṇaikāśraye syātāṃ vidyāvidye iti cet? na ; vidyotpattau avidyāyā hyāstatvāttadāśraye 'vidyānupapatteḥ / na hyagniruṣṇaḥ prakāśaśceti vijñānotpattau yasminnāśraye tadutpannaṃ tasminnevāśraye śīto 'gniraprakāśo vetyavidyāyā utpattirnāpi saṃśayo 'jñānaṃ vā"yasmin sarvāṇi bhūtānyātmaivābhūdvijānataḥ / tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ"(ī.u.7) iti śokamohādyasambhavaśruteḥ / avidyāsambhavāttadupādānasya karmaṇo 'pyanupapattim avocāma / amṛtamaśnuta ityāpekṣikam amṛtam / vidyāśabdena paramātmavidyāgrahaṇe hiraṇmayenetyādinā dvāramārgādiyācanamanupapannaṃ syāt / tasmādupāsanayā samuccayo na paramātmavijñāneneti yathāsmābhirvyākhyāta eva mantrāṇāmartha ityuparamyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.