तस्मात् पूर्वसवर्णदीर्घात् उत्तरस्य शसो ऽवयवस्य सकारस्य पुंसि नकारादेशो भवति । वृक्षान् । अग्नीन् । वायून् । कर्तॄन् । हर्तॄन् । षण्डकान् । षण्ढकान् । षण्ढकान् । स्थूरान् । अररकान् पश्य । सर्व एते पुंलिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति । इह तु चञ्चेव चञ्चा, लुम्मनुष्ये इति कनो लुपि कृते लुपि युक्तवद् व्यक्तिवचने (*१,२।५) इति पुंसो ऽपि स्त्रीलिङ्गत, तेन नत्वं न भवति, चञ्चाः पश्य, वध्रिकाः पश्य इति । तस्मात् इति किम् ? एतांश्चरतो गाः पश्य । शासः इति किम् । वृक्षाः । प्लक्षाः । पुंसि इति किम् ? धेनूः । बह्वीः । कुमरीः ॥ नाद् इचि
tasmāt pūrvasavarṇadīrghāt uttarasya śaso 'vayavasya sakārasya puṃsi nakārādeśo bhavati / vṛkṣān / agnīn / vāyūn / kartṝn / hartṝn / ṣaṇḍakān / ṣaṇḍhakān / ṣaṇḍhakān / sthūrān / ararakān paśya / sarva ete puṃliṅgaviśiṣṭaṃ svārthaṃ pratipādayanti / iha tu cañceva cañcā, lummanuṣye iti kano lupi kṛte lupi yuktavad vyaktivacane (*1,2.5) iti puṃso 'pi strīliṅgata, tena natvaṃ na bhavati, cañcāḥ paśya, vadhrikāḥ paśya iti / tasmāt iti kim ? etāṃścarato gāḥ paśya / śāsaḥ iti kim / vṛkṣāḥ / plakṣāḥ / puṃsi iti kim ? dhenūḥ / bahvīḥ / kumarīḥ // nād ici
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.