ह्रस्वग्रहणाम् अनुवर्तते, मतुब्-ग्रहणं च । तेन मतुपा ह्रस्वो विशेष्यते । मतुपि यो ह्रस्वः, तदन्ताद् अन्तोदात्ताद् अन्यतरस्यां नाम् उदात्तो भवति । अग्नीनाम्, अग्नीनाम् । वायूनाम् वायूनाम् । कर्तॄणाम्, कर्तॄणाम् । मतुपा ह्रस्वविशेषनं किम् ? भूतपूर्वे ऽपि ह्रस्वे यथा स्यात् । अन्यथा हि साम्प्रतिक एव स्यात्, तिसृणाम्, चतसृणाम् इति । सनुट्कस्य ग्रहणं किम् ? धेन्वाम् । शकट्याम् । उदात्तयणो हल्पूर्वात् (*६,१।१७४) इत्य् अयम् अन्तोदात्तः । ह्रस्वात् इत्य् एव, कुमारीणाम् । अन्तोदात्तात् इत्य् एव, त्रपूणाम् । वसूनाम् ॥ ङ्याश् छन्दसि बहुलम्
hrasvagrahaṇām anuvartate, matub-grahaṇaṃ ca / tena matupā hrasvo viśeṣyate / matupi yo hrasvaḥ, tadantād antodāttād anyatarasyāṃ nām udātto bhavati / agnīnām, agnīnām / vāyūnām vāyūnām / kartṝṇām, kartṝṇām / matupā hrasvaviśeṣanaṃ kim ? bhūtapūrve 'pi hrasve yathā syāt / anyathā hi sāmpratika eva syāt, tisṛṇām, catasṛṇām iti / sanuṭkasya grahaṇaṃ kim ? dhenvām / śakaṭyām / udāttayaṇo halpūrvāt (*6,1.174) ity ayam antodāttaḥ / hrasvāt ity eva, kumārīṇām / antodāttāt ity eva, trapūṇām / vasūnām // ṅyāś chandasi bahulam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.