ञिति निति च नित्यम् आदिर् उदात्तो भवति । गर्गादिभ्यो यञ् - गार्ग्यः । वात्स्यः । वासुदेव-अर्जुनाभ्यां वुन् (*४,३।९८) - वासुदेवकः । अर्जुनकः । प्रत्ययस्वरापवादो ऽयं योगः । प्रत्ययलक्षणम् अत्र न+इष्यते, तेन गर्गाः, बिदाः, चञ्चाः इत्य् अत्र यञि कनि च लुप्ते न भवति ॥ आमन्त्रितस्य च
ñiti niti ca nityam ādir udātto bhavati / gargādibhyo yañ - gārgyaḥ / vātsyaḥ / vāsudeva-arjunābhyāṃ vun (*4,3.98) - vāsudevakaḥ / arjunakaḥ / pratyayasvarāpavādo 'yaṃ yogaḥ / pratyayalakṣaṇam atra na+iṣyate, tena gargāḥ, bidāḥ, cañcāḥ ity atra yañi kani ca lupte na bhavati // āmantritasya ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.