स्फायी ओप्यायी वृद्धौ इत्य् असय् धातोः निष्ठायां परतः स्फी इत्य् अयम् आदेशो भवति । स्फीतः । स्फीतवान् । निष्थायाम् इति किम् ? स्हातिः । स्फातीभवति इत्य् एतद् अपि क्तिन्नन्तस्य+एव रूपं, न निष्थान्तस्य । निष्ठायाम् इत्य् एतद् अधीक्रीयते लिङ्यङोश् च (*६,१।२९) इति प्रागेतस्मात् सूत्रात् ॥ स्त्यः प्रपूर्वस्य
sphāyī opyāyī vṛddhau ity asay dhātoḥ niṣṭhāyāṃ parataḥ sphī ity ayam ādeśo bhavati / sphītaḥ / sphītavān / niṣthāyām iti kim ? shātiḥ / sphātībhavati ity etad api ktinnantasya+eva rūpaṃ, na niṣthāntasya / niṣṭhāyām ity etad adhīkrīyate liṅyaṅoś ca (*6,1.29) iti prāgetasmāt sūtrāt // styaḥ prapūrvasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.