द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे वर्तमानस्य श्यैङ् गतौ इत्य् अस्य धातोर् निष्ठायां परतः सम्प्रसारणं भवति । शिनं घृतम् । शीना वसा । शीनम् मेदः । द्रवावस्थायाः काठिन्यं गतम् इत्य् अर्थः । श्यो ऽस्पर्शे (*८,२।४७) इति निष्थानत्वम् । स्पर्शे - शीतं वर्तते । शीतो वायुः । शीतमुदकम् । गुणमात्रे तद्वति च अस्य शीतशब्दस्य वृत्तिर् द्रष्टव्या । द्रवमूर्तिस्पर्शयोः इति किम् ? संश्यानो वृश्चिकः ॥ प्रतेश् च
dravamūrtau dravakāṭhinye, sparśe vartamānasya śyaiṅ gatau ity asya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati / śinaṃ ghṛtam / śīnā vasā / śīnam medaḥ / dravāvasthāyāḥ kāṭhinyaṃ gatam ity arthaḥ / śyo 'sparśe (*8,2.47) iti niṣthānatvam / sparśe - śītaṃ vartate / śīto vāyuḥ / śītamudakam / guṇamātre tadvati ca asya śītaśabdasya vṛttir draṣṭavyā / dravamūrtisparśayoḥ iti kim ? saṃśyāno vṛścikaḥ // prateś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.