विभाषा इति निवृत्तम् । प्यायः पी (*६,१।२८) इत्य् एतत् चशब्देन अनुकृष्यते । लिटि यङि च परतः प्यायः पी इत्य् अयम् आदेशो भवति । आपिप्ये, आपिप्याते, आपिप्यिरे । परत्वात् पीभावे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम्, एरनेकाचः इति यणादेशः । यङि - आपेपीयते, आपेपीयेते, अपेपीयन्ते ॥ विभाषा श्वेः
vibhāṣā iti nivṛttam / pyāyaḥ pī (*6,1.28) ity etat caśabdena anukṛṣyate / liṭi yaṅi ca parataḥ pyāyaḥ pī ity ayam ādeśo bhavati / āpipye, āpipyāte, āpipyire / paratvāt pībhāve kṛte punaḥ prasaṅgavijñānāt dvirvacanam, eranekācaḥ iti yaṇādeśaḥ / yaṅi - āpepīyate, āpepīyete, apepīyante // vibhāṣā śveḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.