धातोः इति वर्तते । एजन्तो यो धातुर् उपदेशे तस्य अकारादेशो भवति, शिति तु प्रत्यये न भवति । ग्लै - ग्लाता । ग्लातुम् । ग्लातव्यम् । शो - निशाता । निशातुम् । निशातव्यम् । एचः इति किम् ? कर्ता । हर्ता । उपदेशे इति किम् ? चेता । स्तोता । अशिति इति किम् ? ग्लायति । म्लायति । कथं जग्ले, मम्ले ? न+एवं विज्ञायते, शकार इद् यस्य सो ऽयं शित् इति, किं तर्हि, श एव इत् शित् । तत्र यस्मिन् विधिस्तदादावल्ग्रहणे इति शिदादौ प्रत्यये प्रतिषेधः । एश् शकारान्तो भवति । अशिति इति प्रसज्यप्रतिषेधो ऽयम्, तेन एतद् आत्त्वम् अनैमित्तिकं प्राग् एव प्रत्ययोत्पत्तेर् भवति इति, सुग्लः, सुम्लः इति आतश्चोपसर्गे (*३,१।१३६) इति कप्रत्ययः, सुग्लानः, सुम्लानः इति आतो युच् (*३,३।१२८) इत्य् एवम् आदि सिद्धम् भवति इति । आकाराधिकारस्त्वयं नित्यं सम्यतेः (*६,१।५७) इति यावत् ॥ न व्यो लिटि
dhātoḥ iti vartate / ejanto yo dhātur upadeśe tasya akārādeśo bhavati, śiti tu pratyaye na bhavati / glai - glātā / glātum / glātavyam / śo - niśātā / niśātum / niśātavyam / ecaḥ iti kim ? kartā / hartā / upadeśe iti kim ? cetā / stotā / aśiti iti kim ? glāyati / mlāyati / kathaṃ jagle, mamle ? na+evaṃ vijñāyate, śakāra id yasya so 'yaṃ śit iti, kiṃ tarhi, śa eva it śit / tatra yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ / eś śakārānto bhavati / aśiti iti prasajyapratiṣedho 'yam, tena etad āttvam anaimittikaṃ prāg eva pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge (*3,1.136) iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc (*3,3.128) ity evam ādi siddham bhavati iti / ākārādhikārastvayaṃ nityaṃ samyateḥ (*6,1.57) iti yāvat // na vyo liṭi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.