धातोर् आदेः षकारस्य स्थाने सकारादेशो भवति । षह - सहते । षिच - सिञ्चति । धातुग्रहणं किम् ? सोडश । षोडन् । षण्डः । षडिकः । आदेः इति किम् ? कषति । लषति । कृषति । आदेश प्रत्यययोः (*८,३।५९) इत्य् अत्र षत्वव्यवस्थार्थम् षादयो धातवः केचिद् उपदिष्टाः । के पुनस् ते ? ये तथा पठ्यन्ते । अथवा लक्षणं क्रियते, अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश् च, सृपिसृजिस्तृस्त्यासेक्षृवर्जम् । सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः । षोडीयति । षण्डीयति । ष्ठीवति । ष्वष्कते । ष्ठिवु इत्य् अस्य द्वितीयस्थकारष्ठकारश् च+इष्यते । तेन तेष्ठीव्यते, टेष्ठीव्यते इति च अभ्यासरूपं द्विधा भवति ॥ णो नः
dhātor ādeḥ ṣakārasya sthāne sakārādeśo bhavati / ṣaha - sahate / ṣica - siñcati / dhātugrahaṇaṃ kim ? soḍaśa / ṣoḍan / ṣaṇḍaḥ / ṣaḍikaḥ / ādeḥ iti kim ? kaṣati / laṣati / kṛṣati / ādeśa pratyayayoḥ (*8,3.59) ity atra ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ / ke punas te ? ye tathā paṭhyante / athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smisvidisvadisvañjisvapitayaś ca, sṛpisṛjistṛstyāsekṣṛvarjam / subdhātuṣṭhivuṣvaṣkatīnāṃ satvapratiṣedho vaktavyaḥ / ṣoḍīyati / ṣaṇḍīyati / ṣṭhīvati / ṣvaṣkate / ṣṭhivu ity asya dvitīyasthakāraṣṭhakāraś ca+iṣyate / tena teṣṭhīvyate, ṭeṣṭhīvyate iti ca abhyāsarūpaṃ dvidhā bhavati // ṇo naḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.