पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति । अग्निचित् । सोमसुत् । प्रकृत्य । प्रहृत्य । उपस्तुत्य । ह्रस्वस्य इति किम् ? आलूय । ग्रामणीः । पिति इति किम् ? कृतम् । हृतम् । कृति इति किम् ? पटुतरः । पटुतमः । ग्रामणि ब्राह्मणकुलम् इत्य् अत्र ह्रस्वस्य बहिरङ्गस्य असिद्धत्वात् तुग् न भवति ॥ संहितायाम्
piti kṛti parato hrasvāntasya dhātoḥ tugāgamo bhavati / agnicit / somasut / prakṛtya / prahṛtya / upastutya / hrasvasya iti kim ? ālūya / grāmaṇīḥ / piti iti kim ? kṛtam / hṛtam / kṛti iti kim ? paṭutaraḥ / paṭutamaḥ / grāmaṇi brāhmaṇakulam ity atra hrasvasya bahiraṅgasya asiddhatvāt tug na bhavati // saṃhitāyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.