सा तत्र प्रायश्चित्तिः ॥ कौश्स् १३,११ १०३ ।४ ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा ऽरेवतीः शुभ्राःऽ इत्यृचा, ऽसमुत्पतन्तुऽ ऽप्र नभस्वऽ इति सूक्ताभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । अवर्षणे ग्रहनक्षत्राणां समापे (?) क्षेत्रे च दर्शने च शान्तिः समाप्ता ॥ एकादशी कण्डिका
sā tatra prāyaścittiḥ || KauśS 13,11 103 .4 ||] śāntyudakādi ājyabhāgāntaṃ kṛtvā 'revatīḥ śubhrāḥ' ityṛcā, 'samutpatantu' 'pra nabhasva' iti sūktābhyāṃ cājyaṃ juhuyāt | pārvaṇādyuttaratantram | avarṣaṇe grahanakṣatrāṇāṃ samāpe (?) kṣetre ca darśane ca śāntiḥ samāptā || ekādaśī kaṇḍikā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.