अभ्यातानान्तं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वा ऽगिरावरगराटेषुऽ इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वा ऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । वचस्कामः । तत उत्तरतन्त्रम् ॥ अथ वैश्यशूद्रादिवर्चस्यमुच्यते । अभ्यातानान्तं कृत्वा ऽप्रातरग्निम्ऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यशूद्रम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽगिरावरगराटेषुऽ इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यान् शूद्रान् अनुलोमजांश्च । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽदिवस्पृथिव्याःऽ इत्यर्थसूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । वैश्यशूद्रादीन् । तत उत्तरतन्त्रम् । तेजस्कामः । तृतीया कण्डिका
abhyātānāntaṃ kṛtvā 'prātaragnim' iti sūktena dadhimadhu bhaktamiśritaṃ kṛtvā sampātyābhimantryāśayati kṣatriyam | tata uttaratantram | tejaskāmaḥ | tantraṃ kṛtvā 'girāvaragarāṭeṣu' iti sūktena dadhimadhu bhaktamiśritaṃ kṛtvā sampātyābhimantryāśayati kṣatriyam | tata uttaratantram | tejaskāmaḥ | tantraṃ kṛtvā 'divaspṛthivyāḥ' ityarthasūktena dadhimadhu bhaktamiśritaṃ kṛtvā sampātyābhimantryāśayati kṣatriyam | vacaskāmaḥ | tata uttaratantram || atha vaiśyaśūdrādivarcasyamucyate | abhyātānāntaṃ kṛtvā 'prātaragnim' iti sūktena bhaktaṃ sampātyābhimantryāśayati vaiśyaśūdram | tata uttaratantram | abhyātānāntaṃ kṛtvā 'girāvaragarāṭeṣu' iti sūktena bhaktaṃ sampātyābhimantryāśayati vaiśyān śūdrān anulomajāṃśca | tata uttaratantram | tantraṃ kṛtvā 'divaspṛthivyāḥ' ityarthasūktena bhaktaṃ sampātyābhimantryāśayati | vaiśyaśūdrādīn | tata uttaratantram | tejaskāmaḥ | tṛtīyā kaṇḍikā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.