स्वस्त्ययनानि प्रयुञ्जीत ॥ कौश्स् ११,३ ८२ ।४७ ॥] सायम्प्रातर्यज्ञोपवीती भूत्वा कर्म कुर्यात् । स्वस्त्ययनान्युच्यन्ते । ऽविवस्वान्नःऽ (१८।३।६१-६२) इति द्वे, ऽइन्द्र क्रतुं नःऽ (१८।३।६७) इत्येका, ऽप्रास्मत् पाशान्ऽ (१८।४।७०) इत्येका, ऽत्यमू षुऽ (७।८५) ऽत्रातारम्ऽ (७।८६) ऽआ मन्द्रैःऽ (७।११७) इति, ऽयो अग्नौऽ (७।८७) इत्यृचा, ऽप्राणाय नमःऽ (११।४।१) इत्यृचा, ऽप्राण मा मत्ऽ (११।४।२६) इत्येका, ऽनमस्ते घोषिणीभ्यःऽ (११।२।३१) इत्येका, ऽस्वस्ति नो अस्त्वभयं नःऽ (१९।८।७) इत्यर्धर्चं, ऽपृथिवी शान्तिःऽ (१९।९।१४) एतानि स्वस्त्ययनानि जपेत् । यमकाण्डपठने अन्तेष्टिपितृमेधकरणे एतस्मिन् प्रकरणे सर्वत्रायं स्वस्त्ययनानि । समाप्तं सञ्चयनम् । अन्तेष्टिकर्म । पात्रचयनं च । यमव्रतं च ॥ एकादशे तृतीया कण्डिका
svastyayanāni prayuñjīta || KauśS 11,3 82 .47 ||] sāyamprātaryajñopavītī bhūtvā karma kuryāt | svastyayanānyucyante | 'vivasvānnaḥ' (18.3.61-62) iti dve, 'indra kratuṃ naḥ' (18.3.67) ityekā, 'prāsmat pāśān' (18.4.70) ityekā, 'tyamū ṣu' (7.85) 'trātāram' (7.86) 'ā mandraiḥ' (7.117) iti, 'yo agnau' (7.87) ityṛcā, 'prāṇāya namaḥ' (11.4.1) ityṛcā, 'prāṇa mā mat' (11.4.26) ityekā, 'namaste ghoṣiṇībhyaḥ' (11.2.31) ityekā, 'svasti no astvabhayaṃ naḥ' (19.8.7) ityardharcaṃ, 'pṛthivī śāntiḥ' (19.9.14) etāni svastyayanāni japet | yamakāṇḍapaṭhane anteṣṭipitṛmedhakaraṇe etasmin prakaraṇe sarvatrāyaṃ svastyayanāni | samāptaṃ sañcayanam | anteṣṭikarma | pātracayanaṃ ca | yamavrataṃ ca || ekādaśe tṛtīyā kaṇḍikā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.