Library·Kiranatantra, chapters 1-6 (with comm.)·1

Kiranatantra, chapters 1-6 (with comm.) 1

पुरा किल भगवतोमापतिना गरुत्मतो ऽनुग्रहं कुर्वता यथा यादृग्रूपं च शास्त्रमुपदिष्टं तथा तादृग्रूपं च कश्चित्तच्छिष्यः प्रशिष्यो वा स्वशिष्येभ्यः कथयति कैलासशिखरासीनं सोमं सोमार्धशेखरम् । हरं दृष्ट्वाब्रवीत्तार्क्ष्यः स्तुतिपूर्वमिदं वचः

purā kila bhagavatomāpatinā garutmato 'nugrahaṃ kurvatā yathā yādṛgrūpaṃ ca śāstramupadiṣṭaṃ tathā tādṛgrūpaṃ ca kaścittacchiṣyaḥ praśiṣyo vā svaśiṣyebhyaḥ kathayati kailāsaśikharāsīnaṃ somaṃ somārdhaśekharam / haraṃ dṛṣṭvābravīttārkṣyaḥ stutipūrvamidaṃ vacaḥ

Sanskrit only: no published translation is held for this verse.

यत्तु प्रथममेवोत्सूत्रं कैश्चिच्छास्त्रस्वरूपं तत्सम्बन्धाभिधेयादि चात्र वर्ण्यते तत्सूत्रैरेव तेषां वक्ष्यमाणत्वादयुक्तमेव। अथादौ प्रवृत्तिहेतुत्वेनावश्यं तद्वक्तव्यमिति चेत्। शास्त्रान्तराणामिवात्र तदभिधानेन प्रवृत्त्ययोगात्। अत्र हि गुरूपसदनात्प्रभृति गुरुवाक्यादेव सर्वत्र प्रवर्तितव्यं नान्यत इति दर्शयिष्यामः। तत्र कैलासस्य शिखरमग्रप्रदेशः। तस्मिन्नासीनं तं दृष्ट्वेत्यनेन योगिमध्यस्थितत्वेन वक्ष्यमाणादस्य ब्रह्मविष्णुलोकाभ्यामूर्ध्वमण्डलमध्ये वक्ष्यमाणस्य देवस्य विशेषः। सहोमया वर्तते यस्तमित्यनेन कैलासशिखरासीनान्तराच्छ्रीमन्नन्दिकेश्वरादेर्विशेषः॥ अथ रूढिर्योगमपहरतीति न्यायतो ऽत्र सोमशब्देन कश्चिच्चन्द्रमेव प्रत्येष्यतीति तदर्थमेतत्सोमार्धं शेखरे शिरसि यस्य तं दृष्ट्वेति। किञ्च हरति बन्धनानि पुंभ्यः पुंसो ऽप्यूर्ध्वं पदमिति हरः तं स्वगुरुं तार्क्ष्यो दृष्ट्वेत्यर्थः। अत एवास्य निर्वाणदीक्षा सम्पन्नेति प्रतीयते। नादीक्षितानां श्रवणाधिकार इति वक्ष्यति यतः। हरशब्दस्य रूढ्यैवोमापत्यर्थत्वे व्याख्यायमाने गतार्थत्वं व्यवच्छेदान्तराभावादिति विशिष्टक्रियायोगाभिधानेनैव व्याख्यानं ज्यायः। अत्र च प्रणामसामर्थ्यादेव दर्शनस्य सिद्धेर्नायमर्थो हरं दृष्ट्वेति। अपि तु स्तुतिपूर्वं दृष्ट्वेति स्तुतिपूर्वमिति पदमत्र क्रियाविशेषणत्वेन व्याख्येयम्। न तु वचोविशेषणत्वेन। ततश्च वक्ष्यमाणान्धकमथनादिकर्मस्तुत्या विशिष्टकर्मयुक्तं भगवन्तमाराध्येदं वचनं वैनतेयो ऽब्रवीदित्यत्रार्थः। तन्न दोषः कश्चिदिति॥ अथ कासौ स्तुतिर्यत्पूर्वं दृष्ट्वेत्युक्तम्। तत्रोच्यते जयान्धकपृथुस्कन्ध- बन्धभेदविचक्षण । जय प्रवरवीरेश- संरुद्धपुरदाहक

yattu prathamamevotsūtraṃ kaiścicchāstrasvarūpaṃ tatsambandhābhidheyādi cātra varṇyate tatsūtraireva teṣāṃ vakṣyamāṇatvādayuktameva| athādau pravṛttihetutvenāvaśyaṃ tadvaktavyamiti cet| śāstrāntarāṇāmivātra tadabhidhānena pravṛttyayogāt| atra hi gurūpasadanātprabhṛti guruvākyādeva sarvatra pravartitavyaṃ nānyata iti darśayiṣyāmaḥ| tatra kailāsasya śikharamagrapradeśaḥ| tasminnāsīnaṃ taṃ dṛṣṭvetyanena yogimadhyasthitatvena vakṣyamāṇādasya brahmaviṣṇulokābhyāmūrdhvamaṇḍalamadhye vakṣyamāṇasya devasya viśeṣaḥ| sahomayā vartate yastamityanena kailāsaśikharāsīnāntarācchrīmannandikeśvarāderviśeṣaḥ|| atha rūḍhiryogamapaharatīti nyāyato 'tra somaśabdena kaściccandrameva pratyeṣyatīti tadarthametatsomārdhaṃ śekhare śirasi yasya taṃ dṛṣṭveti| kiñca harati bandhanāni puṃbhyaḥ puṃso 'pyūrdhvaṃ padamiti haraḥ taṃ svaguruṃ tārkṣyo dṛṣṭvetyarthaḥ| ata evāsya nirvāṇadīkṣā sampanneti pratīyate| nādīkṣitānāṃ śravaṇādhikāra iti vakṣyati yataḥ| haraśabdasya rūḍhyaivomāpatyarthatve vyākhyāyamāne gatārthatvaṃ vyavacchedāntarābhāvāditi viśiṣṭakriyāyogābhidhānenaiva vyākhyānaṃ jyāyaḥ| atra ca praṇāmasāmarthyādeva darśanasya siddhernāyamartho haraṃ dṛṣṭveti| api tu stutipūrvaṃ dṛṣṭveti stutipūrvamiti padamatra kriyāviśeṣaṇatvena vyākhyeyam| na tu vacoviśeṣaṇatvena| tataśca vakṣyamāṇāndhakamathanādikarmastutyā viśiṣṭakarmayuktaṃ bhagavantamārādhyedaṃ vacanaṃ vainateyo 'bravīdityatrārthaḥ| tanna doṣaḥ kaściditi|| atha kāsau stutiryatpūrvaṃ dṛṣṭvetyuktam| tatrocyate jayāndhakapṛthuskandha- bandhabhedavicakṣaṇa / jaya pravaravīreśa- saṃruddhapuradāhaka

Sanskrit only: no published translation is held for this verse.

जयाखिलसुरेशान- शिरश्छेदभयानक । जय प्रथितसामर्थ्य- मन्मथस्थितिनाशन

jayākhilasureśāna- śiraśchedabhayānaka / jaya prathitasāmarthya- manmathasthitināśana

Sanskrit only: no published translation is held for this verse.

जयाच्युततनुध्वंस- कालकूटबलापह । जयावर्तमहाटोप- सरिद्वेगविधारण

jayācyutatanudhvaṃsa- kālakūṭabalāpaha / jayāvartamahāṭopa- saridvegavidhāraṇa

Sanskrit only: no published translation is held for this verse.

जय दारुवनोद्यान- मुनिपत्नीविमोहक । जय नृत्तमहारम्भ- क्रीडाविक्षोभदारुण

jaya dāruvanodyāna- munipatnīvimohaka / jaya nṛttamahārambha- krīḍāvikṣobhadāruṇa

Sanskrit only: no published translation is held for this verse.

जयोग्ररूपसंरम्भ- त्रासितत्रिदशासुर । जय क्रूरजनेन्द्रास्य- दर्शितासृक्सुनिर्झर

jayograrūpasaṃrambha- trāsitatridaśāsura / jaya krūrajanendrāsya- darśitāsṛksunirjhara

Sanskrit only: no published translation is held for this verse.

जय वीरपरिस्पन्द- दक्षयज्ञविनाशन । जयाद्भुतमहालिङ्ग- संस्थानबलगर्वित

jaya vīraparispanda- dakṣayajñavināśana / jayādbhutamahāliṅga- saṃsthānabalagarvita

Sanskrit only: no published translation is held for this verse.

जय श्वेतनिमित्तोग्र- मृत्युदेहनिपातन । जयाशेषसुखावास- काममोहितशैलज

jaya śvetanimittogra- mṛtyudehanipātana / jayāśeṣasukhāvāsa- kāmamohitaśailaja

Sanskrit only: no published translation is held for this verse.

जयोपमन्युसन्ताप- मोहजालतमोहर । जय पातालमूलोर्ध्व- लोकालोकप्रदाहक

jayopamanyusantāpa- mohajālatamohara / jaya pātālamūlordhva- lokālokapradāhaka

Sanskrit only: no published translation is held for this verse.

ओफ़् थे हेतुबिन्दुटीका । श्रीमद्रौरवाददौ परमशिवविषयत्वात्स्तोत्रस्य परमशिवे चाशरीरत्वेन शशाङ्कार्धशेखरत्वाद्यसम्भवाद्युक्तैवाप्रसिद्धार्थकल्पनेत्यविरोधः॥८--९॥ अथ किं तद्वचो यदब्रवीत्तार्क्ष्यः स्तुतिपूर्वं दृष्ट्वेत्युक्तम्। तत्रोच्यते भक्तस्य मम भीतस्य शिवज्ञानं परं वद । यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम्

of the Hetubinduṭīkā . śrīmadrauravādadau paramaśivaviṣayatvātstotrasya paramaśive cāśarīratvena śaśāṅkārdhaśekharatvādyasambhavādyuktaivāprasiddhārthakalpanetyavirodhaḥ||8--9|| atha kiṃ tadvaco yadabravīttārkṣyaḥ stutipūrvaṃ dṛṣṭvetyuktam| tatrocyate bhaktasya mama bhītasya śivajñānaṃ paraṃ vada / yadavāpya narāḥ sarve muktimāyānti kevalām

Sanskrit only: no published translation is held for this verse.

एवं स्तुतिपूर्वदर्शनपूर्वकं शास्त्रवि षयाविवेकप्रदर्शनतः शास्त्रं वैनतेयेन पर्यनुयुक्तः सन् सविस्मयत्वे सत्युत्पन्नशिरःकंपत्वाद्विशेषेण स्फुरच्चन्द्रशेखरः श्रीकण्ठदेवः प्राह। किञ्च प्राहेत्युच्यते। भगवान् उवाच भद्रमेतत्त्वया पृष्टं शृणु ज्ञानं महोदयम्

evaṃ stutipūrvadarśanapūrvakaṃ śāstravi ṣayāvivekapradarśanataḥ śāstraṃ vainateyena paryanuyuktaḥ san savismayatve satyutpannaśiraḥkaṃpatvādviśeṣeṇa sphuraccandraśekharaḥ śrīkaṇṭhadevaḥ prāha| kiñca prāhetyucyate| bhagavān uvāca bhadrametattvayā pṛṣṭaṃ śṛṇu jñānaṃ mahodayam

Sanskrit only: no published translation is held for this verse.

किरणाख्यं महातन्त्रं परामृतसुखप्रदम् । सर्वानुग्राहकं शुभ्रं पदार्थोद्द्योतकं स्फुटम्

kiraṇākhyaṃ mahātantraṃ parāmṛtasukhapradam / sarvānugrāhakaṃ śubhraṃ padārthoddyotakaṃ sphuṭam

Sanskrit only: no published translation is held for this verse.

तदेतन्मुक्तिलक्षणं प्रयोजनान्तरम्। सम्बन्धस्तूपायोपेयत्वादिलक्षणो ऽत्रार्थसिद्धः। सर्वेषां तु भक्तानां ब्राह्मणादीनामनु पश्चात् शक्तिनिपातात् ग्राहकं स्वीकारकम्। न तु शक्तिपातं विना ब्राह्मणजातिमात्रस्यापि विशिष्टतराधिकारविषयत्वमित्यर्थः। शुभ्रमिति वक्ष्यमाणपादचतुष्टयशोभायुक्तत्वात्। न त्वानर्थक्यलूनविशीर्णात्मकमिति विशि ष्टस्वरूपकथनम्। पदार्था अर्थराशयः षट् पश्वादयो वक्ष्यमाणास्तेषामुद्द्योतकमित्यनेनास्याभिधेयकथ नम्। स्फुटमित्यनेन संहितान्तरेभ्यो ऽस्य विशेषः। तानि ह्यस्फुटं कृत्वा पदार्थानामुद्द्योतकान्यतस्तैरगतार्थत्वमित्यर्थः। एवं च स्वरूपागतार्थत्वप्रामाण्याधिकारिसम्बन्धाभिधेयप्रयोजनानि शास्त्रस्योक्तानीति प्रतिज्ञारूप मेतदेवादिसूत्रम् अथातो ऽनादि मध्यान्तेत्यादि श्रीमद्रौरव ।क़ुओते अथातो ऽनादिमध्यान्तं रौरवसूत्रसङ्ग्रह १:१अ। इव अथाणोर्बन्धसोपान ।क़ुओते अथाणोर्बन्धसोपान ।मत्।व्प्। २:१अ। इत्यादि श्रीमन्मतङ्ग इव चैवंरूपत्वादादिसूत्रस्य। न तु पशुपाशेत्यादि तस्यैतत्सूचितार्थान्तरप्रतिज्ञारूपत्वेनोत्तरसूत्रत्वादिति दर्शयिष्यामः। यत्त्वत्र सम्बन्धादीनामेतदभिधानं प्रमाणत्वादकर्तव्यमिति चोदयित्वा लोक इव संशयहेतुत्वेनापि कर्तव्यमिति केनापि प्रतिविहितं तदयुक्तमेव। तर्कशास्त्राणामिव लौकिकवाक्यस्येव चास्य सूत्रस्याभिधानमात्रत्वासिद्धेः। परमेश्वरप्रणीतं ह्येतदागमरूपं प्रमाणमिति कथं सन्दिग्धविषयं स्यात् प्रमाणस्य स्वप्रमेयनिश्चयरूपत्वेन तद्विषयसंशयनिवृत्तिफलत्वादिति सम्बन्धादिनिश्चयत्वेनैवात्र प्रतिविधेयमिति॥ अथ किं तस्य शुभ्रत्वम्। कीदृशाश्च ते पदार्था येषामेतद्द्योतकमुक्तम्। कियत्संख्याश्चे ति तदर्थमेतत्प्रतिज्ञासूत्रान्तरम्॥ पशुपाशपतिज्ञान- विचारप्रतिपादकम् । क्रियाचर्यासमोपेतं योगभूतिभरावहम्

tadetanmuktilakṣaṇaṃ prayojanāntaram| sambandhastūpāyopeyatvādilakṣaṇo 'trārthasiddhaḥ| sarveṣāṃ tu bhaktānāṃ brāhmaṇādīnāmanu paścāt śaktinipātāt grāhakaṃ svīkārakam| na tu śaktipātaṃ vinā brāhmaṇajātimātrasyāpi viśiṣṭatarādhikāraviṣayatvamityarthaḥ| śubhramiti vakṣyamāṇapādacatuṣṭayaśobhāyuktatvāt| na tvānarthakyalūnaviśīrṇātmakamiti viśi ṣṭasvarūpakathanam| padārthā artharāśayaḥ ṣaṭ paśvādayo vakṣyamāṇāsteṣāmuddyotakamityanenāsyābhidheyakatha nam| sphuṭamityanena saṃhitāntarebhyo 'sya viśeṣaḥ| tāni hyasphuṭaṃ kṛtvā padārthānāmuddyotakānyatastairagatārthatvamityarthaḥ| evaṃ ca svarūpāgatārthatvaprāmāṇyādhikārisambandhābhidheyaprayojanāni śāstrasyoktānīti pratijñārūpa metadevādisūtram athāto 'nādi madhyāntetyādi śrīmadraurava /quote athāto 'nādimadhyāntaṃ Rauravasūtrasaṅgraha 1:1a. iva athāṇorbandhasopāna /quote athāṇorbandhasopāna /Mat/VP/ 2:1a. ityādi śrīmanmataṅga iva caivaṃrūpatvādādisūtrasya| na tu paśupāśetyādi tasyaitatsūcitārthāntarapratijñārūpatvenottarasūtratvāditi darśayiṣyāmaḥ| yattvatra sambandhādīnāmetadabhidhānaṃ pramāṇatvādakartavyamiti codayitvā loka iva saṃśayahetutvenāpi kartavyamiti kenāpi prativihitaṃ tadayuktameva| tarkaśāstrāṇāmiva laukikavākyasyeva cāsya sūtrasyābhidhānamātratvāsiddheḥ| parameśvarapraṇītaṃ hyetadāgamarūpaṃ pramāṇamiti kathaṃ sandigdhaviṣayaṃ syāt pramāṇasya svaprameyaniścayarūpatvena tadviṣayasaṃśayanivṛttiphalatvāditi sambandhādiniścayatvenaivātra pratividheyamiti|| atha kiṃ tasya śubhratvam| kīdṛśāśca te padārthā yeṣāmetaddyotakamuktam| kiyatsaṃkhyāśce ti tadarthametatpratijñāsūtrāntaram|| paśupāśapatijñāna- vicārapratipādakam / kriyācaryāsamopetaṃ yogabhūtibharāvaham

Sanskrit only: no published translation is held for this verse.

तत्र मल एक एवानेकपुरुषावारकानेकशक्तिः। न पशुतत्त्वात्तत्त्वान्तरं तेन विना पशुत्वायोगात्। वस्त्वन्तरं तु भवत्येव। कर्मापि न तत्त्वान्तरं धर्मादिभावाष्टकभेदेन प्रकृतिसंस्काररूपत्वात्तेन विना प्रकृतेर्बन्धत्वायोगात्। प्रतिपुरुषमनुष्ठेयत्वेन भिन्नत्वात् विचित्रत्वादनेकप्रत्ययात्मनोपभोग्यमनन्तमेव। मायीयस्तु कलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः प्रतिपुरुषं सूक्ष्मदेहात्मना भिन्नो नवत्यधिकशतत्रयभुवनात्मना चाभिन्नः प्रतिभुवनं भूतात्मक स्थूलदेहत्वेन भिन्नश्चाभिन्नश्च स्थूलदेहस्यात्मान्तरैरपि भोग्यत्वादित्यपि निवेदयिष्यामः। मायापि पाशयोनित्वात्पाशः। तिरोभावनशक्तिरपि मायागर्भाधिकारीश्वराभिव्यक्ता पाश एवेत्येतावदर्थजातमत्र द्वितीयः पदार्थः पाश इत्युच्यते। पतिस्तु भगवान् शिवसदाशिवरूपतत्त्वद्वयभेदेन भुवनपञ्चकभेदेन ।क़ुओते भुवनपञ्चकभेदेन वक्ष्यमाणः ।किर्। ८:१३९--४१। वक्ष्यमाणः परमेश्वरः सह मुक्तैस्तृतीयः पदार्थः कथ्यते। ज्ञानपदेन च ज्ञायते ऽनेनेति कृत्वा शक्तिपदार्थो ऽत्रेश्वरतत्त्वत्वेन वक्ष्यमाणभुवनचतुष्टययुक्तश्चतुर्थो ऽभिधीयते। ।क़ुओते वक्ष्यमाणभुवनचतुष्टययुक्तः ।किर्। ८:१३८च्--१३९अ। तदधिष्ठानं विना पुंसां ज्ञानानुत्पादात्। तथा च श्रुतिरपि धियो यो नः प्रचोदयादिति। ।क़ुओते धियो यो नः प्रचोदयात् ऋग्वेद ३।६२।१०। विचारयति पुरुषकर्मानुसारेण जगतः साधारणासाधारणात्मनः सृष्टिसंहारादिकमिति विचारो ऽत्र पञ्चमपदार्थतया विद्या विद्येशात्मकतत्त्वद्वयरूपषड्विंशतिभुवनभेदभिन्नो ऽर्थराशिः प्रतिपाद्यते। एषां पञ्चानां पदार्थानां प्रतिपादकं शास्त्रं विद्यापादात्मकं शृण्विति प्रतिज्ञातार्थानुषङ्गः। न तु पशुपाशपतीनां यत् ज्ञानं यश्च विचारो ऽनुमानं तयोः प्रतिपादकमेतच्छास्त्रं शृण्विति व्याख्येयम्। शास्त्रस्य शब्दात्मकत्वेनानन्वयात्। न हि शब्दात् ज्ञानं प्रतीयते। ।च्रुx वाचकत्वेनास्य वाच्यसंकेतित्वात्।च्रुx । अपि त्वर्थ एव। ज्ञानं तु ततो ऽनुमेयम्। अथ ज्ञानशब्दो ऽत्रार्थात्पश्वादिज्ञानहेतौ वाक्ये प्रयुक्तो विचारशब्दो ऽपि तदनुमानहेतौ लिङ्ग इति व्याख्यायते। ।च्रुx एवमपि रूढार्थत्यागेनानयोरत्र प्रवृत्तेरविशेषाद्वरं।च्रुx। पदार्थ विषयतैव युक्तेति। पदार्थानां पञ्चत्वसिद्धिः। यदुक्तं श्रीमद्रौरवे पदार्थाः पञ्च विख्याता विद्येशवदनोद्भवाः। ।क़ुओते पदार्थाः।देव्दोत् समासतः ।रौस्। ४:४८; च्फ़्। विधिः क्रिया कला योगः शिवश्चेति समासतः। पदार्थाः पञ्च विज्ञेयाः शैवशास्त्रे ह्यनुत्तरे क़ुओतेद् ब्य् अलक अद् हरविजय ६:१४७। विधिः क्रिया कलायोगौ शिवश्चेति समासतः। इति पूर्वैव व्याख्या युक्ता। क्रिया करणं संस्करणं दीक्षेति। चर्या चरणं नित्यादिकर्मानुष्ठानं ताभ्यां समं तुल्यत्वेनोपेतं क्रियाचर्यात्मकपादद्वय युक्तमप्येतच्छास्त्रं शृण्वित्यर्थः। यो योगश्चेतसो ध्येयेनार्थेन सम्बन्धस्तद्विषयः समाधिरेकाग्रतारूपो वा तस्य भूतिः प्रत्याहाराद्यङ्गावैकल्येन भवनं तस्याभरो ऽनन्तफलाविर्भावः तमावहति यच्छास्त्रं तच्छृण्विति चतुर्थस्य पादस्य प्रतिज्ञेत्यर्थादत्र पादसंख्यापि प्रतीता। क्रियादिपादत्रयप्रतिपाद्यश्चार्थः षष्ठः पदार्थः कथ्यते यः श्रीमतङ्गादावुपायपदार्थत्वेनोक्तः। अर्थतथात्वस्थितिश्च संहितान्तरात्संहितान्तर संशयविषयेषु युक्तैककर्तृकत्वाच्छ्रुत्यादिशास्त्रेष्विवेत्य दोषः। तदेवं चतुष्पादमिदं शास्त्रं षट्पदार्थाभिधायि च। इत्य स्यानुषङ्गिकस्य प्रतिज्ञासूत्रस्यार्थः॥ अत्र पूर्वः पक्षः गरुड उवाच यद्येवं स पशुस्तावत्- कीदृशो बध्यते कथम् । मुच्यते कथमाख्याहि संदेहविनिवृत्तये

tatra mala eka evānekapuruṣāvārakānekaśaktiḥ| na paśutattvāttattvāntaraṃ tena vinā paśutvāyogāt| vastvantaraṃ tu bhavatyeva| karmāpi na tattvāntaraṃ dharmādibhāvāṣṭakabhedena prakṛtisaṃskārarūpatvāttena vinā prakṛterbandhatvāyogāt| pratipuruṣamanuṣṭheyatvena bhinnatvāt vicitratvādanekapratyayātmanopabhogyamanantameva| māyīyastu kalādikṣityantatriṃśattattvātmakaḥ pratipuruṣaṃ sūkṣmadehātmanā bhinno navatyadhikaśatatrayabhuvanātmanā cābhinnaḥ pratibhuvanaṃ bhūtātmaka sthūladehatvena bhinnaścābhinnaśca sthūladehasyātmāntarairapi bhogyatvādityapi nivedayiṣyāmaḥ| māyāpi pāśayonitvātpāśaḥ| tirobhāvanaśaktirapi māyāgarbhādhikārīśvarābhivyaktā pāśa evetyetāvadarthajātamatra dvitīyaḥ padārthaḥ pāśa ityucyate| patistu bhagavān śivasadāśivarūpatattvadvayabhedena bhuvanapañcakabhedena /quote bhuvanapañcakabhedena vakṣyamāṇaḥ /Kir/ 8:139--41. vakṣyamāṇaḥ parameśvaraḥ saha muktaistṛtīyaḥ padārthaḥ kathyate| jñānapadena ca jñāyate 'neneti kṛtvā śaktipadārtho 'treśvaratattvatvena vakṣyamāṇabhuvanacatuṣṭayayuktaścaturtho 'bhidhīyate| /quote vakṣyamāṇabhuvanacatuṣṭayayuktaḥ /Kir/ 8:138c--139a. tadadhiṣṭhānaṃ vinā puṃsāṃ jñānānutpādāt| tathā ca śrutirapi dhiyo yo naḥ pracodayāditi| /quote dhiyo yo naḥ pracodayāt Ṛgveda 3.62.10. vicārayati puruṣakarmānusāreṇa jagataḥ sādhāraṇāsādhāraṇātmanaḥ sṛṣṭisaṃhārādikamiti vicāro 'tra pañcamapadārthatayā vidyā vidyeśātmakatattvadvayarūpaṣaḍviṃśatibhuvanabhedabhinno 'rtharāśiḥ pratipādyate| eṣāṃ pañcānāṃ padārthānāṃ pratipādakaṃ śāstraṃ vidyāpādātmakaṃ śṛṇviti pratijñātārthānuṣaṅgaḥ| na tu paśupāśapatīnāṃ yat jñānaṃ yaśca vicāro 'numānaṃ tayoḥ pratipādakametacchāstraṃ śṛṇviti vyākhyeyam| śāstrasya śabdātmakatvenānanvayāt| na hi śabdāt jñānaṃ pratīyate| /crux vācakatvenāsya vācyasaṃketitvāt/crux | api tvartha eva| jñānaṃ tu tato 'numeyam| atha jñānaśabdo 'trārthātpaśvādijñānahetau vākye prayukto vicāraśabdo 'pi tadanumānahetau liṅga iti vyākhyāyate| /crux evamapi rūḍhārthatyāgenānayoratra pravṛtteraviśeṣādvaraṃ/crux/ padārtha viṣayataiva yukteti| padārthānāṃ pañcatvasiddhiḥ| yaduktaṃ śrīmadraurave padārthāḥ pañca vikhyātā vidyeśavadanodbhavāḥ| /quote padārthāḥ/devdot samāsataḥ /RauS/ 4:48; cf. vidhiḥ kriyā kalā yogaḥ śivaśceti samāsataḥ| padārthāḥ pañca vijñeyāḥ śaivaśāstre hyanuttare quoted by Alaka ad Haravijaya 6:147. vidhiḥ kriyā kalāyogau śivaśceti samāsataḥ| iti pūrvaiva vyākhyā yuktā| kriyā karaṇaṃ saṃskaraṇaṃ dīkṣeti| caryā caraṇaṃ nityādikarmānuṣṭhānaṃ tābhyāṃ samaṃ tulyatvenopetaṃ kriyācaryātmakapādadvaya yuktamapyetacchāstraṃ śṛṇvityarthaḥ| yo yogaścetaso dhyeyenārthena sambandhastadviṣayaḥ samādhirekāgratārūpo vā tasya bhūtiḥ pratyāhārādyaṅgāvaikalyena bhavanaṃ tasyābharo 'nantaphalāvirbhāvaḥ tamāvahati yacchāstraṃ tacchṛṇviti caturthasya pādasya pratijñetyarthādatra pādasaṃkhyāpi pratītā| kriyādipādatrayapratipādyaścārthaḥ ṣaṣṭhaḥ padārthaḥ kathyate yaḥ śrīmataṅgādāvupāyapadārthatvenoktaḥ| arthatathātvasthitiśca saṃhitāntarātsaṃhitāntara saṃśayaviṣayeṣu yuktaikakartṛkatvācchrutyādiśāstreṣvivetya doṣaḥ| tadevaṃ catuṣpādamidaṃ śāstraṃ ṣaṭpadārthābhidhāyi ca| itya syānuṣaṅgikasya pratijñāsūtrasyārthaḥ|| atra pūrvaḥ pakṣaḥ garuḍa uvāca yadyevaṃ sa paśustāvat- kīdṛśo badhyate katham / mucyate kathamākhyāhi saṃdehavinivṛttaye

Sanskrit only: no published translation is held for this verse.

यद्येवं पश्वादयः षट्पदार्थास्त्वया व्याख्येयत्वेनोद्दिष्टाः। तत्र यः प्रथमपदार्थत्वेन सङ्गृहीतः पशुः स कीदृश इति तस्य तावल्लक्षणं वक्तव्यं यतः सौगतैरसौ प्रतिक्षणं ध्वंसित्वेन विज्ञानसन्तानात्मकः। वेदान्तविद्भिश्च कैश्चिद्ब्रह्मकार्यत्वेनानित्य इष्यते। नैयायिकादिभिस्तु नित्यः। तथा चार्वाकैश्चतुर्महाभूतात्मकः। वैशेषिकादिभिस्तु तद्विलक्षणः। तथा सांख्यैस्तु बद्धावस्थायां मुक्त्यवस्थायामिव ज्ञत्वस्वभावश्चाकर्ता च। जैमिनीयादिभिस्तु ज्ञः कर्ता चेति। नैयायिकादिभिश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारैर्नवभिर्गुणैर्युक्तः। सांख्यैस्तु निर्गुणः। एवं पुरुषकारवादिभिः प्रभुः स्वतन्त्रः । दैववादिभिश्चास्वतन्त्रः। तथा दिगम्बरैर्जीवोत्पत्तिवादिभिश्च वेदान्तविद्भिरव्यापकः। नैयायिकादिभिश्च व्यापक इत्येवमनेकाप्रतिष्ठितकुयुक्त्यधिगमात्संशयो ऽस्माकम्। ततस्तन्निवृत्त्यर्थमाख्यातव्यं भवता को ऽत्र पक्षः सर्वज्ञेनानेन दर्शनेनानुगृहीतो य आगमसंवादित्वात्प्रमाणं को वाननुगृहीतो य आगमविरुद्धत्वादप्रमाणमिति। किञ्च बध्यते कथमिति केन प्र कारेण। किं नैयायिकादीनामिव शरीरेन्द्रियैरेवाथ सांख्यादीनामिव बुद्ध्यादिभिरपीति संशयः। किञ्च मुच्यते कथमिति किं ज्ञानेनैव सांख्यादीनामिव। किं योगेन पातञ्जलादीनामिव सन्न्यासेन वा वेदान्तवादिनामिव क्रियया वा जैमिनीया नामिव। यदाहुः नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया। ।क़ुओते नित्यनैमित्तिके।देव्दोत् काम्यनिषिद्धयोः ।स्लोक। सम्बन्धाक्षेपपरिहार ११०। मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः॥ इति। एवमत्रापि सन्देहो ऽतस्तन्निवृत्तये वक्तव्यमिति॥ अथ सन्देहाष्टकनिवृत्तये सिद्धान्तः॥ भगवान् उवाच पशुर्नित्यो ह्यमूर्तो ऽज्ञो निष्क्रियो निर्गुणो ऽप्रभुः । व्यापी मायोदरान्तस्थो भोगोपायविचिन्तकः

yadyevaṃ paśvādayaḥ ṣaṭpadārthāstvayā vyākhyeyatvenoddiṣṭāḥ| tatra yaḥ prathamapadārthatvena saṅgṛhītaḥ paśuḥ sa kīdṛśa iti tasya tāvallakṣaṇaṃ vaktavyaṃ yataḥ saugatairasau pratikṣaṇaṃ dhvaṃsitvena vijñānasantānātmakaḥ| vedāntavidbhiśca kaiścidbrahmakāryatvenānitya iṣyate| naiyāyikādibhistu nityaḥ| tathā cārvākaiścaturmahābhūtātmakaḥ| vaiśeṣikādibhistu tadvilakṣaṇaḥ| tathā sāṃkhyaistu baddhāvasthāyāṃ muktyavasthāyāmiva jñatvasvabhāvaścākartā ca| jaiminīyādibhistu jñaḥ kartā ceti| naiyāyikādibhiśca buddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārairnavabhirguṇairyuktaḥ| sāṃkhyaistu nirguṇaḥ| evaṃ puruṣakāravādibhiḥ prabhuḥ svatantraḥ | daivavādibhiścāsvatantraḥ| tathā digambarairjīvotpattivādibhiśca vedāntavidbhiravyāpakaḥ| naiyāyikādibhiśca vyāpaka ityevamanekāpratiṣṭhitakuyuktyadhigamātsaṃśayo 'smākam| tatastannivṛttyarthamākhyātavyaṃ bhavatā ko 'tra pakṣaḥ sarvajñenānena darśanenānugṛhīto ya āgamasaṃvāditvātpramāṇaṃ ko vānanugṛhīto ya āgamaviruddhatvādapramāṇamiti| kiñca badhyate kathamiti kena pra kāreṇa| kiṃ naiyāyikādīnāmiva śarīrendriyairevātha sāṃkhyādīnāmiva buddhyādibhirapīti saṃśayaḥ| kiñca mucyate kathamiti kiṃ jñānenaiva sāṃkhyādīnāmiva| kiṃ yogena pātañjalādīnāmiva sannyāsena vā vedāntavādināmiva kriyayā vā jaiminīyā nāmiva| yadāhuḥ nityanaimittike kuryātpratyavāyajihāsayā| /quote nityanaimittike/devdot kāmyaniṣiddhayoḥ /Sloka/ sambandhākṣepaparihāra 110. mokṣārthī na pravarteta tatra kāmyaniṣiddhayoḥ|| iti| evamatrāpi sandeho 'tastannivṛttaye vaktavyamiti|| atha sandehāṣṭakanivṛttaye siddhāntaḥ|| bhagavān uvāca paśurnityo hyamūrto 'jño niṣkriyo nirguṇo 'prabhuḥ / vyāpī māyodarāntastho bhogopāyavicintakaḥ

Sanskrit only: no published translation is held for this verse.

इह तु पुरुषं प्रति बन्धकत्वमात्रमेव प्रतिपाद्यते। सा च शिवात्तेन सह सम्बन्धमायाति। अत एवाचेतनत्वादस्वातन्त्र्येणेति एतच्च तत्त्वान्तराणां वक्ष्यमाणानामपि मन्तव्यं तेषामपि परिमितत्वात्। यद्वक्ष्यति एवं तत्त्वकलाबद्ध इति। ।क़ुओते एवं तत्त्वकलाबद्धः ।किर्। १:१९अ। ततो ऽयमर्थः---यद्यदचेतनं तत्तद्विशिष्टज्ञानक्रियायुक्तकर्तृप्रेरितमेवान्येन सह सम्बन्धमुपयाति घटादिवत्। अचेतनं च कलाद्यतस्तदपि विशिष्टज्ञानक्रियायुक्तकर्तृ प्रेरितमेव पुंसा सम्बध्यत इति। यश्चासौ कर्ता स शिव इति पतिपदार्थस्याप्यत्रैव निर्णयः। न च वाय्वादिभिरनेकान्तः तेषामपि पक्षीकृतत्वात्। स्थूलं विचित्रकं कार्यमित्यादिना ।क़ुओते स्थूलं विचित्रकं कार्यम् ।किर्। ३:१२अ। तु तस्य कार्यत्वहेतुतो ऽपि निर्णयो भविष्यतीत्यविरोधः॥ ननु कलैव तावदसिद्धेति कुतस्तस्याः प्रेरणतः कर्ता सिध्यतीति। तत्रोच्यते तयोद्बलितचैतन्यो विद्याख्यापितगोचरः

iha tu puruṣaṃ prati bandhakatvamātrameva pratipādyate| sā ca śivāttena saha sambandhamāyāti| ata evācetanatvādasvātantryeṇeti etacca tattvāntarāṇāṃ vakṣyamāṇānāmapi mantavyaṃ teṣāmapi parimitatvāt| yadvakṣyati evaṃ tattvakalābaddha iti| /quote evaṃ tattvakalābaddhaḥ /Kir/ 1:19a. tato 'yamarthaḥ---yadyadacetanaṃ tattadviśiṣṭajñānakriyāyuktakartṛpreritamevānyena saha sambandhamupayāti ghaṭādivat| acetanaṃ ca kalādyatastadapi viśiṣṭajñānakriyāyuktakartṛ preritameva puṃsā sambadhyata iti| yaścāsau kartā sa śiva iti patipadārthasyāpyatraiva nirṇayaḥ| na ca vāyvādibhiranekāntaḥ teṣāmapi pakṣīkṛtatvāt| sthūlaṃ vicitrakaṃ kāryamityādinā /quote sthūlaṃ vicitrakaṃ kāryam /Kir/ 3:12a. tu tasya kāryatvahetuto 'pi nirṇayo bhaviṣyatītyavirodhaḥ|| nanu kalaiva tāvadasiddheti kutastasyāḥ preraṇataḥ kartā sidhyatīti| tatrocyate tayodbalitacaitanyo vidyākhyāpitagocaraḥ

Sanskrit only: no published translation is held for this verse.

रागेण रञ्जितश्चापि प्रधानं च गुणात्मना । बुद्ध्यादिकरणानीक- सम्बन्धाद्बध्यते पशुः

rāgeṇa rañjitaścāpi pradhānaṃ ca guṇātmanā / buddhyādikaraṇānīka- sambandhādbadhyate paśuḥ

Sanskrit only: no published translation is held for this verse.

ततः कार्यकरणसम्बन्धादनन्तरं नियत्या यः संश्लेषः सम्बन्धस्ततो हेतोः प्रागर्जिते कर्मफले नियम्यते पुरुषः। अयमर्थः---कर्मफलं प्रति नियमः पुंसां न कर्महेतुकः तस्य कृष्यादिकर्मवत् स्वफलजननमात्र एवोपयोगात्। नापि तत्त्वान्तरहेतुः स्वकार्यैरेव तेषां सिद्धेः कार्यान्तरहेतुत्वे प्रमाणाभावादित्युक्तम्। अतः कृष्यादौ राजनियुक्तेनेवात्रापि केनचिन्नियामकेन भवितव्यम्। यो ऽसौ नियामकः स नियत्याख्यो ऽपरो बन्धः। अत एवास्य मायाकार्यत्वेन वक्ष्यमाणस्यापि कार्यकरणसम्बन्धोत्तरकालं व्यापार इति पश्चादत्र निर्देशः। तथा कालस्यापीत्यदोषः। अथ कीदृशो नियत्या नियम्यत इत्युच्यते। कालेन कालसंख्यान- कार्यभोगविमोहितः

tataḥ kāryakaraṇasambandhādanantaraṃ niyatyā yaḥ saṃśleṣaḥ sambandhastato hetoḥ prāgarjite karmaphale niyamyate puruṣaḥ| ayamarthaḥ---karmaphalaṃ prati niyamaḥ puṃsāṃ na karmahetukaḥ tasya kṛṣyādikarmavat svaphalajananamātra evopayogāt| nāpi tattvāntarahetuḥ svakāryaireva teṣāṃ siddheḥ kāryāntarahetutve pramāṇābhāvādityuktam| ataḥ kṛṣyādau rājaniyuktenevātrāpi kenacinniyāmakena bhavitavyam| yo 'sau niyāmakaḥ sa niyatyākhyo 'paro bandhaḥ| ata evāsya māyākāryatvena vakṣyamāṇasyāpi kāryakaraṇasambandhottarakālaṃ vyāpāra iti paścādatra nirdeśaḥ| tathā kālasyāpītyadoṣaḥ| atha kīdṛśo niyatyā niyamyata ityucyate| kālena kālasaṃkhyāna- kāryabhogavimohitaḥ

Sanskrit only: no published translation is held for this verse.

अथैषां कलादीनां तत्त्वरूपत्वमव्यापकत्वं स्थूलदेहपूर्वकत्वं चोच्यते एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देहसंयुतः । मायाभोगपरिष्वक्तस् तन्मयः सहजावृतः

athaiṣāṃ kalādīnāṃ tattvarūpatvamavyāpakatvaṃ sthūladehapūrvakatvaṃ cocyate evaṃ tattvakalābaddhaḥ kiñcijjño dehasaṃyutaḥ / māyābhogapariṣvaktas tanmayaḥ sahajāvṛtaḥ

Sanskrit only: no published translation is held for this verse.

ततः स्थूलदेहसम्बन्धादनन्तरं प्रागर्जित शुभाशुभकर्मजनितभावप्रत्ययात्मना सुखदुःखादिकं फलं भुङ्क्त इति भावसृष्टेः कर्मबन्धरूपत्वमुक्तम्। तथा कृत्स्नं निरवशेषं सर्वकर्मक्षये ऽपि तत्संस्कारशेषेण चक्रभ्रमवद्धृतशरीरत्वात्तत्संवेदनमात्रं भोगं भुङ्क्त इति सकलस्यावस्थान्तरं बन्धत्वेनोक्तम्। तदियता बध्यते कथमित्येतत्प्रश्नस्य निरासाय पाशपदार्थः सर्वो ऽभिहितः॥ अधुना मुच्यते कथमित्येतस्य समाधिः। समे कर्मणि सञ्जाते कालान्तरवशात्ततः

tataḥ sthūladehasambandhādanantaraṃ prāgarjita śubhāśubhakarmajanitabhāvapratyayātmanā sukhaduḥkhādikaṃ phalaṃ bhuṅkta iti bhāvasṛṣṭeḥ karmabandharūpatvamuktam| tathā kṛtsnaṃ niravaśeṣaṃ sarvakarmakṣaye 'pi tatsaṃskāraśeṣeṇa cakrabhramavaddhṛtaśarīratvāttatsaṃvedanamātraṃ bhogaṃ bhuṅkta iti sakalasyāvasthāntaraṃ bandhatvenoktam| tadiyatā badhyate kathamityetatpraśnasya nirāsāya pāśapadārthaḥ sarvo 'bhihitaḥ|| adhunā mucyate kathamityetasya samādhiḥ| same karmaṇi sañjāte kālāntaravaśāttataḥ

Sanskrit only: no published translation is held for this verse.

तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा । सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः

tīvraśaktinipātena guruṇā dīkṣito yadā / sarvajñaḥ sa śivo yadvat kiñcijjñatvavivarjitaḥ

Sanskrit only: no published translation is held for this verse.

प्।३; ब्य् ।नरयन। अद् ।म्र्ग्।व्प्। ५:५, प्।१३६, अन्द् इन् थे अनुबन्ध तो वोल्।१ ओफ़् थे ।मत्। ओन् प्।५७९ अन्द् इन् थे शतरत्नोल्लेखनी प्।८२। यः समः सर्वभूतेषु जीवन्मुक्तः स उच्यते॥ इति। तस्मिन् सञ्जाते सति गुरुणा मन्त्रगणेनेश्वरेणाचार्याधिकरणेन दीक्ष्यते नान्यथा। तथाभूतकर्मसमत्वं विनाचार्यस्य शक्तिपातानिश्चयात्। न त्वत्र कर्मणां विरुद्धफलानां साम्यं युगपत्परिपाकात्तीव्रवेगत्वेन वा व्याख्येयम्। तन्निमित्तस्य शक्तिपातस्य मोक्षहेतुत्वाभावात्। अत एवासौ विरुद्धकर्मद्वयापेक्ष संकटात् पुंसां मोक्षहेतुः न बन्धान्तरात्तस्य प्राग्वदविशेषादिति दर्शयिष्यामः। ।क़ुओते इति दर्शयिष्यामः अद् ।किर्। ५:१२च्द् अन्द् एल्सेwहेरे इन् थे चोम्मेन्तर्य् ओन् थे फ़िफ़्थ् पटल । स चैवं दीक्षितः सद्योनिर्वाणदीक्षया यदा भवति तदा शिववत्सर्वज्ञः सर्वकर्ता च किञ्चिज्ज्ञत्वहेतुभिर्बन्धैर्विवर्जितश्च भवति। यदा त्वसद्योनिर्वाणदीक्षया दीक्षितो न पुनः संसारी यदा पतितशरीरो भवति तदा शिवत्वव्यक्तिसंपूर्णो भवति न प्रागारब्धकार्यकर्मभोगोपरोधे न सर्वात्मना बन्धक्षयस्य शिवत्वस्य व्यक्तेश्चाकरणादिति वक्ष्यामो येनेदं तद्धि भोगत इत्यत्र। ।क़ुओते येनेदं तद्धि भोगतः ।किर्। ६:२०द्। शिवत्वस्य व्यक्तिरिह मोक्षः न तु सिद्धे संक्रान्तिरावेशः समुत्पत्तिर्वेत्येतदप्यतः सिद्धम्। एवं चेह दीक्षयैवेश्वरव्यापारात्मिकया पुंसां विमोक्षः न विज्ञानयोगसन्न्यासैः ।क़ुओते विज्ञानयोगसन्न्यासैः ।परमोक्स। ५५च्। द्रव्यत्वाद्बन्धस्य चक्षुषः पटलादेरिव तेषां निवृत्तिहेतुत्वासिद्धेः। अपि तु पटलादेश्चक्षुर्वैद्यव्यापारेणेवेश्वरव्यापारेण मन्त्रकरणेन दीक्षाख्येनैवेति ज्ञानविचारोपायपदार्थानामप्यत्रैव निर्णयः सिद्धः। अथ सर्वेषां प्रश्नसमाधानानामुपसंहारः। एवं क्रमाद्विबद्धः सन् मुच्यते क्रमयोगतः

p.3; by /Narayana/ ad /Mrg/VP/ 5:5, p.136, and in the anubandha to vol.1 of the /Mat/ on p.579 and in the Śataratnollekhanī p.82. yaḥ samaḥ sarvabhūteṣu jīvanmuktaḥ sa ucyate|| iti| tasmin sañjāte sati guruṇā mantragaṇeneśvareṇācāryādhikaraṇena dīkṣyate nānyathā| tathābhūtakarmasamatvaṃ vinācāryasya śaktipātāniścayāt| na tvatra karmaṇāṃ viruddhaphalānāṃ sāmyaṃ yugapatparipākāttīvravegatvena vā vyākhyeyam| tannimittasya śaktipātasya mokṣahetutvābhāvāt| ata evāsau viruddhakarmadvayāpekṣa saṃkaṭāt puṃsāṃ mokṣahetuḥ na bandhāntarāttasya prāgvadaviśeṣāditi darśayiṣyāmaḥ| /quote iti darśayiṣyāmaḥ ad /Kir/ 5:12cd and elsewhere in the commentary on the fifth paṭala . sa caivaṃ dīkṣitaḥ sadyonirvāṇadīkṣayā yadā bhavati tadā śivavatsarvajñaḥ sarvakartā ca kiñcijjñatvahetubhirbandhairvivarjitaśca bhavati| yadā tvasadyonirvāṇadīkṣayā dīkṣito na punaḥ saṃsārī yadā patitaśarīro bhavati tadā śivatvavyaktisaṃpūrṇo bhavati na prāgārabdhakāryakarmabhogoparodhe na sarvātmanā bandhakṣayasya śivatvasya vyakteścākaraṇāditi vakṣyāmo yenedaṃ taddhi bhogata ityatra| /quote yenedaṃ taddhi bhogataḥ /Kir/ 6:20d. śivatvasya vyaktiriha mokṣaḥ na tu siddhe saṃkrāntirāveśaḥ samutpattirvetyetadapyataḥ siddham| evaṃ ceha dīkṣayaiveśvaravyāpārātmikayā puṃsāṃ vimokṣaḥ na vijñānayogasannyāsaiḥ /quote vijñānayogasannyāsaiḥ /Paramoksa/ 55c. dravyatvādbandhasya cakṣuṣaḥ paṭalāderiva teṣāṃ nivṛttihetutvāsiddheḥ| api tu paṭalādeścakṣurvaidyavyāpāreṇeveśvaravyāpāreṇa mantrakaraṇena dīkṣākhyenaiveti jñānavicāropāyapadārthānāmapyatraiva nirṇayaḥ siddhaḥ| atha sarveṣāṃ praśnasamādhānānāmupasaṃhāraḥ| evaṃ kramādvibaddhaḥ san mucyate kramayogataḥ

Sanskrit only: no published translation is held for this verse.

।क़ुओते सर्गादाविच्छया पतिः ।मोक्स। ७२द्। अनुगृह्णाति मन्त्रेशान्मायागर्भाधिकारिणः॥ इति। ।क़ुओते अनुगृह्णाति मन्त्रेशान्मायागर्भाधिकारिणः ।मोक्स। ७८अब्। किञ्च यावत्प्रोक्तयुक्तिसिद्ध्यसंभवात् विज्ञानकेवलिनो न निराकृतास्तावदयं हेतुः सन्दिग्धविपक्षव्यावृत्तत्वात् अहेतुरेव। यावच्चास्य हेतुत्वं न विनिश्चितं तावन्न ते निराकर्तुं शक्या इति इतरेतराश्रयाद्व्याप्त्यसिद्धेर्नास्य हेतुत्वम्। अत्र च हेतुत्वे प्रलयकेवलिनिरासे ऽपि हेतुत्वमेव। तेषामपि कलादिबन्धैर्भवितव्यम्। अनादिमलसम्बन्धित्वात्सकलवदिति। साधु समर्थितः स्वनय इत्यलं स्वशास्त्रवेतालोत्थापकैः सह निर्बन्धेनेति। अथ समस्तस्यास्य प्रकरणस्योपसंहारः। पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि

/quote sargādāvicchayā patiḥ /Moksa/ 72d. anugṛhṇāti mantreśānmāyāgarbhādhikāriṇaḥ|| iti| /quote anugṛhṇāti mantreśānmāyāgarbhādhikāriṇaḥ /Moksa/ 78ab. kiñca yāvatproktayuktisiddhyasaṃbhavāt vijñānakevalino na nirākṛtāstāvadayaṃ hetuḥ sandigdhavipakṣavyāvṛttatvāt ahetureva| yāvaccāsya hetutvaṃ na viniścitaṃ tāvanna te nirākartuṃ śakyā iti itaretarāśrayādvyāptyasiddhernāsya hetutvam| atra ca hetutve pralayakevalinirāse 'pi hetutvameva| teṣāmapi kalādibandhairbhavitavyam| anādimalasambandhitvātsakalavaditi| sādhu samarthitaḥ svanaya ityalaṃ svaśāstravetālotthāpakaiḥ saha nirbandheneti| atha samastasyāsya prakaraṇasyopasaṃhāraḥ| paśurevaṃvidhaḥ proktaḥ kimanyatparipṛcchasi

Sanskrit only: no published translation is held for this verse.