Library·Lalitavistara·12

Lalitavistara 12

शिल्पसंदर्शनपरिवर्तो द्वादशः । इति हि भिक्षवः संवृद्धे कुमारे राजा शुद्धोदनो ऽपरेण समयेन शाक्यगणेन सार्धं संस्थागारे निषण्णो ऽभूत् । तत्र ते महल्लकमहल्लकाः शाक्या राजानं शुद्धोदनमेवमाहुः - यत्खलु देवो जानीयात् । अयं सर्वार्थसिद्धकुमारो नैमित्तिकैर्ब्राह्मणैः कृतनिश्चयैश्च देवैर्यद्भूयसैवं निर्दिष्टो यदि कुमारो ऽभिनिष्क्रमिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धः । उत नाभिनिष्क्रमिष्यति राजा भविष्यति चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतः । तस्येमानि सप्त रत्नानि भविष्यन्ति । तद्यथा - चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् । एवं सप्तरत्नम् । संपूर्णं चास्य पुत्रसहस्रं भविष्यति शूराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् । स इमं पृथिवीमण्डलमदण्डेनाशस्त्रेणाभिनिर्जित्याध्यावसिष्यति सह धर्मेणेति । तस्मान्निवेशनं कुमारस्य क्रियतामिति । तत्र स्त्रीगणपरिवृतो रतिं वेत्स्यति, नाभिनिष्क्रमिष्यति । एवमस्माकं चक्रवर्तिवंशस्य चानुपच्छेदो भविष्यति । मानिताश्च भविष्यामो ऽनवद्याश्च सर्वकोटराजभिः ॥ ततो राजा शुद्धोदन एवमाह - यद्येवं तेन हि व्यवलोकयत कमता कन्या कुमारस्यानुरूपा स्यात् । तत्र पञ्चमात्राणि शाक्यशतानि । एकैक एवमाह - मम दुहिता अनुरूपा स्यात् कुमारस्य । सुरूपा मम दुहितेति । राजा प्राह - दुरासदः कुमारः । तत् प्रतिवेदयिष्यामस्तावत् कुमारस्य, कतमा ते कन्या रोचत इति । ततश्च ते सर्वे संनिपत्य कुमारस्यैनां प्रकृतिमारोचयन्ति स्म । तान् कुमार उवाच - सप्तमे दिवसे प्रतिवचनं श्रोष्यथेति ॥ ततो बोधिसत्त्वस्यैतदभवत् - विदित मम अनन्त कामदोषाः सरणसर्वैरसशोकदुःखमूलाः । भयकर विषपत्रसंनिकाशाः ज्वलननिभा असिधारतुल्यरूपाः

śilpasaṃdarśanaparivarto dvādaśaḥ / iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt / tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ - yatkhalu devo jānīyāt / ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati, tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ / uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ / tasyemāni sapta ratnāni bhaviṣyanti / tadyathā - cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam / evaṃ saptaratnam / saṃpūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām / sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti / tasmānniveśanaṃ kumārasya kriyatāmiti / tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati / evamasmākaṃ cakravartivaṃśasya cānupacchedo bhaviṣyati / mānitāśca bhaviṣyāmo 'navadyāśca sarvakoṭarājabhiḥ // tato rājā śuddhodana evamāha - yadyevaṃ tena hi vyavalokayata kamatā kanyā kumārasyānurūpā syāt / tatra pañcamātrāṇi śākyaśatāni / ekaika evamāha - mama duhitā anurūpā syāt kumārasya / surūpā mama duhiteti / rājā prāha - durāsadaḥ kumāraḥ / tat prativedayiṣyāmastāvat kumārasya, katamā te kanyā rocata iti / tataśca te sarve saṃnipatya kumārasyaināṃ prakṛtimārocayanti sma / tān kumāra uvāca - saptame divase prativacanaṃ śroṣyatheti // tato bodhisattvasyaitadabhavat - vidita mama ananta kāmadoṣāḥ saraṇasarvairasaśokaduḥkhamūlāḥ / bhayakara viṣapatrasaṃnikāśāḥ jvalananibhā asidhāratulyarūpāḥ

Sanskrit only: no published translation is held for this verse.

कामगुणि न मे ऽस्ति छन्दरागो न च अहु शोभमि इस्त्रिगारमध्ये । यन्नु अहु वने वसेय तूष्णीं ध्यानसमाधिसुखेन शान्तचित्तः

kāmaguṇi na me 'sti chandarāgo na ca ahu śobhami istrigāramadhye / yannu ahu vane vaseya tūṣṇīṃ dhyānasamādhisukhena śāntacittaḥ

Sanskrit only: no published translation is held for this verse.

स पुनरपि मीमांसोपायकौशल्यमामुखीकृत्य सत्त्वपरिपाकमवेक्षमाणो महाकरूणां संजनय्य तस्यां वेलायामिमां गाथामभाषत - संकीर्णि पङ्कि पदुमानि विवृद्धिमन्ति आकीर्ण राज नरमध्यि लभाति पूजाम् । यद बोधिसत्त्व परिवारबलं लभन्ते तद सत्त्वकोटिनयुतान्यमृते विनेन्ति

sa punarapi mīmāṃsopāyakauśalyamāmukhīkṛtya sattvaparipākamavekṣamāṇo mahākarūṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata - saṃkīrṇi paṅki padumāni vivṛddhimanti ākīrṇa rāja naramadhyi labhāti pūjām / yada bodhisattva parivārabalaṃ labhante tada sattvakoṭinayutānyamṛte vinenti

Sanskrit only: no published translation is held for this verse.

ये चापि पूर्वक अभूद्विदु बोधिसत्त्वाः सर्वेभि भार्य सुत दर्शित इस्त्रिगाराः । न च रागरक्त न च ध्यानसुखेभि भ्रष्टाः हन्तानुशिक्षयि अहं पि गुणेषु तेषाम्

ye cāpi pūrvaka abhūdvidu bodhisattvāḥ sarvebhi bhārya suta darśita istrigārāḥ / na ca rāgarakta na ca dhyānasukhebhi bhraṣṭāḥ hantānuśikṣayi ahaṃ pi guṇeṣu teṣām

Sanskrit only: no published translation is held for this verse.

न च प्राकृता मम वधू अनुकूल या स्याद् यस्या न इष्यतु गुणा सद सत्यवाक्यम् । या चिन्ति मह्यमभिराधयते ऽप्रमत्ता रूपेण जन्मकुलगोत्रतया सुशुद्धा

na ca prākṛtā mama vadhū anukūla yā syād yasyā na iṣyatu guṇā sada satyavākyam / yā cinti mahyamabhirādhayate 'pramattā rūpeṇa janmakulagotratayā suśuddhā

Sanskrit only: no published translation is held for this verse.

सो गाथलेख लिखिते गुणअर्थयुक्ता या कन्य ईदृश भवे मम तां वरेथा । न ममार्थु प्राकृतजनेन असंवृतेन यस्या गुणा कथयमी मम तां वरेथा

so gāthalekha likhite guṇaarthayuktā yā kanya īdṛśa bhave mama tāṃ varethā / na mamārthu prākṛtajanena asaṃvṛtena yasyā guṇā kathayamī mama tāṃ varethā

Sanskrit only: no published translation is held for this verse.

या रूपयौवनवरा न च रूपमत्ता माता स्वसा व यथ वर्तति मैत्रचित्ता । त्यागे रता श्रमणब्राह्मणदानशीला तां तादृशां मम वधूं वरयस्व तात

yā rūpayauvanavarā na ca rūpamattā mātā svasā va yatha vartati maitracittā / tyāge ratā śramaṇabrāhmaṇadānaśīlā tāṃ tādṛśāṃ mama vadhūṃ varayasva tāta

Sanskrit only: no published translation is held for this verse.

यस्या न मानु न खिलो न च दोषमस्ति न च शाठ्य ईर्ष्य न च माय न उज्जुभ्रष्टा । स्वप्नान्तरे ऽपि पुरूषे न परे ऽभिरक्ता तुष्टा स्वकेन पतिना शयते ऽप्रमत्ता

yasyā na mānu na khilo na ca doṣamasti na ca śāṭhya īrṣya na ca māya na ujjubhraṣṭā / svapnāntare 'pi purūṣe na pare 'bhiraktā tuṣṭā svakena patinā śayate 'pramattā

Sanskrit only: no published translation is held for this verse.

न च पानगृद्ध न रसेषु न शब्दगन्धे निर्लोभभिध्यविगता स्वधनेन तुष्टा

na ca pānagṛddha na raseṣu na śabdagandhe nirlobhabhidhyavigatā svadhanena tuṣṭā

Sanskrit only: no published translation is held for this verse.

सत्ये स्थिता न पि च चञ्चल नैव भ्रान्ता न च उद्धतोन्नतस्थिता हिरिवस्त्रछन्ना । न च दृष्टिमङ्गलरता सद धर्मयुक्ता कायेन वाच मनसा सद शुद्धभावा

satye sthitā na pi ca cañcala naiva bhrāntā na ca uddhatonnatasthitā hirivastrachannā / na ca dṛṣṭimaṅgalaratā sada dharmayuktā kāyena vāca manasā sada śuddhabhāvā

Sanskrit only: no published translation is held for this verse.

न च स्त्यानमिद्धबहुला न च मानमूढा मीमांसयुक्त सुकृता सद धर्मचारी । श्वश्रौ च तस्य श्वशुरे यथ शास्तृप्रेमा दासी कलत्र जनि यादृशमात्मप्रेम

na ca styānamiddhabahulā na ca mānamūḍhā mīmāṃsayukta sukṛtā sada dharmacārī / śvaśrau ca tasya śvaśure yatha śāstṛpremā dāsī kalatra jani yādṛśamātmaprema

Sanskrit only: no published translation is held for this verse.

शास्त्रे विधिज्ञ कुशला गणिका यथैव पश्चात् स्वपेत् प्रथममुत्थिहते च शय्यात । मैत्रानुवर्ति अकुहापि च मातृभूता एतादृशीं मि नृपते वधुकां वृणीष्व

śāstre vidhijña kuśalā gaṇikā yathaiva paścāt svapet prathamamutthihate ca śayyāta / maitrānuvarti akuhāpi ca mātṛbhūtā etādṛśīṃ mi nṛpate vadhukāṃ vṛṇīṣva

Sanskrit only: no published translation is held for this verse.

इति ॥ अथ खलु भिक्षवो राजा शुद्धोदन इमा गाथा वाचयित्वा पुरोहितमामन्त्रयते स्म - गच्छ त्वं महाब्राह्मण कपिलवस्तुमहानगरे । सर्वगृहाण्यनुप्रविश्य कन्या व्यवलोकय । यस्या एते गुणाः संविद्यन्ते क्षत्रियकन्याया वा ब्राह्मणकन्याया वा वैश्यकन्याया वा शूद्रकन्याया वा तां कन्यामस्माकं प्रतिवेदय । तत्कस्माद्धेतोः? न हि कुमारः कुलार्थिको न गोत्रार्थिकः । गुणार्थिक एव कुमारः ॥ तस्यां च वेलायामिमां गाथामभाषत - ब्राह्मणीं क्षत्रियां कन्यां वेश्यां शूद्रीं तथैव च । यस्या एते गुणाः सन्ति तां मे कन्यां प्रवेदय

iti // atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma - gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare / sarvagṛhāṇyanupraviśya kanyā vyavalokaya / yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya / tatkasmāddhetoḥ? na hi kumāraḥ kulārthiko na gotrārthikaḥ / guṇārthika eva kumāraḥ // tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata - brāhmaṇīṃ kṣatriyāṃ kanyāṃ veśyāṃ śūdrīṃ tathaiva ca / yasyā ete guṇāḥ santi tāṃ me kanyāṃ pravedaya

Sanskrit only: no published translation is held for this verse.

न कुलेन न गोत्रेण कुमारो मम विस्मितः । गुणे सत्ये च धर्मे च तत्रास्य रमते मनः

na kulena na gotreṇa kumāro mama vismitaḥ / guṇe satye ca dharme ca tatrāsya ramate manaḥ

Sanskrit only: no published translation is held for this verse.

अथ सा दारिका पुरोहितस्य चरणौ गृहीत्वा एवमाह - केन ते महाब्राह्मण कार्यम्? पुरोहित आह - शुद्धोदनस्य तनयः परमाभिरूपो द्वात्रिंशलक्षणधरो गुणतेजयुक्तः । तेनेति गाथ लिखिता गुणये वधूनां यस्या गुणास्ति हि इमे स हि तस्य पत्नी

atha sā dārikā purohitasya caraṇau gṛhītvā evamāha - kena te mahābrāhmaṇa kāryam? purohita āha - śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ / teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī

Sanskrit only: no published translation is held for this verse.

स तस्यास्तं लेखमुपनामयति स्म ॥ अथ सा दारिका तं गाथालेखं वाचयित्वा स्मितमुपदर्श्य तं पुरोहितं गाथयाध्यभाषत् - मह्येति ब्राह्मण गुणा अनुरूप सर्वे सो मे पतिर्भवतु सौम्य सुरूपरूपः । भणहि कुमारु यदि कार्य म हू विलम्ब मा हीनप्राकृतजनेन भवेय वासः

sa tasyāstaṃ lekhamupanāmayati sma // atha sā dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat - mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ / bhaṇahi kumāru yadi kārya ma hū vilamba mā hīnaprākṛtajanena bhaveya vāsaḥ

Sanskrit only: no published translation is held for this verse.

ततो राजा शुद्धोदनो बोधिसत्त्वाय तां प्रकृतिमारोचयति स्म । तां श्रुत्वा बोधिसत्त्व आह - देव अस्ति पुनरिह नगरे कश्चिद्यो मया सार्धं समर्थः शिल्पेन शिलपमुपदर्शयितुम्? ततो राजा शुद्धोदनः प्रहसितवदनो बोधिसत्त्वमेवमाह - शक्यसि पुनस्त्वं पुत्र शिल्पमुपदर्शयितुम्? स आह - बाढं शक्यामि देव । तेन हि संनिपात्यन्तां सर्वशिल्पज्ञाः, येषां पुरतः स्वं शिल्पमुपदर्शयिष्यामि ॥ ततो राजा शुद्धोदनः कपिलवस्तुनि महानगरवरे घण्टाघोषणां कारयति स्म - सप्तमे दिवसे कुमारः स्वं शिल्पमुपदर्शयति । तत्र सर्वशिल्पज्ञैः संनिपतितव्यम् ॥ तत्र सप्तमे दिवसे पञ्चमात्राणि शाक्यकुमारशतानि संनिपतितान्यभूवन् । दण्डपाणेश्च शाक्यस्य दुहिता गोपा नाम शाक्यकन्या जयपताका स्थापिताभूत् - यो वा अत्र असिधनुष्कलापयुद्धसालम्भेषु जेष्यति, तस्यैषा भविष्यतीति ॥ तत्र सर्वपुरतो देवदत्तः कुमारो नगरादभिनिष्क्रामति स्म । श्वेतश्च हस्ती महाप्रमाणो बोधिसत्त्वस्यार्थे नगरं प्रवेश्यते स्म । तत्र देवदत्तः कुमार ईर्ष्यया च शाक्यबलमदेन च मत्तः । स तं हस्तिनागं वामेन पाणिना शुण्डायां गृहीत्वा दक्षिणेन पाणिना चपेटया एकप्रहारेणैव हतो ऽभूत् ॥ तस्यानन्तरं सुन्दरनन्दकुमारो ऽभिनिष्क्रामति स्म । सो ऽद्राक्षीत्तं हस्तिनागं नगरद्वारे हतम् । दृष्ट्वा च पर्यपृच्छत् - केनायं हत इति । तत्र महाजनकाय आह - देवदत्तेनेति । स आह - अशोभनमिदं देवदत्तस्य । स तं हस्तिनागं लाङ्गूले गृहीत्वा नगरद्वारादपकर्षति स्म ॥ तदनन्तरं बोधिसत्त्वो रथाभिरूढो ऽभिनिष्क्रामति स्म । अद्राक्षीद्बोधिसत्त्वस्तं हस्तिनं हतम् । दृष्ट्वा च पर्यपृच्छत् - केनायं हत इति । आहुः - देवदत्तेनेति । आह - अशोभनं देवदत्तस्य । केन पुनरस्मान्नगरद्वारादपकर्षित इति । आहुः - सुन्दरनन्देनेति । आह - शोभनमिदं सुन्दरनन्दस्य । किं तु महाकायो ऽयं सत्त्वः । सो ऽयं क्लिन्नः सर्वनगरं दौर्गन्धेन स्फुरिष्यतीति ॥ ततः कुमारो रथस्य एवैकं पादं भूमौ प्रसार्य पादाङ्गुष्ठेन तं हस्तिनागं लाङ्गूले गृहित्वा सप्त प्राकारान् सप्त च परिखानतिक्रम्य बहिर्नगरस्य क्रोशमात्रे प्रक्षिपति स्म । यत्र व प्रदेशे स हस्ती पतितस्तस्मिन् प्रदेशे महद्बिलं संवृत्तं यत्सांप्रतं हस्तिगर्तेत्यभिधीयते ॥ तत्र देवमनुजाः शतसहस्राणि हाहाकारकिलकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । चैलविक्षेपांश्चाकार्षुः । गगनतलगताश्च देवपुत्रा इमे गाथे ऽभाषन्त - यथ मत्तगजेन्द्रगतीनां पादाङ्गुष्ठतलेन गजेन्द्रम् । सप्त पुरापरिखा अतिक्रम्य क्षिप्तु बहिः स्वपुरातु अयं हि

tato rājā śuddhodano bodhisattvāya tāṃ prakṛtimārocayati sma / tāṃ śrutvā bodhisattva āha - deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilapamupadarśayitum? tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha - śakyasi punastvaṃ putra śilpamupadarśayitum? sa āha - bāḍhaṃ śakyāmi deva / tena hi saṃnipātyantāṃ sarvaśilpajñāḥ, yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi // tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma - saptame divase kumāraḥ svaṃ śilpamupadarśayati / tatra sarvaśilpajñaiḥ saṃnipatitavyam // tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan / daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūt - yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati, tasyaiṣā bhaviṣyatīti // tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma / śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma / tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ / sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt // tasyānantaraṃ sundaranandakumāro 'bhiniṣkrāmati sma / so 'drākṣīttaṃ hastināgaṃ nagaradvāre hatam / dṛṣṭvā ca paryapṛcchat - kenāyaṃ hata iti / tatra mahājanakāya āha - devadatteneti / sa āha - aśobhanamidaṃ devadattasya / sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma // tadanantaraṃ bodhisattvo rathābhirūḍho 'bhiniṣkrāmati sma / adrākṣīdbodhisattvastaṃ hastinaṃ hatam / dṛṣṭvā ca paryapṛcchat - kenāyaṃ hata iti / āhuḥ - devadatteneti / āha - aśobhanaṃ devadattasya / kena punarasmānnagaradvārādapakarṣita iti / āhuḥ - sundaranandeneti / āha - śobhanamidaṃ sundaranandasya / kiṃ tu mahākāyo 'yaṃ sattvaḥ / so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti // tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhitvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma / yatra va pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate // tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan / cailavikṣepāṃścākārṣuḥ / gaganatalagatāśca devaputrā ime gāthe 'bhāṣanta - yatha mattagajendragatīnāṃ pādāṅguṣṭhatalena gajendram / sapta purāparikhā atikramya kṣiptu bahiḥ svapurātu ayaṃ hi

Sanskrit only: no published translation is held for this verse.

निःसंशयमेष सुमेधा मानबलेन समुच्छ्रितकायान् । संसारपुरातु बहिर्धा एक क्षपिष्यति प्रज्ञबलेन

niḥsaṃśayameṣa sumedhā mānabalena samucchritakāyān / saṃsārapurātu bahirdhā eka kṣapiṣyati prajñabalena

Sanskrit only: no published translation is held for this verse.

इति हि पञ्चमात्राणि शाक्यकुमारशतानि नगरान्निष्कम्य येनान्यतमः पृथिवीप्रदेशो यत्र शाक्यकुमाराः शिल्पमुपदर्शयन्ति स्म तेनोपसंक्रामन् । राजापि शुद्धोदनो महल्लकमहल्लकाश्च शाक्या महांश्च जनकायो येनासौ पृथिवीप्रदेशस्तेनोपसंक्रामन् बोधिसत्त्वस्य चान्येषां च शाक्यकुमाराणां शिल्पविशेषं द्रष्टुकामाः ॥ तत्र आदित एव ये शाक्यकुमारा लिप्यां पटुविधिज्ञास्ते बोधिसत्त्वेन सार्धं लिपिं विशेषयन्ति स्म । तत्र तैः शाक्यैर्विश्वामित्र आचार्यः साक्षी स्थापितो ऽभूत् - स त्वं व्यवलोकय कतमो ऽत्र कुमारो लिपिज्ञाने विशिष्यते यदि वा लेख्यतो यदि वा बहुलिपिनिर्याणतः । अथ विश्वामित्र आचार्यः प्रत्यक्षो बोधिसत्त्वस्य लिपिज्ञाने स्मितमुपदर्शयन्निमे गाथे ऽभाषत - मनुष्यलोके ऽथ च देवलोके गन्धर्वलोके ऽप्यसुरेन्द्रलोके । यावन्ति केचिल्लिपि सर्वलोके तत्रैष पारंगतु शुद्धसत्त्वः

iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkamya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman / rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ // tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma / tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt - sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ / atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe 'bhāṣata - manuṣyaloke 'tha ca devaloke gandharvaloke 'pyasurendraloke / yāvanti kecillipi sarvaloke tatraiṣa pāraṃgatu śuddhasattvaḥ

Sanskrit only: no published translation is held for this verse.

नामापि यूयं च अहं च तेषां लिपीन जानाम न चाक्षराणाम् । यान्येष जानाति मनुष्यचन्द्रो अहमत्र प्रत्यक्षु विजेष्यते ऽयम्

nāmāpi yūyaṃ ca ahaṃ ca teṣāṃ lipīna jānāma na cākṣarāṇām / yānyeṣa jānāti manuṣyacandro ahamatra pratyakṣu vijeṣyate 'yam

Sanskrit only: no published translation is held for this verse.

शाक्या आहुः - विशिष्यतां तावत्कुमारो लिपिज्ञाने । संख्याज्ञाने कुमारो विशेषयितव्यो जिज्ञास्यश्च । तत्रार्जुनो नाम शाक्यगणको महामात्रः संख्यागणनासु पारंगतः, स साक्षी स्थापितो ऽभूत् - स त्वं व्यवलोकय कतमो ऽत्र कुमारो विशिष्यते संख्याज्ञानत इति । तत्र बोधिसत्त्वश्चोद्दिशति स्म, एकश्च शाक्यकुमारो निक्षिपति स्म, न च परिप्रापयति स्म । बोधिसत्त्वस्यैक द्वौ त्रयश्चत्वारः पञ्चदश विंशत्त्रिंशच्चत्वारिंशत्पञ्चाशच्छतं यावत्पञ्चापि शाक्यकुमारशतानि युगपत्काले निक्षिपन्ति स्म, न च परिप्रापयन्ति स्म । ततो बोधिसत्त्व आह - उद्दिशत यूयम्, अहं निक्षेप्स्यामीति । तत्रैकशाक्यकुमारो बोधिसत्त्वस्योद्दिशति स्म, न च परिप्रापयति स्म । द्वावपि त्रयो ऽपि पञ्चापि दशापि विंशत्यपि त्रिंशदपि चत्वारिंशदपि पञ्चाशदपि यावत्पञ्चापि शाक्यकुमारशतानि युगपदुद्दिशन्ति स्म । न च परिप्रापयन्ति स्म बोधिसत्त्वस्य निक्षिपतः ॥ बोधिसत्त्व आह - अलमलमनेन विवादेन । सर्व इदानीमेकीभूत्वा ममोद्दिशत, अहं निक्षेप्स्यामीति । तत्र पञ्चमात्राणि शाक्यकुमारशतान्येकवचनोदाहारेणापूर्वचरितं समुद्दिशन्ति स्म, बोधिसत्त्वश्चासंमूढो निक्षिपति स्म । एवमपर्यन्ताः सर्वशाक्यकुमाराः, अथ पर्यन्तश्च बोधिसत्त्वः ॥ ततो ऽर्जुनो गणकमहामात्र आश्चर्यप्राप्त इमे गाथे ऽभाषत - ज्ञानस्य शीघ्रता साधु बुद्धे संपरिपृच्छता । पञ्चमात्रशतान्येते धिष्ठिता गणनापथे

śākyā āhuḥ - viśiṣyatāṃ tāvatkumāro lipijñāne / saṃkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca / tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ, sa sākṣī sthāpito 'bhūt - sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti / tatra bodhisattvaścoddiśati sma, ekaśca śākyakumāro nikṣipati sma, na ca pariprāpayati sma / bodhisattvasyaika dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma, na ca pariprāpayanti sma / tato bodhisattva āha - uddiśata yūyam, ahaṃ nikṣepsyāmīti / tatraikaśākyakumāro bodhisattvasyoddiśati sma, na ca pariprāpayati sma / dvāvapi trayo 'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma / na ca pariprāpayanti sma bodhisattvasya nikṣipataḥ // bodhisattva āha - alamalamanena vivādena / sarva idānīmekībhūtvā mamoddiśata, ahaṃ nikṣepsyāmīti / tatra pañcamātrāṇi śākyakumāraśatānyekavacanodāhāreṇāpūrvacaritaṃ samuddiśanti sma, bodhisattvaścāsaṃmūḍho nikṣipati sma / evamaparyantāḥ sarvaśākyakumārāḥ, atha paryantaśca bodhisattvaḥ // tato 'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe 'bhāṣata - jñānasya śīghratā sādhu buddhe saṃparipṛcchatā / pañcamātraśatānyete dhiṣṭhitā gaṇanāpathe

Sanskrit only: no published translation is held for this verse.

ईदृशी च इयं प्रज्ञा बुद्धिर्ज्ञानं स्मृतिर्मतिः । अद्यापि शिक्षते चायं गणितं ज्ञानसागरः

īdṛśī ca iyaṃ prajñā buddhirjñānaṃ smṛtirmatiḥ / adyāpi śikṣate cāyaṃ gaṇitaṃ jñānasāgaraḥ

Sanskrit only: no published translation is held for this verse.

अथ खल्वर्जुनो गणकमहामात्र इमे गाथे ऽभाषत - कोटीशतं च अयुता नयुतास्तथैव नियुतानु कङ्करगती तथ बिम्बराश्च । अक्षोभिणी परमज्ञानु न मे ऽस्त्यतो ऽर्थ - मत उत्तरे गणनमप्रतिमस्य ज्ञानम्

atha khalvarjuno gaṇakamahāmātra ime gāthe 'bhāṣata - koṭīśataṃ ca ayutā nayutāstathaiva niyutānu kaṅkaragatī tatha bimbarāśca / akṣobhiṇī paramajñānu na me 'styato 'rtha - mata uttare gaṇanamapratimasya jñānam

Sanskrit only: no published translation is held for this verse.

अपि च भोः शाक्याः - त्रिसाहस्रि रजाश्रयन्तका तृणवन ओषधियो जलस्य बिन्दून् । हुंकारेण न्यसेय एकिनैषो को पुनि विस्मयु पञ्चभिः शतेभिः

api ca bhoḥ śākyāḥ - trisāhasri rajāśrayantakā tṛṇavana oṣadhiyo jalasya bindūn / huṃkāreṇa nyaseya ekinaiṣo ko puni vismayu pañcabhiḥ śatebhiḥ

Sanskrit only: no published translation is held for this verse.

तत्र देवमनुजाः शतसहस्राणि हाहाकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । गगनतलगताश्च देवपुत्रा इमा गाथा अभाषन्त - यावन्त सत्त्व निखिलेन त्रियध्वयुक्ताः चित्तानि चैतसिकसंज्ञि वितर्कितानि । हीनाः प्रणीत तथ संक्षिपविक्षिपा ये एकस्मि चित्तपरिवर्ति प्रजानि सर्वान्

tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / gaganatalagatāśca devaputrā imā gāthā abhāṣanta - yāvanta sattva nikhilena triyadhvayuktāḥ cittāni caitasikasaṃjñi vitarkitāni / hīnāḥ praṇīta tatha saṃkṣipavikṣipā ye ekasmi cittaparivarti prajāni sarvān

Sanskrit only: no published translation is held for this verse.

इति हि भिक्षवो ऽभिभूताः सर्वे शाक्यकुमारा अभूवन् । बोधिसत्त्व एव विशिष्यते । तदनन्तरं लङ्घिते प्लविते जविते सर्वत्र बोधिसत्त्व एव विशिष्यते स्म । गगनतलगताश्च देवपुत्रा इमां गाथामभाषन्त - व्रततपसगुणेन संयमेन क्षमदममैत्रबलेन कल्पकोट्यः । अथ कृतुलघुकायचित्तनेता तस्य जवस्य विशेषतां शृणोथ

iti hi bhikṣavo 'bhibhūtāḥ sarve śākyakumārā abhūvan / bodhisattva eva viśiṣyate / tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma / gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta - vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ / atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṃ śṛṇotha

Sanskrit only: no published translation is held for this verse.

इह गृहगत युष्मे पश्यथा सत्त्वसारम् अपि च दशसु दिक्षू गच्छते ऽयं क्षणेन । अपरिमितजिनानां पूजनामेष कुर्वन् मणिकनकविचित्रैर्लोकधातुष्वनन्ता

iha gṛhagata yuṣme paśyathā sattvasāram api ca daśasu dikṣū gacchate 'yaṃ kṣaṇena / aparimitajinānāṃ pūjanāmeṣa kurvan maṇikanakavicitrairlokadhātuṣvanantā

Sanskrit only: no published translation is held for this verse.

न च पुन गति आगतिं च अस्या यूयं प्रजानथ तावदृद्धिप्राप्तो । को ऽत्र जविति विस्मयो जनेया असदृश एष करोथ गौरवो ऽस्मिन्

na ca puna gati āgatiṃ ca asyā yūyaṃ prajānatha tāvadṛddhiprāpto / ko 'tra javiti vismayo janeyā asadṛśa eṣa karotha gauravo 'smin

Sanskrit only: no published translation is held for this verse.

इति हि द्वात्रिंशच्छाक्यकुमाराः सालम्भाय स्थिताः । तदा नन्दश्चानन्दश्च बोधिसत्त्वमभिगतौ सालम्भाय । तौ समनन्तरं स्पृष्टावेव बोधिसत्त्वेन पाणिना । तौ बोधिसत्त्वस्य बलं तेजश्चासहमानौ धरणीतले प्रपतितावभूताम् । तदनन्तरं देवदत्तः कुमारो गर्वितश्च मानी च बलवानेव तब्धः शाक्यमानेन च तब्धो बोधिसत्त्वेन सार्धं विस्पर्धमानः सर्वावन्तं रङ्गमण्डलं प्रदक्षिणीकृत्य विक्रीडमानो बोधिसत्त्वमभिपतति स्म । अथ बोधिसत्त्वो ऽसंभ्रान्त एवात्वरन् दक्षिणेन पाणिना सलीलं देवदत्तं कुमारं गृहीत्वा त्रिर्गगनतले परिवर्त्य माननिग्रहार्थमविहिंसाबुद्ध्या मैत्रेण चित्तेन धरणीतले निक्षिपति स्म । न चास्य कायं व्याबाधते स्म ॥ ततो बोधिसत्त्वो ऽप्याह - अलमलमनेन विवादेन । सर्व एव एकीभूत्वा इदानीं सालम्भायागच्छतेति ॥ अथ ते सर्वे हर्षिता भूत्वा बोधिसत्त्वमभिनिपतिताः । ते समनन्तरस्पृष्टा बोधिसत्त्वेन बोधिसत्त्वस्य श्रियं तेजश्च कायबलं स्थामं चासहमानाः स्पृष्टमात्रा एव बोधिसत्त्वेन धरणितले प्रापतन् । तत्र मरून्मनुजशतसहस्राणि हीहीकारकिलकिलाप्रक्ष्वेडितशतसहस्राण्यकार्षुः । गगनतलगताश्च देवपुत्रा महान्तं पुष्पवर्षमभिप्रवृष्यैकस्वरेणेमां गाथामभाषन्त - यावन्त सत्त्वनयुता दशसू दिशासु ते दुष्टमल्लमहनग्नसमा भवेयुः । एकक्षणेन निपतेयु नरर्षभस्य संस्पृष्टमात्र निपतेयु क्षितीतलेस्मिं

iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ / tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya / tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā / tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām / tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma / atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma / na cāsya kāyaṃ vyābādhate sma // tato bodhisattvo 'pyāha - alamalamanena vivādena / sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti // atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ / te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan / tatra marūnmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ / gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta - yāvanta sattvanayutā daśasū diśāsu te duṣṭamallamahanagnasamā bhaveyuḥ / ekakṣaṇena nipateyu nararṣabhasya saṃspṛṣṭamātra nipateyu kṣitītalesmiṃ

Sanskrit only: no published translation is held for this verse.

मेरूः सुमेरु तथ वज्रकचक्रवालाः ये चान्य पर्वत क्वचिद्दशसू दिशासु । पाणिभ्य गृह्य मसिचूर्णनिभां प्रकुर्यात् को विस्मयो मनुजआश्रयके असारे

merūḥ sumeru tatha vajrakacakravālāḥ ye cānya parvata kvaciddaśasū diśāsu / pāṇibhya gṛhya masicūrṇanibhāṃ prakuryāt ko vismayo manujaāśrayake asāre

Sanskrit only: no published translation is held for this verse.

एषो द्रुमेन्द्रप्रवरे महदुष्टमल्लं मारं ससैन्यसबलं सहयं ध्वजाग्रे । मैत्रीबलेन विनिहत्य हि कृष्णबन्धुं यावत् स्पृशिष्यति अनुत्तरबोधि सान्तम्

eṣo drumendrapravare mahaduṣṭamallaṃ māraṃ sasainyasabalaṃ sahayaṃ dhvajāgre / maitrībalena vinihatya hi kṛṣṇabandhuṃ yāvat spṛśiṣyati anuttarabodhi sāntam

Sanskrit only: no published translation is held for this verse.

इति ॥ एवं कृत्वा बोधिसत्त्व एव विशिष्यते स्म ॥ अथ दण्डपाणिः शाक्यकुमारानेतदवोचत् - जिज्ञासितमिदं दृष्टं च । हन्तेदानीमिषुक्षेपमुपदर्शयतेति । तत्र आनन्दस्य द्वयोः क्रोशयोरयस्मयी भेरी लक्षं स्थापिताभूत् । अस्यानन्तरं देवदत्तस्य चतुर्षु क्रोशेष्वयस्मयी भेरी स्थापिताभूत् । दण्डपाणेर्योजनद्वये ऽयस्मयी भेरी स्थापिताभूत् । (वैद्य १०७) बोधिसत्त्वस्य दशसु क्रोशेष्वयस्मयी भेरी स्थापिताभूत् । तस्यानन्तरं सप्त ताला अयस्मयी वराहप्रतिमा यन्त्रयुक्ता स्थापिताभूत् । तत्रानन्देन द्वाभ्यां क्रोशाभ्यां भेर्याहताभूत्, ततोत्तरि न शक्नोति स्म । देवदत्तेन चतुःक्रोशस्था भेर्याहताभूत्, नोत्तरि शक्नोति स्म । सुन्दरनन्देन षट्क्रोशस्था भेर्याहताभूत्, नोत्तरि शक्नोति स्म । दण्डपाणिना द्वियोजनस्था भेर्याहताभूत्, निर्विद्धा च नोत्तरि शक्नोति स्म । तत्र बोधिसत्त्वस्य यद्यदेव धनुरुपानम्यते स्म, तत्तदेव विच्छिद्यते स्म । ततो बोधिसत्त्व आह - अस्तीह देव नगरे किंचिदन्यद्धनुर्यन्ममारोपणं सहेत कायबलस्थामं च? राजा आह - अस्ति पुत्र । कुमार आह - क्व तद्देव? राजा आह - तव पुत्र पितामहः सिंहहनुर्नामाभूत्, तस्य यद्धनुस्तदेव तर्हि देवकुले गन्धमाल्यैर्महीयते । न पुनस्तत्कश्चिच्छक्नोति स्म तद्धनुरारोपयितुं प्रागेव पूरयितुम् । बोधिसत्त्व आह - आनीयतां देव तद्धनुः । जिज्ञासिष्यामहे ॥ तावद्यावत्तद्धनुरुपनामितमभूत् । तत्र सर्वे शाक्यकुमाराः परमेणापि प्रयत्नेन व्यायच्छमाना न शक्नुवन्ति स्म तद्धनुरारोपयितुं प्रागेव पूरवितुम् । ततस्तद्धनुर्दण्डपाणेः शाक्यस्योपनामितमभूत् । अथ दण्डपाणिः शाक्यः सर्वं कायबलस्थाम संजनय्य तद्धनुरारोपयितुमारब्धो ऽभूत् । न च शक्नोति स्म । यावद्बोधिसत्त्वस्योपनामितमभूत् । तद्बोधिसत्त्वो गृहीत्वा आसनादनुत्तिष्ठन्नेवार्धपर्यङ्कं कृत्वा वामेन पाणिना(गृहीत्वा) दक्षिणेन पाणिना एकाङ्गुल्यग्रेणारोपितवानभूत् । तस्य धनुष आरोप्यमाणस्य सर्वं कपिलवस्तु महानगरं शब्देनाभिविज्ञप्तमभूत् । सर्वनगरजनश्च विह्वलीभूतो ऽन्योन्यमपृच्छत् - कस्यायमेवंविधः शब्द इति । अन्ये तदवोचन् - सिद्धार्थेन किल कुमारेण पैतामहधनुरारोपितम्, तस्यायं शब्द इति । तत्र देवमनुजशतसहस्राणि हाहाकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । गगनतलगताश्च देवपुत्रा राजानं शुद्धोदनं तं च महान्तं जनकायं गाथयाध्यभाषन्त - यथ पूरित एष धनुर्मुनिना न च उत्थितु आसनि नो च भूमी । निःसंशयु पूर्णमभिप्रायु मुनिर्लघु भेष्यति जित्व च मारचमूम्

iti // evaṃ kṛtvā bodhisattva eva viśiṣyate sma // atha daṇḍapāṇiḥ śākyakumārānetadavocat - jijñāsitamidaṃ dṛṣṭaṃ ca / hantedānīmiṣukṣepamupadarśayateti / tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt / asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt / daṇḍapāṇeryojanadvaye 'yasmayī bherī sthāpitābhūt / (Vaidya 107) bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt / tasyānantaraṃ sapta tālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt / tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt, tatottari na śaknoti sma / devadattena catuḥkrośasthā bheryāhatābhūt, nottari śaknoti sma / sundaranandena ṣaṭkrośasthā bheryāhatābhūt, nottari śaknoti sma / daṇḍapāṇinā dviyojanasthā bheryāhatābhūt, nirviddhā ca nottari śaknoti sma / tatra bodhisattvasya yadyadeva dhanurupānamyate sma, tattadeva vicchidyate sma / tato bodhisattva āha - astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca? rājā āha - asti putra / kumāra āha - kva taddeva? rājā āha - tava putra pitāmahaḥ siṃhahanurnāmābhūt, tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate / na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum / bodhisattva āha - ānīyatāṃ deva taddhanuḥ / jijñāsiṣyāmahe // tāvadyāvattaddhanurupanāmitamabhūt / tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūravitum / tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt / atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho 'bhūt / na ca śaknoti sma / yāvadbodhisattvasyopanāmitamabhūt / tadbodhisattvo gṛhītvā āsanādanuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā(gṛhītvā) dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt / tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt / sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat - kasyāyamevaṃvidhaḥ śabda iti / anye tadavocan - siddhārthena kila kumāreṇa paitāmahadhanurāropitam, tasyāyaṃ śabda iti / tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta - yatha pūrita eṣa dhanurmuninā na ca utthitu āsani no ca bhūmī / niḥsaṃśayu pūrṇamabhiprāyu munirlaghu bheṣyati jitva ca māracamūm

Sanskrit only: no published translation is held for this verse.

इति हि भिक्षवो बोधिसत्त्वस्तद्धनुः पूरयित्वेषुं गृहीत्वा तादृशेन बलस्थाम्ना तमिषुं क्षिपति स्म, येन या चानन्दस्य भेरी या च देवदत्तस्य यावत्सुन्द्दरनन्दस्य यावद्दण्डपाणेताः सर्वा अभिनिर्भिद्य तां च दशक्रोशस्थां स्वकामयस्मयीं भेरीं सप्ततालां यन्त्रयुक्तवराहप्रतिमामभिनिर्भिद्य स इषुर्धरणीतलं प्रविश्य अदर्शनाभासो ऽभूत् । यत्र च प्रदेशे स इषुर्भूमितलं भित्त्वा प्रविष्टस्तस्मिन् प्रदेशे कूपः संवृत्तः, यदद्यत्वे ऽपि शरकूप इत्यभिधीयते । तत्र देवमनुष्यशतसहस्राणि हीहीकारकिलिकिलाप्रक्ष्वेडितशतसहस्राणि प्रामुञ्चन् । सर्वश्च शाक्यगणो विस्मितो ऽभूत् आश्चर्यप्राप्तः - (वैद्य १०८) आश्चर्यं भोः । न च नाम अनेन योग्या कृता, इदं चेदृशं शिल्पकौशलम् । गगनतलगताश्च देवपुत्रा राजानं शुद्धोदनं तं च महान्तं जनकायमेवमाहुः - को ऽत्र विस्मयो मनुजाः । तत्कस्मात्? एष धरणिमण्डे पुर्वबुद्धासनस्थः शमथधनु गृहीत्वा शून्यनैरात्मबाणैः । क्लेशरिपु निहत्वा दृष्टिजालं च भित्त्वा शिवविरजमशोकां प्राप्स्यते बोधिमग्र्याम्

iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma, yena yā cānandasya bherī yā ca devadattasya yāvatsunddaranandasya yāvaddaṇḍapāṇetāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt / yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ, yadadyatve 'pi śarakūpa ityabhidhīyate / tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan / sarvaśca śākyagaṇo vismito 'bhūt āścaryaprāptaḥ - (Vaidya 108) āścaryaṃ bhoḥ / na ca nāma anena yogyā kṛtā, idaṃ cedṛśaṃ śilpakauśalam / gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ - ko 'tra vismayo manujāḥ / tatkasmāt? eṣa dharaṇimaṇḍe purvabuddhāsanasthaḥ śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ / kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām

Sanskrit only: no published translation is held for this verse.

एवमुक्त्वा ते देवपुत्रा बोधिसत्त्वं दिव्यैः पुष्पैरभ्यवकीर्य प्राक्रामन् ॥ एवं लङ्घिते प्राग्वल्लिपिमुद्रागणनासंख्यसालम्भधनुर्वेदे जविते प्लविते तरणे इष्वस्त्रे हस्तिग्रीवायामश्वपृष्ठे रथे धनुष्कलापे स्थैर्यस्थाम्नि सुशौर्ये बाहुव्यायामे अङ्कुशग्रहे पाशग्रहे उद्याने निर्याणे अवयाने मुष्टिबन्धे पदबन्धे शिखाबन्धे छेद्ये भेद्ये दालने स्फालने अक्षुण्णवेधित्वे मर्मवेधित्वे शब्दवेधित्वे दृढप्रहारित्वे अक्षक्रीडायां काव्यकरणे ग्रन्थे चित्रे रूपे रूपकर्मणि धीते अग्निकर्मणि वीणायां वाद्ये नृत्ये गीते पठिते आख्याने हास्ये लास्ये नाट्ये विडम्बिते माल्यग्रथने संवाहिते मणिरागे वस्त्ररागे मायाकृते स्वप्नाध्याये शकुनिरुते स्त्रीलक्षणे पुरुषलक्षणे अश्वलक्षणे हस्तिलक्षणे गोलक्षणे अजलक्षणे मिश्रलक्षणे कौटुभेश्वरलक्षणे निर्घण्टे निगमे पुराणे इतिहासे वेदे व्याकरणे निरुक्ते शिक्षायां छन्दस्विन्यां यज्ञकल्पे ज्योतिषे सांख्ये योगे क्रियाकल्पे वैशिके वैशेषिके अर्थविद्यायां बार्हस्पत्ये आम्भिर्ये आसुर्ये मृगपक्षिरुते हेतुविद्यायां जलयन्त्रे मधूच्छिष्टकृते सूचिकर्मणि विदलकर्मणि पत्रछेदे गन्धयुक्तौ - इत्येवमाद्यासु सर्वकर्मकलासु लौकिकादिषु दिव्यमानुष्यकातिक्रान्तासु सर्वत्र बोधिसत्त्व एव विशिष्यते स्म ॥ अथ खलु पुनस्तेन समयेन दण्डपाणिः शाक्यः स्वां दुहितरं गोपां शाक्यकन्यां बोधिसत्त्वाय प्रादात् । सा च राज्ञा शुद्धोदनेनानुपूर्वेण बोधिसत्त्वस्य वृताभूत् ॥ तत्र खल्वपि बोधिसत्त्वश्चतुरशीतिस्त्रीसहस्राणां मध्ये प्राप्तो लोकानुभवनतया रममाणं क्रीडयन्तं परिचारयन्तमात्मानमुपदर्शयति स्म । तासां चतुरशीते स्त्रीसहस्राणां गोपा शाक्यकन्या सर्वासामग्रमहिष्यभिषिक्ताभूत् ॥ तत्र खल्वपि गोपा शाक्यकन्या न कंचिद् दृष्ट्वा वदनं छादयति स्म श्वश्रूं वा श्वशुरं वान्तर्जनं वा । ते तामुपध्यायन्ति स्म, विचारयन्ति स्म - नववधूका हि नाम प्रतिलीना तिष्ठति, इयं पुनर्विवृतैव सर्वदा इति । ततो गोपा शाक्यकन्या एतां प्रकृतिं श्रुत्वा सर्वस्यान्तर्जनस्य पुरतः स्थित्वा इमा गाथा अभाषत - विवृतः शोभते आर्य आसनस्थानचंक्रमे । मणिरत्नं ध्वजाग्रे वा भासमानं प्रभास्वरम्

evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman // evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau - ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma // atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt / sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt // tatra khalvapi bodhisattvaścaturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma / tāsāṃ caturaśīte strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt // tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā / te tāmupadhyāyanti sma, vicārayanti sma - navavadhūkā hi nāma pratilīnā tiṣṭhati, iyaṃ punarvivṛtaiva sarvadā iti / tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata - vivṛtaḥ śobhate ārya āsanasthānacaṃkrame / maṇiratnaṃ dhvajāgre vā bhāsamānaṃ prabhāsvaram

Sanskrit only: no published translation is held for this verse.

गच्छन् वै शोभते आर्य आगच्छन्नपि शोभते । स्थितो वाथ निषण्णो वा आर्यः सर्वत्र शोभते

gacchan vai śobhate ārya āgacchannapi śobhate / sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate

Sanskrit only: no published translation is held for this verse.

कथयं शोभते आर्यस्तूष्णीभूतो ऽपि शोभते । कलविङ्को यथा पक्षी दर्शनेन स्वरेण वा

kathayaṃ śobhate āryastūṣṇībhūto 'pi śobhate / kalaviṅko yathā pakṣī darśanena svareṇa vā

Sanskrit only: no published translation is held for this verse.

कुशचीरनिवस्तो वा मन्दचैलः कृशंतनुः । शोभते ऽसौ स्वतेजेन गुणवान् गुणभूषितः

kuśacīranivasto vā mandacailaḥ kṛśaṃtanuḥ / śobhate 'sau svatejena guṇavān guṇabhūṣitaḥ

Sanskrit only: no published translation is held for this verse.

सर्वेण शोभते आर्यो यस्य पापं न विद्यते । कियद्विभूषितो बालः पापचारी न शोभते

sarveṇa śobhate āryo yasya pāpaṃ na vidyate / kiyadvibhūṣito bālaḥ pāpacārī na śobhate

Sanskrit only: no published translation is held for this verse.

ये किल्बिषाः स्वहृदये मधुरासु वाचं कुम्भो विषस्मि परिषिक्तु यथामृतेन । दुस्पर्श शैलशिलवत् कठिनान्तरात्मा सर्पस्य वा विरसु दर्शन तादृशानाम्

ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena / dusparśa śailaśilavat kaṭhināntarātmā sarpasya vā virasu darśana tādṛśānām

Sanskrit only: no published translation is held for this verse.

सर्वेषु ते नमिषु सर्वमुपैति सौम्याः सर्वेषु तिर्थमिव सर्वगोपजीव्याः । दधिक्षीरपूर्णघटतुल्य सदैव आर्या शुद्धात्मदर्शनु सुमङ्गलु तादृशानाम्

sarveṣu te namiṣu sarvamupaiti saumyāḥ sarveṣu tirthamiva sarvagopajīvyāḥ / dadhikṣīrapūrṇaghaṭatulya sadaiva āryā śuddhātmadarśanu sumaṅgalu tādṛśānām

Sanskrit only: no published translation is held for this verse.

यैः पापमित्र परिवर्जित दीर्घरात्रं कल्याणमित्ररतनैश्च परिगृहीताः । पापं विवर्जयि निवेशयि बुद्धधर्मे सफलं सुमङ्गलु सुदर्शनु तादृशानाम्

yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ / pāpaṃ vivarjayi niveśayi buddhadharme saphalaṃ sumaṅgalu sudarśanu tādṛśānām

Sanskrit only: no published translation is held for this verse.

ये कायसंवृत सुसंवृतकायदोषाः ये वाचसंवृत सदानवकीर्णवाचः । गुप्तेन्द्रिया सुनिभृताश्च मनःप्रसन्नाः किं तादृशान वदनं प्रतिछादयित्वा

ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ ye vācasaṃvṛta sadānavakīrṇavācaḥ / guptendriyā sunibhṛtāśca manaḥprasannāḥ kiṃ tādṛśāna vadanaṃ pratichādayitvā

Sanskrit only: no published translation is held for this verse.

वस्त्रा सहस्र यदि छादयि आत्मभावं चित्तं च येषु विवृतं न हिरी न लज्जा । न च येषु ईदृश गुणा नपि सत्यवाक्यं नग्ने विनग्नतर ते विचरन्ति लोके

vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā / na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke

Sanskrit only: no published translation is held for this verse.

याश्चित्तगुप्त सततेन्द्रियसंयताश्च न च अन्यसत्त्वमनसा स्वपतीन तुष्टाः । आदित्यचन्द्रसदृशा विवृतप्रकाशा किं तादृशान वदनं प्रतिछादयित्वा

yāścittagupta satatendriyasaṃyatāśca na ca anyasattvamanasā svapatīna tuṣṭāḥ / ādityacandrasadṛśā vivṛtaprakāśā kiṃ tādṛśāna vadanaṃ pratichādayitvā

Sanskrit only: no published translation is held for this verse.

अपि च - जानन्ति आशयु मम ऋषयो महात्मा परचित्तबुद्धिकुशलास्तथ देवसंघाः । यथ मह्य शीलगुणसंवरु अप्रमादो वदनावगुण्ठनमतः प्रकरोमि किं मे

api ca - jānanti āśayu mama ṛṣayo mahātmā paracittabuddhikuśalāstatha devasaṃghāḥ / yatha mahya śīlaguṇasaṃvaru apramādo vadanāvaguṇṭhanamataḥ prakaromi kiṃ me

Sanskrit only: no published translation is held for this verse.

अश्रोषीद्भिक्षवो राजा शुद्धोदनो नाम गोपायाः शाक्यकन्याया इमामेवंरूपां सर्वां गाथां प्रतिभाननिर्देशम् । श्रुत्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो ऽनेकरत्नप्रत्युप्तेन दूष्ययुगेन कोटीशतसहस्रमूल्येन च मुक्ताहारेणाभिजातलोहितमुक्ताप्रत्युप्तया च सुवर्णमालया गोपां शाक्यकन्यामभिच्छाद्यैनमुदानमुदानयति स्म - यथा च पुत्रो मम भूषितो गुणैः तथा च कन्या स्वगुणा प्रभासते । विशुद्धसत्त्वौ तदुभौ समागतौ समेति सर्पिर्यथ सर्पिमण्डे

aśroṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam / śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyāmabhicchādyainamudānamudānayati sma - yathā ca putro mama bhūṣito guṇaiḥ tathā ca kanyā svaguṇā prabhāsate / viśuddhasattvau tadubhau samāgatau sameti sarpiryatha sarpimaṇḍe

Sanskrit only: no published translation is held for this verse.