Library·Lalitavistara·22

Lalitavistara 22

अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति नामरूपं भवति, किंप्रत्ययं च पुनर्नामरूपम्? तस्यैतदभवत् - विज्ञाने सति नामरूपं भवति, विज्ञानप्रत्ययं हि नामरूपम् ॥ अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति विज्ञानं भवन्ति, किंप्रत्ययं पुनर्विज्ञानम्? तस्यैतदभवत् - संस्कारेषु सत्सु विज्ञानं भवति, संस्कारप्रत्ययं च विज्ञानम् ॥ अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन् सति संस्कारा भवन्ति, किंप्रत्ययाश्च पुनः संस्काराः? तस्यैतदभवत् - अविद्यायां सत्यां संस्कारा भवन्ति, अविद्याप्रत्यया हि संस्काराः ॥ इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत् - अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययं स्पर्शः, स्पर्शप्रत्ययं वेदना, वेदनाप्रत्ययं तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययं भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । समुदयः समुदय इति ॥ इति हि भिक्षवो बोधिसत्त्वस्य पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुदपादि, चक्षुरुदपादि, विद्योदपादि, भूरिरुदपादि, मेधोदपादि, प्रज्ञोदपादि, आलोकः प्रादुर्बभूव । कस्मिन्नसति जरामरणं न भवति, कस्य वा निरोधाज्जरामरणनिरोध इति । तस्यैतदभूत् - जात्यामसत्यां जरामरणं न भवति, जातिनिरोधाज्जरामरणनिरोधः ॥ अथ बोधिसत्त्वस्य पुनरेतदभवत् - कस्मिन्नसति जातिर्न भवति, कस्य वा निरोधाज्जातिनिरोधः? तस्यैतदभवत् - भवे ऽसति जातिर्न भवति, भवनिरोधाज्जातिनिरोधः ॥ अथ बोधिसत्त्वस्य पुनरप्येतदभवत् - कस्मिन्नसति विस्तरेण यावत्संस्कारा न भवन्ति, कस्य वा निरोधात्संस्कारनिरोधः? तस्यैतदभवत् - अविद्यायां सत्यां संस्कारा न भवन्ति, अविद्यानिरोधात्संस्कारनिरोधः । संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवतीति ॥ इति हि भिक्षवो बोधिसत्त्वस्य पूर्वमश्रुतेषु धर्मेषु योनिशोमनसिकाराद्बहुलीकाराज्ज्ञानमुदपादि, चक्षुरुदपादि विद्योदपदि, भूरिरुदपादि, मेधोदपादि, प्रज्ञोदपादि, आलोकः प्रादुर्बभूव । सो ऽहं भिक्षवस्तस्मिन् समये इदं दुःखमिति यथाभूतमज्ञासिषम् । अयमाश्रवसमुदयो ऽयमाश्रवनिरोधः इयमाश्रवनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । अय कामाश्रवो ऽयं भवाश्रवो ऽयमविद्याश्रवो ऽयं दृष्ट्याश्रवः । इहाश्रवा निरवशेषतो निरुध्यन्ते । इहाश्रवो निरवशेषमनाभासमस्तं गच्छतीति । इयमविद्या अयमविद्यासमुदयो ऽयमविद्यानिरोध इयमविद्यानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इहाविद्या अपरिशेषमनाभासमस्तं गच्छतीति पेयालम् । अमी संस्कारा अयं संस्कारसमुदयो ऽयं संस्कारनिरोध इयं संस्कारनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इदं विज्ञानमयं विज्ञानसमुदयो ऽयं विज्ञाननिरोध इयं विज्ञाननिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इदं नामरूपमयं नामरूपसमुदयो ऽयं नामरूपनिरोधः इयं नामरूपनिरोधगामिनी (वैद्य २५३) प्रतिपदिति यथाभूतमज्ञासिषम् । इदं षडायतनमयं षडायतनसमुदयो ऽयं षडायतननिरोधः इयं षडायतननिरोधगामिनीं प्रतिपदिति यथाभूतमज्ञासिषम् । अयं स्पर्शो ऽयं स्पशसमुदयो ऽयं स्पर्शनिरोधः इयं स्पर्शनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इयं वेदना अयं वेदनासमुदयो ऽयं वेदनानिरोध इयं वेदनानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इयं तृष्णा अयं तृष्णासमुदयो ऽयं तृष्णानिरोधः इयं तृष्णानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इदमुपादानमयमुपादानसमुदयो ऽयमुपादाननिरोधः इयमुपादाननिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । अयं भवो ऽयं भवसमुदयो ऽयं भवनिरोधः इयं भवनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इयं जातिरयं जातिसमुदयो ऽयं जातिनिरोधः इयं जातिनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इयं जरा अयं जरासमुदयो ऽयं जरानिरोधः इयं जरानिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इदं मरणमयं मरणसमुदयो ऽयं मरणनिरोधः इयं मरणनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् । इमे शोकपरिदेवदुःखदौर्मनस्योपायासाः । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति यावन्निरोधो भवतीति यथाभूतमज्ञासिषम् । इदं दुःखमयं दुःखसमुदयो ऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति यथाभूतमज्ञासिषम् ॥ एवं खलु भिक्षवो बोधिसत्त्वेन रात्र्यां पश्चिमे यामे ऽरुणोद्धाटनकालसमये नन्दीमुख्यां रात्र्यौ यत्किंचित्पुरुषेण सत्पुरुषेणातिपुरुषेण महापुरुषेण पुरुषर्षभेण पुरुषनागेन पुरुषसिंहेन पुरुषपुंगवेन पुरुषशूरेण पुरुषधीरेण पुरुषजानेन पुरुषपद्मेन पुरुषपुण्डरीकेण पुरुषधौरेयेणानुत्तरेण पुरुषदम्यसारथिना एवंभूतेनार्येण ज्ञानेन ज्ञातव्यं बोद्धव्यं प्राप्तव्यं द्रष्टव्यं साक्षात्कर्तव्यम्, सर्वं तदेकचित्तेक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य त्रैविद्याधिगता ॥ ततो भिक्षवो देवा आहुः - अवकिरत मार्षाः पुष्पाणि । अभिसंबुद्धो भगवान् । ये तत्र देवपुत्राः पूर्वबुद्धदर्शिनस्तस्मिन् संनिपतिता आसंस्ते ऽवोचन् - मा स्म तावन्मार्षाः पुष्पाण्यवकिरत यावत्तावद्भगवान्निमित्तं प्रादुःकरोति । पूर्वका अपि सम्यक्संबुद्धा निमित्तमकार्षुः, निर्मितामभिनिर्मिण्वन्ति स्म ॥ अथ खलु भिक्षवस्तथागतस्तान् देवपुत्रान् विमतिप्राप्ताञ्ज्ञात्वा सप्ततालमात्रं विहायसमभ्युद्गम्य तत्रस्थ इदमुदानमुदानयति स्म - छिन्नवर्त्मोपशान्तरजाः शुष्का आस्रवा न पुनः स्रवन्ति । छिन्ने वर्त्मनि वर्तत दुःखस्यैषो ऽन्त उच्यते

atha bodhisattvasya punaretadabhavat - kasmin sati nāmarūpaṃ bhavati, kiṃpratyayaṃ ca punarnāmarūpam? tasyaitadabhavat - vijñāne sati nāmarūpaṃ bhavati, vijñānapratyayaṃ hi nāmarūpam // atha bodhisattvasya punaretadabhavat - kasmin sati vijñānaṃ bhavanti, kiṃpratyayaṃ punarvijñānam? tasyaitadabhavat - saṃskāreṣu satsu vijñānaṃ bhavati, saṃskārapratyayaṃ ca vijñānam // atha bodhisattvasya punaretadabhavat - kasmin sati saṃskārā bhavanti, kiṃpratyayāśca punaḥ saṃskārāḥ? tasyaitadabhavat - avidyāyāṃ satyāṃ saṃskārā bhavanti, avidyāpratyayā hi saṃskārāḥ // iti hi bhikṣavo bodhisattvasyaitadabhūt - avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaṃ sparśaḥ, sparśapratyayaṃ vedanā, vedanāpratyayaṃ tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayaṃ bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti / evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati / samudayaḥ samudaya iti // iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi, vidyodapādi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva / kasminnasati jarāmaraṇaṃ na bhavati, kasya vā nirodhājjarāmaraṇanirodha iti / tasyaitadabhūt - jātyāmasatyāṃ jarāmaraṇaṃ na bhavati, jātinirodhājjarāmaraṇanirodhaḥ // atha bodhisattvasya punaretadabhavat - kasminnasati jātirna bhavati, kasya vā nirodhājjātinirodhaḥ? tasyaitadabhavat - bhave 'sati jātirna bhavati, bhavanirodhājjātinirodhaḥ // atha bodhisattvasya punarapyetadabhavat - kasminnasati vistareṇa yāvatsaṃskārā na bhavanti, kasya vā nirodhātsaṃskāranirodhaḥ? tasyaitadabhavat - avidyāyāṃ satyāṃ saṃskārā na bhavanti, avidyānirodhātsaṃskāranirodhaḥ / saṃskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti // iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi vidyodapadi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva / so 'haṃ bhikṣavastasmin samaye idaṃ duḥkhamiti yathābhūtamajñāsiṣam / ayamāśravasamudayo 'yamāśravanirodhaḥ iyamāśravanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / aya kāmāśravo 'yaṃ bhavāśravo 'yamavidyāśravo 'yaṃ dṛṣṭyāśravaḥ / ihāśravā niravaśeṣato nirudhyante / ihāśravo niravaśeṣamanābhāsamastaṃ gacchatīti / iyamavidyā ayamavidyāsamudayo 'yamavidyānirodha iyamavidyānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / ihāvidyā apariśeṣamanābhāsamastaṃ gacchatīti peyālam / amī saṃskārā ayaṃ saṃskārasamudayo 'yaṃ saṃskāranirodha iyaṃ saṃskāranirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idaṃ vijñānamayaṃ vijñānasamudayo 'yaṃ vijñānanirodha iyaṃ vijñānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idaṃ nāmarūpamayaṃ nāmarūpasamudayo 'yaṃ nāmarūpanirodhaḥ iyaṃ nāmarūpanirodhagāminī (Vaidya 253) pratipaditi yathābhūtamajñāsiṣam / idaṃ ṣaḍāyatanamayaṃ ṣaḍāyatanasamudayo 'yaṃ ṣaḍāyatananirodhaḥ iyaṃ ṣaḍāyatananirodhagāminīṃ pratipaditi yathābhūtamajñāsiṣam / ayaṃ sparśo 'yaṃ spaśasamudayo 'yaṃ sparśanirodhaḥ iyaṃ sparśanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ vedanā ayaṃ vedanāsamudayo 'yaṃ vedanānirodha iyaṃ vedanānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ tṛṣṇā ayaṃ tṛṣṇāsamudayo 'yaṃ tṛṣṇānirodhaḥ iyaṃ tṛṣṇānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idamupādānamayamupādānasamudayo 'yamupādānanirodhaḥ iyamupādānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / ayaṃ bhavo 'yaṃ bhavasamudayo 'yaṃ bhavanirodhaḥ iyaṃ bhavanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ jātirayaṃ jātisamudayo 'yaṃ jātinirodhaḥ iyaṃ jātinirodhagāminī pratipaditi yathābhūtamajñāsiṣam / iyaṃ jarā ayaṃ jarāsamudayo 'yaṃ jarānirodhaḥ iyaṃ jarānirodhagāminī pratipaditi yathābhūtamajñāsiṣam / idaṃ maraṇamayaṃ maraṇasamudayo 'yaṃ maraṇanirodhaḥ iyaṃ maraṇanirodhagāminī pratipaditi yathābhūtamajñāsiṣam / ime śokaparidevaduḥkhadaurmanasyopāyāsāḥ / evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yāvannirodho bhavatīti yathābhūtamajñāsiṣam / idaṃ duḥkhamayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi yathābhūtamajñāsiṣam // evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme 'ruṇoddhāṭanakālasamaye nandīmukhyāṃ rātryau yatkiṃcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena puruṣapuṃgavena puruṣaśūreṇa puruṣadhīreṇa puruṣajānena puruṣapadmena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇānuttareṇa puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam, sarvaṃ tadekacittekṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya traividyādhigatā // tato bhikṣavo devā āhuḥ - avakirata mārṣāḥ puṣpāṇi / abhisaṃbuddho bhagavān / ye tatra devaputrāḥ pūrvabuddhadarśinastasmin saṃnipatitā āsaṃste 'vocan - mā sma tāvanmārṣāḥ puṣpāṇyavakirata yāvattāvadbhagavānnimittaṃ prāduḥkaroti / pūrvakā api samyaksaṃbuddhā nimittamakārṣuḥ, nirmitāmabhinirmiṇvanti sma // atha khalu bhikṣavastathāgatastān devaputrān vimatiprāptāñjñātvā saptatālamātraṃ vihāyasamabhyudgamya tatrastha idamudānamudānayati sma - chinnavartmopaśāntarajāḥ śuṣkā āsravā na punaḥ sravanti / chinne vartmani vartata duḥkhasyaiṣo 'nta ucyate

Sanskrit only: no published translation is held for this verse.

इति ॥ ततस्ते देवपुत्रा दिव्यैः कुसुमैस्तथागतमभ्यवकिरन्ति स्म । ततो जानुमात्रं दिव्यानां पुष्पाणां संस्तरो ऽभूत् ॥ इति हि भिक्षवस्तथागते ऽभिसंबुद्धे विगतं तमो ऽन्धकारम्, विशोधिता तृष्णा, विवर्तिता दृष्टिः, विक्षोभिताः क्लेशाः, विशारिताः शल्याः, मुक्तो ग्रन्थिः, प्रपातितो मानध्वजः, उच्छ्रेपितो धर्मध्वजः, (वैद्य २५४) उद्धाटिता अनुशयाः, ज्ञाता धर्मतथता, अवबुद्धा भूतकोटिः, परिज्ञातो धर्मधातुः, व्यवस्थापितः सत्त्वधातुः, संवर्णितः सम्यक्त्वनियतो राशिः, विवर्णितो मिथ्यात्वनियतो राशिः, परिगृहीतो ऽनियतराशिः, व्यवस्थापितानि सत्त्वेन्द्रियाणि, परिज्ञाताः सत्त्वचरिताः, अवबुद्धा सत्त्वव्याधिः, सत्त्वसमुत्थानसिद्धो ऽमृतभैषजप्रयोगः, उत्पन्नो वैद्यराजः प्रमोचकः सर्वदुःखेभ्यः प्रतिष्ठापको निर्वाणसुखे, निषण्णस्तथागतगर्भे तथागतमहाधर्मराजासने, सर्व आबद्धो विमुक्तिपक्षः, प्रविष्टः सर्वज्ञतानगरं समवसृतं सर्वबुद्धैः, असंभिन्नो धर्मधातुप्रसरानुबोधेः । प्रथमे सप्ताहे भिक्षवस्तथागतस्तस्मिन्नेव बोधिमण्डे निषण्णो ऽस्थात् - इह मया ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । मया अनवराग्रस्य जातिजरामरणदुःखस्यान्तः कृत इति ॥ समनन्तरप्राप्ते खलु पुनर्भिक्षवो बोधिसत्त्वेन सर्वज्ञत्वे अथ तत्क्षणमेव दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वास्तत्क्षणं तल्लवं तन्मुहूर्तं परसुखसमर्पिता अभुवन् । सर्वलोकधातवश्च महतावभासेनावभास्यन्तः । या ऽपि ता लोकान्तरिका अघा अघस्फुटा अन्धकारा इति पूर्ववत् । षड्विकारं च दशसु दिक्षु सर्वलोकधातवो ऽकम्पत् प्राकम्पत् संप्राकम्पत् । अवेधत् प्रावेधत् संप्रावेधत् । अचलत् प्राचलत् संप्राचलत् । अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत् । अरणत् प्रारणत् संप्रारणत् । अगर्जत् प्रागर्जत् संप्रागर्जत् । सर्वबुद्धाश्च तथागतायाभिसंबुद्धाय साधुकारं ददन्ति स्म । धर्माच्छादांश्च संप्रेषयन्ति स्म । यैर्धर्माच्छादैरयं त्रिसाहस्रमहासाहस्रलोकधातुरनेकरत्नसंछन्नो ऽभूत् । तेभ्यश्च रत्नछत्रेभ्यः एवंरूपा रश्मिजाला निश्चरन्ति स्म, यैर्दशसु दिक्षु अप्रमेयासंख्येया लोकधातवो ऽवभास्यन्ते । दशसु दिक्षु बोधिसत्त्वाश्च देवापुत्राश्चनन्दशब्दं निश्चारयामासुः - उत्पन्नः सत्त्वपण्डितः । पद्मो ज्ञानसरसि संभूतो ऽनुपलिप्तो लोकधर्मैः । समन्ततो महाकरुणामेघं स्फुरित्वा धर्मधातुभवनं वर्षयिष्यति । धर्मवर्षविनये जनभैषजाङ्कुरप्ररोहणं सर्वकुशलमूलबीजानां विवर्धनं श्रद्धाङ्कुराणां दाता विमुक्तिफलानाम् ॥ तत्रेदमुच्यते - मारं विजित्य सबलं स हि पुरुषसिंहो ध्यानामुखं अभिमुखं अभितो ऽपि शास्ता । त्रैविद्यता दशबलेन यदा हि प्राप्ता संकम्पिता दश दिशो बहुक्षत्रकोट्यः

iti // tataste devaputrā divyaiḥ kusumaistathāgatamabhyavakiranti sma / tato jānumātraṃ divyānāṃ puṣpāṇāṃ saṃstaro 'bhūt // iti hi bhikṣavastathāgate 'bhisaṃbuddhe vigataṃ tamo 'ndhakāram, viśodhitā tṛṣṇā, vivartitā dṛṣṭiḥ, vikṣobhitāḥ kleśāḥ, viśāritāḥ śalyāḥ, mukto granthiḥ, prapātito mānadhvajaḥ, ucchrepito dharmadhvajaḥ, (Vaidya 254) uddhāṭitā anuśayāḥ, jñātā dharmatathatā, avabuddhā bhūtakoṭiḥ, parijñāto dharmadhātuḥ, vyavasthāpitaḥ sattvadhātuḥ, saṃvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ, parigṛhīto 'niyatarāśiḥ, vyavasthāpitāni sattvendriyāṇi, parijñātāḥ sattvacaritāḥ, avabuddhā sattvavyādhiḥ, sattvasamutthānasiddho 'mṛtabhaiṣajaprayogaḥ, utpanno vaidyarājaḥ pramocakaḥ sarvaduḥkhebhyaḥ pratiṣṭhāpako nirvāṇasukhe, niṣaṇṇastathāgatagarbhe tathāgatamahādharmarājāsane, sarva ābaddho vimuktipakṣaḥ, praviṣṭaḥ sarvajñatānagaraṃ samavasṛtaṃ sarvabuddhaiḥ, asaṃbhinno dharmadhātuprasarānubodheḥ / prathame saptāhe bhikṣavastathāgatastasminneva bodhimaṇḍe niṣaṇṇo 'sthāt - iha mayā 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / mayā anavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti // samanantaraprāpte khalu punarbhikṣavo bodhisattvena sarvajñatve atha tatkṣaṇameva daśasu dikṣu sarvalokadhātuṣu sarvasattvāstatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ parasukhasamarpitā abhuvan / sarvalokadhātavaśca mahatāvabhāsenāvabhāsyantaḥ / yā 'pi tā lokāntarikā aghā aghasphuṭā andhakārā iti pūrvavat / ṣaḍvikāraṃ ca daśasu dikṣu sarvalokadhātavo 'kampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat prācalat saṃprācalat / akṣubhyat prākṣubhyat saṃprākṣubhyat / araṇat prāraṇat saṃprāraṇat / agarjat prāgarjat saṃprāgarjat / sarvabuddhāśca tathāgatāyābhisaṃbuddhāya sādhukāraṃ dadanti sma / dharmācchādāṃśca saṃpreṣayanti sma / yairdharmācchādairayaṃ trisāhasramahāsāhasralokadhāturanekaratnasaṃchanno 'bhūt / tebhyaśca ratnachatrebhyaḥ evaṃrūpā raśmijālā niścaranti sma, yairdaśasu dikṣu aprameyāsaṃkhyeyā lokadhātavo 'vabhāsyante / daśasu dikṣu bodhisattvāśca devāputrāścanandaśabdaṃ niścārayāmāsuḥ - utpannaḥ sattvapaṇḍitaḥ / padmo jñānasarasi saṃbhūto 'nupalipto lokadharmaiḥ / samantato mahākaruṇāmeghaṃ sphuritvā dharmadhātubhavanaṃ varṣayiṣyati / dharmavarṣavinaye janabhaiṣajāṅkuraprarohaṇaṃ sarvakuśalamūlabījānāṃ vivardhanaṃ śraddhāṅkurāṇāṃ dātā vimuktiphalānām // tatredamucyate - māraṃ vijitya sabalaṃ sa hi puruṣasiṃho dhyānāmukhaṃ abhimukhaṃ abhito 'pi śāstā / traividyatā daśabalena yadā hi prāptā saṃkampitā daśa diśo bahukṣatrakoṭyaḥ

Sanskrit only: no published translation is held for this verse.

ये बोधिसत्त्व पुरि आगत धर्मकामा चरणौ निपत्य इति भाषिषु मासि क्लान्तो । प्रत्यक्ष अस्मि चमु यादृशिका सुभीमा सा प्रज्ञपुण्यबलवीर्यबलेन भग्ना

ye bodhisattva puri āgata dharmakāmā caraṇau nipatya iti bhāṣiṣu māsi klānto / pratyakṣa asmi camu yādṛśikā subhīmā sā prajñapuṇyabalavīryabalena bhagnā

Sanskrit only: no published translation is held for this verse.

प्राप्तं त्वया पदवरं अमृतं विशोकं सद्धर्मवृष्टि त्रिभवे अभिवर्ष शीघ्रम्

prāptaṃ tvayā padavaraṃ amṛtaṃ viśokaṃ saddharmavṛṣṭi tribhave abhivarṣa śīghram

Sanskrit only: no published translation is held for this verse.

बाहुं प्रसार्य दशदिक्षु च सत्त्वसारा आभाषयिंसु कलविङ्करुताय वाचा । बोधिर्यथामनुगता भवता विशुद्धा तुल्यः समो ऽसि यथ सर्पिणि सर्पिमण्डैः

bāhuṃ prasārya daśadikṣu ca sattvasārā ābhāṣayiṃsu kalaviṅkarutāya vācā / bodhiryathāmanugatā bhavatā viśuddhā tulyaḥ samo 'si yatha sarpiṇi sarpimaṇḍaiḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु भिक्षवः कामावचरा अप्सरसो बोधिमण्डनिषण्णं तथागतं प्राप्ताभिज्ञं परिपूर्णसंकल्पं विजितसंग्रामं निर्जितमारप्रत्यर्थिकमुच्छ्रितछत्रध्वजपताकं शूरं जयोद्गतं पुरुषं महापुरुषं वैद्योत्तमं महाशल्यहर्तारं सिंहं विगतभयलोमहर्षं नागं सुदान्तचित्तनिर्मलं त्रिमलविप्रहीनं वैद्यकं त्रैविद्यतामनुप्राप्तं पारगं चतुरोघोत्तीर्णं क्षत्रियमेकरत्नछत्रधारिणं त्रैलोक्यब्राह्मणं बाहितपापकर्माणं भिक्षुं भिन्नविद्याण्डकोषं श्रमणं सर्वसङ्गसमतिक्रान्तं श्रोत्रियं निःसृतक्लेशं शूरमप्रपातितध्वजं बलीयांसं दशबलधारिणं रत्नाकरमिव सर्वधर्मरत्नसंपूर्णं विदित्वा बोधिमण्डाभिमुखास्तथागतमाभिर्गाथाभिरभ्यस्ताविषुः - एष द्रुमराजमूले अभिजित्य मारसैन्यं स्थितु मेरुवदप्रकम्प्यो निर्भीरप्रलापी । अनेकबहुकल्पकोट्यो दानदमसंयमेन समुदानयं प्रबोधि तेनेष शोभते ऽद्य

atha khalu bhikṣavaḥ kāmāvacarā apsaraso bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ prāptābhijñaṃ paripūrṇasaṃkalpaṃ vijitasaṃgrāmaṃ nirjitamārapratyarthikamucchritachatradhvajapatākaṃ śūraṃ jayodgataṃ puruṣaṃ mahāpuruṣaṃ vaidyottamaṃ mahāśalyahartāraṃ siṃhaṃ vigatabhayalomaharṣaṃ nāgaṃ sudāntacittanirmalaṃ trimalaviprahīnaṃ vaidyakaṃ traividyatāmanuprāptaṃ pāragaṃ caturoghottīrṇaṃ kṣatriyamekaratnachatradhāriṇaṃ trailokyabrāhmaṇaṃ bāhitapāpakarmāṇaṃ bhikṣuṃ bhinnavidyāṇḍakoṣaṃ śramaṇaṃ sarvasaṅgasamatikrāntaṃ śrotriyaṃ niḥsṛtakleśaṃ śūramaprapātitadhvajaṃ balīyāṃsaṃ daśabaladhāriṇaṃ ratnākaramiva sarvadharmaratnasaṃpūrṇaṃ viditvā bodhimaṇḍābhimukhāstathāgatamābhirgāthābhirabhyastāviṣuḥ - eṣa drumarājamūle abhijitya mārasainyaṃ sthitu meruvadaprakampyo nirbhīrapralāpī / anekabahukalpakoṭyo dānadamasaṃyamena samudānayaṃ prabodhi teneṣa śobhate 'dya

Sanskrit only: no published translation is held for this verse.

अनेन बहुकल्पकोट्यः शीलव्रतातपोभि जिह्मिकृत शक्र ब्रह्मा बोधिवर एषता हि । अनेन बहुकल्पकोट्यः क्षान्तिबलवर्मितेन अधिवासिता दुखानि तेन प्रभ स्वर्णवर्णा

anena bahukalpakoṭyaḥ śīlavratātapobhi jihmikṛta śakra brahmā bodhivara eṣatā hi / anena bahukalpakoṭyaḥ kṣāntibalavarmitena adhivāsitā dukhāni tena prabha svarṇavarṇā

Sanskrit only: no published translation is held for this verse.

अनेन बहुकल्पकोट्यो वीर्यबलविक्रमेण पराङ्मुखां कृतास्या तेन मार जित सेना । अनेन बहुकल्पकोट्यो ध्याना अभिज्ञज्ञानैः संपूजिता मुनीन्द्रस्तेनैव पूजितो ऽद्य

anena bahukalpakoṭyo vīryabalavikrameṇa parāṅmukhāṃ kṛtāsyā tena māra jita senā / anena bahukalpakoṭyo dhyānā abhijñajñānaiḥ saṃpūjitā munīndrastenaiva pūjito 'dya

Sanskrit only: no published translation is held for this verse.

अनेन बहुकल्पकोट्यः प्रज्ञाश्रतसंचयेन प्रगृहीत सत्त्वकोट्यस्तेन लघु बोधि प्राप्ता । अनेन जितु स्कन्धमारस्तथ मृत्यु क्लेशमारः अनेन जितु देवपुत्रमारस्तेनास्य नास्ति शोकः

anena bahukalpakoṭyaḥ prajñāśratasaṃcayena pragṛhīta sattvakoṭyastena laghu bodhi prāptā / anena jitu skandhamārastatha mṛtyu kleśamāraḥ anena jitu devaputramārastenāsya nāsti śokaḥ

Sanskrit only: no published translation is held for this verse.

एष वरदक्षिणीयो उत्पातु दक्षिणाहि नास्त्युत्तरस्य नाशो या च वरबोधि लब्धा

eṣa varadakṣiṇīyo utpātu dakṣiṇāhi nāstyuttarasya nāśo yā ca varabodhi labdhā

Sanskrit only: no published translation is held for this verse.

ऊर्णा विराजते ऽस्य स्फरति बहुक्षेत्रकोट्यो जिह्मिकृत चन्द्रसूर्या अन्धकारालोकप्राप्ता । एव हि सुरूपरूपो वररूप साधुरूपो वरलक्षणो हितैषी त्रैलोक्यपूजनीयः

ūrṇā virājate 'sya spharati bahukṣetrakoṭyo jihmikṛta candrasūryā andhakārālokaprāptā / eva hi surūparūpo vararūpa sādhurūpo varalakṣaṇo hitaiṣī trailokyapūjanīyaḥ

Sanskrit only: no published translation is held for this verse.

एष सुविशुद्धनेत्रो बहु प्रेक्षते स्वयंभूः क्षत्रा च सत्त्वकाया चित्तानि चेतना च । एष सुविशुद्धश्रोत्रः शृणुते अनन्तशब्दां दिव्यांश्च मानुषांश्च जिनशब्दधर्मशब्दां

eṣa suviśuddhanetro bahu prekṣate svayaṃbhūḥ kṣatrā ca sattvakāyā cittāni cetanā ca / eṣa suviśuddhaśrotraḥ śṛṇute anantaśabdāṃ divyāṃśca mānuṣāṃśca jinaśabdadharmaśabdāṃ

Sanskrit only: no published translation is held for this verse.

एष प्रभूतजिह्वः कलविङ्कमञ्जुघोष ः श्रोष्याम अस्य धर्मं अमृतं प्रशान्तगामिम् । दृष्ट्वा च मारसैन्यं न क्षुभ्यते मनो ऽस्य पुन दृष्ट्घ देवसंघां न च हर्षते सुमेधा

eṣa prabhūtajihvaḥ kalaviṅkamañjughoṣa ḥ śroṣyāma asya dharmaṃ amṛtaṃ praśāntagāmim / dṛṣṭvā ca mārasainyaṃ na kṣubhyate mano 'sya puna dṛṣṭgha devasaṃghāṃ na ca harṣate sumedhā

Sanskrit only: no published translation is held for this verse.

शस्त्रैर्न चापि बाणैर्जित एन मारसेना सत्यव्रतातपोभि जितु एन दुष्टमल्लः । चलितो न चासना न च कायु वेधिनो ऽस्य न च स्नेहु नापि दोषस्तदनन्तरे अभूवन्

śastrairna cāpi bāṇairjita ena mārasenā satyavratātapobhi jitu ena duṣṭamallaḥ / calito na cāsanā na ca kāyu vedhino 'sya na ca snehu nāpi doṣastadanantare abhūvan

Sanskrit only: no published translation is held for this verse.

लाभा सुलब्ध तेषां मरुणां नराण चैव ये तुभ्य धर्म श्रुत्वा प्रतिपत्तिमेष्यती हि । यत्पुण्य त्वां स्तवित्वा जिन पुण्यतेजराशे सर्वे भवेम क्षिप्रं यथ त्वं मनुष्यचन्द्रः

lābhā sulabdha teṣāṃ maruṇāṃ narāṇa caiva ye tubhya dharma śrutvā pratipattimeṣyatī hi / yatpuṇya tvāṃ stavitvā jina puṇyatejarāśe sarve bhavema kṣipraṃ yatha tvaṃ manuṣyacandraḥ

Sanskrit only: no published translation is held for this verse.

बुद्धित्व बोधि पुरुषर्षभनायकेन संकम्प्य क्षत्रनयुतानि विजित्य मारम् । ब्रह्मस्वरेण कलविङ्करुतस्वरेण प्रथमेन गाथा इमि भाषित नायकेन

buddhitva bodhi puruṣarṣabhanāyakena saṃkampya kṣatranayutāni vijitya māram / brahmasvareṇa kalaviṅkarutasvareṇa prathamena gāthā imi bhāṣita nāyakena

Sanskrit only: no published translation is held for this verse.

क्षिप्रं च बोधि स्पृशते विनिहत्य मारं शान्तापथो गच्छति च निर्वृतिशीतिभावम्

kṣipraṃ ca bodhi spṛśate vinihatya māraṃ śāntāpatho gacchati ca nirvṛtiśītibhāvam

Sanskrit only: no published translation is held for this verse.

तस्मात्क पुण्यकरणे न भवेत तृप्तः शृण्वंश्च धर्मममृतं भवि को वितृप्तः । विजने वने च विहरं भवि को वितृप्तः कः सत्त्व अर्थकरणे न भवेद्धि तृप्तः

tasmātka puṇyakaraṇe na bhaveta tṛptaḥ śṛṇvaṃśca dharmamamṛtaṃ bhavi ko vitṛptaḥ / vijane vane ca viharaṃ bhavi ko vitṛptaḥ kaḥ sattva arthakaraṇe na bhaveddhi tṛptaḥ

Sanskrit only: no published translation is held for this verse.

पाणिं प्रसार्य समुवाच च बोधिसत्त्वां पूजां कृता ब्रजत क्षेत्र स्वकस्वकानि । सर्वे ऽभिवन्द्य चरणौ च तथागतस्य नानावियूह गत क्षेत्र स्वकस्वकानि

pāṇiṃ prasārya samuvāca ca bodhisattvāṃ pūjāṃ kṛtā brajata kṣetra svakasvakāni / sarve 'bhivandya caraṇau ca tathāgatasya nānāviyūha gata kṣetra svakasvakāni

Sanskrit only: no published translation is held for this verse.

दृष्ट्वा च तां नमुचिनां महतीमवस्थां विक्रीडितां च सुगतस्य तथा सलीलम् । बोधाय चित्तमतुलं प्रणिधाय सत्त्वां मारं विजित्य सबलं अमृतं स्पृशेम

dṛṣṭvā ca tāṃ namucināṃ mahatīmavasthāṃ vikrīḍitāṃ ca sugatasya tathā salīlam / bodhāya cittamatulaṃ praṇidhāya sattvāṃ māraṃ vijitya sabalaṃ amṛtaṃ spṛśema

Sanskrit only: no published translation is held for this verse.

अभिसंबुद्धस्य भिक्षवस्तथागतस्य बोधिवृक्षमूले सिंहासनोपविष्टस्य तस्मिन् क्षणे ऽप्रमेयानि बुद्धविक्रीडितान्यभूवन्, यानि न सुकरं कल्पेनापि निर्देष्टुम् ॥ तत्रेदमुच्यते - करतलसदृशाभूत्सुस्थिता मेदिनीयं विकसितशतपत्राश्चोद्गता रश्मिजालैः । अमरशतसहस्रा ओनमी बोधिमण्डं इमु प्रथम निमित्तं सिंहनादेन दृष्टम्

abhisaṃbuddhasya bhikṣavastathāgatasya bodhivṛkṣamūle siṃhāsanopaviṣṭasya tasmin kṣaṇe 'prameyāni buddhavikrīḍitānyabhūvan, yāni na sukaraṃ kalpenāpi nirdeṣṭum // tatredamucyate - karatalasadṛśābhūtsusthitā medinīyaṃ vikasitaśatapatrāścodgatā raśmijālaiḥ / amaraśatasahasrā onamī bodhimaṇḍaṃ imu prathama nimittaṃ siṃhanādena dṛṣṭam

Sanskrit only: no published translation is held for this verse.

द्रुमशतत्रिसहस्रो बोधिमण्डे नमन्ते गिरिवर तथ नेके शैलराजश्च मेरुः । दशबलमधिगम्य ब्रह्मशक्रा नमन्ते इदमपि नरसिंहे क्रीडितं बोधिमण्डे

drumaśatatrisahasro bodhimaṇḍe namante girivara tatha neke śailarājaśca meruḥ / daśabalamadhigamya brahmaśakrā namante idamapi narasiṃhe krīḍitaṃ bodhimaṇḍe

Sanskrit only: no published translation is held for this verse.

रश्मिशतसहस्रा स्वोशरीरात्मभावा स्फुरि जिनवर क्षत्रा त्रीणि शान्ता अपायाः । तत क्षणसुमुहूर्ते शोधिता चाक्षणानि न च खिलमददोषा बाधिषू कंचि सत्त्वम्

raśmiśatasahasrā svośarīrātmabhāvā sphuri jinavara kṣatrā trīṇi śāntā apāyāḥ / tata kṣaṇasumuhūrte śodhitā cākṣaṇāni na ca khilamadadoṣā bādhiṣū kaṃci sattvam

Sanskrit only: no published translation is held for this verse.

इयमपि नरसिंहस्यासनस्थस्य क्रीडा शशिरविमणिवह्निविद्युताभा च दिव्या । न तपति अभिभूता भानुवत्योर्णपाशा न च जगदिह कश्चित्प्रेक्षते शास्तु मूर्धम्

iyamapi narasiṃhasyāsanasthasya krīḍā śaśiravimaṇivahnividyutābhā ca divyā / na tapati abhibhūtā bhānuvatyorṇapāśā na ca jagadiha kaścitprekṣate śāstu mūrdham

Sanskrit only: no published translation is held for this verse.

इयमपि नरसिंहस्यासनस्थस्य क्रीडा करतलस्पृशनेना कम्पिता चोर्वि सर्वा । येन नमुचिसेना क्षोभिता तूलभूता नमुचि इषु गृहीत्वा मेदिनी व्यालिखेद्य इदमपि नरसिंहस्यासने क्रीडितं भूत्

iyamapi narasiṃhasyāsanasthasya krīḍā karatalaspṛśanenā kampitā corvi sarvā / yena namucisenā kṣobhitā tūlabhūtā namuci iṣu gṛhītvā medinī vyālikhedya idamapi narasiṃhasyāsane krīḍitaṃ bhūt

Sanskrit only: no published translation is held for this verse.