Library·Lalitavistara·25

Lalitavistara 25

अध्येषणापरिवर्तः पञ्चविंशः । इति हि भिक्षवस्तथागतस्य तारायणमूले विहरतः प्रथमाभिसंबुद्धस्यैकस्य रहोगतस्य प्रतिसंलीनस्य लोकानुवर्तनां प्रत्येतदभवत् - गम्भीरो बतायं मया धर्मो ऽधिगतो ऽभिसंबुद्धः शान्तः प्रशान्त उपशान्तः प्रणीतो दुर्दृशो दुरनुबोधो ऽतर्को ऽवितर्कावचरः । अलमार्यः पण्डितविज्ञवेदनीयो यदुत सर्वोपधिनिःसर्गो ऽवेदितो ऽनिवेदितः सर्ववेदितनिरोधः परमार्थो ऽनालयः । शीतीभावो ऽनादानो ऽनुपादानो ऽविज्ञप्तो ऽविज्ञापनीयो ऽसंस्कृतः षड्विषयसमतिक्रान्तः । अकल्पो ऽविकल्पो ऽनभिलाप्यः । अरुतो ऽघोषो ऽनुदाहारः । अनिदर्शनो ऽप्रतिघः सर्वालम्बनसमतिकान्तः शमथधर्मोपच्छेदः । शून्यतानुपलम्भः । तृष्णाक्षयो विरागो निरोधो निर्वाणम् । अहं चेदिमं परेभ्यो धर्मं देशयेयम्, ते चेन्नाजानीयुः, स मे स्यात्क्लमथो मिथ्याव्यायामो ऽक्षणधर्मदेशनता च । यन्न्वहमल्पोत्सुकस्तूष्णीभावेन विहरेयम् । तस्यां च वेलायामिमां गाथामभाषत - गम्भीर शान्तो विरजः प्रभास्वरः प्राप्तो मि धर्मो ह्यमृतो ऽसंस्कृतः । देशेय चाहं न परस्य जाने यन्नून तूष्णी पवने वसेयम्

adhyeṣaṇāparivartaḥ pañcaviṃśaḥ / iti hi bhikṣavastathāgatasya tārāyaṇamūle viharataḥ prathamābhisaṃbuddhasyaikasya rahogatasya pratisaṃlīnasya lokānuvartanāṃ pratyetadabhavat - gambhīro batāyaṃ mayā dharmo 'dhigato 'bhisaṃbuddhaḥ śāntaḥ praśānta upaśāntaḥ praṇīto durdṛśo duranubodho 'tarko 'vitarkāvacaraḥ / alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargo 'vedito 'niveditaḥ sarvaveditanirodhaḥ paramārtho 'nālayaḥ / śītībhāvo 'nādāno 'nupādāno 'vijñapto 'vijñāpanīyo 'saṃskṛtaḥ ṣaḍviṣayasamatikrāntaḥ / akalpo 'vikalpo 'nabhilāpyaḥ / aruto 'ghoṣo 'nudāhāraḥ / anidarśano 'pratighaḥ sarvālambanasamatikāntaḥ śamathadharmopacchedaḥ / śūnyatānupalambhaḥ / tṛṣṇākṣayo virāgo nirodho nirvāṇam / ahaṃ cedimaṃ parebhyo dharmaṃ deśayeyam, te cennājānīyuḥ, sa me syātklamatho mithyāvyāyāmo 'kṣaṇadharmadeśanatā ca / yannvahamalpotsukastūṣṇībhāvena vihareyam / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata - gambhīra śānto virajaḥ prabhāsvaraḥ prāpto mi dharmo hyamṛto 'saṃskṛtaḥ / deśeya cāhaṃ na parasya jāne yannūna tūṣṇī pavane vaseyam

Sanskrit only: no published translation is held for this verse.

अपगतगिरिवाक्पथो ह्यलिप्तो यथ गगनं तथा स्वभावधर्मम् । चित्तमन विचारविप्रमुक्तं परमसुआश्चरियं परो विजाने

apagatagirivākpatho hyalipto yatha gaganaṃ tathā svabhāvadharmam / cittamana vicāravipramuktaṃ paramasuāścariyaṃ paro vijāne

Sanskrit only: no published translation is held for this verse.

न च पुनरयु शक्य अक्षरेभिः प्रविशतु अनर्थयोगविप्रवेशः । पुरिमजिनकृताधिकारसत्त्वाः ते इमु श्रुणित्व हि धर्मु श्रद्दधन्ति

na ca punarayu śakya akṣarebhiḥ praviśatu anarthayogavipraveśaḥ / purimajinakṛtādhikārasattvāḥ te imu śruṇitva hi dharmu śraddadhanti

Sanskrit only: no published translation is held for this verse.

न च पुनरिह कश्चिदस्ति धर्मः सो पि न विद्यते यस्य नास्तिभावाः । हेतुक्रियपरंपरा य जाने तस्य न भोतिह अस्तिनास्तिभावाः

na ca punariha kaścidasti dharmaḥ so pi na vidyate yasya nāstibhāvāḥ / hetukriyaparaṃparā ya jāne tasya na bhotiha astināstibhāvāḥ

Sanskrit only: no published translation is held for this verse.

कल्पशतसहस्र अप्रमेया अहु चरितः पुरिमे जिनसकाशे । न च मय प्रतिलब्ध एष क्षान्ती यत्र न आत्म न सत्त्व नैव जीवः

kalpaśatasahasra aprameyā ahu caritaḥ purime jinasakāśe / na ca maya pratilabdha eṣa kṣāntī yatra na ātma na sattva naiva jīvaḥ

Sanskrit only: no published translation is held for this verse.

यद मय प्रतिलब्ध एष क्षान्ती म्रियति न चेह न कश्चि जायते वा । प्रकृति इमि निरात्म सर्वधर्माः तद मां व्याकरि बुद्ध दीपनामा

yada maya pratilabdha eṣa kṣāntī mriyati na ceha na kaści jāyate vā / prakṛti imi nirātma sarvadharmāḥ tada māṃ vyākari buddha dīpanāmā

Sanskrit only: no published translation is held for this verse.

करुण मम अनन्त सर्वलोके परतु न चार्थनतामहं प्रतीक्षे । यद पुन जनता प्रसन्न ब्रह्मे तेन अधीष्टु प्रवर्तयिष्य चक्रम्

karuṇa mama ananta sarvaloke paratu na cārthanatāmahaṃ pratīkṣe / yada puna janatā prasanna brahme tena adhīṣṭu pravartayiṣya cakram

Sanskrit only: no published translation is held for this verse.

एव च अयु धर्म ग्राह्यु मे स्यात् सचि मम ब्रह्म क्रमे निपत्य याचेत् । प्रवदहि विरजा प्रणीतु धर्मं सन्ति विजानक सत्त्व स्वाकराश्च

eva ca ayu dharma grāhyu me syāt saci mama brahma krame nipatya yācet / pravadahi virajā praṇītu dharmaṃ santi vijānaka sattva svākarāśca

Sanskrit only: no published translation is held for this verse.

इति हि भिक्षवस्तथागतस्तस्मिन् समये ऊर्णाकोशात्प्रभामुत्सृजति स्म यया प्रभया त्रिसाहस्रमहासाहस्रो लोकधातुर्महता सुवर्णवर्णावभासेन स्फुटो ऽभूत् ॥ अथ खलु दशत्रिसाहस्रमहासाहस्राधिपतिः शिखी महाब्रह्मा बुद्धानुभावेनैव तथागतस्य चेतसैव चेतःपरिवितर्कमाज्ञासीत् - अल्पोत्सुकतायै भगवतश्चित्तमभिनतं न धर्मदेशनायामिति । तस्यैतदभवत् - यन्न्वहमुपसंक्रम्य तथागतमध्येष्येयं धर्मचक्रप्रवर्तनतायै ॥ अथ खलु शिखी महाब्रह्मा तस्यां वेलायां तदन्यान् ब्रह्मकायिकान् देवपुत्रानामन्त्रयते स्म - नश्यति बतायं मार्षा लोको विनश्यति, यत्र हि नाम तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्याल्पोत्सुकतायै चित्तमभिनामयति न धर्मदेशनायाम् । यन्नु वयमुपसंक्रम्य तथागतमर्हन्तं सम्यक्संबुद्धमध्येष्येमहि धर्मचक्रप्रवर्तनाय ॥ अथ खलु भिक्षवः शिखी महाब्रह्मा अष्टषष्ट्या ब्राह्मणशतसहस्रैः परिवृतः पुरस्कृतो येन तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्य प्राञ्जलिस्तथागतमेतदवोचत् नश्यति बतायं भगवन् लोकः, प्रणश्यति बतायं भगवन् लोकः, यत्र हि नाम तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्याल्पोत्सुकतायै चित्तमभिनामयति न धर्मदेशनायाम् । तत्साधु देशयतु (वैद्य २८८) भगवान् धर्मम्, देशयतु सुगतो धर्मम् । सन्ति सत्त्वाः स्वाकाराः सुविज्ञापकाः शक्ता भव्याः प्रतिबलाः भगवतो भाषितस्यार्थमाज्ञातुम् । तस्यां च वेलायामिमां गाथामभाषत - समुदानिय ज्ञानमहाग्रमण्डलं विसृज्य रश्मीन् दशदिक्षु चैव । तदञ्ज ज्ञानांशु नृपद्मबोधका उपेक्षकस्तिष्ठसि वादिभास्करः

iti hi bhikṣavastathāgatastasmin samaye ūrṇākośātprabhāmutsṛjati sma yayā prabhayā trisāhasramahāsāhasro lokadhāturmahatā suvarṇavarṇāvabhāsena sphuṭo 'bhūt // atha khalu daśatrisāhasramahāsāhasrādhipatiḥ śikhī mahābrahmā buddhānubhāvenaiva tathāgatasya cetasaiva cetaḥparivitarkamājñāsīt - alpotsukatāyai bhagavataścittamabhinataṃ na dharmadeśanāyāmiti / tasyaitadabhavat - yannvahamupasaṃkramya tathāgatamadhyeṣyeyaṃ dharmacakrapravartanatāyai // atha khalu śikhī mahābrahmā tasyāṃ velāyāṃ tadanyān brahmakāyikān devaputrānāmantrayate sma - naśyati batāyaṃ mārṣā loko vinaśyati, yatra hi nāma tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām / yannu vayamupasaṃkramya tathāgatamarhantaṃ samyaksaṃbuddhamadhyeṣyemahi dharmacakrapravartanāya // atha khalu bhikṣavaḥ śikhī mahābrahmā aṣṭaṣaṣṭyā brāhmaṇaśatasahasraiḥ parivṛtaḥ puraskṛto yena tathāgatastenopasaṃkrāmat / upasaṃkramya tathāgatasya pādau śirasābhivandya prāñjalistathāgatametadavocat naśyati batāyaṃ bhagavan lokaḥ, praṇaśyati batāyaṃ bhagavan lokaḥ, yatra hi nāma tathāgato 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām / tatsādhu deśayatu (Vaidya 288) bhagavān dharmam, deśayatu sugato dharmam / santi sattvāḥ svākārāḥ suvijñāpakāḥ śaktā bhavyāḥ pratibalāḥ bhagavato bhāṣitasyārthamājñātum / tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata - samudāniya jñānamahāgramaṇḍalaṃ visṛjya raśmīn daśadikṣu caiva / tadañja jñānāṃśu nṛpadmabodhakā upekṣakastiṣṭhasi vādibhāskaraḥ

Sanskrit only: no published translation is held for this verse.

निमन्त्रयित्वार्यधनेन सत्त्वां आश्वासयित्वा बहुप्राणकोट्यः । न युक्तमेतत्तव लोकबन्धो यं तूष्णिभावेन उपेक्षसे जगत्

nimantrayitvāryadhanena sattvāṃ āśvāsayitvā bahuprāṇakoṭyaḥ / na yuktametattava lokabandho yaṃ tūṣṇibhāvena upekṣase jagat

Sanskrit only: no published translation is held for this verse.

पराहनस्वोत्तमधर्मदुन्दुभिं सद्धर्मशङ्खं च प्रपूरयाशु । उच्छ्रेपयस्व महधर्मयूपं प्रज्वालयस्व महधर्मदीपम्

parāhanasvottamadharmadundubhiṃ saddharmaśaṅkhaṃ ca prapūrayāśu / ucchrepayasva mahadharmayūpaṃ prajvālayasva mahadharmadīpam

Sanskrit only: no published translation is held for this verse.

प्रवर्ष वै धर्मजलं प्रधानं प्रतारयेमां भवसागरस्थां । प्रमोचयेमां महव्याधिक्लिष्टां क्लेशाग्नितप्ते प्रशमं कुरुष्व

pravarṣa vai dharmajalaṃ pradhānaṃ pratārayemāṃ bhavasāgarasthāṃ / pramocayemāṃ mahavyādhikliṣṭāṃ kleśāgnitapte praśamaṃ kuruṣva

Sanskrit only: no published translation is held for this verse.

निदर्शय त्वं खलु शान्तिमार्गं क्षेमं शिवं निर्जरतामशोकम् । निर्वाणमार्गागमनादनाथे विपथस्थिते नाथ कृपां कुरुष्व

nidarśaya tvaṃ khalu śāntimārgaṃ kṣemaṃ śivaṃ nirjaratāmaśokam / nirvāṇamārgāgamanādanāthe vipathasthite nātha kṛpāṃ kuruṣva

Sanskrit only: no published translation is held for this verse.

विमोक्षद्वाराणि अपावृणिष्व प्रचक्ष्व तं धर्मनयं ह्यकोप्यम् । जात्यन्धभूतस्य जनस्य नाथ त्वमुत्तमं शोधय धर्मचक्षुः

vimokṣadvārāṇi apāvṛṇiṣva pracakṣva taṃ dharmanayaṃ hyakopyam / jātyandhabhūtasya janasya nātha tvamuttamaṃ śodhaya dharmacakṣuḥ

Sanskrit only: no published translation is held for this verse.

न ब्रह्मलोके न च देवलोके न यक्षगन्धर्वमनुष्यलोके । लोकस्य यो जातिजरापनेता नान्यो ऽस्ति त्वत्तो हि मनुष्यचन्द्रः

na brahmaloke na ca devaloke na yakṣagandharvamanuṣyaloke / lokasya yo jātijarāpanetā nānyo 'sti tvatto hi manuṣyacandraḥ

Sanskrit only: no published translation is held for this verse.

अध्येषको ऽहं तव धर्मराज अध्याचराकृत्वन सर्वदेवान् । अनेन पुण्येन अहं पि क्षिप्रं प्रवर्तयेयं वरधर्मचक्रम्

adhyeṣako 'haṃ tava dharmarāja adhyācarākṛtvana sarvadevān / anena puṇyena ahaṃ pi kṣipraṃ pravartayeyaṃ varadharmacakram

Sanskrit only: no published translation is held for this verse.

अधिवासयति स्म भिक्षवस्तथागतः शिखिनो ब्रह्मणस्तूष्णीभावेन सदेवमानुषासुरस्य लोकस्यानुग्रहार्थमनुकम्पामुपादाय ॥ अथ खलु शिखी महाब्रह्मा तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा दिव्यैश्चन्दनचूर्णैरगुरुचूर्णैश्च तथागतमभ्यवकीर्य प्रीतिप्रामोद्यजातस्तत्रैवान्तरधात् ॥ अथ खलु भिक्षवस्तथागतस्य धर्मालोकस्यादरोत्पादनार्थं शिखिनश्च महाब्रह्मणः पुनः पुनस्तथागताध्येषणया कुशलमूलविवृद्ध्यर्थं धर्मस्य चातिगम्भीरोदारतामुपादाय पुनरप्येकस्य रहोगतस्य प्रतिसंलीनस्यायमेवंरूपं चेतोवितर्को ऽभूत् - गम्भीरः खल्वयं मया धर्मो ऽभिसंबुद्धः सूक्ष्मो निपुणो दुरनुबोधः अतर्को ऽतर्कावचरः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको दुर्दृशः सर्वोपधिनिःसर्गः सर्वसंस्कारोपशमः सर्वतमोपच्छेदः शून्यतानुपलम्भस्तृष्णाक्षयो विरागो निरोधो निर्वाणम् । अहं चेदिदं धर्मं देशयेयम्, परे च मे न विभावयेयुः, सा मे परमा विहेठा भवेत् । यन्न्वहमल्पोत्सुकविहारेणैव विहरेयम् ॥ अथ खलु भिक्षवः शिखी महाब्रह्मा बुद्धानुभावेन पुनरपि तथागतस्येतदमेवंरूपेण चेतः - परिवितर्कमाज्ञाय येन शक्रो देवानामिन्द्रस्तेनोपसंक्रामत् । उपसंक्रम्य शक्रं देवानामिन्द्रमेतदवोचत् - यत्खलु कौशिक जानीयास्तथागतस्यार्हतः सम्यक्संबुद्धस्याल्पोत्सुकतायै चित्तं नतं न धर्मदेशनायाम् । नक्ष्यते बतायं कौशिक लोकः, विनक्ष्यते बतायं कौशिक लोकः, महाविद्यान्धकारक्षिप्तो बतायं कौशिक लोको भविष्यति, यत्र हि नाम तथागतस्यार्हतः सम्यक्संबुद्धस्याल्पोत्सुकतायै चित्तं नतं न धर्मसंप्रकाशनायाम् । कस्माद्वयं न गच्छामस्तथागतमर्हन्तं सम्यक्संबुद्धं धर्मचक्रप्रवर्तनायाध्येषितुम्? तत्कस्मात्? न ह्यनध्येषितास्तथागता धर्मचक्रं प्रवर्तयन्ति । साधु मार्षेति शक्रो ब्रह्मा भौमाश्च देवा अन्तरीक्षाश्चातुर्महाराजकायिकास्त्रायत्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका आभास्वरा बृहत्फला शुभकृत्स्ना संबहुलानि च शुद्धावासकायिक देवपुत्रशतसहस्राण्यतिक्रान्तवर्णा अतिक्रान्तायां रात्रौ केवलं तारायणमूलं दिव्येन वर्णेन दिव्येनावभासेनावभास्य येन तथागतस्तेनोपसंक्रामन् । उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्य प्रदक्षिणीकृत्य चैकान्ते तस्थुः ॥ अथ खलु शक्रो देवानामिन्द्रो येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथयाभितुष्टाव - उत्तिष्ठ विजितसंग्राम प्रज्ञाकारा तिमिस्रा विवर लोके । चित्तं हि ते विमुक्तं शशिरिव पूर्णो ग्रहविमुक्तः

adhivāsayati sma bhikṣavastathāgataḥ śikhino brahmaṇastūṣṇībhāvena sadevamānuṣāsurasya lokasyānugrahārthamanukampāmupādāya // atha khalu śikhī mahābrahmā tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā divyaiścandanacūrṇairagurucūrṇaiśca tathāgatamabhyavakīrya prītiprāmodyajātastatraivāntaradhāt // atha khalu bhikṣavastathāgatasya dharmālokasyādarotpādanārthaṃ śikhinaśca mahābrahmaṇaḥ punaḥ punastathāgatādhyeṣaṇayā kuśalamūlavivṛddhyarthaṃ dharmasya cātigambhīrodāratāmupādāya punarapyekasya rahogatasya pratisaṃlīnasyāyamevaṃrūpaṃ cetovitarko 'bhūt - gambhīraḥ khalvayaṃ mayā dharmo 'bhisaṃbuddhaḥ sūkṣmo nipuṇo duranubodhaḥ atarko 'tarkāvacaraḥ paṇḍitavijñavedanīyaḥ sarvalokavipratyanīko durdṛśaḥ sarvopadhiniḥsargaḥ sarvasaṃskāropaśamaḥ sarvatamopacchedaḥ śūnyatānupalambhastṛṣṇākṣayo virāgo nirodho nirvāṇam / ahaṃ cedidaṃ dharmaṃ deśayeyam, pare ca me na vibhāvayeyuḥ, sā me paramā viheṭhā bhavet / yannvahamalpotsukavihāreṇaiva vihareyam // atha khalu bhikṣavaḥ śikhī mahābrahmā buddhānubhāvena punarapi tathāgatasyetadamevaṃrūpeṇa cetaḥ - parivitarkamājñāya yena śakro devānāmindrastenopasaṃkrāmat / upasaṃkramya śakraṃ devānāmindrametadavocat - yatkhalu kauśika jānīyāstathāgatasyārhataḥ samyaksaṃbuddhasyālpotsukatāyai cittaṃ nataṃ na dharmadeśanāyām / nakṣyate batāyaṃ kauśika lokaḥ, vinakṣyate batāyaṃ kauśika lokaḥ, mahāvidyāndhakārakṣipto batāyaṃ kauśika loko bhaviṣyati, yatra hi nāma tathāgatasyārhataḥ samyaksaṃbuddhasyālpotsukatāyai cittaṃ nataṃ na dharmasaṃprakāśanāyām / kasmādvayaṃ na gacchāmastathāgatamarhantaṃ samyaksaṃbuddhaṃ dharmacakrapravartanāyādhyeṣitum? tatkasmāt? na hyanadhyeṣitāstathāgatā dharmacakraṃ pravartayanti / sādhu mārṣeti śakro brahmā bhaumāśca devā antarīkṣāścāturmahārājakāyikāstrāyatriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā ābhāsvarā bṛhatphalā śubhakṛtsnā saṃbahulāni ca śuddhāvāsakāyika devaputraśatasahasrāṇyatikrāntavarṇā atikrāntāyāṃ rātrau kevalaṃ tārāyaṇamūlaṃ divyena varṇena divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṃkrāman / upasaṃkramya tathāgatasya pādau śirasābhivandya pradakṣiṇīkṛtya caikānte tasthuḥ // atha khalu śakro devānāmindro yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthayābhituṣṭāva - uttiṣṭha vijitasaṃgrāma prajñākārā timisrā vivara loke / cittaṃ hi te vimuktaṃ śaśiriva pūrṇo grahavimuktaḥ

Sanskrit only: no published translation is held for this verse.

एवमुक्ते तथागतस्तूष्णीमेवास्थात् ॥ अथ खलु शिखी महाब्रह्मा शक्रं देवानामिन्द्रमेतदवोचत् - नैव कौशिक तथागता अर्हन्तः सम्यक्संबुद्धा अध्येष्यन्ते धर्मचक्रप्रवर्तनतायै यथा त्वमध्येषसे ॥ अथ खलु शिखी महाब्रह्मा एकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथयाध्यभाषत - उत्तिष्ठ विजितसंग्राम प्रज्ञाकारा तिमिस्रा विवर लोके । देशय त्वं मुने धर्मं आज्ञातारो भविष्यन्ति

evamukte tathāgatastūṣṇīmevāsthāt // atha khalu śikhī mahābrahmā śakraṃ devānāmindrametadavocat - naiva kauśika tathāgatā arhantaḥ samyaksaṃbuddhā adhyeṣyante dharmacakrapravartanatāyai yathā tvamadhyeṣase // atha khalu śikhī mahābrahmā ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthayādhyabhāṣata - uttiṣṭha vijitasaṃgrāma prajñākārā timisrā vivara loke / deśaya tvaṃ mune dharmaṃ ājñātāro bhaviṣyanti

Sanskrit only: no published translation is held for this verse.

एवमुक्ते भिक्षवस्तथागतः शिखिनं महाब्रह्माणमेतदवोचत् - गम्भीरः खल्वयं महाब्रह्मन् मया धर्मो ऽभिसंबुद्धः सूक्ष्मो निपुणः पेयालं यावत्सा मे स्यात्परमा विहेठा । अपि च मे ब्रह्मन्निमे गाथे ऽभीक्ष्णं प्रतिभासः - प्रतिस्रोतगामि मार्गो गम्भीरो दुर्दृशो मम । न तं द्रक्ष्यन्ति रागान्धा अलं तस्मात्प्रकाशितुम्

evamukte bhikṣavastathāgataḥ śikhinaṃ mahābrahmāṇametadavocat - gambhīraḥ khalvayaṃ mahābrahman mayā dharmo 'bhisaṃbuddhaḥ sūkṣmo nipuṇaḥ peyālaṃ yāvatsā me syātparamā viheṭhā / api ca me brahmannime gāthe 'bhīkṣṇaṃ pratibhāsaḥ - pratisrotagāmi mārgo gambhīro durdṛśo mama / na taṃ drakṣyanti rāgāndhā alaṃ tasmātprakāśitum

Sanskrit only: no published translation is held for this verse.

अनुस्रोतं प्रवाह्यन्ते कामेषु पतिता प्रजाः । कृच्छ्रेण मे ऽयं संप्राप्तं अलं तस्मात्प्रकाशितुम्

anusrotaṃ pravāhyante kāmeṣu patitā prajāḥ / kṛcchreṇa me 'yaṃ saṃprāptaṃ alaṃ tasmātprakāśitum

Sanskrit only: no published translation is held for this verse.

अथ खलु भिक्षवः शिखी महाब्रह्मा शक्रश्च देवानामिन्द्रस्तथागतं तूष्णीभूतं विदित्वा सार्धं तैर्देवपुत्रैर्दुःखिता दुर्मनास्तत्रैवान्तरधायिषुः ॥ त्रिरपि च तथागतस्याल्पोत्सुकतायै चित्तं नमयति स्म ॥ तेन खलु पुनर्भिक्षवः समयेन मागधकानां मनुष्याणामिमान्येवंरूपाणि पापकानि अकुशलानि दृष्टिगतान्युत्पन्नान्यभूवन् । तद्यथा । केचिदेवमाहुः - वाता न वास्यन्ति । केचिदेवमाहुः - अग्निर्न ज्वलिष्यति । केचिदाहुः - देवो न वर्षिष्यति । केचिदाहुः - नद्यो न वह्यन्ति । केचिदाहुः - शस्यानि न प्रजास्यन्ति । केचिदाहु - पक्षिण आकाशे न क्रमिष्यन्ति । केचिदाहुः - गुर्विण्यो नारोग्येण प्रसविष्यन्ति ॥ अथ खलु भिक्षवः शिखी महाब्रह्मा तथागतस्यैवमेवंरूपं चित्तवितर्कमाज्ञाय मागधकानां च मनुष्याणामिमानि दृष्टिगतानि विदित्वा अतिक्रान्तायां रात्रावभिसंक्रान्तेन वर्णेन सर्वावन्तं तारायणमूलं दिव्येनावभासेनावभास्य येन तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य तथागतस्य पादौ शिरसाभिवन्द्यैकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन तथागतस्तेनाञ्जलिं प्रणम्य तथागतं गाथाभिरध्यभाषत - वादो बभूव समलैर्विचिन्तितो धर्मो ऽविशुद्धो मगधेषु पूर्वम् । अमृतं मुने तद्विवृणीष्व द्वारं शृण्वन्ति धर्मं विमलेन बुद्धम्

atha khalu bhikṣavaḥ śikhī mahābrahmā śakraśca devānāmindrastathāgataṃ tūṣṇībhūtaṃ viditvā sārdhaṃ tairdevaputrairduḥkhitā durmanāstatraivāntaradhāyiṣuḥ // trirapi ca tathāgatasyālpotsukatāyai cittaṃ namayati sma // tena khalu punarbhikṣavaḥ samayena māgadhakānāṃ manuṣyāṇāmimānyevaṃrūpāṇi pāpakāni akuśalāni dṛṣṭigatānyutpannānyabhūvan / tadyathā / kecidevamāhuḥ - vātā na vāsyanti / kecidevamāhuḥ - agnirna jvaliṣyati / kecidāhuḥ - devo na varṣiṣyati / kecidāhuḥ - nadyo na vahyanti / kecidāhuḥ - śasyāni na prajāsyanti / kecidāhu - pakṣiṇa ākāśe na kramiṣyanti / kecidāhuḥ - gurviṇyo nārogyeṇa prasaviṣyanti // atha khalu bhikṣavaḥ śikhī mahābrahmā tathāgatasyaivamevaṃrūpaṃ cittavitarkamājñāya māgadhakānāṃ ca manuṣyāṇāmimāni dṛṣṭigatāni viditvā atikrāntāyāṃ rātrāvabhisaṃkrāntena varṇena sarvāvantaṃ tārāyaṇamūlaṃ divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṃkrāmat / upasaṃkramya tathāgatasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthābhiradhyabhāṣata - vādo babhūva samalairvicintito dharmo 'viśuddho magadheṣu pūrvam / amṛtaṃ mune tadvivṛṇīṣva dvāraṃ śṛṇvanti dharmaṃ vimalena buddham

Sanskrit only: no published translation is held for this verse.

कृतस्वकार्थो ऽसि भुजिष्यतां गतो दुःखाभिसंस्कारमलापकृष्टः । न हानिवृद्धी कुशलस्य ते ऽस्ति त्वमग्रधर्मेष्विह पारमिं गतः

kṛtasvakārtho 'si bhujiṣyatāṃ gato duḥkhābhisaṃskāramalāpakṛṣṭaḥ / na hānivṛddhī kuśalasya te 'sti tvamagradharmeṣviha pāramiṃ gataḥ

Sanskrit only: no published translation is held for this verse.

न ते मुने सदृश इहास्ति लोके कुतो ऽधिकः स्यादिह ते महर्षे । भवानिहाग्रस्त्रिभवे विरोचते गिरिर्यथा ऽसावसुरालयस्थः

na te mune sadṛśa ihāsti loke kuto 'dhikaḥ syādiha te maharṣe / bhavānihāgrastribhave virocate giriryathā 'sāvasurālayasthaḥ

Sanskrit only: no published translation is held for this verse.

महाकृपां जानय दुःखिते जने न त्वादृशा जातु भवन्त्युपेक्षकाः । भवान् विशारद्यबलैः समन्वितः त्वमेव शक्तो जनतां प्रतारितुम्

mahākṛpāṃ jānaya duḥkhite jane na tvādṛśā jātu bhavantyupekṣakāḥ / bhavān viśāradyabalaiḥ samanvitaḥ tvameva śakto janatāṃ pratāritum

Sanskrit only: no published translation is held for this verse.

इयं सुशल्या सुचिरातुरा प्रजा सदेवका सश्रमणा द्विजाखिला । आरोगिनी भोतु निरातुरज्वरा न चापरः शरणमिहास्य विद्यते

iyaṃ suśalyā sucirāturā prajā sadevakā saśramaṇā dvijākhilā / āroginī bhotu nirāturajvarā na cāparaḥ śaraṇamihāsya vidyate

Sanskrit only: no published translation is held for this verse.

चिरानुबद्धास्तव देवमानुषाः कल्याणचित्ता अमृतार्थिनश्च । धर्मं यमेवाधिगमिष्यते जिनो यथावदन्यूनमुदाहरिष्यति

cirānubaddhāstava devamānuṣāḥ kalyāṇacittā amṛtārthinaśca / dharmaṃ yamevādhigamiṣyate jino yathāvadanyūnamudāhariṣyati

Sanskrit only: no published translation is held for this verse.

तस्माद्धिया चामिसु विक्रम त्वां विनयस्व सत्त्वां चिरनष्टमार्गां । अविश्रुतार्था शमनाय काङ्क्षिताः सुदुर्बला बृंहणकाङ्क्षिणो वा

tasmāddhiyā cāmisu vikrama tvāṃ vinayasva sattvāṃ ciranaṣṭamārgāṃ / aviśrutārthā śamanāya kāṅkṣitāḥ sudurbalā bṛṃhaṇakāṅkṣiṇo vā

Sanskrit only: no published translation is held for this verse.

इयं तृषार्ता जनता महामुने उदीक्षते धर्मजलं तवान्तिके । मेघो यथा संतृषितां वसुंधरां कुरु तर्पणां नायक धर्मवृष्ट्या

iyaṃ tṛṣārtā janatā mahāmune udīkṣate dharmajalaṃ tavāntike / megho yathā saṃtṛṣitāṃ vasuṃdharāṃ kuru tarpaṇāṃ nāyaka dharmavṛṣṭyā

Sanskrit only: no published translation is held for this verse.

अकण्टकं मार्गमृजुं प्रचक्ष्व तं यं भावयित्वा ह्यमृतं लभेयम्

akaṇṭakaṃ mārgamṛjuṃ pracakṣva taṃ yaṃ bhāvayitvā hyamṛtaṃ labheyam

Sanskrit only: no published translation is held for this verse.

अन्धाप्रपाते पतिता ह्यनायका नोद्धर्तुमन्यैरिह शक्यमेते । महाप्रपाते पतितां समुद्धर छन्दं समुत्पाद्य वृषो ऽसि बुद्धिमान्

andhāprapāte patitā hyanāyakā noddhartumanyairiha śakyamete / mahāprapāte patitāṃ samuddhara chandaṃ samutpādya vṛṣo 'si buddhimān

Sanskrit only: no published translation is held for this verse.

न संगतिस्ते ऽस्ति सदा मुने चिरं कदाचिदौदुम्बरपुष्पसंनिभाः । जिनाः पृथिव्यां प्रभवन्ति नायकाः प्राप्ताक्षणो मोचय नाथ सत्त्वां

na saṃgatiste 'sti sadā mune ciraṃ kadācidaudumbarapuṣpasaṃnibhāḥ / jināḥ pṛthivyāṃ prabhavanti nāyakāḥ prāptākṣaṇo mocaya nātha sattvāṃ

Sanskrit only: no published translation is held for this verse.

अभूच्च ते पूर्वभवेष्वियं मतिः तीर्णः स्वयं तारयिता भवेयम् । असंशयं पारगतो ऽसि सांप्रतं सत्यां प्रतिज्ञां कुरु सत्यविक्रमः

abhūcca te pūrvabhaveṣviyaṃ matiḥ tīrṇaḥ svayaṃ tārayitā bhaveyam / asaṃśayaṃ pāragato 'si sāṃprataṃ satyāṃ pratijñāṃ kuru satyavikramaḥ

Sanskrit only: no published translation is held for this verse.

धर्मोल्कया विधम मुने ऽन्धकारा उच्छ्रेपय त्वं हि तथागतध्वजम् । अयं स कालः प्रतिलाभ्युदीरणे मृगाधिपो वा नद दुन्दुभिस्वरः

dharmolkayā vidhama mune 'ndhakārā ucchrepaya tvaṃ hi tathāgatadhvajam / ayaṃ sa kālaḥ pratilābhyudīraṇe mṛgādhipo vā nada dundubhisvaraḥ

Sanskrit only: no published translation is held for this verse.

अथ खलु तथागत आत्मनश्चेमं सम्यग्ज्ञानमधिकृत्य शिखिनश्च महाब्रह्मणो ऽध्येषणां विदित्वा शिखिनं महाब्रह्माणं गाथाभिरध्यभाषत - अपावृतास्तेषाममृतस्य द्वारा ब्रह्मन् ति सततं ये श्रोतवन्तः । प्रविशन्ति श्रद्धा नविहेठसंज्ञाः शृण्वन्ति धर्मं मगधेषु सत्त्वाः

atha khalu tathāgata ātmanaścemaṃ samyagjñānamadhikṛtya śikhinaśca mahābrahmaṇo 'dhyeṣaṇāṃ viditvā śikhinaṃ mahābrahmāṇaṃ gāthābhiradhyabhāṣata - apāvṛtāsteṣāmamṛtasya dvārā brahman ti satataṃ ye śrotavantaḥ / praviśanti śraddhā naviheṭhasaṃjñāḥ śṛṇvanti dharmaṃ magadheṣu sattvāḥ

Sanskrit only: no published translation is held for this verse.

षष्टिं यज्ञसहस्रकोटिनयुता ये तत्र यष्टा मया षष्टिं बुद्धसहस्रकोटिनयुता ये तत्र संपूजिता । पौराणामृषिणामिहालयु वरो वाराणसी नामवा देवानागमभिष्टुतो महितलो धर्माभिनिम्नः सदा

ṣaṣṭiṃ yajñasahasrakoṭinayutā ye tatra yaṣṭā mayā ṣaṣṭiṃ buddhasahasrakoṭinayutā ye tatra saṃpūjitā / paurāṇāmṛṣiṇāmihālayu varo vārāṇasī nāmavā devānāgamabhiṣṭuto mahitalo dharmābhinimnaḥ sadā

Sanskrit only: no published translation is held for this verse.

बुद्धा कोटिसहस्र नैकनवतिः पूर्वे स्मरामी अह ये तस्मिन्नृषिसाह्वये वनवरे वर्तीसु चक्रोत्तमम् । शान्तं चाप्युपशान्तध्यानभिमुखं नित्यं मृगैः सेवितं इत्यर्थे ऋषिसाह्वये वनवरे वर्तिष्यि चक्रोत्तमम्

buddhā koṭisahasra naikanavatiḥ pūrve smarāmī aha ye tasminnṛṣisāhvaye vanavare vartīsu cakrottamam / śāntaṃ cāpyupaśāntadhyānabhimukhaṃ nityaṃ mṛgaiḥ sevitaṃ ityarthe ṛṣisāhvaye vanavare vartiṣyi cakrottamam

Sanskrit only: no published translation is held for this verse.