Library·Lalitavistara·26·26.52

Lalitavistara 26.52

Lal 26.52

राचक्राङ्कितपादतल इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयधार्मिकरक्षापरिपालनतया शरणागतानां चापरित्यागत्वादायतपार्ष्णिरित्युच्यते । दीर्घरात्रं प्राणातिपातोपरतत्वाद्दीर्घाङ्गुलीत्युच्यते । दीर्घरात्रं प्राणातिपातवैरमण्यंपरसत्त्वसमादायनत्वाद्बहुजनत्रातेत्युच्यते । दीर्घरात्रं प्राणातिपातवैरमण्यंगुणवर्णसंप्रकाशनत्वान्मृदुतरुणहस्तपाद इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयोपस्थानपरिचर्यास्नानानुलेपनसर्पितैलाभ्यङ्गस्वहस्तशरीरपरिकर्मपरिखेदत्वाज्जालाङ्गुलीहस्तपाद इत्युच्यते । दीर्घरात्रं दानप्रियवद्यतार्थक्रियासमानार्थतासंग्रहवस्तुजालेन सत्त्वसंग्रहकौशल्यंसुशिक्षितत्वादुच्छङ्गपाद इत्युच्यते । दीर्घरात्रमुत्तरोत्तरि विशिष्टतरकुशलमूलाध्यालम्बनत्वादूर्ध्वाङ्गदक्षिणावर्तरोमकूप इत्युचते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयतथागतचैत्यप्रदक्षिणीकरणधर्मश्रवणचित्रीकाररोमहर्षणपरसत्त्वसंहर्षणधर्मदेशनाप्रयोगत्वादेणेयजङ्घ इत्युच्यते । दीर्घरात्रं सत्कृत्य धर्मश्रवणग्रहणधारणवाचनविज्ञापनार्थपदनिश्चयनिस्तीरणकौशल्येन जराव्याधिमरणाभिमुखानां च सत्त्वानां शरणगमनानुप्रदानसत्कृत्यधर्मदेशनापरिभवबुद्धित्वात्कोशोपगतबस्तिगुह्य इत्युच्यते । दीर्घरात्रं श्रमणब्राह्मणानां तदन्येषां च ब्रह्मचारिणां ब्रह्मचर्यानुग्रहसर्वपरिस्कारानुप्रदाननग्नबलानुप्रदानपरदारागमनब्रह्मचर्यगुणवर्णसंप्रकाशनह्र्यपत्राप्यानुपालनदृढसमादानत्वात्प्रलम्बबाहुरित्युच्यते । दीर्घरात्रं हस्तसंयतपादसंयतसत्त्वाविहेठनप्रयोगमैत्रकायकर्मवाक्कर्ममनस्कर्मसमन्वागतत्वान्न्यग्रोधपरिमण्डल इत्युच्यते । दीर्घरात्रं भोजनमात्रां ज्ञाता अल्पाहारतोदारसंयमग्लानभैषज्यानुप्रदानहीनजनापरिभवानाथानवमर्दनतथागतचैत्यविशीर्णप्रतिसंस्कारणस्तूपप्रतिष्ठापनत्वाद्भयार्दितेभ्यश्च सत्त्वेभ्यो ऽभयप्रदानत्वान्मृदुतरुणसूक्ष्मच्छविरित्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां स्नानानुलेपनसर्पिस्तैलाभ्यङ्गशीते उष्णोदकमुष्णे शीतोदकच्छायातपऋतुसुखपरिभोगानुप्रदानमृदुतरुणतूलसंस्पर्शसुकुमारवस्त्रास्तीर्णशयनासनानुप्रदानतथागतचैत्यगन्धतैलसेकसूक्ष्मपट्टध्वजपताकागुणप्रदानत्वात्सुवर्णच्छविरित्युच्यते । दीर्घरात्रं सर्वसत्त्वाप्रतिघातमैत्रीभावनायोगक्षान्तिसौरत्येपरसत्त्वसमादापनावैरव्यापादगुणवर्णसंप्रकाशनतया तथागतचैत्यतथागतप्रतिमानां च सुवर्णखचनसुवर्णपुष्पसुवर्णचूर्णाभिकिरणसुवर्णवर्णपट्टपताकाध्वजालंकारसुवर्णभाजनसुवर्णवस्त्रानुप्रदानत्वादेकैकनिचितरोमकूप इत्युच्यते । दीर्घरात्रं पण्डितोपसंक्रमणकिंकुशलाकुशलपरिपृच्छनसावद्यानवद्यसेव्यहीनमध्यप्रणीतधर्मपरिपृच्छनार्थमीमांसनपरितुलनासंमोहतथागतचैत्यकीटलूतालयाञ्जलियानिर्माल्यनानातृणशर्करासमुद्धरणसंप्रयोगत्वात्सप्तोत्सद इत्युच्यते । (वैद्य ३११) दीर्घरात्रं मातापितृज्येष्ठश्रेष्ठपूज्यश्रमणब्राह्मणकृपणवनीपकादिभ्य उपागतेभ्यः सत्कृत्य यथाभिप्रायमन्नपानासनवस्त्रापश्रयप्रदीपकल्पितजीविकपरिस्कारसंप्रदानकूपपुष्करिणीशीतजलपरीपूर्णमहाजनोपभोगानुप्रदानत्वात्सिंहपूर्वार्धकाय इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयावनमनप्रणमनाभिवादनाभयप्रदानदुर्बलापरिभवशरणागतापरित्यागदृढसर्गदानानुत्सर्गत्वाच्चितान्तरांस इत्युच्यते । दीर्घरात्रं स्वदोषपरितुलनप्रस्खलितपरछिद्रादोषदर्शनविवादमूलपरभेदकरमन्त्रपरिवर्जनसुप्रतिनिस्सर्गमन्त्रस्वारक्षितवाक्कर्मान्तत्वात्सुसंवृत्तस्कन्ध इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां प्रत्युत्थानप्रत्युद्रमनाभिवादनकामानां च सर्वशास्त्रवैशारद्येन विवादकामसत्त्वनिग्रहस्वधर्मविनयानुलोमनसम्यक्प्रवृत्तराजामात्यसम्यक्प्रवृत्तकुशलधर्मपथप्रतिष्ठापनप्रभावनतथागतशासनपरिग्रहसंधारणसर्वकुशलचर्यासमादापन पूर्वंगमत्वात्सिंहहनुरित्युच्यते । दीर्घरात्रं सर्ववस्तुपरित्यागयथाभिप्राययाचनकप्रियाभिधानमुपसंक्रान्तानां चाविमाननाजिह्मीकरणाविक्षेपं सर्वेषां यथाभिप्रायपरिपूरणदानपरित्यागदृढसमादानानुत्सर्गत्वाच्चत्वारिंशत्समदन्त इत्युच्यते । दीर्घरात्रं पिशुनवचनपरिवर्जनभेदमन्त्राग्रहणसंधिसामग्रीरोचनसमग्राणां चेदाचित्तेन पिशुनवचनविगर्हणसंधिसामग्रीगुणवर्णप्रकाशनप्रयोगत्वात्सुशुक्लदन्त इत्युच्यते । दीर्घरात्रं कृष्णपक्षपरिवर्जनशुक्लपक्षकुशलोपचयकृष्णकर्मकृष्णविपाकपरिवर्जनशुक्लकर्मशुक्लविपाकसंवर्णनक्षीरभोजनशुक्लवस्त्रप्रदानतथागतचैत्येषु सुधाकृतकक्षीरमिश्रसंप्रदानसुमनावार्षिकीधानुस्कारिमालागुणपुष्पदामशुक्लवर्णकुसुमानुप्रदानत्वादविरलदन्त इत्युच्यते । दीर्घरात्रं हास्योच्चट्यनविवर्जनानन्दकरणवागनुरक्षणानन्दकरणवागुदीरणपरस्खलितापरछिद्रापरिमार्गणसर्वसत्त्वसमचित्तसमादापनसमप्रयोगसमधर्मदेशनदृढसमादानापरित्यागत्वाद्रसरसाग्रवानित्युच्यते । दीर्घरात्रं सर्वसत्त्वाविहेठनाविहिंसनविविधव्याधिस्पृष्टोपस्थानग्लानभैषज्यानुप्रदानत्वात्सर्वरसार्थिकेभ्यश्च सर्वरसप्रदानापरिखेदत्वाद्बह्मस्वर इत्युच्यते । दीर्घरात्रमनृतपरुषकर्कशशाठ्यपरकटुकपराभिषङ्गिन्यप्रियपरमर्भघट्टनवाक्परिवर्जनमैत्रीकरुणाप्रयोगमुदिताप्रामोद्यकरणीस्निग्धममधुरश्लक्ष्णहृदयंगमसर्वेन्द्रियप्रह्लादकरणीसम्यग्वाक्यसम्यक्प्रयोगत्वादभिनीलनेत्र इत्युच्यते । दीर्घरात्रं मातापितृवत्सर्वसत्त्वाप्रतिहतचक्षुप्रयोगैकपुत्रवद्याचनकमैत्रीकारुण्यपूर्वंगमसंप्रेक्षणाजिह्मीकरणप्रसन्नेन्द्रियतथागतचैत्यानिमिषनयनसंप्रेक्षणपरसत्त्वतथागतदर्शनसमादापनदृढसमादानत्वाद्गोपेक्षनेत्र इत्युच्यते । दीर्घरात्रं हीनचेतोविवर्जनोदारविपुलाधिमुक्तिपरिपूरणानुत्तरधर्मछन्दसत्त्वसमादापनभृकुटीमुखविवर्जनस्मितमुखसर्वकल्याणमित्रोपसंक्रमणाभिमुखपूर्वंगमसर्वकुशलोपचयावैवर्तिकत्वाप्रभूतजिह्व इत्युच्यते । दीर्घरात्रं सर्ववाग्दोषविवर्जनसर्वश्रावकप्रत्येकबुद्धधर्मभाणकाप्रमाणगुणवर्णसंप्रकाशनतथागतसूत्रान्तलिखनवाचनपठनविज्ञापनं तेषां च धर्माणामर्थपदप्रभेदपरसत्त्वसंप्रापणकौशल्यत्वादुष्णीषानवलोकितमूर्ध इत्युच्यते । दीर्घरात्रं मातापितृश्रमणब्राह्मणगुरुदक्षिणीयानां मूर्ध्नां चरणतलप्रणिपतनप्रव्रजितवन्दनाभिवादनकेशावरोपणसुगन्धतैलमूर्ध्निपरिषिञ्चनं सर्वयाचनकेभ्यश्चूर्णमाल्यमालागुणमूर्धाभरणानुप्रदानत्वाद् (वैद्य ३१२) भ्रूमध्ये सुजातप्रदक्षिणावर्तोत्तप्तविशुद्धवर्णाभासोर्ण इत्युच्यते । दीर्घरात्रं निरर्गलसर्वयज्ञयजनसमादपनसर्वकल्याणमित्रानुशासन्यनुद्धरधर्मभाणकानां दौत्यप्रेक्षणे दिग्गमनागमनापरिखेदनसर्वबुद्धबोधिसत्त्वप्रत्त्येकबुद्धार्यश्रावकधर्मभाणकमातापितृगुरुदक्षिणीयतमोन्धकारविधमनतैलधृततृणोल्काप्रदीपनानागन्धतैलप्रदीपसर्वाकारवरोपेतप्रासादिकतथागतप्रतिमाकारणक्षीरप्रतिभासरत्नोत्तीर्णकोशप्रतिमण्डनपरसत्त्वबोधचित्तामुखीकरणकुशलसंभारविशेषत्वान्महास्थामप्राप्त इत्युच्यते । महानारायणबलोपेतत्वान्महानारायण इत्युच्यते । कोटीशतमारधर्षणबलोपेतत्वात्सर्वपरप्रमर्दक इत्युच्यते । दशतथागतबलोपेतत्वाद्दशतथागतबलोपेत इत्युच्यते । स्थानास्थानज्ञानकुशलहीनप्रादेशिकयानविवर्जनमहायानगुणसमुदानयनबलोपेतातृप्तबलप्रयोगत्वात्स्थानज्ञानबलोपेत इत्युच्यते । अतीतानागतप्रत्युत्पन्नकर्मसमादानहेतुशोविपाकशोज्ञानबलोपेतत्वादतीतानागतप्रत्युत्पन्नसर्वकर्मसमादानहेतुविपाकज्ञानबलोपेत इत्युच्यते । सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेतत्वात्सर्वसत्त्वेन्द्रियवीर्यविमात्रताज्ञानबलोपेत इत्युच्यते । अनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेतत्वादनेकधातुनानाधातुलोकप्रवेशज्ञानबलोपेत इत्युच्यते । अनेकाधिमुक्तिनानाधिमुक्तिनिरवशेषाधिमुक्तिविमुक्तिज्ञानबलोपेतत्वादनेकाधिमुक्तिनानाधिमुक्तिसर्वनिरवशेषाधिमुक्तिज्ञानबलोपेत इत्युच्यते । सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेतत्वात्सर्वत्रगामिनीप्रतिपज्ज्ञानबलोपेत इत्युच्यते । सर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्यवस्थापनज्ञानबलोपेतत्वासर्वध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्यवस्थापनज्ञानबलोपेत इत्युच्यते । अनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेतत्वादनेकविधपूर्वनिवासानुस्मृत्यासङ्गज्ञानबलोपेत इत्युच्यते । निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेतत्वान्निरवशेषसर्वरूपानावरणदर्शनदिव्यचक्षुर्ज्ञानबलोपेत इत्युच्यते । सर्वंवासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेतत्वात्सर्ववासनानुसंधिगतनिरवशेषसर्वाश्रवक्षयज्ञानबलोपेत इत्युच्यते । निरवशेषसर्वधर्माभिसंबुद्धप्रतिज्ञारोहणसदेवलोकानभिभूतप्रतिज्ञावैशारद्यप्राप्तत्वान्निरवशेषसर्वधर्माभिसंप्रबुद्धतिज्ञारोहणसदेवलोके ऽनभिभूतप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । सर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येतितत्प्रतिज्ञारोहणसदेवके लोके ऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्तत्वासर्वसांक्लेशिकान्तरायिकधर्मान्तरायकरणानिर्वाणस्येति तत्प्रतिज्ञारोहणसदेवके लोके ऽनाछेद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोके ऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्तत्वान्नैर्याणिकीं प्रतिपदं प्रतिपद्यमानो निर्वाणमारागयिष्यतीति प्रतिज्ञारोहणसदेवके लोके ऽप्रतिचोद्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । सवाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोके ऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्तत्वात्सर्वाश्रवक्षयज्ञानप्रहाणज्ञानप्रतिज्ञारोहणसदेवके लोके ऽविवर्त्यप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । अस्खलितपदधर्मदेशकत्वादस्खलितपदधर्मदेशक इत्युच्यते । अरुतानभिलाप्यधर्मस्वभावानुबुद्धत्वादरुतानभिलाप्यधर्मस्वभावानुबुद्ध इत्युच्यते । अविरतत्वादविरत इत्युच्यते । सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थत्वात्सर्वसत्त्वरुताप्रमाणबुद्धधर्मरुतनिर्घोषाधिष्ठानसमर्थ इत्युच्यते । (वैद्य ३१३) अमुषितस्मृतित्वादमुषितस्मृतिरित्युच्यते । नानात्वसंज्ञाविगतत्वान्नानात्वसंज्ञाविगत इत्युच्यते । सर्वचित्तसमाहितसुमाहितसत्त्वात्सर्वचित्तसमाहितसुसमाहित इत्युच्यते । अप्रतिसंख्यासमुपेक्षकत्वादप्रतिसंख्यासमुपेक्षक इत्युच्यते । छन्दसंस्कारसमाध्यपरिहीनत्वाच्छन्दसंस्कारसमाध्यपरिहीन इत्युच्यते । वीर्यसंस्कारसमाध्यनाछेद्यापरिहीनवीर्यत्वाद्वीर्यसंस्कारसमाध्यपरिहीनवीर्य इत्युच्यते । स्मृत्यपरिहीनत्वादपरिहीनस्मृतिरित्युच्यते । अपरिहीनप्रज्ञत्वादपरिहीनप्रज्ञ इत्युच्यते । विमुक्त्यपरिहीनत्वादपरिहीनविमुक्तिरित्युच्यते । विमुक्तिज्ञानदर्शनाप्रहीनत्वादपरिहीनविमुक्तिज्ञानदर्शन इत्युच्यते । सर्वकायकर्मवाक्कर्ममनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिसमन्वागतत्वात्सर्वकायवाङ्भमनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवर्तिज्ञानसमन्वागत इत्युच्यते । अतीतानागतप्रत्युत्पन्नेष्वध्वस्वसङ्गाप्रतिहतज्ञानदर्शनसमन्वागतत्वात् त्र्यध्वासङ्गाप्रतिहतज्ञानदर्शनसमन्वागत इत्युच्यते । अनावरणविमोक्षप्रतिलब्धत्वादनावरणविमोक्षप्रतिलब्ध इत्युच्यते । अधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थितत्वोदधिष्ठितसर्वसत्त्वचरितप्रवेशकौशल्यावस्थित इत्युच्यते । यथाप्रत्यर्हधर्मदेशनाकुशलत्वाद्यथाप्रत्यर्हधर्मदेशनाकुशल इत्युच्यते । सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्तत्वात्सर्वस्वराङ्गमण्डलपरमपारमिताप्राप्त इत्युच्यते । सर्वरुतप्रतिरुतनिश्चारणकौशल्यप्राप्तत्वाद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुत इत्युच्यते । ब्रह्मस्वररुतरवितनिर्घोष इत्युच्यते । कलविङ्करुतस्वर इत्युच्यते । दुन्दुभिसंगीतिरुतस्वर इत्युच्यते । धरणीतलनिर्नादनिर्घोषस्वर इत्युच्यते । सागरनागेन्द्रमेघस्तनितगर्जितघोषस्वर इत्युच्यते । सिंहवृषभिताभिगर्जितनिर्घोषस्वर इत्युच्यते । सर्वसत्त्वरुतरवितानुचरणसंतोषणस्वर इत्युच्यते । असङ्गानावरणसर्वपर्षन्मण्डलाभिराधनस्वर इत्युच्यते । एकरुतात्सर्वरुतसंप्रापनस्वर इत्युच्यते । ब्रह्मेन्द्रपूजित इत्युच्यते । देवेन्द्रसत्कृत इत्युच्यते । नागेन्द्रनमस्कृत इत्युच्यते । यक्षेन्द्रावलोकितमुखमण्डल इत्युच्यते । गन्धर्वेन्द्रोपगीत इत्युच्यते । राक्षसेन्द्रप्रसन्नेन्द्रियानिनिमिषनयनसंप्रेक्षित इत्युच्यते । असुरेन्द्राभिप्रणत इत्युच्यते । गरुडेन्द्राविहिंसाप्रेक्षित इत्युच्यते । किन्नरेन्द्राभिष्टुत इत्युच्यते । महोरगेन्द्राभिलषितदर्शन इत्युच्यते । मनुजेन्द्राभिसंपूजित इत्युच्यते । अहर्गणसेवित इत्युच्यते । सर्वबोधिसत्त्वसमादायकसमुत्तेजकसंहप्रर्षक इत्युच्यते । निरामिषधर्मदेशक इत्युच्यते । अक्षुण्णपदव्यञ्जनावन्ध्यधर्मदेशक इत्युच्यते । कालानतिक्रमणधर्मदेशक इत्युच्यते । इदं तन्मैत्रेय धर्मचक्रप्रवर्तनं तथागतगुणवर्णप्रदेशस्य यत्किंचिदवतारमात्रं संक्षेपेण निर्देशितः विस्तरेण पुनमैत्रेय तथागतः कल्पं वा कल्पावशेषं वा निर्दिशेत् । न चास्य निर्दिश्यमानस्य पर्यन्तो भवेत् ॥ अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत् - गम्भीरं दुर्दृशं सूक्ष्मं धर्मचक्रं प्रवर्तितम् । यत्र मारा न गाहन्ते सर्वे च परतीर्थिकाः

rācakrāṅkitapādatala ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyadhārmikarakṣāparipālanatayā śaraṇāgatānāṃ cāparityāgatvādāyatapārṣṇirityucyate / dīrgharātraṃ prāṇātipātoparatatvāddīrghāṅgulītyucyate / dīrgharātraṃ prāṇātipātavairamaṇyaṃparasattvasamādāyanatvādbahujanatrātetyucyate / dīrgharātraṃ prāṇātipātavairamaṇyaṃguṇavarṇasaṃprakāśanatvānmṛdutaruṇahastapāda ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyopasthānaparicaryāsnānānulepanasarpitailābhyaṅgasvahastaśarīraparikarmaparikhedatvājjālāṅgulīhastapāda ityucyate / dīrgharātraṃ dānapriyavadyatārthakriyāsamānārthatāsaṃgrahavastujālena sattvasaṃgrahakauśalyaṃsuśikṣitatvāducchaṅgapāda ityucyate / dīrgharātramuttarottari viśiṣṭatarakuśalamūlādhyālambanatvādūrdhvāṅgadakṣiṇāvartaromakūpa ityucate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyatathāgatacaityapradakṣiṇīkaraṇadharmaśravaṇacitrīkāraromaharṣaṇaparasattvasaṃharṣaṇadharmadeśanāprayogatvādeṇeyajaṅgha ityucyate / dīrgharātraṃ satkṛtya dharmaśravaṇagrahaṇadhāraṇavācanavijñāpanārthapadaniścayanistīraṇakauśalyena jarāvyādhimaraṇābhimukhānāṃ ca sattvānāṃ śaraṇagamanānupradānasatkṛtyadharmadeśanāparibhavabuddhitvātkośopagatabastiguhya ityucyate / dīrgharātraṃ śramaṇabrāhmaṇānāṃ tadanyeṣāṃ ca brahmacāriṇāṃ brahmacaryānugrahasarvapariskārānupradānanagnabalānupradānaparadārāgamanabrahmacaryaguṇavarṇasaṃprakāśanahryapatrāpyānupālanadṛḍhasamādānatvātpralambabāhurityucyate / dīrgharātraṃ hastasaṃyatapādasaṃyatasattvāviheṭhanaprayogamaitrakāyakarmavākkarmamanaskarmasamanvāgatatvānnyagrodhaparimaṇḍala ityucyate / dīrgharātraṃ bhojanamātrāṃ jñātā alpāhāratodārasaṃyamaglānabhaiṣajyānupradānahīnajanāparibhavānāthānavamardanatathāgatacaityaviśīrṇapratisaṃskāraṇastūpapratiṣṭhāpanatvādbhayārditebhyaśca sattvebhyo 'bhayapradānatvānmṛdutaruṇasūkṣmacchavirityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ snānānulepanasarpistailābhyaṅgaśīte uṣṇodakamuṣṇe śītodakacchāyātapaṛtusukhaparibhogānupradānamṛdutaruṇatūlasaṃsparśasukumāravastrāstīrṇaśayanāsanānupradānatathāgatacaityagandhatailasekasūkṣmapaṭṭadhvajapatākāguṇapradānatvātsuvarṇacchavirityucyate / dīrgharātraṃ sarvasattvāpratighātamaitrībhāvanāyogakṣāntisauratyeparasattvasamādāpanāvairavyāpādaguṇavarṇasaṃprakāśanatayā tathāgatacaityatathāgatapratimānāṃ ca suvarṇakhacanasuvarṇapuṣpasuvarṇacūrṇābhikiraṇasuvarṇavarṇapaṭṭapatākādhvajālaṃkārasuvarṇabhājanasuvarṇavastrānupradānatvādekaikanicitaromakūpa ityucyate / dīrgharātraṃ paṇḍitopasaṃkramaṇakiṃkuśalākuśalaparipṛcchanasāvadyānavadyasevyahīnamadhyapraṇītadharmaparipṛcchanārthamīmāṃsanaparitulanāsaṃmohatathāgatacaityakīṭalūtālayāñjaliyānirmālyanānātṛṇaśarkarāsamuddharaṇasaṃprayogatvātsaptotsada ityucyate / (Vaidya 311) dīrgharātraṃ mātāpitṛjyeṣṭhaśreṣṭhapūjyaśramaṇabrāhmaṇakṛpaṇavanīpakādibhya upāgatebhyaḥ satkṛtya yathābhiprāyamannapānāsanavastrāpaśrayapradīpakalpitajīvikapariskārasaṃpradānakūpapuṣkariṇīśītajalaparīpūrṇamahājanopabhogānupradānatvātsiṃhapūrvārdhakāya ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyāvanamanapraṇamanābhivādanābhayapradānadurbalāparibhavaśaraṇāgatāparityāgadṛḍhasargadānānutsargatvāccitāntarāṃsa ityucyate / dīrgharātraṃ svadoṣaparitulanapraskhalitaparachidrādoṣadarśanavivādamūlaparabhedakaramantraparivarjanasupratinissargamantrasvārakṣitavākkarmāntatvātsusaṃvṛttaskandha ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ pratyutthānapratyudramanābhivādanakāmānāṃ ca sarvaśāstravaiśāradyena vivādakāmasattvanigrahasvadharmavinayānulomanasamyakpravṛttarājāmātyasamyakpravṛttakuśaladharmapathapratiṣṭhāpanaprabhāvanatathāgataśāsanaparigrahasaṃdhāraṇasarvakuśalacaryāsamādāpana pūrvaṃgamatvātsiṃhahanurityucyate / dīrgharātraṃ sarvavastuparityāgayathābhiprāyayācanakapriyābhidhānamupasaṃkrāntānāṃ cāvimānanājihmīkaraṇāvikṣepaṃ sarveṣāṃ yathābhiprāyaparipūraṇadānaparityāgadṛḍhasamādānānutsargatvāccatvāriṃśatsamadanta ityucyate / dīrgharātraṃ piśunavacanaparivarjanabhedamantrāgrahaṇasaṃdhisāmagrīrocanasamagrāṇāṃ cedācittena piśunavacanavigarhaṇasaṃdhisāmagrīguṇavarṇaprakāśanaprayogatvātsuśukladanta ityucyate / dīrgharātraṃ kṛṣṇapakṣaparivarjanaśuklapakṣakuśalopacayakṛṣṇakarmakṛṣṇavipākaparivarjanaśuklakarmaśuklavipākasaṃvarṇanakṣīrabhojanaśuklavastrapradānatathāgatacaityeṣu sudhākṛtakakṣīramiśrasaṃpradānasumanāvārṣikīdhānuskārimālāguṇapuṣpadāmaśuklavarṇakusumānupradānatvādaviraladanta ityucyate / dīrgharātraṃ hāsyoccaṭyanavivarjanānandakaraṇavāganurakṣaṇānandakaraṇavāgudīraṇaparaskhalitāparachidrāparimārgaṇasarvasattvasamacittasamādāpanasamaprayogasamadharmadeśanadṛḍhasamādānāparityāgatvādrasarasāgravānityucyate / dīrgharātraṃ sarvasattvāviheṭhanāvihiṃsanavividhavyādhispṛṣṭopasthānaglānabhaiṣajyānupradānatvātsarvarasārthikebhyaśca sarvarasapradānāparikhedatvādbahmasvara ityucyate / dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭukaparābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjanamaitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṃgamasarvendriyaprahlādakaraṇīsamyagvākyasamyakprayogatvādabhinīlanetra ityucyate / dīrgharātraṃ mātāpitṛvatsarvasattvāpratihatacakṣuprayogaikaputravadyācanakamaitrīkāruṇyapūrvaṃgamasaṃprekṣaṇājihmīkaraṇaprasannendriyatathāgatacaityānimiṣanayanasaṃprekṣaṇaparasattvatathāgatadarśanasamādāpanadṛḍhasamādānatvādgopekṣanetra ityucyate / dīrgharātraṃ hīnacetovivarjanodāravipulādhimuktiparipūraṇānuttaradharmachandasattvasamādāpanabhṛkuṭīmukhavivarjanasmitamukhasarvakalyāṇamitropasaṃkramaṇābhimukhapūrvaṃgamasarvakuśalopacayāvaivartikatvāprabhūtajihva ityucyate / dīrgharātraṃ sarvavāgdoṣavivarjanasarvaśrāvakapratyekabuddhadharmabhāṇakāpramāṇaguṇavarṇasaṃprakāśanatathāgatasūtrāntalikhanavācanapaṭhanavijñāpanaṃ teṣāṃ ca dharmāṇāmarthapadaprabhedaparasattvasaṃprāpaṇakauśalyatvāduṣṇīṣānavalokitamūrdha ityucyate / dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ mūrdhnāṃ caraṇatalapraṇipatanapravrajitavandanābhivādanakeśāvaropaṇasugandhatailamūrdhnipariṣiñcanaṃ sarvayācanakebhyaścūrṇamālyamālāguṇamūrdhābharaṇānupradānatvād (Vaidya 312) bhrūmadhye sujātapradakṣiṇāvartottaptaviśuddhavarṇābhāsorṇa ityucyate / dīrgharātraṃ nirargalasarvayajñayajanasamādapanasarvakalyāṇamitrānuśāsanyanuddharadharmabhāṇakānāṃ dautyaprekṣaṇe diggamanāgamanāparikhedanasarvabuddhabodhisattvaprattyekabuddhāryaśrāvakadharmabhāṇakamātāpitṛgurudakṣiṇīyatamondhakāravidhamanatailadhṛtatṛṇolkāpradīpanānāgandhatailapradīpasarvākāravaropetaprāsādikatathāgatapratimākāraṇakṣīrapratibhāsaratnottīrṇakośapratimaṇḍanaparasattvabodhacittāmukhīkaraṇakuśalasaṃbhāraviśeṣatvānmahāsthāmaprāpta ityucyate / mahānārāyaṇabalopetatvānmahānārāyaṇa ityucyate / koṭīśatamāradharṣaṇabalopetatvātsarvaparapramardaka ityucyate / daśatathāgatabalopetatvāddaśatathāgatabalopeta ityucyate / sthānāsthānajñānakuśalahīnaprādeśikayānavivarjanamahāyānaguṇasamudānayanabalopetātṛptabalaprayogatvātsthānajñānabalopeta ityucyate / atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvādatītānāgatapratyutpannasarvakarmasamādānahetuvipākajñānabalopeta ityucyate / sarvasattvendriyavīryavimātratājñānabalopetatvātsarvasattvendriyavīryavimātratājñānabalopeta ityucyate / anekadhātunānādhātulokapraveśajñānabalopetatvādanekadhātunānādhātulokapraveśajñānabalopeta ityucyate / anekādhimuktinānādhimuktiniravaśeṣādhimuktivimuktijñānabalopetatvādanekādhimuktinānādhimuktisarvaniravaśeṣādhimuktijñānabalopeta ityucyate / sarvatragāminīpratipajjñānabalopetatvātsarvatragāminīpratipajjñānabalopeta ityucyate / sarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyavasthāpanajñānabalopetatvāsarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyavasthāpanajñānabalopeta ityucyate / anekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopetatvādanekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopeta ityucyate / niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopetatvānniravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopeta ityucyate / sarvaṃvāsanānusaṃdhigataniravaśeṣasarvāśravakṣayajñānabalopetatvātsarvavāsanānusaṃdhigataniravaśeṣasarvāśravakṣayajñānabalopeta ityucyate / niravaśeṣasarvadharmābhisaṃbuddhapratijñārohaṇasadevalokānabhibhūtapratijñāvaiśāradyaprāptatvānniravaśeṣasarvadharmābhisaṃprabuddhatijñārohaṇasadevaloke 'nabhibhūtapratijñāvaiśāradyaprāpta ityucyate / sarvasāṃkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyetitatpratijñārohaṇasadevake loke 'nāchedyapratijñāvaiśāradyaprāptatvāsarvasāṃkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyeti tatpratijñārohaṇasadevake loke 'nāchedyapratijñāvaiśāradyaprāpta ityucyate / nairyāṇikīṃ pratipadaṃ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke 'praticodyapratijñāvaiśāradyaprāptatvānnairyāṇikīṃ pratipadaṃ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke 'praticodyapratijñāvaiśāradyaprāpta ityucyate / savāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke 'vivartyapratijñāvaiśāradyaprāptatvātsarvāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke 'vivartyapratijñāvaiśāradyaprāpta ityucyate / askhalitapadadharmadeśakatvādaskhalitapadadharmadeśaka ityucyate / arutānabhilāpyadharmasvabhāvānubuddhatvādarutānabhilāpyadharmasvabhāvānubuddha ityucyate / aviratatvādavirata ityucyate / sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamarthatvātsarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamartha ityucyate / (Vaidya 313) amuṣitasmṛtitvādamuṣitasmṛtirityucyate / nānātvasaṃjñāvigatatvānnānātvasaṃjñāvigata ityucyate / sarvacittasamāhitasumāhitasattvātsarvacittasamāhitasusamāhita ityucyate / apratisaṃkhyāsamupekṣakatvādapratisaṃkhyāsamupekṣaka ityucyate / chandasaṃskārasamādhyaparihīnatvācchandasaṃskārasamādhyaparihīna ityucyate / vīryasaṃskārasamādhyanāchedyāparihīnavīryatvādvīryasaṃskārasamādhyaparihīnavīrya ityucyate / smṛtyaparihīnatvādaparihīnasmṛtirityucyate / aparihīnaprajñatvādaparihīnaprajña ityucyate / vimuktyaparihīnatvādaparihīnavimuktirityucyate / vimuktijñānadarśanāprahīnatvādaparihīnavimuktijñānadarśana ityucyate / sarvakāyakarmavākkarmamanaskarmajñānapūrvaṃgamajñānānuparivartisamanvāgatatvātsarvakāyavāṅbhamanaskarmajñānapūrvaṃgamajñānānuparivartijñānasamanvāgata ityucyate / atītānāgatapratyutpanneṣvadhvasvasaṅgāpratihatajñānadarśanasamanvāgatatvāt tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate / anāvaraṇavimokṣapratilabdhatvādanāvaraṇavimokṣapratilabdha ityucyate / adhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthitatvodadhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthita ityucyate / yathāpratyarhadharmadeśanākuśalatvādyathāpratyarhadharmadeśanākuśala ityucyate / sarvasvarāṅgamaṇḍalaparamapāramitāprāptatvātsarvasvarāṅgamaṇḍalaparamapāramitāprāpta ityucyate / sarvarutapratirutaniścāraṇakauśalyaprāptatvāddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaruta ityucyate / brahmasvararutaravitanirghoṣa ityucyate / kalaviṅkarutasvara ityucyate / dundubhisaṃgītirutasvara ityucyate / dharaṇītalanirnādanirghoṣasvara ityucyate / sāgaranāgendrameghastanitagarjitaghoṣasvara ityucyate / siṃhavṛṣabhitābhigarjitanirghoṣasvara ityucyate / sarvasattvarutaravitānucaraṇasaṃtoṣaṇasvara ityucyate / asaṅgānāvaraṇasarvaparṣanmaṇḍalābhirādhanasvara ityucyate / ekarutātsarvarutasaṃprāpanasvara ityucyate / brahmendrapūjita ityucyate / devendrasatkṛta ityucyate / nāgendranamaskṛta ityucyate / yakṣendrāvalokitamukhamaṇḍala ityucyate / gandharvendropagīta ityucyate / rākṣasendraprasannendriyāninimiṣanayanasaṃprekṣita ityucyate / asurendrābhipraṇata ityucyate / garuḍendrāvihiṃsāprekṣita ityucyate / kinnarendrābhiṣṭuta ityucyate / mahoragendrābhilaṣitadarśana ityucyate / manujendrābhisaṃpūjita ityucyate / ahargaṇasevita ityucyate / sarvabodhisattvasamādāyakasamuttejakasaṃhaprarṣaka ityucyate / nirāmiṣadharmadeśaka ityucyate / akṣuṇṇapadavyañjanāvandhyadharmadeśaka ityucyate / kālānatikramaṇadharmadeśaka ityucyate / idaṃ tanmaitreya dharmacakrapravartanaṃ tathāgataguṇavarṇapradeśasya yatkiṃcidavatāramātraṃ saṃkṣepeṇa nirdeśitaḥ vistareṇa punamaitreya tathāgataḥ kalpaṃ vā kalpāvaśeṣaṃ vā nirdiśet / na cāsya nirdiśyamānasya paryanto bhavet // atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣat - gambhīraṃ durdṛśaṃ sūkṣmaṃ dharmacakraṃ pravartitam / yatra mārā na gāhante sarve ca paratīrthikāḥ

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Lal/26.52

Cite as: Lalitavistara 26.52, in HREEM (hreem.cc/library/Lal/26.52), after GRETIL, Lalitavistara Based on the ed.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu022_u.htm — Lalitavistara Based on the ed. by P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institu

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text