Library·Lalitavistara·26·26.7

Lalitavistara 26.7

Lal 26.7

तद्भविष्यसि गौतम इत्युक्त्वा स आजीवको दक्षिणामुखः प्राक्रामत् । तथागतो ऽप्युत्तरामुखः प्राक्रामत् ॥ इति हि भिक्षवस्तथागतो गयायां सुदर्शनेन नागराजेन निमन्त्रितो ऽभुत् वासेन भक्तेन च । ततस्तथागतो रोहितवस्तुमगमत्, तस्मादुरुबिल्वाकल्पं तस्मादणालमगमत्, ततः सारथिपुरम् । एषु च सर्वेषु भिक्षवस्तथागतो गृहपतिभिर्भक्तेन वासेन चोपनिमन्त्र्यमाणो ऽनुपूर्वेण गङ्गाया नद्यास्तीरमुपागमत् ॥ तेन खलु पुनर्भिक्षवः समयेन गङ्गा महानदी सुपरिपूर्णा समतीर्थका वहति स्म ॥ अथ खलु भिक्षवस्तथागतो नाविकसमीपमुपागमत्पारसंतरणाय । स प्राह - प्रयच्छ गौतम तरपण्यम् । न मे ऽस्ति मार्ष तरपण्यमित्युक्त्वा तथागतो विहायसा पथा तीरात्परं तीरमगमत् । ततः स नाविकस्तं दृष्ट्वातीव विप्रतिसार्यभूत् - एवंविधो दक्षिणीयो मया न तारित इति । हा कष्टमिति कृत्वा मूर्छितः पृथिव्यां पतितः । तत एनां प्रकृतिं नाविको राज्ञे बिम्बिसाराय आरोचयामास - श्रमणः स्वामि गौतमस्तरपण्यं याचमानो नास्ति तरपण्यमित्युक्त्वा विहायसा अतस्तीरात्परं तीरं गत इति । तच्छ्रुत्वा तदग्रेण राज्ञा बिम्बिसारेण सर्वप्रव्रजितानां तरपण्यमुत्सृष्टमभवत् ॥ इति हि भिक्षवस्तथागतो ऽनुपूर्वेण जनपदचर्यां चरन् येन वाराणसी महानगरी तेनोपसंक्रामत् । उपसंक्रम्य काल्यमेव निवास्य पात्रचीवरमादाय वाराणसीं महानगरीं पिण्डाय प्राविक्षत् । तस्यां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रप्रतिक्रान्तः येन ऋषिपतनो मृगदावो येन च पञ्चका भद्रवर्गीयास्तेनोपसंक्रामति स्म । अद्राक्षुः खलु पुनः पञ्चका भद्रवर्गीयास्तथागतं दूरत एवागच्छन्तम् । दृष्ट्वा च क्रियाबन्धमकार्षुः - एष स आयुष्मन्तः श्रमणो गौतम आगच्छति स्म शैथिलिको बाहुलिकः प्रधानविभ्रष्टः । अनेन खल्वपि तयापि तावत्पूर्विकया दुष्करचर्यया न शकितं किंचिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । किं पुनरेतर्हि औदारिकमाहारमाहरन् सुखल्लिकायोगमनुयुक्तो विहरन् । अभव्यः खल्वेष शैथिलिको बाहुलिकः । नास्य केनचित्प्रत्युद्गन्तव्यं न प्रत्युत्थातव्यम् । न पात्रचीवरं प्रतिग्रहीतव्यं नाशनं दातव्यं न पानीयं परिभोग्यं न पादप्रतिष्ठानं स्थापयित्वातिरिक्तान्यासनानि । वक्तव्यं च - (वैद्य २९८) संविद्यन्त इमान्यायुष्मन् गौतम अतिरिक्तान्यासनानि । सचेदाकाङ्क्षसि निषीदेति । आयुष्मांस्त्वाज्ञानकौण्डिन्यश्चित्तेनाधिवासयति स्म । वाचा च न प्रतिक्षिपति स्म । यथा यथा च भिक्षवस्तथागतो येन पञ्चका भद्रवर्गीयास्तेनोपसंक्रामति स्म, तथा तथा ते स्वकस्वकेष्वासनेषु न रमन्ते स्म, उत्थातुकामा अभूवन् । तद्यथापि नाम पक्षी शकुनिः पञ्जरगतः स्यात्, तस्य च पञ्जरगतस्याधो ऽग्निर्दग्धो भवेत् । सो ऽग्निसंतप्तस्त्वरितमूर्ध्वमुत्पतितुकामो भवेत् प्रत्रेतुकामश्च, एवमेव यथा यथा तथागतः पञ्चकानां भद्रवर्गीयाणां सकाशमुपसंक्रामति स्म, तथा तथा पञ्चका भद्रवर्गीयाः स्वकस्वकेष्वासनेषु न रमन्ते स्म, उत्थातुकामा अभूवन् । तत्कस्मात्? न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते यस्तथागतं दृष्ट्वा आसनान्न प्रत्युत्तिष्ठेत् । यथा यथा च तथागतः पञ्चकान् भद्रवर्गीयानुपसंक्रामति स्म, तथा तथा पञ्चका भद्रवर्गीयास्तथागतस्य श्रियं तेजश्चासहमाना आसनेभ्यः प्रकम्प्यमानाः सर्वे क्रियाकारं भित्त्वा चोत्थायासनेभ्यः, कश्चित्प्रत्युद्गच्छति स्म, कश्चित्प्रत्युद्गम्य पात्रचीवरं प्रतिगृह्णाति स्म । कश्चिदासनमुपनामयति स्म । कश्चित्पादप्रतिष्ठापनं कश्चित्पादप्रक्षालनोदकमुपस्थापयति स्म । एवं चावोचत् - स्वागतं ते आयुष्मन् गौतम, स्वागतं ते आयुष्मन् गौतम् । निषीदेदमासनं प्रज्ञप्तम् । न्यषीदत्खल्वपि भिक्षवस्तथागतः प्रज्ञप्त एवासने । पञ्चका पि भद्रवर्गीयास्ते तथागतेन सार्धं विविधां संमोदनीं संरञ्जनीं कथां कृत्वैकान्ते निषेदुः । एकान्ते निषण्णाश्च ते पञ्चका भद्रवर्गीयास्तथागतमेतदवोचन् - विप्रसन्नानि ते आयुष्मन् गौतमेन्द्रियाणि, परिशुद्धश्छविवर्ण इति हि सर्वं पूर्ववत् । तदस्ति ते आयुष्मन् गौतम कश्चिदुत्तरिमनुष्यधर्मांदलमार्यज्ञानदर्शनविशेषः साक्षात्कृतः? एवमुक्ते भिक्षवस्तथागतः पञ्चकान् भद्रवर्गीयानेवमाह - मा यूयं भिक्षवस्तथागतमायुष्मद्वादेन समुदाचरिष्ट । मा वो भूद्दीर्घरात्रमर्थाय हिताय सुखाय । अमृतं मया भिक्षवः साक्षात्कृतो ऽमृतगामी च मार्गः । बुद्धो ऽहमस्मि भिक्षवः सर्वज्ञः सर्वदर्शी शीतीभूतो ऽनाश्रवः । वशी सर्वधर्मेषु । धर्ममहं भिक्षवो देशयिष्यामि, आशु गच्छत शृणुत प्रतिपद्यध्वम् । श्रोतमवदधत अहमववदाम्यनुशास्मि । यथा मया सम्यगववदिताः सम्यगनुशिष्टा यूयमप्याश्रवाणां चेतोविमुक्तं प्रज्ञाविमुक्तिं च दृष्ट एव धर्मे साक्षात्कृत्वोपसंपद्य प्रवेदयिष्यथ - क्षीणा नो जातिरुषितं च ब्रह्मचर्यम्, कृतं करणीयम्, नापरमित्यतो ऽन्यद्भवं प्रजानाम इति । ननु च युष्माकं भिक्षव एतदभूत् - अयं खल्वायुष्मन्त आगच्छति श्रमणो गौतमः शैथिलिको बाहुलिकः प्रधानविभ्रष्ट इति पूर्ववत् । सचेदाकाङ्क्षसि निषीदेति । तेषां च एहि भिक्षव इत्युक्ते यत्किंचित्तीर्थिकलिङ्गं तीर्थिकध्वजः, सर्वो ऽसौ तत्क्षणमेवान्तरघात् । त्रिचीवरं पात्रं च प्रादुरभूत्, तदनु छिन्नाश्च केशाः । तद्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथः संवृत्तो ऽभुत् । सैव च तेषां प्रव्रज्याभूत्सैवोपसंपद्भिक्षुभावः ॥ अथ खलु भिक्षवस्तस्यां वेलायां पञ्चका भद्रवर्गीया भिक्षवस्तथागतस्य चरणयोर्निपत्यात्ययं देशयन्ति स्म । तथागतस्यान्तिके शास्तृसंज्ञां प्रेमं च प्रसादं च गौरवं चोत्पादयन्ति स्म । गौरवजाताश्च बहुविचित्रपुष्करिण्यां तथागतस्य स्नानपरिकर्म कुर्वन्ति स्म । स्नानप्रत्युत्तीर्णस्य (वैद्य २९९) च भिक्षवस्तथागतस्यैतदभवत् - कस्मिन् खलु पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्निषद्य धर्मचक्रं प्रवर्तितम्? यस्मिंश्च भिक्षवः पृथिवीप्रदेशे पूर्वकैस्तथागतैरर्हद्भिर्धर्मचक्रं प्रवर्तितमभूत्, अथ तस्मिन् पृथिवीप्रदेशे सप्तरत्नमयमासनसहस्रं प्रादुरभूत् ॥ अथ तथागतः पूर्वकाणां तथागतानां गौरवेण त्रीण्यासनानि प्रदक्षिणीकृत्य सिंह इव निर्भीश्चतुर्थ आसने पर्यङ्कमाभुज्य निषीदति स्म । पञ्चका अपि भिक्षवस्तथागतस्य पादौ शिरोभिरभिवन्द्य तथागतस्य पुरतो निषेदुः ॥ अथ खलु भिक्षवस्तस्यां वेलायां तथारूपां कायात्प्रभां तथागतः प्रामुञ्चद्यया प्रभया अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्महतावभासेन स्फुटो ऽभूत् । तेन चावभासेन या अपि लोकान्तरिका अघा अघस्फुटा अन्धकारतमिस्रा यत्रेमौ चन्द्रसूर्यौ एवंमहर्द्धिकावेवं महानुभावावेवं महेशाख्यौ आभया आभां वर्णेनं वर्णं तेजसा तेजो नाभितपतो नाभिविरोचतः । तत्र ये सत्त्वा उपपन्नास्ते स्वकस्वकमपि बाहुं प्रसारितं न पश्यन्ति स्म, तत्रापि तस्मिन् समये महत उदारस्यावभासस्य लोके प्रादुर्भावो ऽभुत् । ये च तत्र सत्त्वा उपपन्नास्ते तेनावभासेन परिस्फुटाः समाना अन्योन्यं पश्यन्ति स्म । अन्योन्यं संजानन्ते स्म । एवं चाहुः - अन्ये ऽपि किल भोः सत्त्वा इहोपपन्नाः, अन्ये ऽपि किल भोः सत्त्वा इहोपपन्नाः इति । अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमभूत् - अकम्पत् प्राकम्पत् संप्राकम्पत् । अवेधत् प्रावेधत् संप्रावेधत् । अचलत् प्राचलत् संप्राचलत् । अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत् । अरणत् प्रारणत् संप्रारणत् । अगर्जत् प्रागर्जत् संप्रागर्जत् । अन्ते ऽवनमति स्म, मध्ये उन्नमति स्म । मध्ये ऽवनमति स्म अन्ते उन्नमति स्म । पूर्वस्यां दिश्यवनमति स्म, पश्चिमायां दिश्युन्नमति स्म । पश्चिमायां दिश्यवनमति स्म, पूर्वस्यां दिश्युन्नमति स्म । दक्षिणस्यां दिश्यवनमति स्म, उत्तरस्यां दिश्युन्नमति स्म । उत्तरस्यां दिश्यवनमति स्म, दक्षिणस्यां दिश्युन्नमति स्म । तस्मिंश्च समये हर्षणीयास्तोषणीयाः प्रेमणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया निर्वर्णनीया अप्रतिवर्णनीया असेचनीया अप्रतिकूला अनुत्त्रासकराः शब्दाः श्रूयन्ते स्म । न च कस्यचित्सत्त्वस्य तस्मिन् क्षणे विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वाभूत् । न च भूयः सूर्यचन्द्रमसोर्न शक्रब्रह्मलोकपालानां तस्मिन् क्षणे प्रभाः प्रज्ञायन्ते स्म । सर्वनरकतिर्यग्योनियमलोकोपपन्नाश्च सत्त्वास्तस्मिन् क्षणे विगतदुःखा अभुवन् सर्वसुखसमर्पिताः । न च कस्यचित्सत्त्वस्य रागो बाधते स्म, द्वेषो वा मोहो वा ईर्ष्या वा मात्सर्यं वा मानो वा म्रक्षो वा मदो वा क्रोधो वा व्यापादो वा परिदाहो वा । सर्वसत्त्वास्तस्मिन् क्षणे मैत्रचित्ताः हितचित्ताः परस्परं मातापितृसंज्ञिनो ऽभूवन् । ततश्च प्रभाव्यूहादिमा गाथा निश्चरन्ति स्म - यो ऽसौ तुषितालयाच्च्युत्वा ओक्रान्तु मातुकुक्षौ हि । जातश्च लुम्बिनिवने प्रतिगृहीतः शचीपतिना

tadbhaviṣyasi gautama ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat / tathāgato 'pyuttarāmukhaḥ prākrāmat // iti hi bhikṣavastathāgato gayāyāṃ sudarśanena nāgarājena nimantrito 'bhut vāsena bhaktena ca / tatastathāgato rohitavastumagamat, tasmādurubilvākalpaṃ tasmādaṇālamagamat, tataḥ sārathipuram / eṣu ca sarveṣu bhikṣavastathāgato gṛhapatibhirbhaktena vāsena copanimantryamāṇo 'nupūrveṇa gaṅgāyā nadyāstīramupāgamat // tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma // atha khalu bhikṣavastathāgato nāvikasamīpamupāgamatpārasaṃtaraṇāya / sa prāha - prayaccha gautama tarapaṇyam / na me 'sti mārṣa tarapaṇyamityuktvā tathāgato vihāyasā pathā tīrātparaṃ tīramagamat / tataḥ sa nāvikastaṃ dṛṣṭvātīva vipratisāryabhūt - evaṃvidho dakṣiṇīyo mayā na tārita iti / hā kaṣṭamiti kṛtvā mūrchitaḥ pṛthivyāṃ patitaḥ / tata enāṃ prakṛtiṃ nāviko rājñe bimbisārāya ārocayāmāsa - śramaṇaḥ svāmi gautamastarapaṇyaṃ yācamāno nāsti tarapaṇyamityuktvā vihāyasā atastīrātparaṃ tīraṃ gata iti / tacchrutvā tadagreṇa rājñā bimbisāreṇa sarvapravrajitānāṃ tarapaṇyamutsṛṣṭamabhavat // iti hi bhikṣavastathāgato 'nupūrveṇa janapadacaryāṃ caran yena vārāṇasī mahānagarī tenopasaṃkrāmat / upasaṃkramya kālyameva nivāsya pātracīvaramādāya vārāṇasīṃ mahānagarīṃ piṇḍāya prāvikṣat / tasyāṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ yena ṛṣipatano mṛgadāvo yena ca pañcakā bhadravargīyāstenopasaṃkrāmati sma / adrākṣuḥ khalu punaḥ pañcakā bhadravargīyāstathāgataṃ dūrata evāgacchantam / dṛṣṭvā ca kriyābandhamakārṣuḥ - eṣa sa āyuṣmantaḥ śramaṇo gautama āgacchati sma śaithiliko bāhulikaḥ pradhānavibhraṣṭaḥ / anena khalvapi tayāpi tāvatpūrvikayā duṣkaracaryayā na śakitaṃ kiṃciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum / kiṃ punaretarhi audārikamāhāramāharan sukhallikāyogamanuyukto viharan / abhavyaḥ khalveṣa śaithiliko bāhulikaḥ / nāsya kenacitpratyudgantavyaṃ na pratyutthātavyam / na pātracīvaraṃ pratigrahītavyaṃ nāśanaṃ dātavyaṃ na pānīyaṃ paribhogyaṃ na pādapratiṣṭhānaṃ sthāpayitvātiriktānyāsanāni / vaktavyaṃ ca - (Vaidya 298) saṃvidyanta imānyāyuṣman gautama atiriktānyāsanāni / sacedākāṅkṣasi niṣīdeti / āyuṣmāṃstvājñānakauṇḍinyaścittenādhivāsayati sma / vācā ca na pratikṣipati sma / yathā yathā ca bhikṣavastathāgato yena pañcakā bhadravargīyāstenopasaṃkrāmati sma, tathā tathā te svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan / tadyathāpi nāma pakṣī śakuniḥ pañjaragataḥ syāt, tasya ca pañjaragatasyādho 'gnirdagdho bhavet / so 'gnisaṃtaptastvaritamūrdhvamutpatitukāmo bhavet pratretukāmaśca, evameva yathā yathā tathāgataḥ pañcakānāṃ bhadravargīyāṇāṃ sakāśamupasaṃkrāmati sma, tathā tathā pañcakā bhadravargīyāḥ svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan / tatkasmāt? na sa kaścitsattvaḥ sattvanikāye saṃvidyate yastathāgataṃ dṛṣṭvā āsanānna pratyuttiṣṭhet / yathā yathā ca tathāgataḥ pañcakān bhadravargīyānupasaṃkrāmati sma, tathā tathā pañcakā bhadravargīyāstathāgatasya śriyaṃ tejaścāsahamānā āsanebhyaḥ prakampyamānāḥ sarve kriyākāraṃ bhittvā cotthāyāsanebhyaḥ, kaścitpratyudgacchati sma, kaścitpratyudgamya pātracīvaraṃ pratigṛhṇāti sma / kaścidāsanamupanāmayati sma / kaścitpādapratiṣṭhāpanaṃ kaścitpādaprakṣālanodakamupasthāpayati sma / evaṃ cāvocat - svāgataṃ te āyuṣman gautama, svāgataṃ te āyuṣman gautam / niṣīdedamāsanaṃ prajñaptam / nyaṣīdatkhalvapi bhikṣavastathāgataḥ prajñapta evāsane / pañcakā pi bhadravargīyāste tathāgatena sārdhaṃ vividhāṃ saṃmodanīṃ saṃrañjanīṃ kathāṃ kṛtvaikānte niṣeduḥ / ekānte niṣaṇṇāśca te pañcakā bhadravargīyāstathāgatametadavocan - viprasannāni te āyuṣman gautamendriyāṇi, pariśuddhaśchavivarṇa iti hi sarvaṃ pūrvavat / tadasti te āyuṣman gautama kaściduttarimanuṣyadharmāṃdalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ? evamukte bhikṣavastathāgataḥ pañcakān bhadravargīyānevamāha - mā yūyaṃ bhikṣavastathāgatamāyuṣmadvādena samudācariṣṭa / mā vo bhūddīrgharātramarthāya hitāya sukhāya / amṛtaṃ mayā bhikṣavaḥ sākṣātkṛto 'mṛtagāmī ca mārgaḥ / buddho 'hamasmi bhikṣavaḥ sarvajñaḥ sarvadarśī śītībhūto 'nāśravaḥ / vaśī sarvadharmeṣu / dharmamahaṃ bhikṣavo deśayiṣyāmi, āśu gacchata śṛṇuta pratipadyadhvam / śrotamavadadhata ahamavavadāmyanuśāsmi / yathā mayā samyagavavaditāḥ samyaganuśiṣṭā yūyamapyāśravāṇāṃ cetovimuktaṃ prajñāvimuktiṃ ca dṛṣṭa eva dharme sākṣātkṛtvopasaṃpadya pravedayiṣyatha - kṣīṇā no jātiruṣitaṃ ca brahmacaryam, kṛtaṃ karaṇīyam, nāparamityato 'nyadbhavaṃ prajānāma iti / nanu ca yuṣmākaṃ bhikṣava etadabhūt - ayaṃ khalvāyuṣmanta āgacchati śramaṇo gautamaḥ śaithiliko bāhulikaḥ pradhānavibhraṣṭa iti pūrvavat / sacedākāṅkṣasi niṣīdeti / teṣāṃ ca ehi bhikṣava ityukte yatkiṃcittīrthikaliṅgaṃ tīrthikadhvajaḥ, sarvo 'sau tatkṣaṇamevāntaraghāt / tricīvaraṃ pātraṃ ca prādurabhūt, tadanu chinnāśca keśāḥ / tadyathāpi nāma varṣaśatopasaṃpannasya bhikṣorīryāpathaḥ saṃvṛtto 'bhut / saiva ca teṣāṃ pravrajyābhūtsaivopasaṃpadbhikṣubhāvaḥ // atha khalu bhikṣavastasyāṃ velāyāṃ pañcakā bhadravargīyā bhikṣavastathāgatasya caraṇayornipatyātyayaṃ deśayanti sma / tathāgatasyāntike śāstṛsaṃjñāṃ premaṃ ca prasādaṃ ca gauravaṃ cotpādayanti sma / gauravajātāśca bahuvicitrapuṣkariṇyāṃ tathāgatasya snānaparikarma kurvanti sma / snānapratyuttīrṇasya (Vaidya 299) ca bhikṣavastathāgatasyaitadabhavat - kasmin khalu pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairniṣadya dharmacakraṃ pravartitam? yasmiṃśca bhikṣavaḥ pṛthivīpradeśe pūrvakaistathāgatairarhadbhirdharmacakraṃ pravartitamabhūt, atha tasmin pṛthivīpradeśe saptaratnamayamāsanasahasraṃ prādurabhūt // atha tathāgataḥ pūrvakāṇāṃ tathāgatānāṃ gauraveṇa trīṇyāsanāni pradakṣiṇīkṛtya siṃha iva nirbhīścaturtha āsane paryaṅkamābhujya niṣīdati sma / pañcakā api bhikṣavastathāgatasya pādau śirobhirabhivandya tathāgatasya purato niṣeduḥ // atha khalu bhikṣavastasyāṃ velāyāṃ tathārūpāṃ kāyātprabhāṃ tathāgataḥ prāmuñcadyayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo 'bhūt / tena cāvabhāsena yā api lokāntarikā aghā aghasphuṭā andhakāratamisrā yatremau candrasūryau evaṃmaharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇenaṃ varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ / tatra ye sattvā upapannāste svakasvakamapi bāhuṃ prasāritaṃ na paśyanti sma, tatrāpi tasmin samaye mahata udārasyāvabhāsasya loke prādurbhāvo 'bhut / ye ca tatra sattvā upapannāste tenāvabhāsena parisphuṭāḥ samānā anyonyaṃ paśyanti sma / anyonyaṃ saṃjānante sma / evaṃ cāhuḥ - anye 'pi kila bhoḥ sattvā ihopapannāḥ, anye 'pi kila bhoḥ sattvā ihopapannāḥ iti / ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt - akampat prākampat saṃprākampat / avedhat prāvedhat saṃprāvedhat / acalat prācalat saṃprācalat / akṣubhyat prākṣubhyat saṃprākṣubhyat / araṇat prāraṇat saṃprāraṇat / agarjat prāgarjat saṃprāgarjat / ante 'vanamati sma, madhye unnamati sma / madhye 'vanamati sma ante unnamati sma / pūrvasyāṃ diśyavanamati sma, paścimāyāṃ diśyunnamati sma / paścimāyāṃ diśyavanamati sma, pūrvasyāṃ diśyunnamati sma / dakṣiṇasyāṃ diśyavanamati sma, uttarasyāṃ diśyunnamati sma / uttarasyāṃ diśyavanamati sma, dakṣiṇasyāṃ diśyunnamati sma / tasmiṃśca samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā aprativarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma / na ca kasyacitsattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt / na ca bhūyaḥ sūryacandramasorna śakrabrahmalokapālānāṃ tasmin kṣaṇe prabhāḥ prajñāyante sma / sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhuvan sarvasukhasamarpitāḥ / na ca kasyacitsattvasya rāgo bādhate sma, dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā / sarvasattvāstasmin kṣaṇe maitracittāḥ hitacittāḥ parasparaṃ mātāpitṛsaṃjñino 'bhūvan / tataśca prabhāvyūhādimā gāthā niścaranti sma - yo 'sau tuṣitālayāccyutvā okrāntu mātukukṣau hi / jātaśca lumbinivane pratigṛhītaḥ śacīpatinā

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Lal/26.7

Cite as: Lalitavistara 26.7, in HREEM (hreem.cc/library/Lal/26.7), after GRETIL, Lalitavistara Based on the ed.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu022_u.htm — Lalitavistara Based on the ed. by P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institu

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text