॥ किं कारणं बोधिसत्त्वो द्वीपविलोकितं विलोकयति स्म? न बोधिसत्त्वा प्रत्यन्तद्वीपा उपपद्यन्ते, न पुर्वविदेहे, नापरगोदानीये, न चोत्तरकुरौ । अथ तर्हि जम्बुद्वीप एवोपपद्यन्ते ॥ किं कारणं भिक्षवो बोधिसत्त्वो देशविलोकितं विलोकयति स्म? न बोधिसत्त्वाः प्रत्यन्तजनपदेषूपपद्यन्ते, येषु मनुष्या अन्धजात्या जडा एडमूकजातीया अभव्याः सुभाषितदुर्भाषितानामर्थं ज्ञातुम् । अथ तर्हि बोधिसत्त्वा मध्यमेष्वेव जनपदेषूपपद्यन्ते ॥ किं कारणं भिक्षवो बोधिसत्त्वः कुलविलोकितं विलोकयति स्म? न बोधिसत्त्वा हीनकुलेषूपपद्यन्ते चण्डालकुलेषु वा वेणुकारकुले वा रथकारकुले वा पुष्कसकुले वा । अथ तर्हि कुलद्वये एवोपपद्यन्ते ब्राह्मणकुले क्षत्रियकुले च । तत्र यदा ब्राह्मणगुरुको लोको भवति, तदा ब्राह्मणकुले उपपद्यन्ते । यदा क्षत्रियगुरुको लोको भवति, तदा क्षत्रियकुले उपपद्यन्ते । एतर्हि भिक्षवः क्षत्रियगुरुको लोकः । तस्माद्बोधिसत्त्वाः क्षत्रियकुले उपपद्यन्ते । तमर्थं च संप्रतीत्य बोधिसत्त्वस्तुषितवरभवनस्थश्चत्वारि महाविलोकितानि विलोकयति स्म ॥ एवं चावलोक्य तूष्णीमभूत् । इति हि भिक्षवस्ते देवपुत्राः बोधिसत्त्वस्यान्योन्यं परिपृच्छन्ति स्म - कतमस्मिन् कुलरत्ने कियद्रूपायां जनन्यां बोधिसत्त्वः प्रतिष्ठतेति । तत्र केचिदाहुः - इदं वैदेहीकुलं मगधेषु जनपदेषु ऋद्धं च स्फीतं च क्षेमं सुभिक्षं च । इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानम् । अपरे त्वाहुः - न तत्प्रतिरूपम् । तत्कस्मात्? तथा हि - तन्न (वैद्य १५) मातृशुद्धं पितृशुद्धं अप्लुतं चञ्चलमनवस्थितं परित्तपुण्याभिष्यन्दितं न विपुलपुण्याभिषिक्तं सत्कुलप्रदेशोपचारं नोद्यानसरस्तडागाकीर्णं कर्वटमिव प्रत्यन्तवासम् । तेन न तत्प्रतिरूपम् ॥ अपरे त्वाहुः - इदं पुनः कौशलकुलं महावाहनं च महापरिवारं च महाधनं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरे ऽप्याहुः - तदप्यप्रतिरूपम् । तत्कस्माद्धेतोः? तथा हि - कौशलकुलं मातङ्गच्युत्युपपन्नं न मातृपितृशुद्धम् । हीनाधिमुक्तिकं न च कुलोदितं न चापरिमितधनरत्ननिधिसमुत्थितम् । तेन न तत्प्रतिरूपम् ॥ अपरे त्वाहुः - इदं वंशराजकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च । इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानमिति । अपर एवमाहुः - इदमप्यप्रतिरूपम् । किं कारणम्? तथाहि - वंशराजकुलं प्राकृतं च चण्डं च न चोज्ज्वलिततेजसं परपुरुषजन्मावृतं च न मातृपितृस्वतेजः कर्माभिनिर्वृत्तं च । उच्छेदवादी च तत्र राजा । तेन तदप्यप्रतिरूपम् ॥ अपरे ऽप्याहुः - इयं वैशाली महानगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च रमणीया चाकीर्णबहुजनमनुष्या च वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता च पुष्पवाटिकावनराजिसंकुसुमिता च अमरभवनपुरप्राकाश्या । सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपर आहुः - साप्यप्रतिरूपा । किं कारणम्? तथा हि - तेषां नास्ति परस्परन्यायवादिता, नास्ति धर्माचरणम्, नोच्चमध्यवृद्धज्येष्ठानुपालिता । एकैक एव मन्यते - अहं राजा, अहं राजेति । न च कस्यचिच्छिष्यत्वमभ्युपगच्छति न धर्मत्वम् । तेन साप्यप्रतिरूपा ॥ अपरे त्वेवमाहुः - इदं प्रद्योतकुलं महाबलं च महावाहनं च परचमूशिरसि विजयलब्धं च । तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरे त्वेवमाहुः - तदप्यप्रतिरूपम् । किं कारणम्? तथा हि - ते चण्डाश्च चपलाश्च रौद्राश्च परुषाश्च साहसिकाश्च, न च कर्मदर्शिनः । तेन तदप्यप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ अपर एवमाहुः - इयं मथुरा नगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च । राज्ञः सुबाहोः कंसकुलस्य शूरसेनेश्वरस्य राजधानिः । सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरे त्वाहुः - साप्यप्रतिरूपा । किं कारणम्? तथाहि - स राजा मिथ्यादृष्टिकुलवंशप्रसूतो दस्युराजा । न युज्यते चरमभविकस्य बोधिसत्त्वस्य मिथ्यादृष्टिकुले उपपत्तुम् । तेन साप्यप्रतिरूपा ॥ अपरे ऽप्याहुः - अयं हस्तिनापुरे महानगरे राजा पाण्डवकुलवंशप्रसूतः शूरो वीर्यवान् वराङ्गरूपसंपन्नः परसैन्यप्रमर्दकानां तत्कुलं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अपरे ऽप्याहुः - तदप्यप्रतिरूपम् । किं कारणम्? तथा हि - पाण्डवकुलप्रसूतैः कुलवंशो ऽतिव्याकुलीकृतो (वैद्य १६) युधिष्ठिरो धर्मस्य पुत्र इति कथयति, भीमसेनो वायोः, अर्जुन इन्द्रस्य, नकुलसहदेवावश्विनोरिति । तेन तदपि कुलमप्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानायेति ॥ अपर आहुः - इयं मिथिला नगरी अतीव रमणीया मैथिलस्य राज्ञः सुमित्रस्य निवासभूमिः । स राजा प्रभूतहस्त्यश्वरथपदातिबलकायसमन्वितः प्रभूतहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतवित्तोपकरणः सर्वसामन्तराजाभीतबलपराक्रमो मित्रवान् धर्मवत्सलः । तत्कुलं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति । अन्य ऊचुः - तदप्यप्रतिरूपम् । अस्त्यसौ राजा सुमित्र एवंगुणयुक्तः, किं त्वतिवृद्धो न समर्थः प्रजामुत्पादयितुमतिबहुपुत्रश्च । तस्मात्तदपि कुलमप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति ॥ एवं भिक्षवस्ते बोधिसत्त्वा देवपुत्राश्च सर्वस्मिन् जम्बुद्वीपे षोडशजानपदेषु यानि कानिचिदुच्चोच्चानि राजकुलानि, तानि सर्वाणि व्यवलोकयन्तः(तानि) सर्वाणि सदोषाण्यद्राक्षुः । तेषां चिन्तामनस्कारप्रयुक्तानां ज्ञानकेतुध्वजो नाम देवपुत्रो ऽवैवर्तिको बोधाय कृतनिश्चयो ऽस्मिन्महायाने । स तां महतीं बोधिसत्त्वदेवपर्षदमेतदवोचत् - एतन्मार्षा एतमेव बोधिसत्त्वमुपसंक्रम्य परिप्रक्ष्यामः - कीदृग्गुणसंपन्ने कुले चरमभविको बोधिसत्त्वः प्रत्याजायत इति । साध्विति ते सर्वे कृताञ्जलिपुटा बोधिसत्त्वमुपसंक्रम्य पर्यप्राक्षुः - कीदृग्गुणसंपन्ने सत्पुरुषकुलरत्ने चरमभविको बोधिसत्त्वः प्रत्याजायत इति ॥ ततो बोधिसत्त्वस्तं महान्तं बोधिसत्त्वगणं देवगणं च व्यवलोक्य एतदवोचत् - चतुष्षष्ट्याकारैर्मार्षाः संपन्नकुलं भवति यत्र चरमभविको बोधिसत्त्वः प्रत्याजायते । कतमैश्चतुष्षष्ट्याकारैः? तद्यथा । अभिज्ञातं च तत्कुलं भवति । अक्षुद्रानुपघाति च तत्कुलं भवति । जातिसंपन्नं च तत्कुलं भवति । गोत्रसंपन्नं च तत्कुलं भवति । पूर्वपुरुषयुगसंपन्नं च तत्कुलं भवति । अभिजातपुरुषयुगसंपन्नं च तत्कुलं भवति । अभिलक्षितपुरुषयुगसंपन्नं च तत्कुलं भवति । महेशाख्यपुरुषयुगसंपन्नं च तत्कुलं भवति । बहुस्त्रीकं च तत्कुलं भवति । बहुपुरुषं च तत्कुलं भवति । अभीतं च तत्कुलं भवति । अदीनालीनं च तत्कुलं भवति । अलुब्धं च तत्कुलं भवति । शीलवच्च तत्कुलं भवति । प्रज्ञावच्च तत्कुलं भवति । अमात्यावेक्षितं च तत्कुलं भवति भोगान् परिभुनक्ति । अवन्ध्यशिल्पनिवेशनं च तत्कुलं भवति भोगान् परिभुनक्ति । दृढमित्रं च तत्कुलं भवति । तिर्यग्योनिगतप्राणानुपरोधकरं च तत्कुलं भवति । कृतज्ञं च कृतवेदितं च तत्कुलं भवति । अच्छन्दगामिनं च तत्कुलं भवति । अदोषगामिनं च तत्कुलं भवति । अमोहगामिनं च तत्कुलं भवति । अभयगामिनं च तत्कुलं भवति । अनवद्यभीरु च तत्कुलं भवति । अमोहविहारि च तत्कुलं भवति । स्थूलभिक्षं च तत्कुलं भवति । क्रियाधिमुक्तं च तत्कुलं भवति । त्यागाधिमुक्तं च तत्कुलं भवति । दानाधिमुक्तं च तत्कुलं भवति । परुषकारमति च तत्कुलं (वैद्य १७) भवति । दृढविक्रमं च तत्कुलं भवति । बलविक्रमं च तत्कुलं भवति । श्रेष्ठविक्रमं च तत्कुलं भवति । ऋषिपूजकं च तत्कुलं भवति । देवतापूजकं च तत्कुलं भवति । चैत्यपूजकं च तत्कुलं भवति । पूर्वप्रेतपूजकं च तत्कुलं भवति । अप्रतिबद्धवैरं च तत्कुलं भवति । दशदिग्विघुष्टशब्दं च तत्कुलं भवति । महापरिवारं च तत्कुलं भवति । अभेद्यपरिवारं च तत्कुलं भवति । अनुत्तरपरिवारं च तत्कुलं भवति । कुलज्येष्ठं च तत्कुलं भवति । कुलश्रेष्ठं च तत्कुलं भवति । कुलवशिताप्राप्तं च तत्कुलं भवति । महेशाख्यं च तत्कुलं भवति । मातृज्ञं च तत्कुलं भवति । पितृज्ञं च तत्कुलं भवति । श्रामण्यं च तत्कुलं भवति । ब्राह्मण्यं च तत्कुलं भवति । प्रभूतधनधान्यकोषकोष्ठागारं च तत्कुलं भवति । प्रभूतहिरण्यसुवर्णमणिमुक्ताजातरूपरजतवित्तोपकरणं च तत्कुलं भवति । प्रभूतहस्त्यश्वोष्ट्रगवेडकं च तत्कुलं भवति । प्रभूतदासीदासकर्मकरपौरुषेयं च तत्कुलं भवति । दुष्प्रधर्षं च तत्कुलं भवति । सर्वार्थसिद्धं च तत्कुलं भवति । चक्रवर्तिकुलं च तत्कुलं भवति । पूर्वकुशलमूलसहायोपचितं च तत्कुलं भवति । बोधिसत्त्वकुलकुलोदितं च तत्कुलं भवति । अनवद्यं च तत्कुलं भवति सर्वजातिवाददोषैः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम् । एभिर्मार्षाश्चतुष्षष्ट्याकारैः समन्वागतं च तत्कुलं भवति यस्मिंश्चरमः भविको बोधिसत्त्व उत्पद्यते ॥ द्वात्रिंशता मार्षा गुणाकारैः समन्वागता सा स्त्री भवति यस्याः स्त्रियाश्चरमभविको बोधिसत्त्वः कुक्षाववक्रामति । कतमैर्द्वात्रिंशता? यदुत अभिज्ञातायां स्त्रियां कुक्षौ चरमभविको बोधिसत्त्वो ऽवक्रामति । अभिलक्षिताया अच्छिद्रोपचाराया जातिसंपन्नायाः कुलसंपन्नाया रूपसंपन्नाया नामसंपन्नाया आरोहपरिणाहसंपन्नाया अप्रसूतायाः शीलसंपन्नायाः त्यागसंपन्नायाः स्मितमुखायाः प्रदक्षिणग्राहिण्या व्यक्ताया विनीताया विशारदाया बहुश्रुतायाः पण्डिताया अशठाया अमायाविन्या अक्रोधनाया अपगतेर्ष्याया अमत्सराया अचञ्चलाया अचपलाया अमुखरायाः क्षान्तिसौरभ्यसंपन्नाया ह्र्यपत्राप्यसंपन्नाया मन्दरागद्वेषमोहाया अपगतमातृग्रामदोषायाः पतिव्रतायाः सर्वाकारगुणसंपन्नायाः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वो ऽवक्रामति । एभिर्मार्षा द्वात्रिंशताकारैः समन्वागता सा स्त्री यस्याः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वो ऽवक्रामति ॥ न खलु पुनर्मार्षाः कृष्णपक्षे बोधिसत्त्वो मातुः कुक्षाववक्रामति, अपि तु शुक्लपक्षे । एवं पञ्चदश्यां पूर्णायां पूर्णिमायां पुष्यनक्षत्रयोगे पोषधपरिगृहीताया मातुः कुक्षौ चरमभविको बोधिसत्त्वो ऽवक्रामति ॥ अथ खलु ते बोधिसत्त्वास्ते च देवपुत्रा बोधिसत्त्वस्यान्तिकादिमामेवरूपां कुलपरिशुद्धिं मातृपरिशुद्धिं च श्रुत्वा चिन्तामनस्कारा अभूवन् । कतमं कुलं एवंगुणसमन्वागतं भवेद्यावद्विधमनेन सत्पुरुषेण निर्दिष्टम्? तेषां चिन्तामनस्कारप्रयुक्तानामेतदभूत् - इदं खल्वपि शाक्यकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं चाकीर्णबहुजनमनुष्यं च । राजा शुद्धोदनो मातृशुद्धः (वैद्य १८) पितृशुद्धः पत्नीशुद्धो ऽपरिकृष्टसंपन्नायाः स्वाकारसुविज्ञापकः पुण्यतेजस्तेजितो महासंमतकुले प्रसूतश्चक्रवर्तिवंशकुलकुलोदितो ऽपरिमितधननिधिरत्नसमन्वागतः कर्मदृक्च विगतपापदृष्टिकश्च । सर्वशाक्यविषये चैकराजा पूजितो मानितः श्रेष्ठिगृहपत्यमात्यपारिषद्यानां प्रासादिको दर्शनीयो नातिवृद्धो नातितरुणो ऽभिरूपः सर्वगुणोपेतः शिल्पज्ञः कालज्ञ आत्मज्ञो धर्मज्ञस्तत्त्वज्ञो लोकज्ञो लक्षणज्ञो धर्मराजो धर्मेणानुशास्ता अवरोपितकुशलमूलानां च सत्त्वानां कपिलवस्तुमहानिलयः । ये ऽपि तत्रोपपन्नास्ते ऽपि तत्स्वभावा एव । राज्ञश्च शुद्धोदनस्य माया नाम देवी सुप्रबुद्धस्य शाक्याधिपतेर्दुहिता नवतरुणी रूपयौवनसंपन्ना अप्रसूता अपगतपुत्रदुहितृका सुरूपा सलेख्यविचित्रेव दर्शनीया देवकन्येव सर्वालंकारभूषिता अपगतमातृग्रामदोषा सत्यवादिन्यकर्कशा अपरुषा अचपलानवद्या कोकिलस्वरा अप्रलापिनी मधुरप्रियवादिनी व्यपगताखिलक्रोधमदमानदर्पप्रतिघा अनीर्षुका कालवादिनी त्यागसंपन्ना शीलवती पतिसंतुष्टा पतिव्रता परपुरुषचिन्तामनस्कारापगता समसंहतशिरःकर्णनासा भ्रमवरसदृशकेशी सुललाटी सुभ्रूर्व्यपगतभ्रुकुटिका स्मितमुखी पूर्वाभिलापिनी श्लक्ष्णमधुरवचना प्रदक्षिणग्राहिणी ऋज्वी अकुटिला अशठा अमायाविनी ह्र्यपत्राप्यसंपन्ना अचपला अचञ्चला अमुखरा अविकीर्णवचना मन्दरागद्वेषमोहा क्षान्तिसौरभ्यसंपन्ना करचरणनयनस्वारक्षितबुद्धिः मृदुतरुणहस्तपादा काचिलिन्दिकसुखसंस्पर्शा नवनलिनेन्दीवरपत्रसुविशुद्धनयना रक्ततुङ्गनासा सुप्रतिष्ठिताङ्गी सेन्द्रायुधमिव यष्टिः सुविनीता सुविभक्ताङ्गप्रत्यङ्गा अनिन्दिताङ्गी बिम्बोष्ठी चारुदशना अनुपूर्वग्रीवा स्वलंकृता सुमना वार्षिकी सुविशुद्धदर्शना सुविनीतांसा अनुपूर्वसुजातबाहुश्चापोदरी अनुपहतपार्श्वा गम्भीरनाभिमण्डला वृत्तसुविस्तीर्णश्लक्ष्णकठिनकटिर्वज्रसंहननकल्पसदृशमात्रा गजभुजसमसमाहितसदृशोरू ऐणेयमृगसदृशजङ्घा लाक्षारससदृशपाणिपादा जगति नयनाभिरम्या अप्रतिहतचक्षुरिन्द्रिया मनापप्रियदर्शना स्त्रीरत्नरूपप्रतिविशिष्टा मायानिर्मितमिव बिम्बं मायानामसंकेता कलाविचक्षणा नन्दन इवाप्सरः - प्रकाशा शुद्धोदनस्य महाराजस्यान्तःपुरमध्यगता । सा प्रतिरूपा बोधिसत्त्वस्य जननी । या चेयं कुलपरिशुद्धिर्बोधिसत्त्वेनोदाहृता, सा शाक्यकुल एव संदृश्यते ॥ तत्रेदमुच्यते - प्रासादि धर्मोच्चयि शुद्धसत्त्वः सुधर्मसिंहासनि संनिषण्णः । सभागदेवैः परिवारितो ऋषिः संबोधिसत्त्वेभि महायशोभिः
// kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma? na bodhisattvā pratyantadvīpā upapadyante, na purvavidehe, nāparagodānīye, na cottarakurau / atha tarhi jambudvīpa evopapadyante // kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma? na bodhisattvāḥ pratyantajanapadeṣūpapadyante, yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum / atha tarhi bodhisattvā madhyameṣveva janapadeṣūpapadyante // kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma? na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā / atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca / tatra yadā brāhmaṇaguruko loko bhavati, tadā brāhmaṇakule upapadyante / yadā kṣatriyaguruko loko bhavati, tadā kṣatriyakule upapadyante / etarhi bhikṣavaḥ kṣatriyaguruko lokaḥ / tasmādbodhisattvāḥ kṣatriyakule upapadyante / tamarthaṃ ca saṃpratītya bodhisattvastuṣitavarabhavanasthaścatvāri mahāvilokitāni vilokayati sma // evaṃ cāvalokya tūṣṇīmabhūt / iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma - katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti / tatra kecidāhuḥ - idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca / idaṃ pratirūpamasya bodhisattvasya garbhasthānam / apare tvāhuḥ - na tatpratirūpam / tatkasmāt? tathā hi - tanna (Vaidya 15) mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam / tena na tatpratirūpam // apare tvāhuḥ - idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca / tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti / apare 'pyāhuḥ - tadapyapratirūpam / tatkasmāddhetoḥ? tathā hi - kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham / hīnādhimuktikaṃ na ca kuloditaṃ na cāparimitadhanaratnanidhisamutthitam / tena na tatpratirūpam // apare tvāhuḥ - idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca / idaṃ pratirūpamasya bodhisattvasya garbhasthānamiti / apara evamāhuḥ - idamapyapratirūpam / kiṃ kāraṇam? tathāhi - vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca / ucchedavādī ca tatra rājā / tena tadapyapratirūpam // apare 'pyāhuḥ - iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā / sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti / apara āhuḥ - sāpyapratirūpā / kiṃ kāraṇam? tathā hi - teṣāṃ nāsti parasparanyāyavāditā, nāsti dharmācaraṇam, noccamadhyavṛddhajyeṣṭhānupālitā / ekaika eva manyate - ahaṃ rājā, ahaṃ rājeti / na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam / tena sāpyapratirūpā // apare tvevamāhuḥ - idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca / tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti / apare tvevamāhuḥ - tadapyapratirūpam / kiṃ kāraṇam? tathā hi - te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca, na ca karmadarśinaḥ / tena tadapyapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti // apara evamāhuḥ - iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca / rājñaḥ subāhoḥ kaṃsakulasya śūraseneśvarasya rājadhāniḥ / sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti / apare tvāhuḥ - sāpyapratirūpā / kiṃ kāraṇam? tathāhi - sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā / na yujyate caramabhavikasya bodhisattvasya mithyādṛṣṭikule upapattum / tena sāpyapratirūpā // apare 'pyāhuḥ - ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasaṃpannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti / apare 'pyāhuḥ - tadapyapratirūpam / kiṃ kāraṇam? tathā hi - pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto (Vaidya 16) yudhiṣṭhiro dharmasya putra iti kathayati, bhīmaseno vāyoḥ, arjuna indrasya, nakulasahadevāvaśvinoriti / tena tadapi kulamapratirūpamasya bodhisattvasya garbhasaṃsthānāyeti // apara āhuḥ - iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ / sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ / tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti / anya ūcuḥ - tadapyapratirūpam / astyasau rājā sumitra evaṃguṇayuktaḥ, kiṃ tvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca / tasmāttadapi kulamapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti // evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni, tāni sarvāṇi vyavalokayantaḥ(tāni) sarvāṇi sadoṣāṇyadrākṣuḥ / teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne / sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat - etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ - kīdṛgguṇasaṃpanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti / sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ - kīdṛgguṇasaṃpanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti // tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat - catuṣṣaṣṭyākārairmārṣāḥ saṃpannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate / katamaiścatuṣṣaṣṭyākāraiḥ? tadyathā / abhijñātaṃ ca tatkulaṃ bhavati / akṣudrānupaghāti ca tatkulaṃ bhavati / jātisaṃpannaṃ ca tatkulaṃ bhavati / gotrasaṃpannaṃ ca tatkulaṃ bhavati / pūrvapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati / abhijātapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati / abhilakṣitapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati / maheśākhyapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati / bahustrīkaṃ ca tatkulaṃ bhavati / bahupuruṣaṃ ca tatkulaṃ bhavati / abhītaṃ ca tatkulaṃ bhavati / adīnālīnaṃ ca tatkulaṃ bhavati / alubdhaṃ ca tatkulaṃ bhavati / śīlavacca tatkulaṃ bhavati / prajñāvacca tatkulaṃ bhavati / amātyāvekṣitaṃ ca tatkulaṃ bhavati bhogān paribhunakti / avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti / dṛḍhamitraṃ ca tatkulaṃ bhavati / tiryagyonigataprāṇānuparodhakaraṃ ca tatkulaṃ bhavati / kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati / acchandagāminaṃ ca tatkulaṃ bhavati / adoṣagāminaṃ ca tatkulaṃ bhavati / amohagāminaṃ ca tatkulaṃ bhavati / abhayagāminaṃ ca tatkulaṃ bhavati / anavadyabhīru ca tatkulaṃ bhavati / amohavihāri ca tatkulaṃ bhavati / sthūlabhikṣaṃ ca tatkulaṃ bhavati / kriyādhimuktaṃ ca tatkulaṃ bhavati / tyāgādhimuktaṃ ca tatkulaṃ bhavati / dānādhimuktaṃ ca tatkulaṃ bhavati / paruṣakāramati ca tatkulaṃ (Vaidya 17) bhavati / dṛḍhavikramaṃ ca tatkulaṃ bhavati / balavikramaṃ ca tatkulaṃ bhavati / śreṣṭhavikramaṃ ca tatkulaṃ bhavati / ṛṣipūjakaṃ ca tatkulaṃ bhavati / devatāpūjakaṃ ca tatkulaṃ bhavati / caityapūjakaṃ ca tatkulaṃ bhavati / pūrvapretapūjakaṃ ca tatkulaṃ bhavati / apratibaddhavairaṃ ca tatkulaṃ bhavati / daśadigvighuṣṭaśabdaṃ ca tatkulaṃ bhavati / mahāparivāraṃ ca tatkulaṃ bhavati / abhedyaparivāraṃ ca tatkulaṃ bhavati / anuttaraparivāraṃ ca tatkulaṃ bhavati / kulajyeṣṭhaṃ ca tatkulaṃ bhavati / kulaśreṣṭhaṃ ca tatkulaṃ bhavati / kulavaśitāprāptaṃ ca tatkulaṃ bhavati / maheśākhyaṃ ca tatkulaṃ bhavati / mātṛjñaṃ ca tatkulaṃ bhavati / pitṛjñaṃ ca tatkulaṃ bhavati / śrāmaṇyaṃ ca tatkulaṃ bhavati / brāhmaṇyaṃ ca tatkulaṃ bhavati / prabhūtadhanadhānyakoṣakoṣṭhāgāraṃ ca tatkulaṃ bhavati / prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati / prabhūtahastyaśvoṣṭragaveḍakaṃ ca tatkulaṃ bhavati / prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca tatkulaṃ bhavati / duṣpradharṣaṃ ca tatkulaṃ bhavati / sarvārthasiddhaṃ ca tatkulaṃ bhavati / cakravartikulaṃ ca tatkulaṃ bhavati / pūrvakuśalamūlasahāyopacitaṃ ca tatkulaṃ bhavati / bodhisattvakulakuloditaṃ ca tatkulaṃ bhavati / anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām / ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate // dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati / katamairdvātriṃśatā? yaduta abhijñātāyāṃ striyāṃ kukṣau caramabhaviko bodhisattvo 'vakrāmati / abhilakṣitāyā acchidropacārāyā jātisaṃpannāyāḥ kulasaṃpannāyā rūpasaṃpannāyā nāmasaṃpannāyā ārohapariṇāhasaṃpannāyā aprasūtāyāḥ śīlasaṃpannāyāḥ tyāgasaṃpannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasaṃpannāyā hryapatrāpyasaṃpannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasaṃpannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati / ebhirmārṣā dvātriṃśatākāraiḥ samanvāgatā sā strī yasyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati // na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati, api tu śuklapakṣe / evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati // atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevarūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan / katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhavedyāvadvidhamanena satpuruṣeṇa nirdiṣṭam? teṣāṃ cintāmanaskāraprayuktānāmetadabhūt - idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca / rājā śuddhodano mātṛśuddhaḥ (Vaidya 18) pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasaṃpannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca / sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ / ye 'pi tatropapannāste 'pi tatsvabhāvā eva / rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasaṃpannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasaṃpannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramavarasadṛśakeśī sulalāṭī subhrūrvyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasaṃpannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasaṃpannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥ - prakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā / sā pratirūpā bodhisattvasya jananī / yā ceyaṃ kulapariśuddhirbodhisattvenodāhṛtā, sā śākyakula eva saṃdṛśyate // tatredamucyate - prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ / sabhāgadevaiḥ parivārito ṛṣiḥ saṃbodhisattvebhi mahāyaśobhiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.