Library·Lalitavistara·7

Lalitavistara 7

अथ खलु मायादेवी बोधिसत्त्वस्य जन्मकालसमयं ज्ञात्वा बोधिसत्त्वस्यैव तेजोनुभावेन रात्र्यां प्रथमे यामे राजानं शुद्धोदनमुपसंक्रम्य गाथाभिरभ्यभाषत - देव शृणु हि मह्यं भाषतो यं मतं मे अचिरचिरचिरेणा जात उद्यानबुद्धिः । यदि च तव न रोषो नैव दोषो न मोहः क्षिप्रमहु व्रजेया क्रीडौद्यानभूमिम्

atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejonubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata - deva śṛṇu hi mahyaṃ bhāṣato yaṃ mataṃ me aciraciracireṇā jāta udyānabuddhiḥ / yadi ca tava na roṣo naiva doṣo na mohaḥ kṣipramahu vrajeyā krīḍaudyānabhūmim

Sanskrit only: no published translation is held for this verse.

त्वमिह तपसि खिन्नो धर्मचित्तप्रयुक्तो अहु च चिरप्रविष्टा शुद्धसत्त्वं धरेन्ती । द्रुमवर प्रतिबुद्धाः फुल्लिता शालवृक्षाः युक्त भविय देवा गन्तुमुद्यानभूमिम्

tvamiha tapasi khinno dharmacittaprayukto ahu ca cirapraviṣṭā śuddhasattvaṃ dharentī / drumavara pratibuddhāḥ phullitā śālavṛkṣāḥ yukta bhaviya devā gantumudyānabhūmim

Sanskrit only: no published translation is held for this verse.

ऋतुप्रवर वसन्तो योषितां मण्डनीयो भ्रमरवरविघुष्टाः कोकिलबर्हिगीताः । शुचिरुचिरविचित्रा भ्राम्यते पुष्परेणुः साधु ददहि आज्ञां गच्छमो मा विलम्बः

ṛtupravara vasanto yoṣitāṃ maṇḍanīyo bhramaravaravighuṣṭāḥ kokilabarhigītāḥ / śuciruciravicitrā bhrāmyate puṣpareṇuḥ sādhu dadahi ājñāṃ gacchamo mā vilambaḥ

Sanskrit only: no published translation is held for this verse.

वचनमिमु श्रुणित्वा देविये पार्थिवेन्द्रः तुष्टो मुदितचित्तः पारिषद्यानवोचत् । हयगजरथं पङ्क्त्या वाहना योजयध्वं प्रवरगुणसमृद्धां लुम्बिनीं मण्डयध्वम्

vacanamimu śruṇitvā deviye pārthivendraḥ tuṣṭo muditacittaḥ pāriṣadyānavocat / hayagajarathaṃ paṅktyā vāhanā yojayadhvaṃ pravaraguṇasamṛddhāṃ lumbinīṃ maṇḍayadhvam

Sanskrit only: no published translation is held for this verse.

नीलगिरिनिकाशां मेघवर्णानुबद्धां विंशति च सहस्रान् योजयध्वं गजानाम् । मणिकनकविचित्रां हेमजालोपगूढां घण्टरुचिरपार्श्वान् षड्विषाणां गजेन्द्रान्

nīlagirinikāśāṃ meghavarṇānubaddhāṃ viṃśati ca sahasrān yojayadhvaṃ gajānām / maṇikanakavicitrāṃ hemajālopagūḍhāṃ ghaṇṭarucirapārśvān ṣaḍviṣāṇāṃ gajendrān

Sanskrit only: no published translation is held for this verse.

हिमरजतनिकाशां मुञ्जकेशां सुकेशां विंशति च सहस्रान् योजयध्वं हयानाम् । कनकरचितपार्श्वा किङ्किणीजाललम्बा पवनजवितवेगा वाहना पार्थिवस्य

himarajatanikāśāṃ muñjakeśāṃ sukeśāṃ viṃśati ca sahasrān yojayadhvaṃ hayānām / kanakaracitapārśvā kiṅkiṇījālalambā pavanajavitavegā vāhanā pārthivasya

Sanskrit only: no published translation is held for this verse.

नरगण रणशौण्डान् शूर संग्रामकामान् असिधनुशरशक्तिपाशखड्गाग्रहस्तान् । विंशति च सहस्रान् योजयध्वं सुशीघ्रं माय सपरिवारां रक्षथा अप्रमत्ता

naragaṇa raṇaśauṇḍān śūra saṃgrāmakāmān asidhanuśaraśaktipāśakhaḍgāgrahastān / viṃśati ca sahasrān yojayadhvaṃ suśīghraṃ māya saparivārāṃ rakṣathā apramattā

Sanskrit only: no published translation is held for this verse.

मणिकनकनिषिक्तां लुम्बिनीं कारयध्वं विविधवसनरत्नैः सर्ववृक्षां प्रवेथा । विविधकुसुमचित्रं नन्दनं वा सुराणां वदथ च मम शीघ्रं सर्वमेतं विधाय

maṇikanakaniṣiktāṃ lumbinīṃ kārayadhvaṃ vividhavasanaratnaiḥ sarvavṛkṣāṃ pravethā / vividhakusumacitraṃ nandanaṃ vā surāṇāṃ vadatha ca mama śīghraṃ sarvametaṃ vidhāya

Sanskrit only: no published translation is held for this verse.

वचनमिमु निशम्या पारिषद्यैः क्षणेन वाहन कृत सज्जा लुम्बिनी मण्डिता सा । पारिषद्य आह - जय जय हि नरेन्द्रा आयु पालेहि दीर्घं सर्व कृतु यथोक्तं कारु देव प्रतीक्ष

vacanamimu niśamyā pāriṣadyaiḥ kṣaṇena vāhana kṛta sajjā lumbinī maṇḍitā sā / pāriṣadya āha - jaya jaya hi narendrā āyu pālehi dīrghaṃ sarva kṛtu yathoktaṃ kāru deva pratīkṣa

Sanskrit only: no published translation is held for this verse.

सो च नरवरेन्द्रो हृष्टचित्तो भवित्वा गृहवरमनुविष्टो इष्टिकानेवमाह । यस्य अहु मनापो या च मे प्रीतिकामा सा मि कुरुत आज्ञां मण्डयित्वात्मभावम्

so ca naravarendro hṛṣṭacitto bhavitvā gṛhavaramanuviṣṭo iṣṭikānevamāha / yasya ahu manāpo yā ca me prītikāmā sā mi kuruta ājñāṃ maṇḍayitvātmabhāvam

Sanskrit only: no published translation is held for this verse.

वरसुरभिसुगन्धां भावरङ्गां विचित्रां वसन मृदुमनोज्ञां प्रावृणोथा उदग्राः । उरसि विगलितानां मुक्तहारा भवेथा आभरणविभूषां दर्शयेथाद्य सर्वाः

varasurabhisugandhāṃ bhāvaraṅgāṃ vicitrāṃ vasana mṛdumanojñāṃ prāvṛṇothā udagrāḥ / urasi vigalitānāṃ muktahārā bhavethā ābharaṇavibhūṣāṃ darśayethādya sarvāḥ

Sanskrit only: no published translation is held for this verse.

तुणपणवमृदङ्गां वीणवेणूमुकुण्डां तूर्यशतसहस्रान् योजयध्वं मनोज्ञां । भूय कुरुत हर्षं देवकन्यान यूयं श्रुत्व मधुरघोषं देवतापि स्पृहेयुः

tuṇapaṇavamṛdaṅgāṃ vīṇaveṇūmukuṇḍāṃ tūryaśatasahasrān yojayadhvaṃ manojñāṃ / bhūya kuruta harṣaṃ devakanyāna yūyaṃ śrutva madhuraghoṣaṃ devatāpi spṛheyuḥ

Sanskrit only: no published translation is held for this verse.

एकरथवरेस्मिं तिष्ठतां मायदेवी मा च पुरुष इस्त्री अन्य तत्रारुहेया । नारि विविधवर्मा तं रथं वाहयन्तां मा च प्रतिकूलं मा मनापं श्रुणेष्या

ekarathavaresmiṃ tiṣṭhatāṃ māyadevī mā ca puruṣa istrī anya tatrāruheyā / nāri vividhavarmā taṃ rathaṃ vāhayantāṃ mā ca pratikūlaṃ mā manāpaṃ śruṇeṣyā

Sanskrit only: no published translation is held for this verse.

हयगजरथपत्तीं सैन्यश्रीमद्विचित्रां द्वारि स्थित नृपस्या श्रूयते उच्चघोषाः । क्षुभितजलनिधिर्वा श्रूयते एव शब्दो * * * *

hayagajarathapattīṃ sainyaśrīmadvicitrāṃ dvāri sthita nṛpasyā śrūyate uccaghoṣāḥ / kṣubhitajalanidhirvā śrūyate eva śabdo * * * *

Sanskrit only: no published translation is held for this verse.

माय यद गृहातो निर्गता द्वारमूलं घण्ट शतसहस्रा ताडिता मङ्गलार्थम्

māya yada gṛhāto nirgatā dvāramūlaṃ ghaṇṭa śatasahasrā tāḍitā maṅgalārtham

Sanskrit only: no published translation is held for this verse.

सो च रथ विचित्रो मण्डितः पार्थिवेन अपि च मरुसहस्रैर्दिव्यसिंहासनेभिः । चतुरि रतनवृक्षा पत्रपुष्पोपपेता अभिनदितमनोज्ञां हंसक्रौञ्चान् मयूरान्

so ca ratha vicitro maṇḍitaḥ pārthivena api ca marusahasrairdivyasiṃhāsanebhiḥ / caturi ratanavṛkṣā patrapuṣpopapetā abhinaditamanojñāṃ haṃsakrauñcān mayūrān

Sanskrit only: no published translation is held for this verse.

छत्रध्वजपताकाश्चोच्छ्रिता वैजयन्त्यः किङ्किणिवरजालैश्छादितं दिव्यवस्त्रैः । मरुवधु गगनेस्मिं तं रथं प्रेक्षयन्ते दिव्यमधुरघोषं श्रावयन्त्यः स्तुवन्ति

chatradhvajapatākāścocchritā vaijayantyaḥ kiṅkiṇivarajālaiśchāditaṃ divyavastraiḥ / maruvadhu gaganesmiṃ taṃ rathaṃ prekṣayante divyamadhuraghoṣaṃ śrāvayantyaḥ stuvanti

Sanskrit only: no published translation is held for this verse.

उपविशति यदा सा माय सिंहासनाग्रे प्रचलित त्रिसहस्रा मेदिनी षड्विकारम् । पुष्प मरु क्षिपिंसू अम्बरां भ्रामयिंसू अद्य जगति श्रेष्ठो जायते लुम्बिनीये

upaviśati yadā sā māya siṃhāsanāgre pracalita trisahasrā medinī ṣaḍvikāram / puṣpa maru kṣipiṃsū ambarāṃ bhrāmayiṃsū adya jagati śreṣṭho jāyate lumbinīye

Sanskrit only: no published translation is held for this verse.

चतुरि जगतिपालास्तं रथं वाहयन्ते त्रिदशपतिरपीन्द्रो मार्गशुद्धिं करोति । ब्रह्म पुरतु गच्छी दुर्जनां वारयन्तो अमरशतसहस्राः प्राञ्जलीका नमन्ते

caturi jagatipālāstaṃ rathaṃ vāhayante tridaśapatirapīndro mārgaśuddhiṃ karoti / brahma puratu gacchī durjanāṃ vārayanto amaraśatasahasrāḥ prāñjalīkā namante

Sanskrit only: no published translation is held for this verse.

नृपति मुदितचित्तो वीक्षते तां वियूहां तस्य भवति एवं व्यक्त यं देवदेवो । यस्य चतुरि पाला ब्रह्म सेन्द्राश्च देवाः कुरुत विपुलपूजां व्यक्त यं शुद्धभावी

nṛpati muditacitto vīkṣate tāṃ viyūhāṃ tasya bhavati evaṃ vyakta yaṃ devadevo / yasya caturi pālā brahma sendrāśca devāḥ kuruta vipulapūjāṃ vyakta yaṃ śuddhabhāvī

Sanskrit only: no published translation is held for this verse.

नास्ति त्रिभवि सत्त्वो यः सहेत्पूजमेतां देव अथ च नागाः शक्र ब्रह्मा च पालाः । मूर्ध तद फलेया जीवितं चास्य नश्येत् अयु पुन अतिदेवः सर्वपूजां सहाति

nāsti tribhavi sattvo yaḥ sahetpūjametāṃ deva atha ca nāgāḥ śakra brahmā ca pālāḥ / mūrdha tada phaleyā jīvitaṃ cāsya naśyet ayu puna atidevaḥ sarvapūjāṃ sahāti

Sanskrit only: no published translation is held for this verse.

भगवानाह - न तेषामानन्द समाचारो भविष्यति । विषमसमुदाचाराः खलु पुनस्ते सत्त्वा भविष्यन्ति । ते तेन विषमेन समुदाचारेणवीचौ महानरके प्रपतिष्यन्ति । तत्कस्य हेतोः? ये केचिदानन्द भिक्षवो वा भिक्षुण्यो वा उपासको वा उपासिका वा इमानेवंरूपान् सूत्रान्तान् श्रुत्वा नाधिमोक्ष्यन्ति न श्रद्धास्यन्ति न प्रतिवेत्स्यन्ति, ते च्युताः समाना अवीचौ महानरके प्रपतिष्यन्ति । मा आनन्द तथागताप्रामाणिकं अकार्षुः । तत्कस्माद्धेतोः? अप्रमेयो ह्यानन्द तथागतो गम्भीरो विपुलो दुरवगाहः । येषां केषांचिदानन्द इमानेवंरूपान् सूत्रान्ताञ्छ्रुत्वोपपत्स्यते प्रीतिप्रामोद्यम्, प्रसादलाभास्तैः सत्त्वैः सुलब्धाः । अमोघं च तेषां जीवितम्, अमोघं च तेषां मानुष्यम्, सुचरितचरणाश्च ते, आदत्तं च तैः सारम्, मुक्ताश्च ते त्रिभ्यो ऽपायेभ्यः, भविष्यन्ति च ते पुत्रास्तथागतस्य, परिप्राप्तं च तैः सर्वकार्यम्, अमोघश्च तेषां श्रद्धाप्रतिलम्भः, सुविभक्त च तै राष्ट्रपिण्डम्, प्रसन्नाश्च ते ऽग्रसत्त्वैः, संछिन्नास्तैर्मारपाशाः, निस्तीर्णश्च तैः संसाराटवीकान्तारः, समुद्धृतश्च तैः शोकशल्यः, अनुप्राप्तं च तैः प्रामोद्यवस्तु, सुगृहीतानि च तैः शरणगमनानि, दक्षिणीयाश्च ते पूजार्हाः, दुर्लभप्रादुर्भावाश्च ते लोके, दक्षिणीयाश्च ते धारयितव्याः । तत्कस्य हेतोः? तथा हि - ते सर्वलोके इममेवं सर्वलोकविप्रत्यनीकं तथागतधर्मं श्रद्दधन्ति । न ते आनन्द सत्त्वा अवरकेण कुशलमूलेन समन्वागता भवन्ति । ते चानन्द सत्त्वा ममैकजातिप्रतिबद्धानि मित्राणि भविष्यन्ति । तत्कस्माद्धेतोः? कश्चिदानन्द श्रवणादेव प्रियो भवति मनापश्च न तु दर्शनेन । कश्चिदानन्द दर्शनेनापि प्रियो भवति मनापश्च न तु खलु पुनः श्रवणेन । कश्चिदानन्द दर्शनेनापि श्रवणेनापि प्रियो भवति मनापश्च । तेषां केषांचिदानन्द अहं दर्शनेन वा श्रवणेन वा प्रियो मनापो भवेयं निष्ठां त्वं तत्र गच्छेथाः - न तानि ममैकजातिप्रतिबद्धानि मित्राणि । दृष्टास्ते तथागतेन, मोचयितव्यास्ते तथागतेन, ते समगुणप्रत्यंशाः, ते तथागतगुणप्रत्यंशाः, ते तथागतेन कर्तव्या उपासकाः, ते तथागतं शरणं गताः, उपात्तास्ते तथागतेन । ममान्तिकात् खल्वप्यानन्द पूर्वं बोधिसत्त्वचर्यामेव तावच्चरतो ये केचिद्भयार्दिताः सत्त्वा आगत्य अभयं प्रतियाचन्ते स्म, तेभ्यो ऽहं सत्त्वेभ्यो ऽभयं दत्त्वान्, किमङ्ग पुनरेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । श्रद्धायामानन्द योगः करणीयः । इदं तथागतो विज्ञापयति । यदानन्द तथागतेन युष्माकं करणीयं कृतम्, तत्तथागतेन शोधितो मानशल्यः । श्रवणेनाप्यानन्द मित्रस्य ननु योजनशतान्तरमपि गच्छन्ति, गत्वा च सुखिता भवन्ति अदृष्टपूर्वं मित्रं दृष्ट्वा । कः पुनर्वादो ये मां निश्रित्य कुशलमूलान्यवरोपयन्ति । ज्ञास्यन्त्यानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः - पूर्व मित्राण्येते सत्त्वास्तथागतानाम्, अस्माकमप्येते मित्राणि भवन्तीति । तत्कस्मात् खलु पुनरानन्द मित्रं मित्रस्य प्रियं च मनापं च भवति? तस्यापि (तदपि) प्रियमेव भवति, मित्रस्य यत्प्रियं मित्रम्, तदपि प्रियमेव भवति मनापं च । तस्मात्तर्ह्यानन्द आरोचयामि च प्रतिवेदयामि च । श्रद्धामात्रकमुत्पादयथ । अनुपरिन्दिष्यामो (वैद्य ६६) वयमनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके, ते ऽस्माकमपि मित्राणीति विदित्वा यथाभिप्रायं परिपूरयिष्यन्ति । तद्यथापि नाम आनन्द कस्यचिदेव पुरुषस्यैकपुत्रको भवेत् सुवयाः प्रदक्षिणग्राही । स च पुरुषो बहुमित्रो भवेत् । स तस्मिन् पितरि कालगते न हि विहन्येत पितृमित्रसुपरिगृहीतः । एवभेव आनन्द ये केचिन्मम श्रद्धास्यन्ति तानहमुपाददामि । मित्राणीव मम तानि । (ते) मम शरणं गताः । बहुमित्रश्च तथागतः । तानि च तथागतस्य मित्राणि भूतवादीनि न मृषावादीनि । अनुपरिन्दाम्यहं भूतवादीनाम् । यानि तथागतस्य मित्राण्यनागतास्तथागता अर्हन्तः सम्यक्संबुद्धा । श्रद्धायामानन्द योगः करणीयः । अत्राहं युष्मान् विज्ञापयामीति ॥ इति हि जाते बोधिसत्त्वे गगनतलगतान्यप्सरःकोटिनयुतशतसहस्राणि दिव्यैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणैर्मायादेवीमभ्यवकिरन्ति स्म । तत्रेदमुच्यते - शुभविमलविशुद्धहेमप्रभा चन्द्रसूर्यप्रभा षष्टि दशसहस्र देवाप्सरा मञ्जुघोषस्वराः । तस्मि क्षणि उपेत्य तां लुम्बिनीं मायदेव्यब्रुवन् मा खु जनि विषादु तुष्टा भवोपस्थायिकाष्ते वयम्

bhagavānāha - na teṣāmānanda samācāro bhaviṣyati / viṣamasamudācārāḥ khalu punaste sattvā bhaviṣyanti / te tena viṣamena samudācāreṇavīcau mahānarake prapatiṣyanti / tatkasya hetoḥ? ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti, te cyutāḥ samānā avīcau mahānarake prapatiṣyanti / mā ānanda tathāgatāprāmāṇikaṃ akārṣuḥ / tatkasmāddhetoḥ? aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ / yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyam, prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ / amoghaṃ ca teṣāṃ jīvitam, amoghaṃ ca teṣāṃ mānuṣyam, sucaritacaraṇāśca te, ādattaṃ ca taiḥ sāram, muktāśca te tribhyo 'pāyebhyaḥ, bhaviṣyanti ca te putrāstathāgatasya, pariprāptaṃ ca taiḥ sarvakāryam, amoghaśca teṣāṃ śraddhāpratilambhaḥ, suvibhakta ca tai rāṣṭrapiṇḍam, prasannāśca te 'grasattvaiḥ, saṃchinnāstairmārapāśāḥ, nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ, samuddhṛtaśca taiḥ śokaśalyaḥ, anuprāptaṃ ca taiḥ prāmodyavastu, sugṛhītāni ca taiḥ śaraṇagamanāni, dakṣiṇīyāśca te pūjārhāḥ, durlabhaprādurbhāvāśca te loke, dakṣiṇīyāśca te dhārayitavyāḥ / tatkasya hetoḥ? tathā hi - te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti / na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti / te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti / tatkasmāddhetoḥ? kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena / kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena / kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca / teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ - na tāni mamaikajātipratibaddhāni mitrāṇi / dṛṣṭāste tathāgatena, mocayitavyāste tathāgatena, te samaguṇapratyaṃśāḥ, te tathāgataguṇapratyaṃśāḥ, te tathāgatena kartavyā upāsakāḥ, te tathāgataṃ śaraṇaṃ gatāḥ, upāttāste tathāgatena / mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma, tebhyo 'haṃ sattvebhyo 'bhayaṃ dattvān, kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / śraddhāyāmānanda yogaḥ karaṇīyaḥ / idaṃ tathāgato vijñāpayati / yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtam, tattathāgatena śodhito mānaśalyaḥ / śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti, gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā / kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti / jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ - pūrva mitrāṇyete sattvāstathāgatānām, asmākamapyete mitrāṇi bhavantīti / tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati? tasyāpi (tadapi) priyameva bhavati, mitrasya yatpriyaṃ mitram, tadapi priyameva bhavati manāpaṃ ca / tasmāttarhyānanda ārocayāmi ca prativedayāmi ca / śraddhāmātrakamutpādayatha / anuparindiṣyāmo (Vaidya 66) vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike, te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti / tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī / sa ca puruṣo bahumitro bhavet / sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ / evabheva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi / mitrāṇīva mama tāni / (te) mama śaraṇaṃ gatāḥ / bahumitraśca tathāgataḥ / tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni / anuparindāmyahaṃ bhūtavādīnām / yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhā / śraddhāyāmānanda yogaḥ karaṇīyaḥ / atrāhaṃ yuṣmān vijñāpayāmīti // iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇairmāyādevīmabhyavakiranti sma / tatredamucyate - śubhavimalaviśuddhahemaprabhā candrasūryaprabhā ṣaṣṭi daśasahasra devāpsarā mañjughoṣasvarāḥ / tasmi kṣaṇi upetya tāṃ lumbinīṃ māyadevyabruvan mā khu jani viṣādu tuṣṭā bhavopasthāyikāṣte vayam

Sanskrit only: no published translation is held for this verse.

भणहि किं करणीयु किं कुर्महे केन कार्यं च ते वयं तव सुसमर्थोपस्थायिका प्रेमभावस्थिताः । अपि च भव उदग्र हर्षान्विता मा च खेदं जनेहि जरामरणविघाति वैद्योत्तमं अद्य देवी जनेषी लघुम्

bhaṇahi kiṃ karaṇīyu kiṃ kurmahe kena kāryaṃ ca te vayaṃ tava susamarthopasthāyikā premabhāvasthitāḥ / api ca bhava udagra harṣānvitā mā ca khedaṃ janehi jarāmaraṇavighāti vaidyottamaṃ adya devī janeṣī laghum

Sanskrit only: no published translation is held for this verse.

यथ द्रुम परिफुल्ल संपुष्पिता शालवृक्षा इमे यथ च मरुसहस्र पार्श्वे स्थिता भ्रामयन्तो भुजान् । यथ च चलि ससागरा मेदिनी षड्विकारा इयं दिवि दिवि च विघुष्ट लोकोत्तरं त्वं जनेषी सुतम्

yatha druma pariphulla saṃpuṣpitā śālavṛkṣā ime yatha ca marusahasra pārśve sthitā bhrāmayanto bhujān / yatha ca cali sasāgarā medinī ṣaḍvikārā iyaṃ divi divi ca vighuṣṭa lokottaraṃ tvaṃ janeṣī sutam

Sanskrit only: no published translation is held for this verse.

यथ च प्रभ विशुद्ध विभ्राजते स्वर्णवर्ण शुभा तूर्यशत मनोज्ञा चाघट्टिता घुष्ययन्ते ऽम्बरे । यथ च शतसहस्र शुद्धा शुभा वीतरागाः सुरा नमिषु मुदितचित्ता अद्यो जने सर्वलोके हितम्

yatha ca prabha viśuddha vibhrājate svarṇavarṇa śubhā tūryaśata manojñā cāghaṭṭitā ghuṣyayante 'mbare / yatha ca śatasahasra śuddhā śubhā vītarāgāḥ surā namiṣu muditacittā adyo jane sarvaloke hitam

Sanskrit only: no published translation is held for this verse.

शक्रमपि च ब्रह्मपालापि चान्या च या देवता तुष्टमुदितचित्ता पार्श्वे स्थिता नामयन्तो भुजाम् । सो च पुरुषसिंह शुद्धव्रतो (भित्त्व) कुक्षिनिर्धावितो कनकगिरिनिकाश शुद्धव्रतो निष्क्रमी नायकः

śakramapi ca brahmapālāpi cānyā ca yā devatā tuṣṭamuditacittā pārśve sthitā nāmayanto bhujām / so ca puruṣasiṃha śuddhavrato (bhittva) kukṣinirdhāvito kanakagirinikāśa śuddhavrato niṣkramī nāyakaḥ

Sanskrit only: no published translation is held for this verse.

शक्रमपि च ब्रह्म तौ पाणिभिः संप्रतीच्छा मुनिं क्षेत्र शतसहस्र संकम्पिता आभ मुक्ता शुभा । अपि च त्रिषु अपायि सत्त्वा सुखी नास्ति दुःखं पुन अमरशतसहस्र पुष्पां क्षिपी भ्रामयन्त्यम्बरान्

śakramapi ca brahma tau pāṇibhiḥ saṃpratīcchā muniṃ kṣetra śatasahasra saṃkampitā ābha muktā śubhā / api ca triṣu apāyi sattvā sukhī nāsti duḥkhaṃ puna amaraśatasahasra puṣpāṃ kṣipī bhrāmayantyambarān

Sanskrit only: no published translation is held for this verse.

वीर्यबलौपेत वज्रात्मिका मेदिनी संस्थिता (ऽभुत्तदा) पद्मु रुचिरचित्रु अभ्युद्गतो यत्र (चक्राङ्गचित्रेभिः) पद्भ्यां स्थितो (ऽपि) नायकः । सप्त पद क्रमित्व ब्रह्मस्वरो मुञ्चि घोषोत्तमं जरमरणविघाति वैद्योत्तमो भेष्यि सत्त्वोत्तमः

vīryabalaupeta vajrātmikā medinī saṃsthitā ('bhuttadā) padmu ruciracitru abhyudgato yatra (cakrāṅgacitrebhiḥ) padbhyāṃ sthito ('pi) nāyakaḥ / sapta pada kramitva brahmasvaro muñci ghoṣottamaṃ jaramaraṇavighāti vaidyottamo bheṣyi sattvottamaḥ

Sanskrit only: no published translation is held for this verse.

गगनतल स्थिहित्व ब्रह्मोत्तमो शक्रदेवोत्तमः शुचिरुचिरप्रसन्नगन्धोदकैर्विस्नपी नायकम् । अपि च उरगराजा शीतोष्ण द्वे वारिधारे शुभे (व्यमुञ्चतान्तरीक्षे स्थिताः) अमर शतसहस्र गन्धोदकैर्विस्नपी नायकम्

gaganatala sthihitva brahmottamo śakradevottamaḥ śuciruciraprasannagandhodakairvisnapī nāyakam / api ca uragarājā śītoṣṇa dve vāridhāre śubhe (vyamuñcatāntarīkṣe sthitāḥ) amara śatasahasra gandhodakairvisnapī nāyakam

Sanskrit only: no published translation is held for this verse.

लोकपालाश्च संभ्रान्त संधारयन्ती करैः शोभनैः । त्रिसहस्रा इयं भूमिः कम्पते सचराचरा

lokapālāśca saṃbhrānta saṃdhārayantī karaiḥ śobhanaiḥ / trisahasrā iyaṃ bhūmiḥ kampate sacarācarā

Sanskrit only: no published translation is held for this verse.

प्रभा च रुचिरा मुक्ता अपायाश्च विशोधिताः । क्लेशदुःखाश्च ते शान्ता जाते लोकविनायके

prabhā ca rucirā muktā apāyāśca viśodhitāḥ / kleśaduḥkhāśca te śāntā jāte lokavināyake

Sanskrit only: no published translation is held for this verse.

क्षिपन्ति मरुतः पुष्पं जाते ऽस्मिन्नरनायके । क्रम सप्त पदां वीरः क्रमते बलवीर्यवान्

kṣipanti marutaḥ puṣpaṃ jāte 'sminnaranāyake / krama sapta padāṃ vīraḥ kramate balavīryavān

Sanskrit only: no published translation is held for this verse.

पादौ निक्षिपते यत्र भूमौ पद्मवराः शुभाः । अभ्युद्गच्छंस्ततो मह्यां सर्वरत्नविभूषिताः

pādau nikṣipate yatra bhūmau padmavarāḥ śubhāḥ / abhyudgacchaṃstato mahyāṃ sarvaratnavibhūṣitāḥ

Sanskrit only: no published translation is held for this verse.

यदा सप्त पदां गत्वा ब्रह्मस्वरमुदाहरि । जरामरणविघाति भिषग्वर इवोद्गतः

yadā sapta padāṃ gatvā brahmasvaramudāhari / jarāmaraṇavighāti bhiṣagvara ivodgataḥ

Sanskrit only: no published translation is held for this verse.

व्यवलोकयित्वा च विशारदो दिशः ततो गिरां मुञ्चति अर्थयुक्ताम् । ज्येष्ठो ऽहं सर्वलोकस्य श्रष्ठो (लोके विनायकः) इयं च जातिर्मम पश्चिमा (इति)

vyavalokayitvā ca viśārado diśaḥ tato girāṃ muñcati arthayuktām / jyeṣṭho 'haṃ sarvalokasya śraṣṭho (loke vināyakaḥ) iyaṃ ca jātirmama paścimā (iti)

Sanskrit only: no published translation is held for this verse.

हास्यं च मुक्तं नरनायकेन सलोकपालैर्मरुभिश्च सेन्द्रैः । प्रसन्नचित्तैर्वरगन्धवारिभिः संस्कारितो लोकहितार्थकारी

hāsyaṃ ca muktaṃ naranāyakena salokapālairmarubhiśca sendraiḥ / prasannacittairvaragandhavāribhiḥ saṃskārito lokahitārthakārī

Sanskrit only: no published translation is held for this verse.

अपि चोरगेन्द्रैः सहितैः समग्रैः गन्धोग्रधाराविसरैः स्नपिंसु । अन्ये ऽपि देवा नयुता (स्थिताः) ऽन्तरीक्षे स्नपिंसु गन्धाग्रजिने स्वयंभुम्

api coragendraiḥ sahitaiḥ samagraiḥ gandhogradhārāvisaraiḥ snapiṃsu / anye 'pi devā nayutā (sthitāḥ) 'ntarīkṣe snapiṃsu gandhāgrajine svayaṃbhum

Sanskrit only: no published translation is held for this verse.

श्वेतं च विपुलं छत्रं चामरांश्च शुभाम्बरान् । अन्तरीक्षे गता देवाः स्नापयन्ति नरर्षभम्

śvetaṃ ca vipulaṃ chatraṃ cāmarāṃśca śubhāmbarān / antarīkṣe gatā devāḥ snāpayanti nararṣabham

Sanskrit only: no published translation is held for this verse.

पञ्चकुलिकशतानि प्रसूयन्ते स्म । पुरुष त्वरितु गत्व शुद्धोदनमब्रवीत् हर्षितो वृद्धि विपुल जातु देवा सुतो भूषितो लक्षणैः । महकुलरतनस्य (वृद्धिभूता) व्यक्तो असौ चक्रवर्तीश्वरः न च भवि प्रतिशत्रु जम्बुध्वजे एकछत्रो भवेत्

pañcakulikaśatāni prasūyante sma / puruṣa tvaritu gatva śuddhodanamabravīt harṣito vṛddhi vipula jātu devā suto bhūṣito lakṣaṇaiḥ / mahakularatanasya (vṛddhibhūtā) vyakto asau cakravartīśvaraḥ na ca bhavi pratiśatru jambudhvaje ekachatro bhavet

Sanskrit only: no published translation is held for this verse.

द्वितियु पुरुषु गत्व (राज्ञि) शुद्धोदने श्लेषयित्वा क्रमे वृद्धि विपुल देव जाता नृपे शाकियानां कुले । पञ्चविंशतिसहस्र जाताः सुताः शाकियानां गृहे सर्वि बलौपेत नग्नाः समा दुष्प्रधर्षा परैः

dvitiyu puruṣu gatva (rājñi) śuddhodane śleṣayitvā krame vṛddhi vipula deva jātā nṛpe śākiyānāṃ kule / pañcaviṃśatisahasra jātāḥ sutāḥ śākiyānāṃ gṛhe sarvi balaupeta nagnāḥ samā duṣpradharṣā paraiḥ

Sanskrit only: no published translation is held for this verse.

अपरु पुरुष आह देवा श्रुणा नन्दशब्दं ममा छन्दकप्रमुखानि चेटीसुता जात अष्टौ शता । अपि च दशसहस्र जाता हयाः कण्ठकस्य सखा तुरगवरप्रधान हेमप्रभा मञ्जुकेशा वराः

aparu puruṣa āha devā śruṇā nandaśabdaṃ mamā chandakapramukhāni ceṭīsutā jāta aṣṭau śatā / api ca daśasahasra jātā hayāḥ kaṇṭhakasya sakhā turagavarapradhāna hemaprabhā mañjukeśā varāḥ

Sanskrit only: no published translation is held for this verse.

विंशति च सहस्र पर्यन्तकाः कोट्टराजास्तथा नृपति क्रमतलेभि चान्वाक्रमी साधु देवा जया । आज्ञा खलु ददाहि गच्छाम किं वा करोमो नृपा त्वमिह वशितु प्राप्तु भृत्या वयं भट्ट देवा जया

viṃśati ca sahasra paryantakāḥ koṭṭarājāstathā nṛpati kramatalebhi cānvākramī sādhu devā jayā / ājñā khalu dadāhi gacchāma kiṃ vā karomo nṛpā tvamiha vaśitu prāptu bhṛtyā vayaṃ bhaṭṭa devā jayā

Sanskrit only: no published translation is held for this verse.

विंशति च सहस्र नागोत्तमा हेमजालोज्ज्वला त्वरितमुपगमिंसु राज्ञो गृहं गर्जमाना नभे । कृष्णशबल वत्स गोपामुखा जात षष्टिशता इयमपि सुति देवदेवोत्तमे वृद्धि राज्ञो गृहे

viṃśati ca sahasra nāgottamā hemajālojjvalā tvaritamupagamiṃsu rājño gṛhaṃ garjamānā nabhe / kṛṣṇaśabala vatsa gopāmukhā jāta ṣaṣṭiśatā iyamapi suti devadevottame vṛddhi rājño gṛhe

Sanskrit only: no published translation is held for this verse.

अपि च नृपति गच्छ प्रेक्ष स्वयं सर्वमेव प्रभो (पुण्यतेज प्रभो) नरमरुतसहस्र ये हर्षिता दृष्ट्व जाते गुणां । बोधिवर अशोक संप्रस्थिताः क्षिप्र भोमा जिनाः

api ca nṛpati gaccha prekṣa svayaṃ sarvameva prabho (puṇyateja prabho) naramarutasahasra ye harṣitā dṛṣṭva jāte guṇāṃ / bodhivara aśoka saṃprasthitāḥ kṣipra bhomā jināḥ

Sanskrit only: no published translation is held for this verse.

इति ॥ इति हि भिक्षवो जाते बोधिसत्त्वे तत्क्षणं दाननिसर्गः पुनरुत्तरि प्रवर्तते स्म । पञ्च च कुलिकाशतानि प्रसूयन्ते स्म, दश च कन्यासहस्राणि यशोवतीप्रमुखानि । अष्टौ दासीशतानि अष्टौ दासशतानि छन्दकप्रमुखानि । दश वडवासहस्राणि दश किशोरसहस्राणि कण्ठकप्रमुखानि । पञ्च करेणुसहस्राणि पञ्च पिङ्गसहस्राणि प्रसूयन्ते स्म । तानि सर्वाणि राज्ञा शुद्धोदनेन पुस्तवरोपितानि कुमारस्य क्रीडार्थं दत्तान्यभूवन् ॥ चतुर्णां च द्वीपकोटीशतसहस्राणां मध्ये पृथिवीप्रदेशे अश्वत्थयष्टिः प्रादुरभूदन्तर्द्वीपे च चन्दनवनं प्रादुर्बभूव बोधिसत्त्वस्य परिभोगार्थं बोधिसत्त्वस्यैवानुभावेन । पञ्च चोद्यानशतानि समन्तान्नगरस्य प्रादुर्बभूवुर्बोधिसत्त्वस्य परिभोगाय । पञ्च च निधानसहस्राणि धरणीतलादुत्प्लुत्य मुखं दर्शयन्ति स्म । इति हि ये केचिद्राज्ञः शुद्धोदनस्यार्थाभिप्रेता अभूवन्, ते सर्वे समृद्धाभिप्रेता अभूवन् संसिद्धाः ॥ ततो राज्ञः शुद्धोदनस्यैतदभूत् - किमहं कुमारस्य नामधेयं करिष्यामीति । ततो ऽस्यैतदभूत् - अस्य हि जातमात्रेण मम सर्वार्थाः संसिद्धाः । यन्न्वहमस्य सर्वार्थसिद्ध इति नाम कुर्याम् । ततो राजा बोधिसत्त्वं महता सत्कारेण सत्कृत्य सर्वार्थसिद्धो ऽयं कुमारो नाम्ना भवतु इति नामास्याकार्षीत् ॥ इति हि भिक्षवो जाते बोधिसत्त्वे मातुः कुक्षिपार्श्वमक्षतमनुपहतमभवद्यथा पूर्वं तथा पश्चात् । त्रितविष्यन्दाम्बुकूपाः प्रादुरभूवन् अपि च सुगन्धतैलपुष्करिण्यः । पञ्चाप्सरः - सहस्राणि दिव्यगन्धपरिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यगन्धोदकपरिपूर्णघटापरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पच्चाप्सरःसहस्राणि दिव्यानुलेपनपरिगृहीतनि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यदारकाचीवरपरिगृहीतानि बोधिसत्वमातरमुपसंक्रम्य सुजारजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरः - सहस्राणि दिव्यदारकाभरणपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । पञ्चाप्सरःसहस्राणि दिव्यतूर्यसंगीतिसंप्रभणितेन बोधिसत्त्वमातरमुपसंक्रम्य सुजातजाते तामक्लान्तकायतां च परिपृच्छन्ति स्म । यावन्तश्चेह जम्बुद्वीपे बाह्याः पञ्चभिज्ञा ऋषयस्ते सर्वे गगनतलेनागत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिशब्दमनुश्रावयन्ति स्म ॥ इति हि भिक्षवो जातमात्रो बोधिसत्त्वः सप्तरात्रः लुम्बिनीवने दिव्यमानुष्यकैस्तूर्यतालावचरैः सत्क्रियते स्म, गुरुक्रियते स्म, मान्यते स्म, पूज्यते स्म, खाद्यभोज्यस्वादनीयानि (वैद्य ७०) विश्राण्यन्ते स्म । सर्वशाक्यगणाश्च संनिपात्यानन्दशब्दमुदीरयन्ति स्म, दानानि च ददन्ति स्म, पुण्यानि च कुर्वन्ति स्म । द्वात्रिंशच्च ब्राह्मणशतसहस्राणि दिने दिने संतर्प्यन्ते स्म । येषां च येनार्थेन तेभ्यस्तद्दीयते स्म । शक्रश्च देवानामिन्द्रो ब्रह्मा च तस्यां ब्राह्मणपर्षदि माणवकरूपमभिनिर्मायाग्रासने निषद्येमां मङ्गल्यां गाथामभ्यभाषताम् - अपायाश्च यथा शान्ता सुखी सर्वं यथा जगत् । ध्रुवं सुखावहो जातः सुखे स्थापयिता जगत्

iti // iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma / pañca ca kulikāśatāni prasūyante sma, daśa ca kanyāsahasrāṇi yaśovatīpramukhāni / aṣṭau dāsīśatāni aṣṭau dāsaśatāni chandakapramukhāni / daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni / pañca kareṇusahasrāṇi pañca piṅgasahasrāṇi prasūyante sma / tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan // caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena / pañca codyānaśatāni samantānnagarasya prādurbabhūvurbodhisattvasya paribhogāya / pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma / iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan, te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ // tato rājñaḥ śuddhodanasyaitadabhūt - kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti / tato 'syaitadabhūt - asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ / yannvahamasya sarvārthasiddha iti nāma kuryām / tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt // iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt / tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ / pañcāpsaraḥ - sahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / paccāpsaraḥsahasrāṇi divyānulepanaparigṛhītani bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujārajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / pañcāpsaraḥ - sahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / yāvantaśceha jambudvīpe bāhyāḥ pañcabhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma // iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma, gurukriyate sma, mānyate sma, pūjyate sma, khādyabhojyasvādanīyāni (Vaidya 70) viśrāṇyante sma / sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma, dānāni ca dadanti sma, puṇyāni ca kurvanti sma / dvātriṃśacca brāhmaṇaśatasahasrāṇi dine dine saṃtarpyante sma / yeṣāṃ ca yenārthena tebhyastaddīyate sma / śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām - apāyāśca yathā śāntā sukhī sarvaṃ yathā jagat / dhruvaṃ sukhāvaho jātaḥ sukhe sthāpayitā jagat

Sanskrit only: no published translation is held for this verse.

यथा वितिमिरा चाभा रविचन्द्रसुरप्रभाः । अभिभूता न भासन्ते ध्रुवं पुण्यप्रभोद्भवः

yathā vitimirā cābhā ravicandrasuraprabhāḥ / abhibhūtā na bhāsante dhruvaṃ puṇyaprabhodbhavaḥ

Sanskrit only: no published translation is held for this verse.

पश्यन्त्यनयना यद्वच्छ्रोत्रहीनाः श्रुणन्ति च । उन्मत्तकाः स्मृतीमन्तो भविता लोकचेतियः

paśyantyanayanā yadvacchrotrahīnāḥ śruṇanti ca / unmattakāḥ smṛtīmanto bhavitā lokacetiyaḥ

Sanskrit only: no published translation is held for this verse.

न बाधन्ते यथा क्लेशा जातं मैत्रजनं जगत् । निःसंशयं ब्रह्मकोटीनां भविता पूजनारहः

na bādhante yathā kleśā jātaṃ maitrajanaṃ jagat / niḥsaṃśayaṃ brahmakoṭīnāṃ bhavitā pūjanārahaḥ

Sanskrit only: no published translation is held for this verse.

यथा संपुष्पिताः शाला मेदिनी च समा स्थिता । ध्रुवं सर्वजगत्पूज्यः सर्वज्ञो ऽयं भविष्यति

yathā saṃpuṣpitāḥ śālā medinī ca samā sthitā / dhruvaṃ sarvajagatpūjyaḥ sarvajño 'yaṃ bhaviṣyati

Sanskrit only: no published translation is held for this verse.

यथा निराकुलो लोको महापद्मो यथोद्भवः । निःसंशयं महातेजा लोकनाथो भविष्यति

yathā nirākulo loko mahāpadmo yathodbhavaḥ / niḥsaṃśayaṃ mahātejā lokanātho bhaviṣyati

Sanskrit only: no published translation is held for this verse.

यथा च मृदुका वाता दिव्यगन्धोपवासिताः । शमेन्ति व्याधिं सत्त्वानां वैद्यराजो भविष्यति

yathā ca mṛdukā vātā divyagandhopavāsitāḥ / śamenti vyādhiṃ sattvānāṃ vaidyarājo bhaviṣyati

Sanskrit only: no published translation is held for this verse.

वीतरागा यथा चेमे रूपधातौ मरुच्छताः । कृताञ्जलिं नमस्यन्ते दक्षिणीयो भविष्यति

vītarāgā yathā ceme rūpadhātau marucchatāḥ / kṛtāñjaliṃ namasyante dakṣiṇīyo bhaviṣyati

Sanskrit only: no published translation is held for this verse.

यथा च मनुजा देवान् देवाः पश्यन्ति मानुषान् । हेठयन्ति न चान्योन्यं सार्थवाहो भविष्यति

yathā ca manujā devān devāḥ paśyanti mānuṣān / heṭhayanti na cānyonyaṃ sārthavāho bhaviṣyati

Sanskrit only: no published translation is held for this verse.

यथा च ज्वलनः शान्तः सर्वा नद्यश्च विस्थिताः । सूक्ष्मं च कम्पते भूमिः भविता तत्त्वदर्शकः

yathā ca jvalanaḥ śāntaḥ sarvā nadyaśca visthitāḥ / sūkṣmaṃ ca kampate bhūmiḥ bhavitā tattvadarśakaḥ

Sanskrit only: no published translation is held for this verse.

अद्राक्षीद्राजा शुद्धोदनो ऽसितं महर्षिं रुदन्तमश्रूणि च प्रवर्तयमानं गम्भीरं च निश्वसन्तम् । दृष्ट्वा च संहर्षितरोमकूपजातस्त्वरितत्वरितं दीनमना असितं महर्षिमेतदवोचत् - किमिदमृषे रोदसि अश्रूणि च प्रवर्तयसि गम्भीरं च निश्वससि? मा खलु कुमारस्य काचिद्विप्रतिपत्तिः ॥ एवमुक्ते ऽसितो महर्षी राजानं शुद्धोदनमेवमाह - नाहं महाराज कुमारस्यार्थेन रोदिमि, नाप्यस्य काचिद्विप्रतिपत्तिः । किं त्वात्मानमहं रोदिमि । तत्कस्माद्धेतोः? अहं च महाराज जीर्णो वृद्धो महल्लकः । अयं च सर्वार्थसिद्धः कुमारो ऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति । अभिसंबुध्य चानुत्तरं धर्मचक्रं प्रवर्तयिष्यति अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुनः केनचिल्लोके सहधर्मेण । सदेवकस्य लोकस्य हिताय सुखाय धर्मं देशयिष्यति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् । स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सत्त्वानां संप्रकाशयिष्यति । अस्मात्तं धर्मं श्रत्वा जातिधर्माणः सत्त्वा जात्या परिमोक्षन्ते । एवं जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोक्षन्ते । रागद्वेषमोहाग्निसंतप्तानां सत्त्वानां सद्धर्मजलवर्षेण प्रह्लादनं करिष्यति । नानाकुदृष्टिग्रहणप्रस्कन्धानां सत्त्वानां कुपथप्रयातानामृजुमार्गेण निर्वाणपथमुपनेष्यति । संसारपञ्जरचारकावरुद्धानां क्लेशबन्धनबद्धानां बन्धननिर्मोक्षं करिष्यति । अज्ञानतमस्तिमिरपटलपर्यवनद्धनयनानां सत्त्वानां प्रज्ञाचक्षुरुत्पादयिष्यति । क्लेशशल्यविद्धानां सत्त्वानां शल्योद्धरणं करिष्यति । तद्यथा महाराज औदुम्बरपुष्पं कदाचित्कर्हिचिल्लोके उत्पद्यते, एवमेव महाराज कदाचित्कर्हिचिद्बहुभिः कल्पकोटिनयुतैर्बुद्धा भगवन्तो लोके उत्पद्यन्ते । सो ऽयं कुमारो ऽवश्यमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । अभिसंबुध्य च सत्त्वकोटीनियुतशतसहस्राणि संसारसागरात् पारमुत्तारयिष्यति, अमृते च प्रतिष्ठापयिष्यति । वयं च तं बुद्धरत्नं न द्रक्ष्यामः । इत्येव तदहं महाराज रोदिमि परिदीनमना दीर्घं च निश्वसामि यदहमिमं नारोग्ये ऽपि राधयिष्यामि ॥ यथा ह्यस्माकं महाराज मन्त्रवेदशास्त्रेष्वागच्छति - नार्हति सर्वार्थसिद्धः कुमारो ऽगारमध्यावसितुम् । तत्कस्य हेतोः? तथा हि महाराज सर्वार्थसिद्धः कुमारो द्वात्रिंशता महापुरुषलक्षणैः समान्वागतः । कतमैर्द्वात्रिंशता? तद्यथा । उष्णीषशीर्षो महाराज सर्वार्थसिद्धः कुमारः । अनेन महाराज प्रथमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः । भिन्नाञ्जनमयूरकलापाभिनीलवल्लितप्रदक्षिणावर्तकेशः । समविपुलललाटः । ऊर्णा महाराज सर्वार्थसिद्धस्य कुमारस्य भ्रुवो र्मध्ये जाता हिमरजतप्रकाशा । गोपक्ष्मनेत्रः । अभिनीलनेत्रः । समचत्त्वारिंशद्दन्तः । अविरलदन्तः । शुक्लदन्तः । ब्रह्मस्वरो महाराज सर्वार्थसिद्धः कुमारः । रसरसाग्रवान् । प्रभूततनुजिह्वः । सिंहहनुः । सुसंवृत्तस्कन्धः । सप्तोत्सदः । चितान्तरांसः । सूक्ष्मसुवर्णवर्णच्छविः । स्थितो ऽनवनतप्रलम्बबाहु । सिंहपूर्वार्धकायः । न्यग्रोधपरिमण्डलो महाराज सर्वार्थसिद्धः कुमारः । एकैकरोमा । ऊर्ध्वाग्राभिप्रदक्षिणावर्तरोमाः । (वैद्य ७५) कोशोपगतबस्तिगुह्यः । सुविवर्तितोरुः । एणेयमृगराजजङ्घः । दीर्घाङ्गुलिः । आयतपार्ष्णिपादः । उत्सङ्गपादः । मृदुतरुणहस्तपादः । जालाङ्गुलिहस्तपादः । दीर्घाङ्गुलिरधःक्रमतलयोर्महाराज सर्वार्थसिद्धस्य कुमारस्य चक्रे जाते चि (अर्चिष्मती प्रभास्वरे सिते) सहस्रारे सनेमिके सनाभिके । सुप्रतिष्ठितसमपादो महाराज सर्वार्थसिद्धः कुमारः । अनेन महाराज द्वात्रिंशत्तमेन महापुरुषलक्षणेन समन्वागतः सर्वार्थसिद्धः कुमारः । न च महाराज चक्रवर्तिनामेवंविधानि लक्षणानि भवन्ति । बोधिसत्त्वानां च तादृशानि लक्षणानि भवन्ति ॥ संविद्यन्ते खलु पुनर्महाराज सर्वार्थसिद्धस्य कुमारस्य काये ऽशीत्यनुव्यञ्जनानि, यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् । अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै । कतमानि च महाराज तान्यशीत्यनुव्यञ्जनानि? तद्यथा - तुङ्गनखश्च महाराज सर्वार्थसिद्धः कुमारः । ताम्रनखश्च स्निग्धनखश्च वृत्ताङ्गुलिश्च अनुपूर्वचित्राङ्गुलिश्च गूढशिरश्च गूढगुल्फश्च घनसंधिश्च अविषमसमपादश्च आयतपार्ष्णिश्च महाराज सर्वार्थसिद्धः कुमारः । स्निग्धपाणिलेखश्च तुल्यपाणिलेखश्च गम्भीरपाणिलेखश्च अजिह्मपाणिलेखश्च अनुपूर्वपाणिलेखश्च बिम्बोष्ठश्च नोच्चवचनशब्दश्च मृदुतरुणताम्रजिह्वश्च गजगर्जिताभिस्तनितमेघस्वरमधुरमञ्जुघोषश्च परिपूर्णव्यञ्जनश्च महाराज सर्वार्थसिद्धः कुमारः । प्रलम्बबाहुश्च शुचिगात्रवस्तुसंपन्नश्च मृदुगात्रश्च विशालगात्रश्च अदीनगात्रश्च अनुपूर्वोन्नतगात्रश्च सुसमाहितगात्रश्च सुविभक्तगात्रश्च पृथुविपुलसुपरिपूर्णजानुमण्डलश्च वृत्तगात्रश्च महाराज सर्वार्थसिद्धः कुमारः । सुपरिमृष्टगात्रश्च अजिह्मवृषभगात्रश्च अनुपूर्वगात्रश्च गम्भीरनाभिश्च अजिह्मनाभिश्च अनुपूर्वनाभिश्च शुच्याचारश्च ऋषभवत्समन्तप्रासादिकश्च परमसुविशुद्धवितिमिरालोकसमन्तप्रभश्च नागविलम्बितगतिश्च महाराज सर्वार्थसिद्धः कुमारः । सिंहविक्रान्तगतिश्च ऋषभविक्रान्तगतिश्च हंसविक्रान्तगतिश्च अभिप्रदक्षिणावर्तगतिश्च वृत्तकुक्षिश्च मृष्टकुक्षिश्च अजिह्मकुक्षिश्च चापोदरश्च व्यपगतछन्ददोषनीलकालकादुष्टशरीरश्च वृत्तदंष्ट्रश्च महाराज सर्वार्थसिद्धः कुमारः । तीक्ष्णदंष्ट्रश्च अनुपूर्वदंष्ट्रश्च तुङ्गनासश्च शुचिनयनश्च विमलनयनश्च प्रहसितनयनश्च आयतनयनश्च विशालनयनश्च नीलकुवलयदलसदृशनयनश्च सहितभ्रूश्च महाराज सर्वार्थसिद्धः कुमारः । चित्रभ्रूश्च असितभ्रूश्च संगतभ्रूश्च अनुपूर्वभ्रूश्च पीनगण्डश्च अविषमगण्डश्च व्यपगतगण्डदोषश्च अनुपहतक्रुष्टश्च सुविदितेन्द्रियश्च सुपरिपूर्णेन्द्रियश्च महाराज सर्वार्थसिद्धः कुमारः । संगतमुखललाटश्च परिपूर्णोत्तमाङ्गश्च असितकेशश्च सहितकेशश्च (सुसंगतकेशश्च) सुरभिकेशश्च अपरुषकेशश्च अनाकुलकेशश्च अनुपूर्वकेशश्च सुकुञ्चितकेशश्च श्रीवत्सस्वस्तिकनन्द्यावर्तवर्धमानसंस्थानकेशश्च महाराज सर्वार्थसिद्धः कुमारः । इमानि तानि महाराज सर्वार्थसिद्धस्य कुमारस्याशीत्यनुव्यञ्जनानि, (वैद्य ७६) यैः समन्वागतः सर्वार्थसिद्धः कुमारो नार्हत्यगारमध्यावसितुम् । अवश्यमभिनिष्क्रमिष्यति प्रव्रज्यायै ॥ अथ खलु राजा शुद्धोदनो ऽसितस्य महर्षेः सकाशात्कुमारस्येदं व्याकरणं श्रुत्वा संतुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात उत्थायासनाद्बोधिसत्त्वस्य चरणयोः प्रणिपत्येमां गाथामभाषत - वन्दितस्त्वं सुरैः सेन्द्रैः ऋषिभिश्चासि पूजितः । वैद्य सर्वस्य लोकस्य वन्दे ऽहमपि त्वां विभो

adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam / dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat - kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi? mā khalu kumārasya kācidvipratipattiḥ // evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha - nāhaṃ mahārāja kumārasyārthena rodimi, nāpyasya kācidvipratipattiḥ / kiṃ tvātmānamahaṃ rodimi / tatkasmāddhetoḥ? ahaṃ ca mahārāja jīrṇo vṛddho mahallakaḥ / ayaṃ ca sarvārthasiddhaḥ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyati / abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa / sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam / svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati / asmāttaṃ dharmaṃ śratvā jātidharmāṇaḥ sattvā jātyā parimokṣante / evaṃ jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣante / rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati / nānākudṛṣṭigrahaṇapraskandhānāṃ sattvānāṃ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati / saṃsārapañjaracārakāvaruddhānāṃ kleśabandhanabaddhānāṃ bandhananirmokṣaṃ kariṣyati / ajñānatamastimirapaṭalaparyavanaddhanayanānāṃ sattvānāṃ prajñācakṣurutpādayiṣyati / kleśaśalyaviddhānāṃ sattvānāṃ śalyoddharaṇaṃ kariṣyati / tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate, evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante / so 'yaṃ kumāro 'vaśyamanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / abhisaṃbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṃsārasāgarāt pāramuttārayiṣyati, amṛte ca pratiṣṭhāpayiṣyati / vayaṃ ca taṃ buddharatnaṃ na drakṣyāmaḥ / ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi // yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati - nārhati sarvārthasiddhaḥ kumāro 'gāramadhyāvasitum / tatkasya hetoḥ? tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samānvāgataḥ / katamairdvātriṃśatā? tadyathā / uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ / anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ / bhinnāñjanamayūrakalāpābhinīlavallitapradakṣiṇāvartakeśaḥ / samavipulalalāṭaḥ / ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvo rmadhye jātā himarajataprakāśā / gopakṣmanetraḥ / abhinīlanetraḥ / samacattvāriṃśaddantaḥ / aviraladantaḥ / śukladantaḥ / brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ / rasarasāgravān / prabhūtatanujihvaḥ / siṃhahanuḥ / susaṃvṛttaskandhaḥ / saptotsadaḥ / citāntarāṃsaḥ / sūkṣmasuvarṇavarṇacchaviḥ / sthito 'navanatapralambabāhu / siṃhapūrvārdhakāyaḥ / nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ / ekaikaromā / ūrdhvāgrābhipradakṣiṇāvartaromāḥ / (Vaidya 75) kośopagatabastiguhyaḥ / suvivartitoruḥ / eṇeyamṛgarājajaṅghaḥ / dīrghāṅguliḥ / āyatapārṣṇipādaḥ / utsaṅgapādaḥ / mṛdutaruṇahastapādaḥ / jālāṅgulihastapādaḥ / dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci (arciṣmatī prabhāsvare site) sahasrāre sanemike sanābhike / supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ / anena mahārāja dvātriṃśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ / na ca mahārāja cakravartināmevaṃvidhāni lakṣaṇāni bhavanti / bodhisattvānāṃ ca tādṛśāni lakṣaṇāni bhavanti // saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni, yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum / avaśyamabhiniṣkramiṣyati pravrajyāyai / katamāni ca mahārāja tānyaśītyanuvyañjanāni? tadyathā - tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ / tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ / snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ / pralambabāhuśca śucigātravastusaṃpannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ / suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavatsamantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ / siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ / tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ / citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ / saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca (susaṃgatakeśaśca) surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ / imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni, (Vaidya 76) yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum / avaśyamabhiniṣkramiṣyati pravrajyāyai // atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata - vanditastvaṃ suraiḥ sendraiḥ ṛṣibhiścāsi pūjitaḥ / vaidya sarvasya lokasya vande 'hamapi tvāṃ vibho

Sanskrit only: no published translation is held for this verse.

इति हि भिक्षवो राजा शुद्धोदनो ऽसितं महर्षि सार्धं नरदत्तेन भागिनेयेनानुरूपेण भक्तेन संतर्पयति स्म । संतर्प्याभिच्छाद्य प्रदक्षिणमकरोत् । अथ खल्वसितो महर्षिस्तत एवर्द्ध्या विहायसा प्राक्रमत्, येन स्वाश्रमस्तेनोपासंक्रामत् ॥ अथ खलु द्वयं संक्रम्य तत्र खल्वसितो महर्षिर्नरदत्तं माणवकमेतदवोचत् - यदा त्वं नरदत्त शृणुया बुद्धो लोके उत्पन्न इति, तदा त्व गत्वा तस्य शासने प्रव्रजेः । तत्ते भविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति ॥ तत्रेदमुच्यते - दृष्ट्वा देवगणान्नभस्तलगतान् बुद्धश्रवोद्गारिणो देवर्षीरसितो ऽद्रिकन्दरगतः प्रीतिं परां प्राप्तवान् । बुद्धो नाम पदं किमेतदिह भो हर्षावहं प्राणिनां प्रह्लाद मम काय एति सुखितं शान्तं च चित्तं परम्

iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣi sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma / saṃtarpyābhicchādya pradakṣiṇamakarot / atha khalvasito maharṣistata evarddhyā vihāyasā prākramat, yena svāśramastenopāsaṃkrāmat // atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocat - yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti, tadā tva gatvā tasya śāsane pravrajeḥ / tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti // tatredamucyate - dṛṣṭvā devagaṇānnabhastalagatān buddhaśravodgāriṇo devarṣīrasito 'drikandaragataḥ prītiṃ parāṃ prāptavān / buddho nāma padaṃ kimetadiha bho harṣāvahaṃ prāṇināṃ prahlāda mama kāya eti sukhitaṃ śāntaṃ ca cittaṃ param

Sanskrit only: no published translation is held for this verse.

किं देवो त्वसुरो ऽथवापि स भवेद् गरुडो ऽथवा किन्नरः बुद्धो नाम किमेतदश्रुतपदं प्रीतिकरं मोदनम् । दिव्या चक्षुष प्रेक्षते दश दिशः शैलान् महीं सागरान् भूयः पश्यति चाद्भुतं बहुविधं भूमौ गिरौ सागरे

kiṃ devo tvasuro 'thavāpi sa bhaved garuḍo 'thavā kinnaraḥ buddho nāma kimetadaśrutapadaṃ prītikaraṃ modanam / divyā cakṣuṣa prekṣate daśa diśaḥ śailān mahīṃ sāgarān bhūyaḥ paśyati cādbhutaṃ bahuvidhaṃ bhūmau girau sāgare

Sanskrit only: no published translation is held for this verse.

आभेयं प्रविराजते सुरुचिरा प्रह्लादयन्ती तनुं जाताश्चैव यथा हि शैलशिखरे स्निग्धाः प्रवालाङ्कुराः । वृक्षाश्चैव यथा सुपुष्पभरिता नानाफलैर्मण्डिताः सुव्यक्तं त्रिभवे भविष्यति लघु रत्नोद्भवः शोभनः

ābheyaṃ pravirājate surucirā prahlādayantī tanuṃ jātāścaiva yathā hi śailaśikhare snigdhāḥ pravālāṅkurāḥ / vṛkṣāścaiva yathā supuṣpabharitā nānāphalairmaṇḍitāḥ suvyaktaṃ tribhave bhaviṣyati laghu ratnodbhavaḥ śobhanaḥ

Sanskrit only: no published translation is held for this verse.

भूमिर्भाति यथा च पाणिसदृशा सर्वा समा निर्मला देवाश्चैव यथा प्रहृष्टमनसः खे भ्रामयन्त्यम्बरान् । यद्वत् सागरनागराजनिलये रत्नाः प्लवन्ते ऽद्भुताः सुव्यक्तं जिनरत्न जम्बुनिलये धर्माकरस्योद्भवः

bhūmirbhāti yathā ca pāṇisadṛśā sarvā samā nirmalā devāścaiva yathā prahṛṣṭamanasaḥ khe bhrāmayantyambarān / yadvat sāgaranāgarājanilaye ratnāḥ plavante 'dbhutāḥ suvyaktaṃ jinaratna jambunilaye dharmākarasyodbhavaḥ

Sanskrit only: no published translation is held for this verse.

यद्वच्छान्त अपाय दुःखविगताः सत्त्वाश्च सौख्यान्विताः यद्वद्देवगणा नभस्तलगता गच्छन्ति हर्षान्विताः । यथ च स्निग्धरवं मनोज्ञ शृणुया दिव्यान संगीतिनां रतनस्या इव प्रादुर्भावु त्रिभवे यस्या निमित्ता इमे

yadvacchānta apāya duḥkhavigatāḥ sattvāśca saukhyānvitāḥ yadvaddevagaṇā nabhastalagatā gacchanti harṣānvitāḥ / yatha ca snigdharavaṃ manojña śṛṇuyā divyāna saṃgītināṃ ratanasyā iva prādurbhāvu tribhave yasyā nimittā ime

Sanskrit only: no published translation is held for this verse.

असितः प्रेक्षति जम्बुसाह्वयमिदं दिव्येन वै चक्षुषा सो ऽद्राक्षीत् कपिलाह्वये पुरवरे शुद्धोदनस्यालये । जातो लक्षणपुण्यतेजभरितो नारायणस्थामवान् दृष्ट्वा चात्तमना उदग्रमनसः स्थामास्य संवर्धितः

asitaḥ prekṣati jambusāhvayamidaṃ divyena vai cakṣuṣā so 'drākṣīt kapilāhvaye puravare śuddhodanasyālaye / jāto lakṣaṇapuṇyatejabharito nārāyaṇasthāmavān dṛṣṭvā cāttamanā udagramanasaḥ sthāmāsya saṃvardhitaḥ

Sanskrit only: no published translation is held for this verse.

उद्युक्तस्त्वरितो ऽतिविस्मितमना चासौ स्वशिष्यान्वितः आगत्वा कपिलाह्वयं पुरवरं द्वारि स्थितो भूपतेः । अनुबद्धा बहुप्राणिकोटिनयुता दृष्ट्वा ऋषिर्जीर्णकः अवची सारथि राज्ञ वेदय लघुं द्वारे ऋषिस्तिष्ठति

udyuktastvarito 'tivismitamanā cāsau svaśiṣyānvitaḥ āgatvā kapilāhvayaṃ puravaraṃ dvāri sthito bhūpateḥ / anubaddhā bahuprāṇikoṭinayutā dṛṣṭvā ṛṣirjīrṇakaḥ avacī sārathi rājña vedaya laghuṃ dvāre ṛṣistiṣṭhati

Sanskrit only: no published translation is held for this verse.

श्रुत्वा चाशु प्रविश्य राजभवनं राज्ञस्तमाख्यातवान् द्वारे देव तपस्वि तिष्ठति महान् जीर्णो ऋषिर्जर्जरः । सो चापी अभिनन्दते ऋषिवरः प्रावेष्टु राज्ञो गृहं आज्ञा दीयतु ताव पार्थिववरा देमि प्रवेशं तेसा

śrutvā cāśu praviśya rājabhavanaṃ rājñastamākhyātavān dvāre deva tapasvi tiṣṭhati mahān jīrṇo ṛṣirjarjaraḥ / so cāpī abhinandate ṛṣivaraḥ prāveṣṭu rājño gṛhaṃ ājñā dīyatu tāva pārthivavarā demi praveśaṃ tesā

Sanskrit only: no published translation is held for this verse.

स्थाप्या चासनमस्य चाह नृपतिः गच्छ प्रवेशं दद असितः सारथिवाक्य श्रुत्व मुदितः प्रीत्या सुखेनान्वितः । शीतं वारि यथाभिकाङ्क्षि तृषितो भुक्त्वादितो चाशनं तद्वत्सुख्यभिनन्दितो ऋषिवरः तं द्रष्टु सत्त्वोत्तमम्

sthāpyā cāsanamasya cāha nṛpatiḥ gaccha praveśaṃ dada asitaḥ sārathivākya śrutva muditaḥ prītyā sukhenānvitaḥ / śītaṃ vāri yathābhikāṅkṣi tṛṣito bhuktvādito cāśanaṃ tadvatsukhyabhinandito ṛṣivaraḥ taṃ draṣṭu sattvottamam

Sanskrit only: no published translation is held for this verse.

जय भोः पार्थिव इत्युवाच मुदितो चायुं चिरं पालय वृद्धिं कृत्व निषण्ण दान्तमनसः शान्तेन्द्रियः सूरतः । राजा वै अभिवाद्य तं सुनिभृतं प्रोवाच किं कारणं आगामस्तव पार्थिवेन्द्र निलये तद् ब्रूहि शीघ्रं मुने

jaya bhoḥ pārthiva ityuvāca mudito cāyuṃ ciraṃ pālaya vṛddhiṃ kṛtva niṣaṇṇa dāntamanasaḥ śāntendriyaḥ sūrataḥ / rājā vai abhivādya taṃ sunibhṛtaṃ provāca kiṃ kāraṇaṃ āgāmastava pārthivendra nilaye tad brūhi śīghraṃ mune

Sanskrit only: no published translation is held for this verse.

पुत्रस्ते वररूप पारमिगतो जातो महातेजवान् द्वात्रिंशद्वरलक्षणैः कवचितो नारायणस्थामवान् । तं द्रष्टुं हि ममेप्सितं नरपते सर्वार्थसिद्धं शिशुम् इत्यर्थं समुपागतो ऽस्मि नृपते नास्त्यन्यकार्यं मम

putraste vararūpa pāramigato jāto mahātejavān dvātriṃśadvaralakṣaṇaiḥ kavacito nārāyaṇasthāmavān / taṃ draṣṭuṃ hi mamepsitaṃ narapate sarvārthasiddhaṃ śiśum ityarthaṃ samupāgato 'smi nṛpate nāstyanyakāryaṃ mama

Sanskrit only: no published translation is held for this verse.

साधु स्वागतु याचसे किलमितः प्रीतो ऽस्मि ते दर्शनात् एषो ऽसौ शयितः कुमार वरदो द्रष्टुं न शक्यो ऽधुना । साधू ताव मूहूर्तमागम इहा यद् द्रक्ष्यसे निर्मलं चन्द्रं वा यथ पूर्णमासि विमलं तारागणैर्मण्डितम्

sādhu svāgatu yācase kilamitaḥ prīto 'smi te darśanāt eṣo 'sau śayitaḥ kumāra varado draṣṭuṃ na śakyo 'dhunā / sādhū tāva mūhūrtamāgama ihā yad drakṣyase nirmalaṃ candraṃ vā yatha pūrṇamāsi vimalaṃ tārāgaṇairmaṇḍitam

Sanskrit only: no published translation is held for this verse.

यद चासौ प्रतिबुद्ध सारथिवरः परिपूर्णचन्द्रप्रभः तद राजा प्रतिगृह्य वह्निवपुषं सूर्यातिरेकप्रभम् । हन्ता पश्य ऋषे नृदेवमहितं हेमाग्रबिम्बोपमम् असितो दृष्ट्व च तस्य तौ सुचरणौ चक्राङ्कितौ शोभनौ

yada cāsau pratibuddha sārathivaraḥ paripūrṇacandraprabhaḥ tada rājā pratigṛhya vahnivapuṣaṃ sūryātirekaprabham / hantā paśya ṛṣe nṛdevamahitaṃ hemāgrabimbopamam asito dṛṣṭva ca tasya tau sucaraṇau cakrāṅkitau śobhanau

Sanskrit only: no published translation is held for this verse.

प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणानि सो वन्दते अङ्के गृह्य महात्मशास्त्रकुशलो निध्यायतो प्रेक्षते । सो ऽपश्यद्वरलक्षणैः कवचितं नारायणस्थामवं शीर्षं कम्प्य स वेदशास्त्रकुशलो द्वे तस्य पश्यद्गती

pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāni so vandate aṅke gṛhya mahātmaśāstrakuśalo nidhyāyato prekṣate / so 'paśyadvaralakṣaṇaiḥ kavacitaṃ nārāyaṇasthāmavaṃ śīrṣaṃ kampya sa vedaśāstrakuśalo dve tasya paśyadgatī

Sanskrit only: no published translation is held for this verse.

राजा वा भवि चक्रवर्ति बलवान् बुद्धो व लोकोत्तमः बाष्पं त्यक्त सुदीनकायमनसो गम्भीर निश्वस्य च । उद्विग्नश्च बभूव पार्थिववरः किं ब्राह्मणो रोदिती मा विघ्नं खलु पश्यते ऽयमसितः सर्वार्थसिद्धस्य मे

rājā vā bhavi cakravarti balavān buddho va lokottamaḥ bāṣpaṃ tyakta sudīnakāyamanaso gambhīra niśvasya ca / udvignaśca babhūva pārthivavaraḥ kiṃ brāhmaṇo roditī mā vighnaṃ khalu paśyate 'yamasitaḥ sarvārthasiddhasya me

Sanskrit only: no published translation is held for this verse.

भूतं व्याहर किं तु रोदिषि ऋषे श्रेयो ऽथ किं पापकं पापं नास्ति न चान्तरायमिह भोः सर्वार्थसिद्धस्य ते । आत्मानं बहु शोचमी नरपते जीर्णो ऽस्मि यज्जर्जरः यदयं भेष्यति बुद्ध लोकमहितो धर्मं यदा वक्ष्यते

bhūtaṃ vyāhara kiṃ tu rodiṣi ṛṣe śreyo 'tha kiṃ pāpakaṃ pāpaṃ nāsti na cāntarāyamiha bhoḥ sarvārthasiddhasya te / ātmānaṃ bahu śocamī narapate jīrṇo 'smi yajjarjaraḥ yadayaṃ bheṣyati buddha lokamahito dharmaṃ yadā vakṣyate

Sanskrit only: no published translation is held for this verse.

न द्रक्षे अहु लब्धप्रीतिमनसो इत्यर्थ रोदाम्यहं यस्या कायि भवन्ति लक्षणवरा द्वात्रिंशति निर्मला । द्वे तस्या गतयो न अन्य तृतिया जानीष्व एवं नृप राजा वा भवि चक्रवर्ति बलवान् बुद्धो ऽथ लोकोत्तमः

na drakṣe ahu labdhaprītimanaso ityartha rodāmyahaṃ yasyā kāyi bhavanti lakṣaṇavarā dvātriṃśati nirmalā / dve tasyā gatayo na anya tṛtiyā jānīṣva evaṃ nṛpa rājā vā bhavi cakravarti balavān buddho 'tha lokottamaḥ

Sanskrit only: no published translation is held for this verse.

नायं कामगुणेभिरर्थिकु पुनः बुद्धो अयं भेष्यति श्रुत्वा व्याकरणं ऋषेः स नृपतिः प्रीतिं सुखं लब्धवान् । प्रत्युत्थाय ततः कृताञ्जलिपुटो चरणावसौ वन्दते देवैस्त्वं स्वभिपूजितः सुबलवान् ऋषिभिश्च संवर्णितः

nāyaṃ kāmaguṇebhirarthiku punaḥ buddho ayaṃ bheṣyati śrutvā vyākaraṇaṃ ṛṣeḥ sa nṛpatiḥ prītiṃ sukhaṃ labdhavān / pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāvasau vandate devaistvaṃ svabhipūjitaḥ subalavān ṛṣibhiśca saṃvarṇitaḥ

Sanskrit only: no published translation is held for this verse.

बुद्धा बोधि यदा शृणोषि जगतो वर्तेति चक्रं ह्ययं शीघ्रं प्रव्रज शासने ऽस्य मुनये तत्प्राप्स्यसे निर्वृतिम्

buddhā bodhi yadā śṛṇoṣi jagato varteti cakraṃ hyayaṃ śīghraṃ pravraja śāsane 'sya munaye tatprāpsyase nirvṛtim

Sanskrit only: no published translation is held for this verse.

वन्दित्वा चरणौ ह्यसौ मुनिवरः कृत्वा च प्रादक्षिणं लाभा ते नृपते सुलब्ध विपुला यस्येदृशस्ते सुतः । एषो लोक सदेवकं समनुजं धर्मेण तर्पेष्यति निष्क्रामं कपिलाह्वयादृषिवरो ऽरण्ये स्थितः स्वाश्रमे

vanditvā caraṇau hyasau munivaraḥ kṛtvā ca prādakṣiṇaṃ lābhā te nṛpate sulabdha vipulā yasyedṛśaste sutaḥ / eṣo loka sadevakaṃ samanujaṃ dharmeṇa tarpeṣyati niṣkrāmaṃ kapilāhvayādṛṣivaro 'raṇye sthitaḥ svāśrame

Sanskrit only: no published translation is held for this verse.

तत्रेदमुच्यते - जातस्य तस्य गुणसागरसागरस्य ज्ञात्वा सुरेश्वरमरुद् ब्रुवते उदग्रः । यस्या सुदुर्लभश्रवो बहुकल्पकोट्या हन्तेथ तं व्रजम पूजयितुं मुनीन्द्रम्

tatredamucyate - jātasya tasya guṇasāgarasāgarasya jñātvā sureśvaramarud bruvate udagraḥ / yasyā sudurlabhaśravo bahukalpakoṭyā hantetha taṃ vrajama pūjayituṃ munīndram

Sanskrit only: no published translation is held for this verse.

परिपूर्णद्वादशसहस्र मरुद्विशुद्धा मणिरत्नचूडसमलंकृत इर्यवन्तः । कपिलाह्वयं पुरवरं समुपेत्य शीघ्रं द्वारि स्थिता नरपतेः सुविलम्बचूडाः

paripūrṇadvādaśasahasra marudviśuddhā maṇiratnacūḍasamalaṃkṛta iryavantaḥ / kapilāhvayaṃ puravaraṃ samupetya śīghraṃ dvāri sthitā narapateḥ suvilambacūḍāḥ

Sanskrit only: no published translation is held for this verse.

ते द्वारपालमवदन् सुमनोज्ञघोषाः प्रतिवेदयस्व नृपते भवनं प्रविश्य । दौवारिको वचन श्रुत्व गृहं प्रविष्टः प्रह्वः कृताञ्जलिपुटो नृपतिं बभाषे

te dvārapālamavadan sumanojñaghoṣāḥ prativedayasva nṛpate bhavanaṃ praviśya / dauvāriko vacana śrutva gṛhaṃ praviṣṭaḥ prahvaḥ kṛtāñjalipuṭo nṛpatiṃ babhāṣe

Sanskrit only: no published translation is held for this verse.

जय देव नित्यमनुपालय दीर्घमायुः द्वारे स्थिता विपुलपुण्यविशुद्धभासः । मणिरत्नचूडसुविभूषित इर्यवन्तः परिपूर्णचन्द्रवदना शशिनिर्मलाभाः

jaya deva nityamanupālaya dīrghamāyuḥ dvāre sthitā vipulapuṇyaviśuddhabhāsaḥ / maṇiratnacūḍasuvibhūṣita iryavantaḥ paripūrṇacandravadanā śaśinirmalābhāḥ

Sanskrit only: no published translation is held for this verse.

छायां न तेष नृपते क्वचिदप्यपश्यन् शब्दं न चैव चरणोत्क्षिपणे शृणोमि । न च मेदिनीं विचरतो रजमुत्क्षिपन्ति तृप्तिं न यान्ति च जनाः समुदीक्षतां वै

chāyāṃ na teṣa nṛpate kvacidapyapaśyan śabdaṃ na caiva caraṇotkṣipaṇe śṛṇomi / na ca medinīṃ vicarato rajamutkṣipanti tṛptiṃ na yānti ca janāḥ samudīkṣatāṃ vai

Sanskrit only: no published translation is held for this verse.

कायप्रभा सुविपुला च विभाति तेषां वाचा मनोज्ञ यथ नास्ति ह मानुषाणाम् । गम्भिरश्लक्ष्णसुशिला च सुआकरा च शङ्का हि मे सुरगणा न हि ते मनुष्याः

kāyaprabhā suvipulā ca vibhāti teṣāṃ vācā manojña yatha nāsti ha mānuṣāṇām / gambhiraślakṣṇasuśilā ca suākarā ca śaṅkā hi me suragaṇā na hi te manuṣyāḥ

Sanskrit only: no published translation is held for this verse.

वरपुष्पमाल्यअनुलेपनपट्टदामा पाणी गृहीत्वन उदीक्षिषु गौरवेण । निःसंशयं नृपति द्रष्टु कुमारमेते देवाधिदेव मरुतागत पूजनार्थम्

varapuṣpamālyaanulepanapaṭṭadāmā pāṇī gṛhītvana udīkṣiṣu gauraveṇa / niḥsaṃśayaṃ nṛpati draṣṭu kumāramete devādhideva marutāgata pūjanārtham

Sanskrit only: no published translation is held for this verse.

राजा निशाम्य वचनं परमं उदग्रो गच्छा भणाहि प्रविशन्तु गृहं भवन्तः । न हि मानुषाण इयमीदृश ऋद्धि काचि यथ भाषसे च गुण तेष यथा च इर्या

rājā niśāmya vacanaṃ paramaṃ udagro gacchā bhaṇāhi praviśantu gṛhaṃ bhavantaḥ / na hi mānuṣāṇa iyamīdṛśa ṛddhi kāci yatha bhāṣase ca guṇa teṣa yathā ca iryā

Sanskrit only: no published translation is held for this verse.

दौवारिकः कृतपुटो मरुतैवमाह प्रविशी भवन्त अनुज्ञातु नराधिपेन । ते हृष्टतुष्टमनसो वरमाल्यहस्ता गेहं प्रविष्ट नृपतेरमरालयं वा

dauvārikaḥ kṛtapuṭo marutaivamāha praviśī bhavanta anujñātu narādhipena / te hṛṣṭatuṣṭamanaso varamālyahastā gehaṃ praviṣṭa nṛpateramarālayaṃ vā

Sanskrit only: no published translation is held for this verse.

दृष्ट्वा च तां सुरवरां प्रविशन्त गेहं प्रत्युत्थितो नृपतिरञ्जलि संप्रगृह्य । संविद्ययन्त इम आसन रत्नपादा अत्रा निषीदत भवन्ननुकम्प्य बुद्ध्या

dṛṣṭvā ca tāṃ suravarāṃ praviśanta gehaṃ pratyutthito nṛpatirañjali saṃpragṛhya / saṃvidyayanta ima āsana ratnapādā atrā niṣīdata bhavannanukampya buddhyā

Sanskrit only: no published translation is held for this verse.

ते मानदर्पविगता स्थित आसनेषु यस्यार्थि आगत इहा नृपते शृणुष्व । पुत्रस्तवातिपृथुपुण्यविशुद्धकायो जातः सुजातचरणं वय द्रष्टुकामाः

te mānadarpavigatā sthita āsaneṣu yasyārthi āgata ihā nṛpate śṛṇuṣva / putrastavātipṛthupuṇyaviśuddhakāyo jātaḥ sujātacaraṇaṃ vaya draṣṭukāmāḥ

Sanskrit only: no published translation is held for this verse.

अस्मो विधिज्ञ वरलक्षणलक्षणज्ञा येषां तथा भवति या गति यः प्रयोगः । तत्साधु पार्थिववर प्रजहस्व खेदं पश्याम लक्षणविचित्रविभूषिताङ्गम्

asmo vidhijña varalakṣaṇalakṣaṇajñā yeṣāṃ tathā bhavati yā gati yaḥ prayogaḥ / tatsādhu pārthivavara prajahasva khedaṃ paśyāma lakṣaṇavicitravibhūṣitāṅgam

Sanskrit only: no published translation is held for this verse.

स स्त्रीगणैः परिवृतो नृपतिः प्रहृष्टो गृह्य कुमारमसमं ज्वलनार्चिवर्णम् । उपनामयन् सुरवरां सुविलम्बचूडां द्वारात्तु निष्क्रमतु कम्पित त्रिसहस्राः

sa strīgaṇaiḥ parivṛto nṛpatiḥ prahṛṣṭo gṛhya kumāramasamaṃ jvalanārcivarṇam / upanāmayan suravarāṃ suvilambacūḍāṃ dvārāttu niṣkramatu kampita trisahasrāḥ

Sanskrit only: no published translation is held for this verse.

दृष्ट्वैव ते सुरवरा क्रम नायकस्य ताम्रा नखां विमलपत्रविशुद्धतेजा । ते उत्थिता त्वरित रूपविलम्बचूडा मूर्ध्नाभिवन्दिषु क्रमां विमलप्रभस्य

dṛṣṭvaiva te suravarā krama nāyakasya tāmrā nakhāṃ vimalapatraviśuddhatejā / te utthitā tvarita rūpavilambacūḍā mūrdhnābhivandiṣu kramāṃ vimalaprabhasya

Sanskrit only: no published translation is held for this verse.

यथ इर्य नेत्र विमलाप्रभ ऊर्णकोशा निःसंशयं स्पृशति बोधि विजित्य मारम्

yatha irya netra vimalāprabha ūrṇakośā niḥsaṃśayaṃ spṛśati bodhi vijitya māram

Sanskrit only: no published translation is held for this verse.

ते तं स्तुवन्ति गुणभूत यथार्थदर्शी ध्यायी गुणां विगतक्लेशतमोनुदस्य । सुचिरेण सत्त्वरतनस्य हि प्रादुर्भावो जातीजरामरणक्लेशरणंजहस्य

te taṃ stuvanti guṇabhūta yathārthadarśī dhyāyī guṇāṃ vigatakleśatamonudasya / sucireṇa sattvaratanasya hi prādurbhāvo jātījarāmaraṇakleśaraṇaṃjahasya

Sanskrit only: no published translation is held for this verse.

आदीप्त सर्वत्रिभवं त्रिभिरग्नितप्तं संकल्परागविषयारणिउच्छ्रितेन । त्वं धर्ममेघ त्रिसहस्र स्फरित्व धीरा अमृतोदकेन प्रशमेष्यसि क्लेशतापम्

ādīpta sarvatribhavaṃ tribhiragnitaptaṃ saṃkalparāgaviṣayāraṇiucchritena / tvaṃ dharmamegha trisahasra spharitva dhīrā amṛtodakena praśameṣyasi kleśatāpam

Sanskrit only: no published translation is held for this verse.

त्वं मैत्रवाक्य करुणान्वित श्लक्ष्णवाक्य ब्रह्मस्वरारचितघोष मनोज्ञवाणि । त्रिसहस्र आज्ञपरिविज्ञपनी जगस्य क्षिप्रं प्रमुञ्च भगवन् महबुद्धघोषम्

tvaṃ maitravākya karuṇānvita ślakṣṇavākya brahmasvarāracitaghoṣa manojñavāṇi / trisahasra ājñaparivijñapanī jagasya kṣipraṃ pramuñca bhagavan mahabuddhaghoṣam

Sanskrit only: no published translation is held for this verse.

भग्ना कुतीर्थिकगणा विपरीतदृष्टिः भवरागबन्धननिमग्न स्थिता भवाग्रे । हेतु प्रतीत्य भव शून्य श्रुणित्व धर्मा सिंहस्य क्रोष्टुकगणैव पलायिनास्ते

bhagnā kutīrthikagaṇā viparītadṛṣṭiḥ bhavarāgabandhananimagna sthitā bhavāgre / hetu pratītya bhava śūnya śruṇitva dharmā siṃhasya kroṣṭukagaṇaiva palāyināste

Sanskrit only: no published translation is held for this verse.

भित्त्वा अविद्यपटलं महक्लेशधूमं पर्युत्थिता जनतये नियतप्रकाशे । ज्ञानार्चिप्रज्ञप्रभविद्युविलोकितेन सर्वं जगे विधमये महदन्धकारम्

bhittvā avidyapaṭalaṃ mahakleśadhūmaṃ paryutthitā janataye niyataprakāśe / jñānārciprajñaprabhavidyuvilokitena sarvaṃ jage vidhamaye mahadandhakāram

Sanskrit only: no published translation is held for this verse.

लाभा सुलब्ध विपुला मरुमानुषाणां यत्रोद्भवा ऽद्भुत इहेदृशि शुद्धसत्त्वे । पिथिता अपायपथ स्फीत मरुत्पथानि भेष्यन्ति सत्त्वरतनेन विबोधकेन

lābhā sulabdha vipulā marumānuṣāṇāṃ yatrodbhavā 'dbhuta ihedṛśi śuddhasattve / pithitā apāyapatha sphīta marutpathāni bheṣyanti sattvaratanena vibodhakena

Sanskrit only: no published translation is held for this verse.

वर्षित्व दिव्यकुसुमां कपिलाह्वये ऽस्मिन् कृत्वा प्रदक्षिण स्तवित्व च गौरवेण । बुद्ध सुबुद्ध इति वाक्यमुदीरयन्तः प्रक्रान्त ते सुरगणा गगने सलीलाः

varṣitva divyakusumāṃ kapilāhvaye 'smin kṛtvā pradakṣiṇa stavitva ca gauraveṇa / buddha subuddha iti vākyamudīrayantaḥ prakrānta te suragaṇā gagane salīlāḥ

Sanskrit only: no published translation is held for this verse.