कुलाचलतटाः रेजुः । कथम्भूताः । आत्मनः आत्मसम्बन्धिन्यः । या शिलाः । ताभिः तुल्याः । या हेतयः । तासां यः पातः । तेनार्ता दीना । वृत्तिः स्थितिः येषाम् । तादृशाः । पुनः कथम्भूताः । भीतानि अत एव विभ्रान्तानि हरिमण्डलानि सिंहमण्डलानि येषाम् । ते
kulācalataṭāḥ rejuḥ | kathambhūtāḥ | ātmanaḥ ātmasambandhinyaḥ | yā śilāḥ | tābhiḥ tulyāḥ | yā hetayaḥ | tāsāṃ yaḥ pātaḥ | tenārtā dīnā | vṛttiḥ sthitiḥ yeṣām | tādṛśāḥ | punaḥ kathambhūtāḥ | bhītāni ata eva vibhrāntāni harimaṇḍalāni siṃhamaṇḍalāni yeṣām | te
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.