अथ नये अस्त्रशान्तिशास्त्रे । कोविदाः निपुणाः । ते देवासुराः । एतानि वर्षणानि समन्ततः शमम् अनयन् । एतानि कानि । गिरिवर्षणम् इत्यादि । न केवलं शमम् अनयन् । किं तु ककुबङ्गेषु ससृजुश् च । किम् इव । पुष्पवर्षणम् इव । ते कथम्भूताः । दलिता अशेषगिरीन्द्राणाम् भित्तयः यैः । ते । तादृशाः । युग्मम्
atha naye astraśāntiśāstre | kovidāḥ nipuṇāḥ | te devāsurāḥ | etāni varṣaṇāni samantataḥ śamam anayan | etāni kāni | girivarṣaṇam ityādi | na kevalaṃ śamam anayan | kiṃ tu kakubaṅgeṣu sasṛjuś ca | kim iva | puṣpavarṣaṇam iva | te kathambhūtāḥ | dalitā aśeṣagirīndrāṇām bhittayaḥ yaiḥ | te | tādṛśāḥ | yugmam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.