अद्रीन्द्रपक्षपरिमाणाश् च ते गमागमैकदुर्वाराश् च । तादृशाः ये हस्ताः । तेषां यानि तलानि । तैः यानि ताडनानि । तैः कृत्वा । द्राक् शीघ्रम् । पतन्तः ये भटशरीराण्य् एव गिरीन्द्राः । तेषां ये घाताः । तैः भ्रष्टानि यानि देवपुराणि । तैः पूर्णजलश् चासौ अर्णवौघः समुद्रसप्तकम् । सः । आसीत् जात इत्य् अर्थः
adrīndrapakṣaparimāṇāś ca te gamāgamaikadurvārāś ca | tādṛśāḥ ye hastāḥ | teṣāṃ yāni talāni | taiḥ yāni tāḍanāni | taiḥ kṛtvā | drāk śīghram | patantaḥ ye bhaṭaśarīrāṇy eva girīndrāḥ | teṣāṃ ye ghātāḥ | taiḥ bhraṣṭāni yāni devapurāṇi | taiḥ pūrṇajalaś cāsau arṇavaughaḥ samudrasaptakam | saḥ | āsīt jāta ity arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.