प्रत्युत्पन्नो ऽनागतश् च यद्य् अतीतम् अपेक्ष्य हि । प्रत्युत्पन्नो ऽनागतश् च काले ऽतीते भविष्यतः
pratyutpanno 'nāgataś ca yady atītam apekṣya hi / pratyutpanno 'nāgataś ca kāle 'tīte bhaviṣyataḥ
Sanskrit only: no published translation is held for this verse.
प्रत्युत्पन्नो ऽनागतश् च न स्तस् तत्र पुनर् यदि । प्रत्युत्पन्नो ऽनागतश् च स्यातां कथम् अपेक्ष्य तम्
pratyutpanno 'nāgataś ca na stas tatra punar yadi / pratyutpanno 'nāgataś ca syātāṃ katham apekṣya tam
Sanskrit only: no published translation is held for this verse.
अनपेक्ष्य पुनः सिद्धिर् नातीतं विद्यते तयोः । प्रत्युत्पन्नो ऽनागतश् च तस्मात् कालो न विद्यते
anapekṣya punaḥ siddhir nātītaṃ vidyate tayoḥ / pratyutpanno 'nāgataś ca tasmāt kālo na vidyate
Sanskrit only: no published translation is held for this verse.
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ । उत्तमाधममध्यादीन् एकत्वादींश् च लक्षयेत्
etenaivāvaśiṣṭau dvau krameṇa parivartakau / uttamādhamamadhyādīn ekatvādīṃś ca lakṣayet
Sanskrit only: no published translation is held for this verse.
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते । यो गृह्येतागृहीतश् च कालः प्रज्ञप्यते कथम्
nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate / yo gṛhyetāgṛhītaś ca kālaḥ prajñapyate katham
Sanskrit only: no published translation is held for this verse.
भावं प्रतीत्य कालश् चेत् कालो भावाद् ऋते कुतः । न च कश् चन भावो ऽस्ति कुतः कालो भविष्यति
bhāvaṃ pratītya kālaś cet kālo bhāvād ṛte kutaḥ / na ca kaś cana bhāvo 'sti kutaḥ kālo bhaviṣyati
Sanskrit only: no published translation is held for this verse.