हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि । फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्
hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalamasti ca sāmagryāṃ sāmagryā jāyate katham
Sanskrit only: no published translation is held for this verse.

हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि । फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्
hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham
Sanskrit only: no published translation is held for this verse.
हेतोश् च प्रत्ययानां च सामग्र्याम् अस्ति चेत् फलम् । गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते
hetoś ca pratyayānāṃ ca sāmagryām asti cet phalam / gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate
Sanskrit only: no published translation is held for this verse.
हेतोश् च प्रत्ययानां च सामग्र्यां नास्ति चेत् फलम् । हेतवः प्रत्ययाश् च स्युर् अहेतुप्रत्ययैः समाः
hetoś ca pratyayānāṃ ca sāmagryāṃ nāsti cet phalam / hetavaḥ pratyayāś ca syur ahetupratyayaiḥ samāḥ
Sanskrit only: no published translation is held for this verse.
हेतुं फलस्य दत्त्वा च यदि हेतुर् निरुध्यते । यद् दत्तं यन् निरुधं च हेतोर् आत्मद्वयं भवेत्
hetuṃ phalasya dattvā ca yadi hetur nirudhyate / yad dattaṃ yan nirudhaṃ ca hetor ātmadvayaṃ bhavet
Sanskrit only: no published translation is held for this verse.
हेतुं फलस्यादत्त्वा च यदि हेतुर् निरुध्यते । हेतौ निरुद्धे जातं तत् फलम् आहेतुकं भवेत्
hetuṃ phalasyādattvā ca yadi hetur nirudhyate / hetau niruddhe jātaṃ tat phalam āhetukaṃ bhavet
Sanskrit only: no published translation is held for this verse.
फलं सहैव सामग्र्या यदि प्रादुर्भवेत् पुनः । एककालौ प्रसज्येते जनको यश् च जन्यते
phalaṃ sahaiva sāmagryā yadi prādurbhavet punaḥ / ekakālau prasajyete janako yaś ca janyate
Sanskrit only: no published translation is held for this verse.
पूर्वम् एव च सामग्र्याः फलं प्रादुर्भवेद् यदि । हेतुप्रत्ययनिर्मुक्तं फलम् आहेतुकं भवेत्
pūrvam eva ca sāmagryāḥ phalaṃ prādurbhaved yadi / hetupratyayanirmuktaṃ phalam āhetukaṃ bhavet
Sanskrit only: no published translation is held for this verse.
निरुद्धे चेत् फलं हेतौ हेतोः संक्रमणं भवेत् । पूर्वजातस्य हेतोश् च पुनर्जन्म प्रसज्यते
niruddhe cet phalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet / pūrvajātasya hetoś ca punarjanma prasajyate
Sanskrit only: no published translation is held for this verse.
जनयेत् फलम् उत्पन्नं निरुद्धो ऽस्तंगतः कथम् । हेतुस् तिष्ठन्न् अपि कथं फलेन जनयेद् वृतः
janayet phalam utpannaṃ niruddho 'staṃgataḥ katham / hetus tiṣṭhann api kathaṃ phalena janayed vṛtaḥ
Sanskrit only: no published translation is held for this verse.
अथावृतः फलेनासौ कतमज् जनयेत् फलम् । न ह्य् अदृष्ट्वा न दृष्ट्वापि हेतुर् जनयते फलम्
athāvṛtaḥ phalenāsau katamaj janayet phalam / na hy adṛṣṭvā na dṛṣṭvāpi hetur janayate phalam
Sanskrit only: no published translation is held for this verse.
नातीतस्य ह्य् अतीतेन फलस्य सह हेतुना । नाजातेन न जातेन संगतिर् जातु विद्यते
nātītasya hy atītena phalasya saha hetunā / nājātena na jātena saṃgatir jātu vidyate
Sanskrit only: no published translation is held for this verse.
न जातस्य ह्य् अजातेन फलस्य सह हेतुना । नातीतेन न जातेन संगतिर् जातु विद्यते
na jātasya hy ajātena phalasya saha hetunā / nātītena na jātena saṃgatir jātu vidyate
Sanskrit only: no published translation is held for this verse.
नाजातस्य हि जातेन फलस्य सह हेतुना । नाजातेन न नष्टेन संगतिर् जातु विद्यते
nājātasya hi jātena phalasya saha hetunā / nājātena na naṣṭena saṃgatir jātu vidyate
Sanskrit only: no published translation is held for this verse.
असत्यां संगतौ हेतुः कथं जनयते फलम् । सत्यां वा संगतौ हेतुः कथं जनयते फलम्
asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam / satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam
Sanskrit only: no published translation is held for this verse.
हेतुः फलेन शून्यश् चेत् कथं जनयते फलम् । हेतुः फलेनाशून्यश् चेत् कथं जनयते फलम्
hetuḥ phalena śūnyaś cet kathaṃ janayate phalam / hetuḥ phalenāśūnyaś cet kathaṃ janayate phalam
Sanskrit only: no published translation is held for this verse.
फलं नोत्पत्स्यते ऽशून्यम् अशून्यं न निरोत्स्यते । अनिरुद्धम् अनुत्पन्नम् अशून्यं तद् भविष्यति
phalaṃ notpatsyate 'śūnyam aśūnyaṃ na nirotsyate / aniruddham anutpannam aśūnyaṃ tad bhaviṣyati
Sanskrit only: no published translation is held for this verse.
कथम् उत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते । शून्यम् अप्य् अनिरुद्धं तद् अनुत्पन्नं प्रसज्यते
katham utpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate / śūnyam apy aniruddhaṃ tad anutpannaṃ prasajyate
Sanskrit only: no published translation is held for this verse.
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते । हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते
hetoḥ phalasya caikatvaṃ na hi jātūpapadyate / hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate
Sanskrit only: no published translation is held for this verse.
एकत्वे फलहेत्वोः स्याद् ऐक्यं जनकजन्ययोः । पृथक्त्वे फलहेत्वोः स्यात् तुल्यो हेतुर् अहेतुना
ekatve phalahetvoḥ syād aikyaṃ janakajanyayoḥ / pṛthaktve phalahetvoḥ syāt tulyo hetur ahetunā
Sanskrit only: no published translation is held for this verse.
फलं स्वभावसद्भूतं किं हेतुर् जनयिष्यति । फलं स्वभावासद्भूतं किं हेतुर् जनयिष्यति
phalaṃ svabhāvasadbhūtaṃ kiṃ hetur janayiṣyati / phalaṃ svabhāvāsadbhūtaṃ kiṃ hetur janayiṣyati
Sanskrit only: no published translation is held for this verse.
न चाजनयमानस्य हेतुत्वम् उपपद्यते । हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति
na cājanayamānasya hetutvam upapadyate / hetutvānupapattau ca phalaṃ kasya bhaviṣyati
Sanskrit only: no published translation is held for this verse.
न च प्रत्ययहेतूनाम् इयम् आत्मानम् आत्मना । या सामग्री जनयते सा कथं जनयेत् फलम्
na ca pratyayahetūnām iyam ātmānam ātmanā / yā sāmagrī janayate sā kathaṃ janayet phalam
Sanskrit only: no published translation is held for this verse.
न सामग्रीकृतं फलं नासामग्रीकृतं फलम् । अस्ति प्रत्ययसामग्री कुत एव फलं विना
na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam / asti pratyayasāmagrī kuta eva phalaṃ vinā
Sanskrit only: no published translation is held for this verse.