Library·Jaimini: Mimamsasutra, with Sabara's Bhasya·3·3.7

Jaimini: Mimamsasutra, with Sabara's Bhasya 3.7

* ३।६४१: ए२: ४,५४७; ए४: ४,८३६; ए६: १,२६१ * प्रकरणविशेषाद् असंयुक्तं प्रधानस्य

* 3/641: E2: 4,547; E4: 4,836; E6: 1,261 * prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya

Sanskrit only: no published translation is held for this verse.

स्तो दर्शपूर्णमासौ, तत्र बर्हिर् बर्हिर् धर्माश् च, तथा वेदिर् वेदिधर्माश् च। तत्र संदेहः - किं बर्हिरादयो बर्हिरादिधर्माश् च प्रधानस्योताङ्गप्रधानानाम् इति। किं तावत् प्राप्तम्? प्रकरणविशेषाद् असंयुक्तं प्रधानस्य, प्रधानस्य एवंजातीयका धर्माः। कस्मात्? प्रकरणविशेषात्, प्रधानानां हि प्रकरणं नाङ्गानाम्, प्रकरणेन चैषां संबन्धः, तस्मात् प्रधानस्य। सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात्

sto darśapūrṇamāsau, tatra barhir barhir dharmāś ca, tathā vedir vedidharmāś ca. tatra saṃdehaḥ - kiṃ barhirādayo barhirādidharmāś ca pradhānasyotāṅgapradhānānām iti. kiṃ tāvat prāptam? prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya, pradhānasya evaṃjātīyakā dharmāḥ. kasmāt? prakaraṇaviśeṣāt, pradhānānāṃ hi prakaraṇaṃ nāṅgānām, prakaraṇena caiṣāṃ saṃbandhaḥ, tasmāt pradhānasya. sarveṣāṃ vā śeṣatvasyātatprayuktatvāt

Sanskrit only: no published translation is held for this verse.

* ३।६४२: ए२: ४,५४९; ए४: ४,८३८; ए६: १,२६१ * आराद् अपीति चेत्

* 3/642: E2: 4,549; E4: 4,838; E6: 1,261 * ārād apīti cet

Sanskrit only: no published translation is held for this verse.

पिण्डपितृयज्ञे ऽपि बर्हिर् धर्मैर् युज्येत, सो ऽपि दाते बर्हिषि वर्तते, तस्य चापि बर्हिषास्ति प्रयोजनम्। तद् अप्य् आराच् छिष्टधर्मवत् स्यात्। न तद् वाक्यं हि तदर्थत्वात्

piṇḍapitṛyajñe 'pi barhir dharmair yujyeta, so 'pi dāte barhiṣi vartate, tasya cāpi barhiṣāsti prayojanam. tad apy ārāc chiṣṭadharmavat syāt. na tad vākyaṃ hi tadarthatvāt

Sanskrit only: no published translation is held for this verse.

न तस्य बर्हिर् एतैर् धर्मैर् धर्मवत्, वाक्यं ह्य् एकं दर्शपूर्णमासाभ्यां सह धर्माणाम्, तेन दर्शपूर्णमासयोर् उपकारका धर्माः, यद् दर्शपूर्णमासार्थम्, तत्र प्राप्नुवन्ति, नान्यत्र। तस्मात् पिण्डपितृयज्ञबर्हिषो न भविष्यन्ति। लिङ्गदर्शनाच् च

na tasya barhir etair dharmair dharmavat, vākyaṃ hy ekaṃ darśapūrṇamāsābhyāṃ saha dharmāṇām, tena darśapūrṇamāsayor upakārakā dharmāḥ, yad darśapūrṇamāsārtham, tatra prāpnuvanti, nānyatra. tasmāt piṇḍapitṛyajñabarhiṣo na bhaviṣyanti. liṅgadarśanāc ca

Sanskrit only: no published translation is held for this verse.

लिङ्गं भवति, एवम् आह - स वै ध्रुवाम् एवाग्रे ऽभिधारयति, ततो हि प्रथमावाज्यभागौ यक्ष्यन् भवतीत्य् अभिधारणस्याज्यभागार्थतां दर्शयति। फलसंयोगात् तु स्वामियुक्तं प्रधानस्य

liṅgaṃ bhavati, evam āha - sa vai dhruvām evāgre 'bhidhārayati, tato hi prathamāvājyabhāgau yakṣyan bhavatīty abhidhāraṇasyājyabhāgārthatāṃ darśayati. phalasaṃyogāt tu svāmiyuktaṃ pradhānasya

Sanskrit only: no published translation is held for this verse.

* ३।६४३: ए२: ४,५५२; ए४: ४,८४४; ए६: १,२६२ * चिकीर्षया च संयोगात्

* 3/643: E2: 4,552; E4: 4,844; E6: 1,262 * cikīrṣayā ca saṃyogāt

Sanskrit only: no published translation is held for this verse.

* ३।६४४: व्ग्ल्। तैत्स्। ६।२।४।५ * * ३।६४५: ए२: ४,५५३; ए४: ४,८४८; ए६: १,२६३ * * ३।६४६: ए१ गिब्त् स्थितं तावद् अपर्यवसितम् इन् क्लम्मेर्न् * तथाभिधानेन

* 3/644: Vgl. Tait.S. 6.2.4.5 * * 3/645: E2: 4,553; E4: 4,848; E6: 1,263 * * 3/646: E1 gibt sthitaṃ tāvad aparyavasitam in Klammern * tathābhidhānena

Sanskrit only: no published translation is held for this verse.

* ३।६४७: मैत्स्। १।९।१ * * ३।६४८: ए२,४: च तत् * तद् युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात्

* 3/647: Mait.S. 1.9.1 * * 3/648: E2,4: ca tat * tad yukte tu phalaśrutis tasmāt sarvacikīrṣā syāt

Sanskrit only: no published translation is held for this verse.

* ३।६४९: ए१ गिब्त् स्थिताद् उत्तरम् इन् क्लम्मेर्न् * * ३।६५०: ए२: ४,५५४; ए४: ४,८५०; ए६: १,२६३ * गुणाभिधानात् सर्वार्थम् अभिधानम्

* 3/649: E1 gibt sthitād uttaram in Klammern * * 3/650: E2: 4,554; E4: 4,850; E6: 1,263 * guṇābhidhānāt sarvārtham abhidhānam

Sanskrit only: no published translation is held for this verse.

यद् उक्तम् - प्रधाननामत्वात् पौर्णमासीशब्दस्यामावास्याशब्दस्य च, प्रधानहविषाम् अभिमर्शनम् इति। नैतद् एवम्, अङ्गहविषाम् अप्य् अभिमऋशनं स्यात्। कुतः? गुणाभिधानात्, गुणो ऽभिमर्शनम् इत्य् अभिधानं भवति। कतमत् तदभिधानम्? यत् गुणो ऽभिमर्शनम् इति ब्रूते। पौर्णमासीम् अमावास्याम् इति च द्वितीयान्तं पौर्णमास्यर्थम् अभिमर्शनं कर्तव्यम्, अमावास्यार्थम् अभिमर्शनं कर्तव्यम् इति, अतो यत्र यत्र क्रियमाणं पौर्णमास्याम् अमावास्यायां वोपकरोति, तत्र तत्र कर्तव्यम्। यद् यत् पौर्णमास्याम् अमावास्यायां वाभिसंबध्यते, साक्सात्, प्रणाड्या वा, तत्र तत्र क्रियमाणं तयोर् उपकरोति। तस्मात् प्रधानहविषाम् अङ्गहविषां च कर्तव्यम् इति। दीक्षादक्षिणं तु वचनात् प्रधानस्य

yad uktam - pradhānanāmatvāt paurṇamāsīśabdasyāmāvāsyāśabdasya ca, pradhānahaviṣām abhimarśanam iti. naitad evam, aṅgahaviṣām apy abhimaṛśanaṃ syāt. kutaḥ? guṇābhidhānāt, guṇo 'bhimarśanam ity abhidhānaṃ bhavati. katamat tadabhidhānam? yat guṇo 'bhimarśanam iti brūte. paurṇamāsīm amāvāsyām iti ca dvitīyāntaṃ paurṇamāsyartham abhimarśanaṃ kartavyam, amāvāsyārtham abhimarśanaṃ kartavyam iti, ato yatra yatra kriyamāṇaṃ paurṇamāsyām amāvāsyāyāṃ vopakaroti, tatra tatra kartavyam. yad yat paurṇamāsyām amāvāsyāyāṃ vābhisaṃbadhyate, sāksāt, praṇāḍyā vā, tatra tatra kriyamāṇaṃ tayor upakaroti. tasmāt pradhānahaviṣām aṅgahaviṣāṃ ca kartavyam iti. dīkṣādakṣiṇaṃ tu vacanāt pradhānasya

Sanskrit only: no published translation is held for this verse.

* ३।६५१: ए२: ४,५५६; ए४: ४,८५३; ए६: १,२६४ * निवृत्तिदर्शनाच् च

* 3/651: E2: 4,556; E4: 4,853; E6: 1,264 * nivṛttidarśanāc ca

Sanskrit only: no published translation is held for this verse.

निवृत्तिं दीक्षाणां दर्शयति। कथम्? अध्वर्यो यत् पशुनायाक्षीरथ कास्य दीक्षेति यत् षड्ढोतारं जुहोति सास्य दीक्षेति, असत्याम् अपि दीक्षायां वचनं भवति। तस्माद् अङ्गानां दीक्षादक्षिणम् इति। तथा यूपस्य वेदिः

nivṛttiṃ dīkṣāṇāṃ darśayati. katham? adhvaryo yat paśunāyākṣīratha kāsya dīkṣeti yat ṣaḍḍhotāraṃ juhoti sāsya dīkṣeti, asatyām api dīkṣāyāṃ vacanaṃ bhavati. tasmād aṅgānāṃ dīkṣādakṣiṇam iti. tathā yūpasya vediḥ

Sanskrit only: no published translation is held for this verse.

* ३।६५२: तैत्स्। ६।१।११।६ * * ३।६५३: ए२: ४,५५८; ए४: ४,८५६; ए६: १,२६५ * देशमात्रं वाशिष्येणैकवाक्यत्वात्

* 3/652: Tait.S. 6.1.11.6 * * 3/653: E2: 4,558; E4: 4,856; E6: 1,265 * deśamātraṃ vāśiṣyeṇaikavākyatvāt

Sanskrit only: no published translation is held for this verse.

* ३।६५४: ए२,४: वेदिर् यूपाङ्गम् * * ३।६५५: ए२,४: बहिर्वेदिदेशो * स्वामिधेनीस् तद् अन्वाहुर् इति हविर्धानयोर् वचनात् सामिधेनीनाम्

* 3/654: E2,4: vedir yūpāṅgam * * 3/655: E2,4: bahirvedideśo * svāmidhenīs tad anvāhur iti havirdhānayor vacanāt sāmidhenīnām

Sanskrit only: no published translation is held for this verse.

* ३।६५६: ए२: ४,५६०; ए४: ४,८६१; ए६: १,२६५ * देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य

* 3/656: E2: 4,560; E4: 4,861; E6: 1,265 * deśamātraṃ vā pratyakṣaṃ hy arthakarma somasya

Sanskrit only: no published translation is held for this verse.

* ३।६५७: ए२,४: आसादयन्तीति * * ३।६५८: ए२,४ ओम्। ऽप्य् * * ३।६५९: ए२ उन्द् ४ गेबेन् सामिधेन्यो ऽग्निसमिन्धनार्थम् उपादेया इन् क्लम्मेर्न् * * ३।६६०: ए२: ४,५६१; ए४: ४,८६३; ए६: १,२६६ * * ३।६६१: ए२,४: हविर्धानीविशेषसंबन्धो ऽत्र * * ३।६६२: ए२,४: न हविर्धानसंबन्धो * * ३।६६३: ए२,४: तत् * समाख्यानं च तद्वत्

* 3/657: E2,4: āsādayantīti * * 3/658: E2,4 om. 'py * * 3/659: E2 und 4 geben sāmidhenyo 'gnisamindhanārtham upādeyā in Klammern * * 3/660: E2: 4,561; E4: 4,863; E6: 1,266 * * 3/661: E2,4: havirdhānīviśeṣasaṃbandho 'tra * * 3/662: E2,4: na havirdhānasaṃbandho * * 3/663: E2,4: tat * samākhyānaṃ ca tadvat

Sanskrit only: no published translation is held for this verse.

समाख्यानं च तद्वद् एव भवति, यथास्माभिर् न्याय उपदिष्टः - सोमार्थं हविर्धानम् इति। शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात्

samākhyānaṃ ca tadvad eva bhavati, yathāsmābhir nyāya upadiṣṭaḥ - somārthaṃ havirdhānam iti. śāstraphalaṃ prayoktari tallakṣaṇatvāt tasmāt svayaṃ prayoge syāt

Sanskrit only: no published translation is held for this verse.

* ३।६६४: ए२: ४,५६३; ए४: ४,८६७; ए६: १,२६७ * उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य, तस्माद् अन्यः स्वयं वा स्यात्

* 3/664: E2: 4,563; E4: 4,867; E6: 1,267 * utsarge tu pradhānatvāc cheṣakārī pradhānasya, tasmād anyaḥ svayaṃ vā syāt

Sanskrit only: no published translation is held for this verse.

उत्सर्गे प्राधान्यम् अस्ति। कथम्? य उत्सर्गं करोति तेन सर्वं कृतं भवति। कथम्? परिक्रय उत्सर्गः, तेनानन्ताः सर्वं कुर्वन्ति। तस्माद् यः परिक्रयं करोति तेन स्वयम् एव सर्वं कृतं भवति। तस्माद् उत्सर्गमात्रं स्वयं कुर्यात्, शेषम् अन्यः स्वयं वा। अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यगात्मनि

utsarge prādhānyam asti. katham? ya utsargaṃ karoti tena sarvaṃ kṛtaṃ bhavati. katham? parikraya utsargaḥ, tenānantāḥ sarvaṃ kurvanti. tasmād yaḥ parikrayaṃ karoti tena svayam eva sarvaṃ kṛtaṃ bhavati. tasmād utsargamātraṃ svayaṃ kuryāt, śeṣam anyaḥ svayaṃ vā. anyo vā syāt parikrayāmnānād vipratiṣedhāt pratyagātmani

Sanskrit only: no published translation is held for this verse.

* ३।६६५: ए२: ४,५६६; ए४: ४,८७५; ए६: १,२६८ * तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात्

* 3/665: E2: 4,566; E4: 4,875; E6: 1,268 * tatrārthāt kartṛparimāṇaṃ syād aniyamo 'viśeṣāt

Sanskrit only: no published translation is held for this verse.

* ३।६६६: ए२,४: वृणीतेति, ए६: वृणीते * अपि वा श्रुतिभेदात् प्रतिनामधेयं स्युः

* 3/666: E2,4: vṛṇīteti, E6: vṛṇīte * api vā śrutibhedāt pratināmadheyaṃ syuḥ

Sanskrit only: no published translation is held for this verse.

* ३।६६७: ए२,४ ओम्। च * * ३।६६८: ए२,४: अभ्युदानयति * एकस्य कर्मभेदाद् इति चेत्

* 3/667: E2,4 om. ca * * 3/668: E2,4: abhyudānayati * ekasya karmabhedād iti cet

Sanskrit only: no published translation is held for this verse.

* ३।६६९: ए२: ४,५६७; ए४: ४,८७८; ए६: १,२६८ * नोत्पत्तौ हि

* 3/669: E2: 4,567; E4: 4,878; E6: 1,268 * notpattau hi

Sanskrit only: no published translation is held for this verse.

* ३।६७०: ए२,४,६: ब्रह्माणं * * ३।६७१: ए२,४ ओम्। सोमस् * * ३।६७२: ए२,४: च सोमः स्यात् * चमसाध्वर्यवश् च तैर् व्यपदेशात्

* 3/670: E2,4,6: brahmāṇaṃ * * 3/671: E2,4 om. somas * * 3/672: E2,4: ca somaḥ syāt * camasādhvaryavaś ca tair vyapadeśāt

Sanskrit only: no published translation is held for this verse.

* ३।६७३: ए२: संकीर्तनाद् एषाम् एवम् अन्यतमा इति, ए४: संकीर्तनादेशाम् एवान्यतमा इति * * ३।६७४: ए२: ४,५६९; ए४: ४,८८२; ए६: १,२६९ * * ३।६७५: ए२,४: चमसाध्वर्युत्वं * उत्पत्तौ तु बहुश्रुतेः

* 3/673: E2: saṃkīrtanād eṣām evam anyatamā iti, E4: saṃkīrtanādeśām evānyatamā iti * * 3/674: E2: 4,569; E4: 4,882; E6: 1,269 * * 3/675: E2,4: camasādhvaryutvaṃ * utpattau tu bahuśruteḥ

Sanskrit only: no published translation is held for this verse.

तेष्व् व संदेहः - किम् अनियमः, एको द्वौ बहवो वा, उत बहव एवेति? अनियम इति प्राप्त उच्यते - बहव इति। कुतः? उत्पत्तौ बहुश्रुतेः, चमसाध्वर्यव इत्य् एषाम् उत्पत्तौ बहुश्रुतिर् भवति, तस्माद् बहव इति। दशत्वं लिङ्गदर्शनात्

teṣv va saṃdehaḥ - kim aniyamaḥ, eko dvau bahavo vā, uta bahava eveti? aniyama iti prāpta ucyate - bahava iti. kutaḥ? utpattau bahuśruteḥ, camasādhvaryava ity eṣām utpattau bahuśrutir bhavati, tasmād bahava iti. daśatvaṃ liṅgadarśanāt

Sanskrit only: no published translation is held for this verse.

* ३।६७६: ए२,४: सन्ति चमसाध्वर्यवः * * ३।६७७: ए२: ४,५७०; ए४: ४,८८४; ए६: १,२७० * शमिता च शब्दभेदात्

* 3/676: E2,4: santi camasādhvaryavaḥ * * 3/677: E2: 4,570; E4: 4,884; E6: 1,270 * śamitā ca śabdabhedāt

Sanskrit only: no published translation is held for this verse.

* ३।६७८: ए२,४: चार्धं * * ३।६७९: ऐब्र्। ७।१ * प्रकरणाद् वोत्पत्त्यसंयोगात्

* 3/678: E2,4: cārdhaṃ * * 3/679: Ai.Br. 7.1 * prakaraṇād votpattyasaṃyogāt

Sanskrit only: no published translation is held for this verse.

सत्यं संख्याविवृद्धिर् गम्यते, न तूत्पद्यमानेषु, या त्व् अनुत्पत्तिस् तेषु गम्यते, तत्रैकस्य कर्मभेदाद् इत्य् एवम् अप्य् अवकल्पते। यत् तूक्तम् - अब्राह्मणाशङ्का भवतीति, यजमानाभिप्राया सा, यद्य् अब्राह्मणो यजमानः स्याद् इति। ननु यद्य् अब्राह्मणः स्याद् इति प्रकृतः शमिता संबध्यते। उच्यते - शमयतीति शमिता, यौगिक एष शब्दः प्रकृतेष्व् अप्य् अवकल्पते। शामित्रम् अप्य् आध्वर्यवे समाम्नानाद् अध्वर्युणा कर्तव्यम्। [४०१] तस्माच् छमनाद् अध्वर्युः शमिता। एवं सति अप्रकृतो यजमानः संबन्ध्यते। उपगाश् च लिङ्गदर्शनात्

satyaṃ saṃkhyāvivṛddhir gamyate, na tūtpadyamāneṣu, yā tv anutpattis teṣu gamyate, tatraikasya karmabhedād ity evam apy avakalpate. yat tūktam - abrāhmaṇāśaṅkā bhavatīti, yajamānābhiprāyā sā, yady abrāhmaṇo yajamānaḥ syād iti. nanu yady abrāhmaṇaḥ syād iti prakṛtaḥ śamitā saṃbadhyate. ucyate - śamayatīti śamitā, yaugika eṣa śabdaḥ prakṛteṣv apy avakalpate. śāmitram apy ādhvaryave samāmnānād adhvaryuṇā kartavyam. [401] tasmāc chamanād adhvaryuḥ śamitā. evaṃ sati aprakṛto yajamānaḥ saṃbandhyate. upagāś ca liṅgadarśanāt

Sanskrit only: no published translation is held for this verse.

ज्योतिष्टोमे सन्त्य् उपगा नाम, ते शब्दभेदात् संख्याविवृद्धिं प्रत्याययन्तीत्य् अध्वर्य्वादिभ्यो ऽन्य इति प्राप्ते ब्रूमः - तेषाम् एव केचित् स्युर् इति। कस्मात्? उत्पत्तौ परिगणनात्, यौगिककत्वाच् च शब्दस्य। लिङ्गम् इदं भवति - नाध्वर्युर् उपगायेद् इति, यद्य् एभ्यो ऽन्ये भवेयुर् नाध्वर्युं प्रतिषेधेत्। अप्राप्तत्वात्। यतस् तु प्रतिषेधति, अतो ऽवगछामः, उत्पत्तौ संकीर्तितानाम् एवान्यतम इति। विक्रयी त्व् अन्यः कर्मणो ऽचोदितत्वात्

jyotiṣṭome santy upagā nāma, te śabdabhedāt saṃkhyāvivṛddhiṃ pratyāyayantīty adhvaryvādibhyo 'nya iti prāpte brūmaḥ - teṣām eva kecit syur iti. kasmāt? utpattau parigaṇanāt, yaugikakatvāc ca śabdasya. liṅgam idaṃ bhavati - nādhvaryur upagāyed iti, yady ebhyo 'nye bhaveyur nādhvaryuṃ pratiṣedhet. aprāptatvāt. yatas tu pratiṣedhati, ato 'vagachāmaḥ, utpattau saṃkīrtitānām evānyatama iti. vikrayī tv anyaḥ karmaṇo 'coditatvāt

Sanskrit only: no published translation is held for this verse.

* ३।६८०: ए२: ४,५७२; ए४: ४,८९१; ए६: १,२७१ * कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात्

* 3/680: E2: 4,572; E4: 4,891; E6: 1,271 * karmakāryāt sarveṣām ṛtviktvam aviśeṣāt

Sanskrit only: no published translation is held for this verse.

य एते पुरुषा ज्योतिष्टोमस्य श्रूयन्ते, ते किं सर्व एत ऋत्विजः, उत केचिद् एषाम् इति। किं प्राप्तम्? सर्वे। कुतः? कर्मकार्यात्, सर्वे यागस्य साधनं कुर्वन्ति, तस्मात् सर्व ऋतौ यजन्ति। ये चर्तौ यजन्ति त ऋत्विजः, न कश्चिद् विशेष आश्रीयते, इम एवर्तौ यजन्तीत्य् ऋत्विजः, इमे नेति। तस्मात् सर्वेषाम् ऋत्विक्त्वम्। ननु परिसंख्या श्रूयते - सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति। उच्यते - परिसंख्यायां बहवो दोषाः सन्तीति, अवयुत्यवादो ऽयं भविष्यति। न वा परिसंख्यानात्

ya ete puruṣā jyotiṣṭomasya śrūyante, te kiṃ sarva eta ṛtvijaḥ, uta kecid eṣām iti. kiṃ prāptam? sarve. kutaḥ? karmakāryāt, sarve yāgasya sādhanaṃ kurvanti, tasmāt sarva ṛtau yajanti. ye cartau yajanti ta ṛtvijaḥ, na kaścid viśeṣa āśrīyate, ima evartau yajantīty ṛtvijaḥ, ime neti. tasmāt sarveṣām ṛtviktvam. nanu parisaṃkhyā śrūyate - saumyasyādhvarasya yajñakratoḥ saptadaśa ṛtvija iti. ucyate - parisaṃkhyāyāṃ bahavo doṣāḥ santīti, avayutyavādo 'yaṃ bhaviṣyati. na vā parisaṃkhyānāt

Sanskrit only: no published translation is held for this verse.

* ३।६८१: ए२,४ ओम्। कथम् * * ३।६८२: ए२: ४,५७४; ए४: ४,८९२; ए६: १,२७१ * * ३।६८३: ए२,४: संबध्यन्ते * * ३।६८४: ए२,४ ओम्। इति * * ३।६८५: ए२: ४,५७७; ए४: ४,८९३; ए६: १,२७२ * पक्षेणेति चेत्

* 3/681: E2,4 om. katham * * 3/682: E2: 4,574; E4: 4,892; E6: 1,271 * * 3/683: E2,4: saṃbadhyante * * 3/684: E2,4 om. iti * * 3/685: E2: 4,577; E4: 4,893; E6: 1,272 * pakṣeṇeti cet

Sanskrit only: no published translation is held for this verse.

एवं चेन् मन्यसे - यथोक्तपक्षेणैतद् एवम् उच्यते, अवयुत्यवादपक्षेण सप्तदश ऋत्विज इति, तत् परिहर्तव्यम्। न सर्वेषाम् अनधिकारः

evaṃ cen manyase - yathoktapakṣeṇaitad evam ucyate, avayutyavādapakṣeṇa saptadaśa ṛtvija iti, tat parihartavyam. na sarveṣām anadhikāraḥ

Sanskrit only: no published translation is held for this verse.

नैतद् एवम्, नात्र सर्वेषां पुरुषाणां वचनम्, यान् अधिकृत्यावयुत्यवादो भविष्यति। यत्र परा संख्या कीर्त्यते, तत्रावयुत्यवादो भवति, यथा - द्वादशकपाले यद् अष्टाकपालो भवतीति, न च, इह परा संख्या कीर्त्यते। तस्मान् नावयुत्यवाद इति। नियमस् तु दक्षिणाभिः श्रुतिसंयोगात्

naitad evam, nātra sarveṣāṃ puruṣāṇāṃ vacanam, yān adhikṛtyāvayutyavādo bhaviṣyati. yatra parā saṃkhyā kīrtyate, tatrāvayutyavādo bhavati, yathā - dvādaśakapāle yad aṣṭākapālo bhavatīti, na ca, iha parā saṃkhyā kīrtyate. tasmān nāvayutyavāda iti. niyamas tu dakṣiṇābhiḥ śrutisaṃyogāt

Sanskrit only: no published translation is held for this verse.

* ३।६८६: तैत्ब्र्। १।१।६।१० * * ३।६८७: ए२: ४,५७९; ए४: ४,९०३; ए६: १,२७३ * उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात्

* 3/686: Tait.Br. 1.1.6.10 * * 3/687: E2: 4,579; E4: 4,903; E6: 1,273 * uktvā ca yajamānatvaṃ teṣāṃ dīkṣāvidhānāt

Sanskrit only: no published translation is held for this verse.

* ३।६८८: ए२,४: आग्नीध्रं * स्वामिसप्तदशाः कर्मसामान्यात्

* 3/688: E2,4: āgnīdhraṃ * svāmisaptadaśāḥ karmasāmānyāt

Sanskrit only: no published translation is held for this verse.

* ३।६८९: ए२: ४,५८१; ए४: ४,९०५; ए६: १,२७४ * ते स्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात्

* 3/689: E2: 4,581; E4: 4,905; E6: 1,274 * te svārthāḥ prayuktatvād agnayaś ca svakālatvāt

Sanskrit only: no published translation is held for this verse.

* ३।६९०: ए२: ४,५८४; ए४: ४,९१४; ए६: १,२७४ * तत्संयोगात् कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात्

* 3/690: E2: 4,584; E4: 4,914; E6: 1,274 * tatsaṃyogāt karmaṇo vyavasthā syāt, saṃyogasyārthavattvāt

Sanskrit only: no published translation is held for this verse.

तत्संयोगाद् विशिष्टपुरुषसंयोगात्, व्यवतिष्ठेत, ये येन पुरुषेण समाख्यायन्ते, ते तेन कर्तव्याः, एवं तेषां पुरुषसंयोगो ऽर्थवान् भविष्यति। आध्वर्यवम् अध्वर्युणा, हौत्रं होत्रा, औद्गात्रम् उद्गात्रेति। तस्योपदेशसमाख्यानेन निर्देशः

tatsaṃyogād viśiṣṭapuruṣasaṃyogāt, vyavatiṣṭheta, ye yena puruṣeṇa samākhyāyante, te tena kartavyāḥ, evaṃ teṣāṃ puruṣasaṃyogo 'rthavān bhaviṣyati. ādhvaryavam adhvaryuṇā, hautraṃ hotrā, audgātram udgātreti. tasyopadeśasamākhyānena nirdeśaḥ

Sanskrit only: no published translation is held for this verse.

* ३।६९१: तैत्ब्र्। ३।१२।९।५ * तद्वच् च लिङ्गदर्शनम्

* 3/691: Tait.Br. 3.12.9.5 * tadvac ca liṅgadarśanam

Sanskrit only: no published translation is held for this verse.

* ३।६९२: ए२,४: हौत्रे * * ३।६९३: ए२,४: उक्थ्यशंसिनां * * ३।६९४: ए२: ४,५८६; ए४: ४,९१८; ए६: १,२७५ * * ३।६९५: ए२: प्रतिगरो, ए४: प्रतिरो * * ३।६९६: तैत्स्। ३।१।२।३ * प्रैषानुवचनं मैत्रावरुणस्योपदेशात्

* 3/692: E2,4: hautre * * 3/693: E2,4: ukthyaśaṃsināṃ * * 3/694: E2: 4,586; E4: 4,918; E6: 1,275 * * 3/695: E2: pratigaro, E4: pratiro * * 3/696: Tait.S. 3.1.2.3 * praiṣānuvacanaṃ maitrāvaruṇasyopadeśāt

Sanskrit only: no published translation is held for this verse.

* ३।६९७: तैत्स्। ६।१।११।६ * पुरो ऽनुवाक्याधिकारो वा प्रैषसंनिधानात्

* 3/697: Tait.S. 6.1.11.6 * puro 'nuvākyādhikāro vā praiṣasaṃnidhānāt

Sanskrit only: no published translation is held for this verse.

* ३।६९८: ए२: ४,५८८; ए४: ४,९२३; ए६: १,२७५ * प्रातरनुवाके होतृदर्शनात्

* 3/698: E2: 4,588; E4: 4,923; E6: 1,275 * prātaranuvāke hotṛdarśanāt

Sanskrit only: no published translation is held for this verse.

इतश् च पश्यामो न सर्वानुवचनेषु मैत्रावरुण इति। कुतः? यतः प्रातरनुवाके होतारं दर्शयति। कथम्? यत्र होतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयात्, तदाध्वयुर् गृह्णीयाद् इति। तस्मान् न सर्वानुवचनेषु मैत्रावरुण इति। चमसांश् चमसाध्वर्यवः समाख्यानात्

itaś ca paśyāmo na sarvānuvacaneṣu maitrāvaruṇa iti. kutaḥ? yataḥ prātaranuvāke hotāraṃ darśayati. katham? yatra hotuḥ prātaranuvākam anubruvata upaśṛṇuyāt, tadādhvayur gṛhṇīyād iti. tasmān na sarvānuvacaneṣu maitrāvaruṇa iti. camasāṃś camasādhvaryavaḥ samākhyānāt

Sanskrit only: no published translation is held for this verse.

सन्ति चमसाध्वर्यवस् तेषु संदेहः - किं चमसाध्वर्यवश् चमसाञ् जुहुयुर् उताध्वर्युर् इति। चमसाध्वर्यव इति ब्रूमः। कस्मात्? चमसेष्व् आध्वर्यवं ते कुर्वन्तीति चमसाध्वर्यवः, तस्मात् ते जुहुयुर् इति। अध्वर्युर् वा तन् न्यायत्वात्

santi camasādhvaryavas teṣu saṃdehaḥ - kiṃ camasādhvaryavaś camasāñ juhuyur utādhvaryur iti. camasādhvaryava iti brūmaḥ. kasmāt? camaseṣv ādhvaryavaṃ te kurvantīti camasādhvaryavaḥ, tasmāt te juhuyur iti. adhvaryur vā tan nyāyatvāt

Sanskrit only: no published translation is held for this verse.

अध्वर्युर् वा जुहुयात्, एस हि न्यायः - यद् आर्ध्वर्यवपदार्थम् अध्वर्युः कुर्यात्, आध्वर्यवश् च होमः, तस्माद् अध्वर्युर् जुहुयात्। ननु चमसाध्वर्यव इति विशेषसमाख्यानाच् चमसाध्वर्यवो होष्यन्तीति। नेत्य् उच्यते, चमसेष्व् एते ऽध्वर्युवद् भवन्तीति चमसाध्वर्यवः। यदि तैर् अध्वर्युर् जुहोति, ततस् तैश् चमसाध्वर्युभिर् अपि होतव्यम्। यदि चमसाध्वर्यवो जुह्वति, नाध्वर्युः। तदा ते न तद्वत् स्युश् चमसाध्वर्यवः। तस्मान् न जुहुयुर् इति। चमसे चान्यदर्शनात्

adhvaryur vā juhuyāt, esa hi nyāyaḥ - yad ārdhvaryavapadārtham adhvaryuḥ kuryāt, ādhvaryavaś ca homaḥ, tasmād adhvaryur juhuyāt. nanu camasādhvaryava iti viśeṣasamākhyānāc camasādhvaryavo hoṣyantīti. nety ucyate, camaseṣv ete 'dhvaryuvad bhavantīti camasādhvaryavaḥ. yadi tair adhvaryur juhoti, tatas taiś camasādhvaryubhir api hotavyam. yadi camasādhvaryavo juhvati, nādhvaryuḥ. tadā te na tadvat syuś camasādhvaryavaḥ. tasmān na juhuyur iti. camase cānyadarśanāt

Sanskrit only: no published translation is held for this verse.

* ३।६९९: ए२: ४,५८९; ए४: ४,९२५; ए६: १,२७६ * * ३।७००: ए२,४: स हुत्वा * * ३।७०१: ए२,४: एवं स * अशक्तौ ते प्रतीयेरन्

* 3/699: E2: 4,589; E4: 4,925; E6: 1,276 * * 3/700: E2,4: sa hutvā * * 3/701: E2,4: evaṃ sa * aśaktau te pratīyeran

Sanskrit only: no published translation is held for this verse.

अथ कथं चमसाध्वर्यव इति समाख्यानम्? उच्यते - अशक्तौ ते प्रतीयेरन्, यदा व्यापृतत्वात्, न शक्नोत्य् अध्वर्युर् होतुम्, तदा समाख्यासाम् अर्थात् ते होष्यन्ति। वेदोपदेशात् पूर्ववद् वेदान्यत्वे यथोपदेशं स्युः

atha kathaṃ camasādhvaryava iti samākhyānam? ucyate - aśaktau te pratīyeran, yadā vyāpṛtatvāt, na śaknoty adhvaryur hotum, tadā samākhyāsām arthāt te hoṣyanti. vedopadeśāt pūrvavad vedānyatve yathopadeśaṃ syuḥ

Sanskrit only: no published translation is held for this verse.

* ३।७०२: ए१ गिब्त् समाख्यानाद् इत्य् अर्थः इन् क्लम्मेर्न् * * ३।७०३: ए२: ४,५९१; ए४: ४,९२८; ए६: १,२७७ * तद्ग्रहणाद् वा स्वधर्मः स्याद् अधिकारसामर्थ्यात् सहाङ्गैर् अव्यक्तः शेषे

* 3/702: E1 gibt samākhyānād ity arthaḥ in Klammern * * 3/703: E2: 4,591; E4: 4,928; E6: 1,277 * tadgrahaṇād vā svadharmaḥ syād adhikārasāmarthyāt sahāṅgair avyaktaḥ śeṣe

Sanskrit only: no published translation is held for this verse.