Library·Maitrāyaṇīya Upaniṣad·5

Maitrāyaṇīya Upaniṣad 5

MaiU 5

मैत्रायण्युपनिषत् सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथो बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ मैत्रायणी कौषितकी बृहज्जाबालतापनी । कालाग्निरुद्रमैत्रेयी सुबालक्षुरमन्त्रिका । ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः शारीरं वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो वयं स त्वं नो ब्रूहीत्येतद्वृतं पुरस्तादशक्यं मा पृच्छ प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति शाकायन्यस्य चरणवभिमृश्यमानो राजेमां गाथां जगाद ॥ १॥ भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदू षिते विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे निःसारेऽस्मिञ्छरीरे किं कामोपभोगैः ॥ २॥ कामक्रोधलोभभयविषादेर्ष्येष्टवियोगानिष्टसम्प्रयोगक्षु त्पिपासाजरामृत्युरोगशोकाद्यैरभिहतेऽस्मिञ्छरीरे किं कामोपभोगैः ॥ ३॥ सर्वं चेदं क्षयिष्णु पश्यामो यथेमे दंशमशकादयस्तृणवन्नश्यतयोद्भूतप्रध्वंसिनः ॥ ४॥ अथ किमेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः केचित्सुद्युम्नभूरिद्युम्नेन्द्रद्युम्नकुवलयाश्वयौवनाश्ववद्धिया श्वाश्वपतिः शशबिन्दुर्हारिश्चन्द्रोऽम्बरीषो ननूक्तस्वयातिर्ययातिनरण्योक्षसेनोत्थमरुत्तभरतप्रभृतयो राजानो मिषतो बन्धुवर्गस्य महतीं श्रियं त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति ॥ ५॥ अथ किमेतैर्वा परेऽन्ये गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां निरोधनं पश्यामः ॥ ६॥ अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणं सोऽहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदिहावर्तनं दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिस्त्वं नो गतिः ॥ ७॥ इति प्रथमः प्रपाठकः ॥ अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मजः कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं वा व खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच इति ॥ १॥ य एषो बाह्यावष्टम्भनेनोर्ध्वमुत्क्रान्तो व्यथमानोऽव्यथमानस्तमः प्रणुदत्येष आत्मेत्याह भगवानथ य एष सम्प्रसादोऽस्माञ्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥ २॥ अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं भगवता मैत्रेयेण व्याख्याताहं ते कथयिष्यामीत्यथापहतपाप्मानस्तिग्मतेजस ऊर्ध्वरेतसो वालखिल्या इति श्रुयन्तेऽथैते प्रजापतिमब्रुवन्भगवञ्शकटमिवाचेतनमिदं शरीरं कस्यैष खल्वीदृशो महिमातीन्द्रियभूतस्य येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयितास्य को भगवन्नेतदस्माकं ब्रूहीति तान्होवाच ॥ ३॥ यो ह खलु वाचोपरिस्थः श्रूयते स एव वा एष शुद्धः पूतः शून्यः शान्तो प्राणोऽनीशत्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते होचुर्भगवन्कथमनेनेदृशेनानिच्छेनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति कथमिति तान्होवाच ॥ ४॥ स वा एष सूक्ष्मोऽग्राह्योऽदृश्यः पुरुषसञ्ज्ञको बुद्धिपूर्वमिहैवावर्ततेंऽशेन सुषुप्तस्यैव बुद्धिपूर्वं निबोधयत्यथ योह खलु वावाइतस्यांशोऽयं यश्चेतनमात्रः प्रतिपूरुषं क्षेत्रज्ञः सङ्कल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्विश्वक्षस्तेन चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते होचुर्भगवन्नीदृशस्य कथमंशेन वर्तनमिति तान्होवाच ॥ ५॥ प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स आत्मनमभिध्यायद्बव्हीः प्रजा असृजत्त अस्यैवात्मप्रबुद्धा अप्राणा स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत सोऽमन्यतैतासं प्रतिबोधनायाभ्यन्तरं प्राविशानीत्यथ स वायुमिवात्मानं कृत्वाभ्यन्तरं प्राविशत्स एको नाविशत्स पञ्चधात्मानं प्रविभज्योच्यते यः प्राणोऽपानः समान उदानो व्यान इति ॥ ६॥ अथ योऽयमूर्ध्वमुत्क्रामतीत्येष वाव स प्राणोऽथ योयमावञ्चं सङ्क्रामत्वेष वाव सोऽपानोऽथ योयं स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्गेऽङ्गे समं नयत्येष वाव स समानोऽथ योऽयं पीताशितमुद्गिरति निगिरतीति चैष वाव स उदानोऽथ येनैताः शिरा अनुव्याप्ता एष वाव स व्यानः ॥ ७॥ अथोपांशुरन्तर्याम्यमिभवत्यन्तर्याममुपांशुमेतयोरन्तराले चौष्ण्यं मासवदौष्ण्यं स पुरुषोऽथ यः पुरुषः सोऽग्निर्वैश्वानरोऽप्यन्यत्राप्युक्तमयमग्निर्वैश्वानरो योऽयमनन्तः पुरुषो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यदेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ ८॥ स वा एष पञ्चधात्मानं प्रविभज्य निहितो गुहायां मनोमयः प्राणशरीरो बहुरूपः सत्यसं कल्प आत्मेति स वा एषोऽस्य हृदन्तरे तिष्ठन्नकृतार्थोऽमन्यतार्थानसानि तत्स्वानीमानि भित्त्वोदितः पञ्चभी रश्मिभिर्विषयानत्तीति बुद्धीन्द्रियाणि यानीमान्येतान्यस्य रश्मयः कर्मेन्द्रियाण्यस्य हया रथः शरीरं मनो नियन्ता प्रकृतिमयोस्य प्रतोदनेन खल्वीरितं परिभ्रमतीदं शरीरं चक्रमिव मृते च नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ॥ ९॥ स वा एष आत्मेत्यदो वशं नीत इव सितासितैः कर्मफलैरभिभूयमान इव प्रतिशरीरेषु चरत्यव्यक्तत्वात्सूक्ष्मत्वाददृश्यत्वादग्राह्यत्वान्निर्ममत्वा च्चानवस्थोऽकर्ता कर्तेवावस्थितः ॥ १०॥ स वा एष शुद्धः स्थिरोऽचलश्चालेपोऽव्यग्रो निःस्पृहः प्रेक्षकवदवस्थितः स्वस्य चरितभुग्गुणमयेन पटेनात्मानमन्तर्धीयावस्थित इत्यवस्थित इति ॥ ११॥ इति द्वितीयः प्रपाठकः ॥ तृतीयः प्रपाठकः ॥ ते होचुर्भगवन्यद्येवमस्यात्मनो महिमानं सूचयसीत्यन्यो वा परः कोऽयमात्मा सितासितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यत इत्यवाचीं वोर्ध्वां वा गतं द्वन्द्वैरभिभूयमानः परिभ्रमतीति कतम एष इति तान्होवाच ॥ १॥ अस्ति खल्वन्योऽपरो भूतात्मा योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसदयोनिमापद्यत इत्यवाचीं वोर्ध्वां गतिं द्वन्द्वैरभिभूयमानः परिभ्रमतीत्यस्योपव्याख्यानं पञ्च तन्मात्राणि भूतशब्देनोच्यन्ते पञ्च महाभूतानि भूतशब्देनोच्यन्तेऽथ तेषां यः समुदायः शरीरमित्युक्तमथ यो ह खलु वाव शरीरमित्युक्तं स भूतात्मेत्युक्तमथास्ति तस्यात्मा बिन्दुरिव पुष्कर इति स वा एषोऽभिभूतः प्राकृत्यैर्गुणैरित्यतोऽभिभूतत्वात्सम्मूढत्वं प्रयात्यसम्मूढस्त्वादात्मस्थं प्रभुं भगवन्तं कारयितारं नापश्यद्गुणौघैस्तृप्यमानः कलुषीकृतास्थिरश्चञ्चलो लोलुप्यमानः सस्पृहो व्यग्रश्चाभिमानत्वं प्रयात इत्यहं सो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मानं जालेनैव खचरः कृतस्यानुफलैरभिभूयमानः परिभ्रमतीति ॥ २॥ अथान्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः कारयितान्तःपुरुषोऽथ यथाग्निनायःपिण्डो वाभिभूतः कर्तृभिर्हन्यमानो नानात्वमुपैत्येवं वाव खल्वसौ भूतात्मान्तःपुरुषेणाभिभूतो गुणैर्हन्यमानो नानात्वमुपैत्यथ यत्त्रिगुणं चतुरशीतिलक्षयोनिपरिणतं भूतत्रिगुणमेतद्वै नानात्वस्य रूपं तानि ह वा इमानि गुणानि पुरुषेणेरितानि चक्रमिव चक्रिणेत्यथ यथायःपिण्डे हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ पुरुषोऽभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति ॥ ३॥ अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं निरय एव मूत्रद्वारेण निष्क्रामन्तमस्थिभिश्चितं मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः परिपूर्णं कोश इवावसन्नेति ॥ ४॥ अथान्यत्राप्युक्तं सम्मोहो भयं विषादो निद्रा तन्द्री व्रणो जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो नास्तिक्यमज्ञानं मात्सर्यं वैकारुण्यं मूढत्वं निर्व्रीडत्वं निकृतत्वमुद्धातत्वमसमत्वमिति तामसान्वितस्तृष्णा स्नेहो रागो लोभो हिंसा रतिर्दृष्टिव्यापृतत्वमीर्ष्या काममवस्थितत्वं चञ्चलत्वं जिहीर्षार्थोपार्जनं मित्रानुग्रहणं परिग्रहावलम्बोऽनिष्टेष्विन्द्रियार्थेषु द्विष्टिरिष्टेश्वभिषङ्ग इति राजसान्वितैः परिपूर्ण एतैरभिभूत इत्ययं भूतात्मा तस्मान्नानारूपाण्याप्नोतीत्याप्नोतीति

maitrāyaṇyupaniṣat sāmavedīya sāmānya upaniṣat || vairāgyotthabhaktiyuktabrahmamātraprabodhataḥ | yatpadaṃ munayo yānti tattraipadamahaṃ mahaḥ || oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotamatho balamindriyāṇi ca | sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu || oṃ śāntiḥ śāntiḥ śāntiḥ || maitrāyaṇī kauṣitakī bṛhajjābālatāpanī | kālāgnirudramaitreyī subālakṣuramantrikā | oṃ bṛhadratho ha vai nāma rājā rājye jyeṣṭhaṃ putraṃ nidhāpayitvedamaśāśvataṃ manyamānaḥ śārīraṃ vairāgyamupeto'raṇyaṃ nirjagāma sa tatra paramaṃ tapa āsthāyādityamīkṣamāṇa ūrdhvabāhustiṣṭhatyante sahasrasya munirantikamājagāmāgnirivādhūmakastejasā nirdahannivātmavidbhagavāñchākāyanya uttiṣṭhottiṣṭha varaṃ vṛṇīśveti rājānamabravītsa tasmai namaskṛtyovāca bhagavannāhamātmavittvaṃ tattvavicchṛṇumo vayaṃ sa tvaṃ no brūhītyetadvṛtaṃ purastādaśakyaṃ mā pṛccha praśnamaikṣvākānyānkāmānvṛṇīśveti śākāyanyasya caraṇavabhimṛśyamāno rājemāṃ gāthāṃ jagāda || 1|| bhagavannasthicarmasnāyumajjāmāṃsaśukraśoṇitaśleṣmāśrudū ṣite viṇmūtravātapittakaphasaṅghāte durgandhe niḥsāre'smiñcharīre kiṃ kāmopabhogaiḥ || 2|| kāmakrodhalobhabhayaviṣāderṣyeṣṭaviyogāniṣṭasamprayogakṣu tpipāsājarāmṛtyurogaśokādyairabhihate'smiñcharīre kiṃ kāmopabhogaiḥ || 3|| sarvaṃ cedaṃ kṣayiṣṇu paśyāmo yatheme daṃśamaśakādayastṛṇavannaśyatayodbhūtapradhvaṃsinaḥ || 4|| atha kimetairvā pare'nye mahādhanurdharāścakravartinaḥ kecitsudyumnabhūridyumnendradyumnakuvalayāśvayauvanāśvavaddhiyā śvāśvapatiḥ śaśabindurhāriścandro'mbarīṣo nanūktasvayātiryayātinaraṇyokṣasenotthamaruttabharataprabhṛtayo rājāno miṣato bandhuvargasya mahatīṃ śriyaṃ tyaktvāsmāllokādamuṃ lokaṃ prayānti || 5|| atha kimetairvā pare'nye gandharvāsurayakṣarākṣasabhūtagaṇapiśācoragagrahādīnāṃ nirodhanaṃ paśyāmaḥ || 6|| atha kimetairvānyānāṃ śoṣaṇaṃ mahārṇavānāṃ śikhariṇāṃ prapatanaṃ dhruvasya pracalanaṃ sthānaṃ vā tarūṇāṃ nimajjanaṃ pṛthivyāḥ sthānādapasaraṇaṃ surāṇaṃ so'hamityetadvidhe'sminsaṃsāre kiṃ kāmopabhogairyairevāśritasyāsakṛdihāvartanaṃ dṛśyata ityuddhartumarhasītyandhodapānastho bheka ivāhamasminsaṃsāre bhagavaṃstvaṃ no gatistvaṃ no gatiḥ || 7|| iti prathamaḥ prapāṭhakaḥ || atha bhagavāñchākāyanyaḥ suprīto'bravīdrājānaṃ mahārāja bṛhadrathekṣvākuvaṃśadhvajaśīrṣātmajaḥ kṛtakṛtyastvaṃ marunnāmno viśruto'sītyayaṃ vā va khalvātmā te katamo bhagavānvarṇya iti taṃ hovāca iti || 1|| ya eṣo bāhyāvaṣṭambhanenordhvamutkrānto vyathamāno'vyathamānastamaḥ praṇudatyeṣa ātmetyāha bhagavānatha ya eṣa samprasādo'smāñcharīrātsamutthāya paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti || 2|| atha khalviyaṃ brahmavidyā sarvopaniṣadvidyā vā rājannasmākaṃ bhagavatā maitreyeṇa vyākhyātāhaṃ te kathayiṣyāmītyathāpahatapāpmānastigmatejasa ūrdhvaretaso vālakhilyā iti śruyante'thaite prajāpatimabruvanbhagavañśakaṭamivācetanamidaṃ śarīraṃ kasyaiṣa khalvīdṛśo mahimātīndriyabhūtasya yenaitadvidhamidaṃ cetanavatpratiṣṭhāpitaṃ pracodayitāsya ko bhagavannetadasmākaṃ brūhīti tānhovāca || 3|| yo ha khalu vācoparisthaḥ śrūyate sa eva vā eṣa śuddhaḥ pūtaḥ śūnyaḥ śānto prāṇo'nīśatmā'nanto'kṣayyaḥ sthiraḥ śāśvato'jaḥ svatantraḥ sve mahimni tiṣṭhatyanenedaṃ śarīraṃ cetanavatpratiṣṭhāpitaṃ pracodayitā caiṣo'syeti te hocurbhagavankathamanenedṛśenānicchenaitadvidhamidaṃ cetanavatpratiṣṭhāpitaṃ pracodayitā caiṣo'syeti kathamiti tānhovāca || 4|| sa vā eṣa sūkṣmo'grāhyo'dṛśyaḥ puruṣasañjñako buddhipūrvamihaivāvartateṃ'śena suṣuptasyaiva buddhipūrvaṃ nibodhayatyatha yoha khalu vāvāitasyāṃśo'yaṃ yaścetanamātraḥ pratipūruṣaṃ kṣetrajñaḥ saṅkalpādhyavasāyābhimānaliṅgaḥ prajāpatirviśvakṣastena cetanenedaṃ śarīraṃ cetanavatpratiṣṭhāpitaṃ pracodayitā caiṣo'syeti te hocurbhagavannīdṛśasya kathamaṃśena vartanamiti tānhovāca || 5|| prajāpatirvā eṣo'gre'tiṣṭhatsa nāramataikaḥ sa ātmanamabhidhyāyadbavhīḥ prajā asṛjatta asyaivātmaprabuddhā aprāṇā sthāṇuriva tiṣṭhamānā apaśyatsa nāramata so'manyataitāsaṃ pratibodhanāyābhyantaraṃ prāviśānītyatha sa vāyumivātmānaṃ kṛtvābhyantaraṃ prāviśatsa eko nāviśatsa pañcadhātmānaṃ pravibhajyocyate yaḥ prāṇo'pānaḥ samāna udāno vyāna iti || 6|| atha yo'yamūrdhvamutkrāmatītyeṣa vāva sa prāṇo'tha yoyamāvañcaṃ saṅkrāmatveṣa vāva so'pāno'tha yoyaṃ sthaviṣṭhamannadhātumapāne sthāpayatyaṇiṣṭhaṃ cāṅge'ṅge samaṃ nayatyeṣa vāva sa samāno'tha yo'yaṃ pītāśitamudgirati nigiratīti caiṣa vāva sa udāno'tha yenaitāḥ śirā anuvyāptā eṣa vāva sa vyānaḥ || 7|| athopāṃśurantaryāmyamibhavatyantaryāmamupāṃśumetayorantarāle cauṣṇyaṃ māsavadauṣṇyaṃ sa puruṣo'tha yaḥ puruṣaḥ so'gnirvaiśvānaro'pyanyatrāpyuktamayamagnirvaiśvānaro yo'yamanantaḥ puruṣo yenedamannaṃ pacyate yadidamadyate tasyaiṣa ghoṣo bhavati yadetatkarṇāvapidhāya śṛṇoti sa yadotkramiṣyanbhavati nainaṃ ghoṣaṃ śṛṇoti || 8|| sa vā eṣa pañcadhātmānaṃ pravibhajya nihito guhāyāṃ manomayaḥ prāṇaśarīro bahurūpaḥ satyasaṃ kalpa ātmeti sa vā eṣo'sya hṛdantare tiṣṭhannakṛtārtho'manyatārthānasāni tatsvānīmāni bhittvoditaḥ pañcabhī raśmibhirviṣayānattīti buddhīndriyāṇi yānīmānyetānyasya raśmayaḥ karmendriyāṇyasya hayā rathaḥ śarīraṃ mano niyantā prakṛtimayosya pratodanena khalvīritaṃ paribhramatīdaṃ śarīraṃ cakramiva mṛte ca nedaṃ śarīraṃ cetanavatpratiṣṭhāpitaṃ pracodayitā caiṣo'syeti || 9|| sa vā eṣa ātmetyado vaśaṃ nīta iva sitāsitaiḥ karmaphalairabhibhūyamāna iva pratiśarīreṣu caratyavyaktatvātsūkṣmatvādadṛśyatvādagrāhyatvānnirmamatvā ccānavastho'kartā kartevāvasthitaḥ || 10|| sa vā eṣa śuddhaḥ sthiro'calaścālepo'vyagro niḥspṛhaḥ prekṣakavadavasthitaḥ svasya caritabhugguṇamayena paṭenātmānamantardhīyāvasthita ityavasthita iti || 11|| iti dvitīyaḥ prapāṭhakaḥ || tṛtīyaḥ prapāṭhakaḥ || te hocurbhagavanyadyevamasyātmano mahimānaṃ sūcayasītyanyo vā paraḥ ko'yamātmā sitāsitaiḥ karmaphalairabhibhūyamānaḥ sadasadyonimāpadyata ityavācīṃ vordhvāṃ vā gataṃ dvandvairabhibhūyamānaḥ paribhramatīti katama eṣa iti tānhovāca || 1|| asti khalvanyo'paro bhūtātmā yo'yaṃ sitāsitaiḥ karmaphalairabhibhūyamānaḥ sadasadayonimāpadyata ityavācīṃ vordhvāṃ gatiṃ dvandvairabhibhūyamānaḥ paribhramatītyasyopavyākhyānaṃ pañca tanmātrāṇi bhūtaśabdenocyante pañca mahābhūtāni bhūtaśabdenocyante'tha teṣāṃ yaḥ samudāyaḥ śarīramityuktamatha yo ha khalu vāva śarīramityuktaṃ sa bhūtātmetyuktamathāsti tasyātmā binduriva puṣkara iti sa vā eṣo'bhibhūtaḥ prākṛtyairguṇairityato'bhibhūtatvātsammūḍhatvaṃ prayātyasammūḍhastvādātmasthaṃ prabhuṃ bhagavantaṃ kārayitāraṃ nāpaśyadguṇaughaistṛpyamānaḥ kaluṣīkṛtāsthiraścañcalo lolupyamānaḥ saspṛho vyagraścābhimānatvaṃ prayāta ityahaṃ so mamedamityevaṃ manyamāno nibadhnātyātmanātmānaṃ jālenaiva khacaraḥ kṛtasyānuphalairabhibhūyamānaḥ paribhramatīti || 2|| athānyatrāpyuktaṃ yaḥ kartā so'yaṃ vai bhūtātmā karaṇaiḥ kārayitāntaḥpuruṣo'tha yathāgnināyaḥpiṇḍo vābhibhūtaḥ kartṛbhirhanyamāno nānātvamupaityevaṃ vāva khalvasau bhūtātmāntaḥpuruṣeṇābhibhūto guṇairhanyamāno nānātvamupaityatha yattriguṇaṃ caturaśītilakṣayonipariṇataṃ bhūtatriguṇametadvai nānātvasya rūpaṃ tāni ha vā imāni guṇāni puruṣeṇeritāni cakramiva cakriṇetyatha yathāyaḥpiṇḍe hanyamāne nāgnirabhibhūyatyevaṃ nābhibhūyatyasau puruṣo'bhibhūyatyayaṃ bhūtātmopasaṃśliṣṭatvāditi || 3|| athānyatrāpyuktaṃ śarīramidaṃ maithunādevodbhūtaṃ saṃvidapetaṃ niraya eva mūtradvāreṇa niṣkrāmantamasthibhiścitaṃ māṃsenānuliptaṃ carmaṇāvabaddhaṃ viṇmūtrapittakaphamajjāmedovasābhiranyaiśca malairbahubhiḥ paripūrṇaṃ kośa ivāvasanneti || 4|| athānyatrāpyuktaṃ sammoho bhayaṃ viṣādo nidrā tandrī vraṇo jarā śokaḥ kṣutpipāsā kārpaṇyaṃ krodho nāstikyamajñānaṃ mātsaryaṃ vaikāruṇyaṃ mūḍhatvaṃ nirvrīḍatvaṃ nikṛtatvamuddhātatvamasamatvamiti tāmasānvitastṛṣṇā sneho rāgo lobho hiṃsā ratirdṛṣṭivyāpṛtatvamīrṣyā kāmamavasthitatvaṃ cañcalatvaṃ jihīrṣārthopārjanaṃ mitrānugrahaṇaṃ parigrahāvalambo'niṣṭeṣvindriyārtheṣu dviṣṭiriṣṭeśvabhiṣaṅga iti rājasānvitaiḥ paripūrṇa etairabhibhūta ityayaṃ bhūtātmā tasmānnānārūpāṇyāpnotītyāpnotīti

Roman (IAST) transliteration rendered by HREEM from the edition's Devanagari; the Devanagari is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/MaiU/5

Cite as: Maitrāyaṇīya Upaniṣad 5, in HREEM (hreem.cc/library/MaiU/5), after Sanskrit Wikisource: मैत्रायणि उपनिषद् (1 page; revision ids 398073, full list in content/corpus/wikisource….

Edition, numbering and licence

Sanskrit Wikisource: मैत्रायणि उपनिषद् (1 page; revision ids 398073, full list in content/corpus/wikisource cache)

Sanskrit Wikisource (sa.wikisource.org): the texts are public domain; page markup CC BY-SA 4.0. Devanagari as given on the page; IAST generated mechanically.

More about this text