Library·Sucaritamisra: Mimamsaslokavarttikakasika·30·30.1

Sucaritamisra: Mimamsaslokavarttikakasika 30.1

Mima 30.1

यथा तावदष्टकादिविषयां मन्वादिस्मृतिम् उपलभ्य तन्मूलकारणान्विच्छायाम् असम्भवत्सु भ्रमविप्रलिप्सानुभवपुंवाक्यान्तरेषु स्मृतेस् स्वमूलकारणम् अन्तरेणानुपपत्त्या श्रुतिर् एव मूलतया कल्प्यते। तथा लिङ्गादिभिः स्वविनियोजिका श्रुतिर् उपकल्प्यते -- यथा तावत् प्रकरणाम्नाते मन्त्रे स्वाध्यायविध्यध्यापिते प्रयोजनम् अन्तरेणानुपपद्यमाने क्रत्वपेक्षया च सामान्यतः क्रतूपकारावगतौ विशेषापेक्षायां मन्त्रशक्तिनिरीक्षया यच्छक्नुयाद् इत्य् उपबन्धेन शक्यार्थविषया ३,१८८ मन्त्रस्य विनियोजिका श्रुतिर् उपकल्प्यते। यथा बहिर्मन्त्रे ऽनेन लुनीयाद् इति सो ऽयं लैङ्गिको विनियोगः वाक्येन तु यथा -- तस्मिन्न् एव मन्त्रे दामीत्य् एतत् पदं लवने शक्तम् इति तद् एव लिङ्गे विनियुज्यते, पदान्तराणि तु तत्समभिव्याहारात्मना वाक्येनैव। प्रकरणविनियोगस् तु दर्शपूर्णमासप्रकरणाम्नातानां समिदादीनाम्, ते हि प्रयोजनाकाङ्क्षाः, क्रतुश् चोपकारसाकाङ्क्षः, तद् एवम् उभयाकाङ्क्षायाम् एभिः क्रतुम् उपकुर्याद् इति श्रुतिः कल्प्यत इति। स्थानविनियोगस् तु यथा -- दर्शपूर्णमासयोर् एवोपांशुयाजक्रमाधीतस्य दब्धिर् नामासीति मन्त्रस्य। तस्य चानेनोपांशुयाजम् उपकुर्याद् इति श्रुतिः कल्प्यत इति। समाख्याविनियोगस् तु यथा -- आध्वर्यसमाख्यातेषु पदार्थेषु गुणभूतं कर्तारम् अपेक्षमाणेषु समाख्यया कर्तृनियमः क्रियते। भवति चात्र श्रुतिः, अध्वर्युर् एतान् कुर्याद् इति। अश्रुतफलेतिकर्तव्यताकेषु च कर्मसु विश्वजित्सौर्यादिषु पूरणसमर्था श्रुतिः कल्प्यते विश्वजिता यजेत स्वर्गकाम इति, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इति, आग्नेयवद् इतिकर्तव्यतेति। भूयान् एवञ्जातीयकः श्रुतार्थापत्तेर् वेदोपयोगः। न चायम् अनुमानाद् एव सिध्यति। न ह्य् अत्रानुपपद्यमानस्य कल्पनीयेन सम्बन्धः केनचिद् दृष्टः। न चानपेक्षितसम्बन्धम् अनुमानं भवति, अतो ऽर्थापत्तिर् एवात्र शरणम्। सम्बन्धदृग् इति। बुद्धाव् औपचारिको दृग्भाव इति। यदि नार्थापत्तिः प्रमाणम् आश्रीयते सर्वम् इदम् असमञ्जसं स्याद् इत्य् आह -- तत् सर्वम् इति। यदि तु लक्षणतो भिन्नापि पश्चादनुमानसामान्याद् अनुमानशब्देन वक्तुम् इष्यते तद् अस्तु, सिद्धं नः प्रमाणान्तरम् इत्य् आह -- एवम् इति। इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां अर्थापत्तिपरिच्छेदः समाप्तः ॥ ३,१८९ अत्र भाष्यम् -- अभावो ऽपि प्रमाणाभावो नास्तीत्य् अस्यार्थस्यासन्निकृष्टस्येति। किं पुनर् अनेन लक्ष्यते। न तावत् प्रमाणम्। न हि प्रमाणाभावेन प्रमाणं लक्ष्यत इति युक्तम्। पूर्वोक्तप्रमाणाभावो लक्षणम् इति चेत्। एवं तर्हि सर्वेषां प्रमाणानां समानम् इदम्, सर्वाण्य् अपि हि प्रमाणानीतरेतराभावरूपाणि शक्यन्ते प्रमाणाभाव इति वदितुम्। न च सर्वप्रमाणसाधारणं किञ्चिद् एकं लक्षणम् अस्ति, यदभावेन षष्ठं लक्ष्यते। अपि च -- प्रमाणं नाम कस्यचित् प्रमेयस्य व्यवस्थापकं भवति। तद् अनेन किं व्यवस्थाप्यत इति न विद्मः। ननूक्तं नास्तीत्य् अस्यार्थस्यासन्निकृष्टस्येति। किम् उक्तं भवति। प्रत्यक्षाद्यविषयो नास्तीत्य् अयम् अर्थो ऽभावस्य प्रमेयम् इति। तद् अयुक्तम्। नास्तीति नेदम् इह प्रमीयत इत्य् अर्थः। न चाप्रमीयमाणस्य प्रमेयतेति शक्यते ऽवगन्तुम्। कस्य च प्रमाणस्य प्रमेयम् इदम्, यदि प्रमाणाभावस्य। तन् न। प्रमाणाभावो हि प्रमितेर् अनुत्पत्तिः। सा च प्रमाणम् इत्य् अलौकिकम् इव प्रतिभाति। यदि मतम् -- अस्ति तावन् नास्तीति बुद्धिः सर्वलौकिकपरीक्षकाणाम् अविवादसिद्धा, न च बुद्धेर् अनालम्बनत्वं स्वांशालम्बनत्वं वेति विज्ञानवादे वर्णितम् एव। अतो ऽस्या एव बुद्धेर् द्रढिम्नः प्रमेयम् उपकल्प्यते। सो ऽभावस्य विषयः। तद् इदं नास्तीति विज्ञानं प्रमाणं घटाद्यभावः प्रमेयम् इति मन्यन्ते। अत एव प्रागभावादिभेदेन चतुर्धाभावं विभजन्ते। न ह्य् अवस्तुनो विभागस् सम्भवति। यदि तु नाभावस् तत्त्वान्तरम् इष्यते, कस् तर्हि क्षीरे दध्यभावः। यं प्रागभाव इत्य् आचक्षते। अतश् चैष दध्नि क्षीराभावः, यः प्रध्वंसाभाव इत्य् उच्यत इति। अपि च -- इह घटो नास्तीति धियः किम् आलम्बनम् इति वक्तव्यम्। यदि भूतलम् एव, तन् न। घटवत्य् अपि प्रसङ्गात्। केवलम् एव भूतलम् आलम्बनम् इति चेत्। कः केवलार्थः। यदि भूतलम् एव, स एव प्रसङ्गः। अथ भावान्तरविषेकः स तर्हि तत्त्वान्तरम् इति सिद्धः प्रमेयभेदः, तद्भेदाच् च प्रमाणभेदः। न हि तत् प्रत्यक्षेण शक्यते ऽनुभवितुम्। अक्षाधीनत्वात् प्रत्यक्षस्य, अक्षाणां च भावरूपाणां भावेनैव सन्निकर्षः, नाभावेन। असत्य् अपि च तद्व्यापारे नास्तीति बुद्धेर् उत्पत्तिर् दृष्टा, यथा स्वरूपमात्रदृष्टे गृहादौ देशान्तरगमने कस्यचिद् अभावं ३,१९० प्रत्यनुयुक्तेन तदैव तदभावो ऽवसीयते। तद् एवम् असत्य् अपीन्द्रियसन्निकर्षे जायमानं नास्तीति विज्ञानं नैन्द्रियकम्। न चास्य किञ्चिल् लिङ्गं जनकम् अस्ति। अनुपलब्धिर् लिङ्गम् इति चेत्। न। अविज्ञानात्। न ह्य् अविज्ञातरूपं लिङ्गं लिङ्गिनम् अनुमापयति। न चाज्ञातसम्बन्धम्। न च तथानुपलब्धिर् ज्ञाता सत्यभावं प्रकाशयति। तस्या अप्य् अभावरूपत्वेनापरसजातीयापेक्षायाम् अनवस्थापातात्। अतः प्रमाणान्तरम् एवेदं भावानाम् असङ्करसिध्यर्थम् आस्थेयम्। अस्ति च मीमांसकानां प्रसिद्धिः - षष्ठं किलेदं प्रमाणम् इति। अतस् तल्लक्षणार्थो ऽयं ग्रन्थ इति। तद् अयुक्तम्। न ह्य् अनेन प्रमाणं (?व।ल)क्ष्येत। ग्रन्थतो हि प्रमाणाभाव एवावसीयते न प्रमाणम्, नास्तीत्य् अप्य् उक्ते प्रमेयाभावम् एव लौकिकाः प्रतिबुध्यन्ते न प्रमेयं किञ्चित्। अतो न तावत् ग्रन्थानुगुणं प्रमाणान्तरम्, न च युक्त्या सङ्गच्छते, सिद्धस्य हि ज्ञानस्य प्रमाणम् अप्रमाणं वेति विचारणा युक्ता। न च भूतलोपलम्भाद् अन्यन् नास्तीति विज्ञानम् अस्ति। तद् एव हि द्वेधा प्रकाशते। अन्यसहितम् असहितं च तत्। यदा घटादिसहितं तद् उपलभ्यते तदा घटो ऽस्तीति व्यवहारः प्रवर्तते। तन्मात्रबोधे तु नास्तीति। न च वाच्यं सत्स्व् अपि सूक्ष्मेषु भावेषु तन्मात्रबोधो दृष्टः। अतस् तत्रापि नास्तीति प्रकाशत इति। तद् एव हि द्वेधा प्रकाशते। द्वेधा हि तन्मात्रबोधः, दृश्यते प्रतियोगिन्य् अदृश्ये वा। तत्र या दृश्ये प्रतियोगिनि तन्मात्रबुद्धिः सैव घटादेर् नास्तित्वम्। येषाम् अप्य् अभावः प्रमेयस् तेषाम् अपि दृश्यादर्शनाद् एव नास्तीत्य् अभावो निश्चीयते। अतो येयं सर्ववादिसिद्धा तन्मात्रबुद्धिः सैव नास्तीति व्यपदिश्यते। यच् चाभावस्य कारणम् इष्यते तत्तन्मात्रबुद्धेर् एवोभयवादिसिद्धायाः कारणम् आश्रीयताम्। अतो यत्रैव प्राक् संसृष्टबुद्धिर् आसीत् तत्रैव विलक्षणकारणोपनिपाते तन्मात्रबुद्धिर् एव जायते न पुनर्घटाद्यभावः। (अवश्यं) चैतद् एवाभ्युपगन्तव्यम्। अन्यथा हि नाभावो गृहीतुं शक्यते, प्रमाणाभावो हि तत्र प्रमाणम्, न चागृहीतेन स प्रतिपादयितुं शक्यते। अस्ति हि सुषुप्तस्यापि प्रमाणा ॥। (?तः।भावः)। न च नास्तीति निश्चयः। अतो नागृहीतम् अदर्शनम् अभावं निश्चाययति, तद्ग्रहीतिर् अपि चाभावरूपत्वाद् अपरेणादर्शनेनेत्य् एवम् अनवस्थापातः। यदि च सन्मात्रम् एवादर्शनं निश्चाययति, ततो निवृत्ते ऽप्य् अदर्शने प्राक् देवदत्तो ३,१९१ नासीद् इति प्रतिपत्तिर् न स्यात्। भवति हि कदाचिद् एतत्। यो यत्र न दृष्टस् तस्मिन् पुनर्दृश्यमान एवासत्य् अप्य् अदर्शने प्रचीनाभावज्ञानं तद् असत्य् अदर्शने न स्यात्। अतः प्रचीनादर्शनविमर्शजम् एव तज्ज्ञानम् इति वाच्यम्। एवं च गृह्यमाणम् एव तदभावं प्रकाशयति। ग्रहणे चानवस्थाप्रसङ्गः। तन्मात्रसंविद् एव त्व् अदर्शनम् इत्य् आश्रीयमाणे न किञ्चिद् दुष्यति। स्वप्रकाशा हि सा फलभूता न प्रकाशान्तरम् अपेक्षते। अतस् तन्मात्रानुभाव एव स्वप्रकाशो भावः। यदा चासौ घटाद्यदर्शनरूपतया विमृश्यते तदा तदभावत्वेनापदिश्यते। अतो न प्रमेयान्तरम् अभावः। न च नास्तीति ज्ञानं प्रमाणम्, उभयोर् अभावात्। ज्ञानाभाव एवायं ज्ञानभ्रमः, आलोकादर्शने ऽन्धकारदर्शनभ्रमवद् इति न विद्मः किम् अत्र लक्ष्यते इति। अत्राह -- किम् अत्र न ज्ञायते, यथोक्तं भवता ग्रन्थतस् तावत् प्रमाणाभाव एवावसीयते, केचित् किलाभावं नाम प्रमाणम् आतिष्ठन्ते, तन्निराकरणार्थ एवायं भाष्यकारस्य प्रयत्नः। कथम् अनेन निराक्रियते। श्रूयताम्। यद् एके वदन्ति -- नास्तीत्य् अस्यार्थस्य असन्निकृष्टस्येति, प्रत्यक्षाद्यविषयस्याभावः प्रमाणम् इति, तन् न, प्रमाणाभावो ह्य् असौ -- प्रमाणं न भवतीत्य् अर्थः। अप्रमाणत्वे चोक्तो हेतुः। एतद् अपि नोपपद्यते। यदि ग्रन्थानुगुण्येनायम् अर्थो व्याख्यास्यते ततो विस्पष्टः प्रदेशान्तरे भाष्यविरोधः, एवं हि चित्रापरिहारे भाष्यकारो वक्ष्यति -- स्याद् एवं यदि पञ्चैव प्रमाणान्यभविष्यन्न् इति। तत्र स्फुटम् एव हि षट् प्रमाणानि दर्शयति। न च तद्व्यवहाराभिप्रायम्, न हि प्रमाणगता संख्या व्यवहारं भिनत्तीति साम्प्रतम्। इहापि चाप्रामाण्ये न भाष्यकारेण कश्चिद् धेतुर् उक्तः। न च प्रतिज्ञामात्रेण प्रतिपक्षनिराकरणं भवतीति साम्प्रतम्। तस्माद् व्याख्येयम् एतत्। अत्राह -- प्रमाणेति। अयम् अर्थः। प्रमाणलक्षणम् एवेदम्। यत् तूक्तं तदभावेन कथं तल्लक्ष्यते इति। सत्यम्। न प्रमाणमात्रविवक्षया प्रमाणशब्दः अपि तु सामान्यवचनो ऽपि प्रमाणशब्दो ऽधिकाराद् विशेषे ऽवतिष्ठते। प्रमाणाभाव इति किम् उक्तं भवति, पूर्वोक्तप्रमाणपञ्चकाभाव इति। अस्ति च पञ्चानां भावोपधानम् एकम्, सर्वाणि हि भावप्रमाणानि, अतो भावप्रमाणाभावो ३,१९२ भावप्रमाणम् इति। स चोपरिष्ठाद् द्वेधा व्याकरिष्यते -- आत्मनो ऽपरिणामो वा नास्तीति वा भावज्ञानम् इति। अस्ति वा भूतलमात्रोपलम्भाद् अन्यन् नास्तीति विज्ञानम्। बाढम्। को ऽस्य विषयः। चतुर्धा व्यूढः प्रमेयाभावः। असति हि तस्मिन् कार्यकारणादीनाम् इतरेतरसङ्करो वार्तिककृता दर्शित एव। यश् चायं पादविहारादिव्यवहारः कण्टकाद्यभावावधारणपुरस्सरः सो ऽप्य् अभावस्यासति प्रमेयत्वे न स्यात्। यदि भूतलमात्रम् अत्रोपलभ्यते न कण्टकादिविवेकः, सत्स्व् अपि तेषूपलभ्यत इति नासीति धिया गृह्येत। बुध्यपलापस् तु संविद्विरुद्ध एव। न हि भावाभावयोः प्रकाशो विशिष्यते। यत् तूक्तं तन्मात्रधीर् एव घटो नास्तीति व्यपदिश्यत इति। तत्र न विद्मः किं मात्रशब्देन व्यवच्छिद्यत इति। यदि न किञ्चिद् व्यावर्तयति, अनर्थकस् तर्हि। अथ व्यावर्तयति। अस्ति तर्हि व्यावृत्तिर् विषयः, इतरथा सदात्व एव व्यावर्तयतीति व्यवहारो भवेत्। अयम् एव संसृष्टधियस् तन्मात्रधियो विशेषः। यद् असौ विविक्तविषया। विषयान्तरविवेकश् चाभावः। बुद्धिर् एव विषयः न ततो ऽन्य इति चेत्। सा तर्हि संसर्गोपलम्भे ऽप्य् अस्तीति नास्तीति प्रकाशेत। अपि च यद्य् अत्र प्रतिषिध्यते तत् तत्र नास्तीत्य् उच्यते। न चेह घटो नास्तीति बुद्धिः प्रतिषिध्यते, बुद्धिगोचरे हि नास्तीति शब्दे बुद्धेर् एवाभावः स्यात्। अथोच्यते घटो नास्तीत्य् अयम् अर्थः -- भूतलमात्रम् उपलभ्यत इति। न तावद् एवं लौकिका बुध्यन्ते। अपि चैवं सूक्ष्मस्य वस्तुनस् सदसद्भावौ प्रति जिज्ञासा न स्यात्, यद्य् अभावो नाम न कश्चिद् अस्ति, तर्हि वस्तुन्य् उपलब्धे को ऽयम् अपरस् संशयस् सूक्ष्मेषु केशकीटादिषु, तन्मात्रोपलम्भो हि भावान्तराणाम् अभावः, स च ज्ञात एवासंशयितव्यश् च, संविदः स्वप्रकाशत्वात् किम् अपरम् अन्विष्यते। दृश्ये प्रतियोगिनि तन्मात्रबोधो ऽभावो नादृश्य इति चेत्, किं पु(न)रदृश्यतया, यदा बुद्धेर् अभावो नातिरिच्यते। यदि तत्त्वान्तरम् अभावो भवेत्, तदा तदवधारणे दृश्यादर्शनम् उपयुज्यते। आत्मेन्द्रियमनो ऽर्थसन्निकर्षो हि ज्ञानजननकारणम्, तद् यदा सत्स्व् अप्य् अविगुणेष्व् इन्द्रियादिषु जिज्ञासितो ऽप्य् अर्थः प्रयत्नेनान्विष्टो न दृश्यते तदा तदभावाद् अदर्शनम् इति कल्प्यते। तद् एवं ३,१९३ दृश्यत्वसिद्ध्यर्था युक्ता सूक्ष्मजिज्ञासा। तन्मात्रोपलम्भे स्वभावे ऽदृष्टार्थम् एव दृश्यविशेषणम् आपद्येत। यच् चोक्तम् -- यदभावस्य कारणं तत्तन्मात्रधिय एव कल्पनालाघवाद् अस्त्व् इति। तद् अयुक्तम्। न हि कल्पनालाघवं भवतीति प्रमाणावगतम् उपेक्षितुं शक्यम्। न च यदभावस्य कारणं तत्तन्मात्रधिय इति युक्तम्। मुद्गरप्रहारादिर् ह्य् अभावस्य कारणम्। न च तेन तन्मात्रबोधो जन्यते। भूतलादिवस्तुरूपप्रकाशो हीन्द्रियादिकारणकः, नासौ घटादेर् उत्सारणं प्रहरणं वापेक्षते। यत् तु नानिरूपितम् अदर्शनम् अभावं निश्चाययति, सुषुप्ते प्रसङ्गाद् इति। तद् अयुक्तम्। न ह्य् अगृहीते वस्तुनि निराश्रयो ऽभावः प्रकाशते, क्वचिद् धि कस्यचिद् अभावः प्रतिभाति न स्वतन्त्रः। अत एवाह -- वस्तुरूपे न जायत इति। न च सुषुप्तस्य किञ्चित् प्रकाशते। क्व चाभावः परिच्छिन्द्यात्। अपि च योग्यप्रमाणानुत्पत्तिर् अभावं निश्चाययति, न च सुषुप्तस्य प्रमाणयोग्यो ऽर्थः, यो न प्रकाशत इति कथम् अभावनिश्चयो जायते, अतो नादर्शनम् अगृहीतम् इति सुषुप्तस्याभावो न प्रकाशते, किन् तु योग्यादर्शनम् एतन् न भवतीति। यच् चापि निवृत्ते ऽप्य् अदर्शने प्राङ्नास्तित्वं व्यपदिश्यते सम्प्रति दृश्यमानस्यापीति। तन् न। तत्र हि समानोपलम्भयोग्येषु बहुषु स्मर्यमाणेषु यद् एको न स्मर्यते, तेन स्मृतिनिवृत्त्या फलतः प्रत्यक्षनिवृत्त्या तदभावः प्रतीयते स्मृत्य् एव भावान्तराणाम्। तदानीन्तनो ऽभावः स्मृतिनिवृत्तिश् च तदानीम् अस्त्य् एव। न चावगम्यते। वस्त्वभावम् एव तु प्राचीनम् अवगमयतीति नानवस्था। अतो नास्तीति ज्ञानं प्रमाणम्, अभावश् च प्रागभावादिभेदभिन्नः प्रमेयम् इति साम्प्रतम्। तद् अयम् अर्थो भवति। यत्र पञ्च प्रमाणानि सम्भवत्प्रतिपत्तीनि यथायथं पटादेर् वस्तुनस् सत्तां बोधयितुं न जायन्ते, तस्मिन् विषये ऽभावस्य प्रमाणता सम्भवति, तद् अनेन प्रमाणशब्दो ऽधिकारात् प्रमाणपञ्चके प्रयुक्त इति दर्शितम्। वस्तुरूपे न जायत इति च स्वतन्त्राभावमात्रज्ञानं न प्रमाणम् इति दर्शयति। लौकिकप्रमाणलक्षणकथनाच् च यत्रैव प्रमाणानां शक्तिसम्भवस् तत्रैव तेषाम् अनुत्पादः प्रमाणम् अभावो ऽभावावधारणे। तादृशेनैव हि लौकिका नास्तीति बुध्यन्त इति। भाष्यस्याप्य् अयम् अर्थः -- अभावो ऽपि न परीक्षणीयः। अव्यभिचारात्। प्रमाणाभावो ह्य् असन्निकृष्टे ऽर्थे ऽभावाख्ये नास्तीत्य् अनेन रूपेण प्रकाशमाने यां बुद्धिम् उत्पादयति साभावप्रमा(?णः)। ३,१९४ न चैवञ्जातीयकस्य व्यभिचारस् सम्भवतीति। व्यवहितम् अपि चाकाङ्क्षावशात् यां बुद्धिम् उत्पादयतीति सम्बन्धनीयम्। येन यस्याभिसम्बन्धो दूरस्थेनापि तेन तत् । इति न्यायात्

yathā tāvadaṣṭakādiviṣayāṃ manvādismṛtim upalabhya tanmūlakāraṇānvicchāyām asambhavatsu bhramavipralipsānubhavapuṃvākyāntareṣu smṛtes svamūlakāraṇam antareṇānupapattyā śrutir eva mūlatayā kalpyate. tathā liṅgādibhiḥ svaviniyojikā śrutir upakalpyate -- yathā tāvat prakaraṇāmnāte mantre svādhyāyavidhyadhyāpite prayojanam antareṇānupapadyamāne kratvapekṣayā ca sāmānyataḥ kratūpakārāvagatau viśeṣāpekṣāyāṃ mantraśaktinirīkṣayā yacchaknuyād ity upabandhena śakyārthaviṣayā 3,188 mantrasya viniyojikā śrutir upakalpyate. yathā bahirmantre 'nena lunīyād iti so 'yaṃ laiṅgiko viniyogaḥ vākyena tu yathā -- tasminn eva mantre dāmīty etat padaṃ lavane śaktam iti tad eva liṅge viniyujyate, padāntarāṇi tu tatsamabhivyāhārātmanā vākyenaiva. prakaraṇaviniyogas tu darśapūrṇamāsaprakaraṇāmnātānāṃ samidādīnām, te hi prayojanākāṅkṣāḥ, kratuś copakārasākāṅkṣaḥ, tad evam ubhayākāṅkṣāyām ebhiḥ kratum upakuryād iti śrutiḥ kalpyata iti. sthānaviniyogas tu yathā -- darśapūrṇamāsayor evopāṃśuyājakramādhītasya dabdhir nāmāsīti mantrasya. tasya cānenopāṃśuyājam upakuryād iti śrutiḥ kalpyata iti. samākhyāviniyogas tu yathā -- ādhvaryasamākhyāteṣu padārtheṣu guṇabhūtaṃ kartāram apekṣamāṇeṣu samākhyayā kartṛniyamaḥ kriyate. bhavati cātra śrutiḥ, adhvaryur etān kuryād iti. aśrutaphaletikartavyatākeṣu ca karmasu viśvajitsauryādiṣu pūraṇasamarthā śrutiḥ kalpyate viśvajitā yajeta svargakāma iti, sauryaṃ caruṃ nirvaped brahmavarcasakāma iti, āgneyavad itikartavyateti. bhūyān evañjātīyakaḥ śrutārthāpatter vedopayogaḥ. na cāyam anumānād eva sidhyati. na hy atrānupapadyamānasya kalpanīyena sambandhaḥ kenacid dṛṣṭaḥ. na cānapekṣitasambandham anumānaṃ bhavati, ato 'rthāpattir evātra śaraṇam. sambandhadṛg iti. buddhāv aupacāriko dṛgbhāva iti. yadi nārthāpattiḥ pramāṇam āśrīyate sarvam idam asamañjasaṃ syād ity āha -- tat sarvam iti. yadi tu lakṣaṇato bhinnāpi paścādanumānasāmānyād anumānaśabdena vaktum iṣyate tad astu, siddhaṃ naḥ pramāṇāntaram ity āha -- evam iti. ity upādhyāyasucaritamiśrakṛtau kāśikāṭīkāyāṃ arthāpattiparicchedaḥ samāptaḥ || 3,189 atra bhāṣyam -- abhāvo 'pi pramāṇābhāvo nāstīty asyārthasyāsannikṛṣṭasyeti. kiṃ punar anena lakṣyate. na tāvat pramāṇam. na hi pramāṇābhāvena pramāṇaṃ lakṣyata iti yuktam. pūrvoktapramāṇābhāvo lakṣaṇam iti cet. evaṃ tarhi sarveṣāṃ pramāṇānāṃ samānam idam, sarvāṇy api hi pramāṇānītaretarābhāvarūpāṇi śakyante pramāṇābhāva iti vaditum. na ca sarvapramāṇasādhāraṇaṃ kiñcid ekaṃ lakṣaṇam asti, yadabhāvena ṣaṣṭhaṃ lakṣyate. api ca -- pramāṇaṃ nāma kasyacit prameyasya vyavasthāpakaṃ bhavati. tad anena kiṃ vyavasthāpyata iti na vidmaḥ. nanūktaṃ nāstīty asyārthasyāsannikṛṣṭasyeti. kim uktaṃ bhavati. pratyakṣādyaviṣayo nāstīty ayam artho 'bhāvasya prameyam iti. tad ayuktam. nāstīti nedam iha pramīyata ity arthaḥ. na cāpramīyamāṇasya prameyateti śakyate 'vagantum. kasya ca pramāṇasya prameyam idam, yadi pramāṇābhāvasya. tan na. pramāṇābhāvo hi pramiter anutpattiḥ. sā ca pramāṇam ity alaukikam iva pratibhāti. yadi matam -- asti tāvan nāstīti buddhiḥ sarvalaukikaparīkṣakāṇām avivādasiddhā, na ca buddher anālambanatvaṃ svāṃśālambanatvaṃ veti vijñānavāde varṇitam eva. ato 'syā eva buddher draḍhimnaḥ prameyam upakalpyate. so 'bhāvasya viṣayaḥ. tad idaṃ nāstīti vijñānaṃ pramāṇaṃ ghaṭādyabhāvaḥ prameyam iti manyante. ata eva prāgabhāvādibhedena caturdhābhāvaṃ vibhajante. na hy avastuno vibhāgas sambhavati. yadi tu nābhāvas tattvāntaram iṣyate, kas tarhi kṣīre dadhyabhāvaḥ. yaṃ prāgabhāva ity ācakṣate. ataś caiṣa dadhni kṣīrābhāvaḥ, yaḥ pradhvaṃsābhāva ity ucyata iti. api ca -- iha ghaṭo nāstīti dhiyaḥ kim ālambanam iti vaktavyam. yadi bhūtalam eva, tan na. ghaṭavaty api prasaṅgāt. kevalam eva bhūtalam ālambanam iti cet. kaḥ kevalārthaḥ. yadi bhūtalam eva, sa eva prasaṅgaḥ. atha bhāvāntaraviṣekaḥ sa tarhi tattvāntaram iti siddhaḥ prameyabhedaḥ, tadbhedāc ca pramāṇabhedaḥ. na hi tat pratyakṣeṇa śakyate 'nubhavitum. akṣādhīnatvāt pratyakṣasya, akṣāṇāṃ ca bhāvarūpāṇāṃ bhāvenaiva sannikarṣaḥ, nābhāvena. asaty api ca tadvyāpāre nāstīti buddher utpattir dṛṣṭā, yathā svarūpamātradṛṣṭe gṛhādau deśāntaragamane kasyacid abhāvaṃ 3,190 pratyanuyuktena tadaiva tadabhāvo 'vasīyate. tad evam asaty apīndriyasannikarṣe jāyamānaṃ nāstīti vijñānaṃ naindriyakam. na cāsya kiñcil liṅgaṃ janakam asti. anupalabdhir liṅgam iti cet. na. avijñānāt. na hy avijñātarūpaṃ liṅgaṃ liṅginam anumāpayati. na cājñātasambandham. na ca tathānupalabdhir jñātā satyabhāvaṃ prakāśayati. tasyā apy abhāvarūpatvenāparasajātīyāpekṣāyām anavasthāpātāt. ataḥ pramāṇāntaram evedaṃ bhāvānām asaṅkarasidhyartham āstheyam. asti ca mīmāṃsakānāṃ prasiddhiḥ - ṣaṣṭhaṃ kiledaṃ pramāṇam iti. atas tallakṣaṇārtho 'yaṃ grantha iti. tad ayuktam. na hy anena pramāṇaṃ (?va/la)kṣyeta. granthato hi pramāṇābhāva evāvasīyate na pramāṇam, nāstīty apy ukte prameyābhāvam eva laukikāḥ pratibudhyante na prameyaṃ kiñcit. ato na tāvat granthānuguṇaṃ pramāṇāntaram, na ca yuktyā saṅgacchate, siddhasya hi jñānasya pramāṇam apramāṇaṃ veti vicāraṇā yuktā. na ca bhūtalopalambhād anyan nāstīti vijñānam asti. tad eva hi dvedhā prakāśate. anyasahitam asahitaṃ ca tat. yadā ghaṭādisahitaṃ tad upalabhyate tadā ghaṭo 'stīti vyavahāraḥ pravartate. tanmātrabodhe tu nāstīti. na ca vācyaṃ satsv api sūkṣmeṣu bhāveṣu tanmātrabodho dṛṣṭaḥ. atas tatrāpi nāstīti prakāśata iti. tad eva hi dvedhā prakāśate. dvedhā hi tanmātrabodhaḥ, dṛśyate pratiyoginy adṛśye vā. tatra yā dṛśye pratiyogini tanmātrabuddhiḥ saiva ghaṭāder nāstitvam. yeṣām apy abhāvaḥ prameyas teṣām api dṛśyādarśanād eva nāstīty abhāvo niścīyate. ato yeyaṃ sarvavādisiddhā tanmātrabuddhiḥ saiva nāstīti vyapadiśyate. yac cābhāvasya kāraṇam iṣyate tattanmātrabuddher evobhayavādisiddhāyāḥ kāraṇam āśrīyatām. ato yatraiva prāk saṃsṛṣṭabuddhir āsīt tatraiva vilakṣaṇakāraṇopanipāte tanmātrabuddhir eva jāyate na punarghaṭādyabhāvaḥ. (avaśyaṃ) caitad evābhyupagantavyam. anyathā hi nābhāvo gṛhītuṃ śakyate, pramāṇābhāvo hi tatra pramāṇam, na cāgṛhītena sa pratipādayituṃ śakyate. asti hi suṣuptasyāpi pramāṇā ... (?taḥ/bhāvaḥ). na ca nāstīti niścayaḥ. ato nāgṛhītam adarśanam abhāvaṃ niścāyayati, tadgrahītir api cābhāvarūpatvād apareṇādarśanenety evam anavasthāpātaḥ. yadi ca sanmātram evādarśanaṃ niścāyayati, tato nivṛtte 'py adarśane prāk devadatto 3,191 nāsīd iti pratipattir na syāt. bhavati hi kadācid etat. yo yatra na dṛṣṭas tasmin punardṛśyamāna evāsaty apy adarśane pracīnābhāvajñānaṃ tad asaty adarśane na syāt. ataḥ pracīnādarśanavimarśajam eva tajjñānam iti vācyam. evaṃ ca gṛhyamāṇam eva tadabhāvaṃ prakāśayati. grahaṇe cānavasthāprasaṅgaḥ. tanmātrasaṃvid eva tv adarśanam ity āśrīyamāṇe na kiñcid duṣyati. svaprakāśā hi sā phalabhūtā na prakāśāntaram apekṣate. atas tanmātrānubhāva eva svaprakāśo bhāvaḥ. yadā cāsau ghaṭādyadarśanarūpatayā vimṛśyate tadā tadabhāvatvenāpadiśyate. ato na prameyāntaram abhāvaḥ. na ca nāstīti jñānaṃ pramāṇam, ubhayor abhāvāt. jñānābhāva evāyaṃ jñānabhramaḥ, ālokādarśane 'ndhakāradarśanabhramavad iti na vidmaḥ kim atra lakṣyate iti. atrāha -- kim atra na jñāyate, yathoktaṃ bhavatā granthatas tāvat pramāṇābhāva evāvasīyate, kecit kilābhāvaṃ nāma pramāṇam ātiṣṭhante, tannirākaraṇārtha evāyaṃ bhāṣyakārasya prayatnaḥ. katham anena nirākriyate. śrūyatām. yad eke vadanti -- nāstīty asyārthasya asannikṛṣṭasyeti, pratyakṣādyaviṣayasyābhāvaḥ pramāṇam iti, tan na, pramāṇābhāvo hy asau -- pramāṇaṃ na bhavatīty arthaḥ. apramāṇatve cokto hetuḥ. etad api nopapadyate. yadi granthānuguṇyenāyam artho vyākhyāsyate tato vispaṣṭaḥ pradeśāntare bhāṣyavirodhaḥ, evaṃ hi citrāparihāre bhāṣyakāro vakṣyati -- syād evaṃ yadi pañcaiva pramāṇānyabhaviṣyann iti. tatra sphuṭam eva hi ṣaṭ pramāṇāni darśayati. na ca tadvyavahārābhiprāyam, na hi pramāṇagatā saṃkhyā vyavahāraṃ bhinattīti sāmpratam. ihāpi cāprāmāṇye na bhāṣyakāreṇa kaścid dhetur uktaḥ. na ca pratijñāmātreṇa pratipakṣanirākaraṇaṃ bhavatīti sāmpratam. tasmād vyākhyeyam etat. atrāha -- pramāṇeti. ayam arthaḥ. pramāṇalakṣaṇam evedam. yat tūktaṃ tadabhāvena kathaṃ tallakṣyate iti. satyam. na pramāṇamātravivakṣayā pramāṇaśabdaḥ api tu sāmānyavacano 'pi pramāṇaśabdo 'dhikārād viśeṣe 'vatiṣṭhate. pramāṇābhāva iti kim uktaṃ bhavati, pūrvoktapramāṇapañcakābhāva iti. asti ca pañcānāṃ bhāvopadhānam ekam, sarvāṇi hi bhāvapramāṇāni, ato bhāvapramāṇābhāvo 3,192 bhāvapramāṇam iti. sa copariṣṭhād dvedhā vyākariṣyate -- ātmano 'pariṇāmo vā nāstīti vā bhāvajñānam iti. asti vā bhūtalamātropalambhād anyan nāstīti vijñānam. bāḍham. ko 'sya viṣayaḥ. caturdhā vyūḍhaḥ prameyābhāvaḥ. asati hi tasmin kāryakāraṇādīnām itaretarasaṅkaro vārtikakṛtā darśita eva. yaś cāyaṃ pādavihārādivyavahāraḥ kaṇṭakādyabhāvāvadhāraṇapurassaraḥ so 'py abhāvasyāsati prameyatve na syāt. yadi bhūtalamātram atropalabhyate na kaṇṭakādivivekaḥ, satsv api teṣūpalabhyata iti nāsīti dhiyā gṛhyeta. budhyapalāpas tu saṃvidviruddha eva. na hi bhāvābhāvayoḥ prakāśo viśiṣyate. yat tūktaṃ tanmātradhīr eva ghaṭo nāstīti vyapadiśyata iti. tatra na vidmaḥ kiṃ mātraśabdena vyavacchidyata iti. yadi na kiñcid vyāvartayati, anarthakas tarhi. atha vyāvartayati. asti tarhi vyāvṛttir viṣayaḥ, itarathā sadātva eva vyāvartayatīti vyavahāro bhavet. ayam eva saṃsṛṣṭadhiyas tanmātradhiyo viśeṣaḥ. yad asau viviktaviṣayā. viṣayāntaravivekaś cābhāvaḥ. buddhir eva viṣayaḥ na tato 'nya iti cet. sā tarhi saṃsargopalambhe 'py astīti nāstīti prakāśeta. api ca yady atra pratiṣidhyate tat tatra nāstīty ucyate. na ceha ghaṭo nāstīti buddhiḥ pratiṣidhyate, buddhigocare hi nāstīti śabde buddher evābhāvaḥ syāt. athocyate ghaṭo nāstīty ayam arthaḥ -- bhūtalamātram upalabhyata iti. na tāvad evaṃ laukikā budhyante. api caivaṃ sūkṣmasya vastunas sadasadbhāvau prati jijñāsā na syāt, yady abhāvo nāma na kaścid asti, tarhi vastuny upalabdhe ko 'yam aparas saṃśayas sūkṣmeṣu keśakīṭādiṣu, tanmātropalambho hi bhāvāntarāṇām abhāvaḥ, sa ca jñāta evāsaṃśayitavyaś ca, saṃvidaḥ svaprakāśatvāt kim aparam anviṣyate. dṛśye pratiyogini tanmātrabodho 'bhāvo nādṛśya iti cet, kiṃ pu(na)radṛśyatayā, yadā buddher abhāvo nātiricyate. yadi tattvāntaram abhāvo bhavet, tadā tadavadhāraṇe dṛśyādarśanam upayujyate. ātmendriyamano 'rthasannikarṣo hi jñānajananakāraṇam, tad yadā satsv apy aviguṇeṣv indriyādiṣu jijñāsito 'py arthaḥ prayatnenānviṣṭo na dṛśyate tadā tadabhāvād adarśanam iti kalpyate. tad evaṃ 3,193 dṛśyatvasiddhyarthā yuktā sūkṣmajijñāsā. tanmātropalambhe svabhāve 'dṛṣṭārtham eva dṛśyaviśeṣaṇam āpadyeta. yac coktam -- yadabhāvasya kāraṇaṃ tattanmātradhiya eva kalpanālāghavād astv iti. tad ayuktam. na hi kalpanālāghavaṃ bhavatīti pramāṇāvagatam upekṣituṃ śakyam. na ca yadabhāvasya kāraṇaṃ tattanmātradhiya iti yuktam. mudgaraprahārādir hy abhāvasya kāraṇam. na ca tena tanmātrabodho janyate. bhūtalādivasturūpaprakāśo hīndriyādikāraṇakaḥ, nāsau ghaṭāder utsāraṇaṃ praharaṇaṃ vāpekṣate. yat tu nānirūpitam adarśanam abhāvaṃ niścāyayati, suṣupte prasaṅgād iti. tad ayuktam. na hy agṛhīte vastuni nirāśrayo 'bhāvaḥ prakāśate, kvacid dhi kasyacid abhāvaḥ pratibhāti na svatantraḥ. ata evāha -- vasturūpe na jāyata iti. na ca suṣuptasya kiñcit prakāśate. kva cābhāvaḥ paricchindyāt. api ca yogyapramāṇānutpattir abhāvaṃ niścāyayati, na ca suṣuptasya pramāṇayogyo 'rthaḥ, yo na prakāśata iti katham abhāvaniścayo jāyate, ato nādarśanam agṛhītam iti suṣuptasyābhāvo na prakāśate, kin tu yogyādarśanam etan na bhavatīti. yac cāpi nivṛtte 'py adarśane prāṅnāstitvaṃ vyapadiśyate samprati dṛśyamānasyāpīti. tan na. tatra hi samānopalambhayogyeṣu bahuṣu smaryamāṇeṣu yad eko na smaryate, tena smṛtinivṛttyā phalataḥ pratyakṣanivṛttyā tadabhāvaḥ pratīyate smṛty eva bhāvāntarāṇām. tadānīntano 'bhāvaḥ smṛtinivṛttiś ca tadānīm asty eva. na cāvagamyate. vastvabhāvam eva tu prācīnam avagamayatīti nānavasthā. ato nāstīti jñānaṃ pramāṇam, abhāvaś ca prāgabhāvādibhedabhinnaḥ prameyam iti sāmpratam. tad ayam artho bhavati. yatra pañca pramāṇāni sambhavatpratipattīni yathāyathaṃ paṭāder vastunas sattāṃ bodhayituṃ na jāyante, tasmin viṣaye 'bhāvasya pramāṇatā sambhavati, tad anena pramāṇaśabdo 'dhikārāt pramāṇapañcake prayukta iti darśitam. vasturūpe na jāyata iti ca svatantrābhāvamātrajñānaṃ na pramāṇam iti darśayati. laukikapramāṇalakṣaṇakathanāc ca yatraiva pramāṇānāṃ śaktisambhavas tatraiva teṣām anutpādaḥ pramāṇam abhāvo 'bhāvāvadhāraṇe. tādṛśenaiva hi laukikā nāstīti budhyanta iti. bhāṣyasyāpy ayam arthaḥ -- abhāvo 'pi na parīkṣaṇīyaḥ. avyabhicārāt. pramāṇābhāvo hy asannikṛṣṭe 'rthe 'bhāvākhye nāstīty anena rūpeṇa prakāśamāne yāṃ buddhim utpādayati sābhāvapramā(?ṇaḥ). 3,194 na caivañjātīyakasya vyabhicāras sambhavatīti. vyavahitam api cākāṅkṣāvaśāt yāṃ buddhim utpādayatīti sambandhanīyam. yena yasyābhisambandho dūrasthenāpi tena tat | iti nyāyāt

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Mima/30.1

Cite as: Sucaritamisra: Mimamsaslokavarttikakasika 30.1, in HREEM (hreem.cc/library/Mima/30.1), after GRETIL, Sucaritamisra: Mimamsaslokavarttikakasika Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/mimamsa/mimsvtku.htm — Sucaritamisra: Mimamsaslokavarttikakasika Based on the ed. by K. Sāmbaśiva Śāstrī. The Mimāṃsāślokavārt[t]ika with the Commentary Kāśikā of Sucaritamiśra. Trivandrum 1926, 1929, 1943. (Trivandrum Sanskrit Series, 90, 99, 150) Provided by Helmut Krasser, Wien { | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text