Library·Manjusrimulakalpa·27·27.21

Manjusrimulakalpa 27.21

Mmk 27.21

नमो ऽमितायुर्ज्ञानविनिश्चयराजेन्द्राय तथागतायार्हते सम्यक्सम्बुद्धा नमः सर्वबुद्धानां शालेन्द्रराजरमितायुरमितायुरत्नकेतुप्रभृतीनाम् । एभ्यो नमस्कृत्वा त्रिरति मन्त्रो जप्तव्यमेकाक्षरम् । कतमं च तत् । मुं ॥ एष सः मार्षा अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितम् । अमितव्यूहवत्यां लोकधातौ स्थितेन सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै महतो जनस्यार्थाय अनागतानां च जनतामवेक्ष्य शासनान्तर्द्धानकालसमयं विदित्वां अन्ते युगाधमे रत्नत्रयापकारिणां दुष्टराज्ञां निवारणार्थं ज्येष्ठमौरसं पुत्रं सर्वतथागतानां महास्थामप्राप्ताय बोधिसत्त्वाय महासत्त्वाय दत्तवां । बुद्धाधिष्ठानेन समन्तभद्रस्य दत्तवां । समन्तभद्रो बोधिसत्त्वो महासत्त्वः मञ्जुश्रियस्य कुमारभूतस्य दत्तवां । ततो मञ्जुश्रियेण कुमारभूतेन सर्वसत्त्वानामनुग्रहार्थं महाकरुणावशेन हृदयस्थः स्वमूर्त्तौ स्थापितवां । अनागतकालमवेक्ष्य युगाधमे शासनान्तर्द्धानकालसमये अहमपश्चिमकस्तथागतः दुष्टे काले कलौ युगे मम शासनसंरक्षणार्थं करिष्यत्ययं मन्त्रवरः ॥ अस्य कल्पं वक्ष्ये समासतः । शृणु कुमार मञ्जुस्वर सुस्वर तवैतन्माहात्म्यं कल्पविस्तरम् । अस्य कल्पराजेन्द्रस्य सविस्तरतरं वक्ष्ये ॥ आदौ तावत् पर्वताग्रमारुह्य विंशल्लक्षाणि जपेत् । पूर्वसेवा कृता भवति । क्षीराहारेण मौनिना नान्यत्र मन्त्रगतचित्तेन तृशरणपरिगृहीतेन उत्पादितबोधिचित्तेन च मोषधशीलसंवरसमादापनाबोधिसत्त्वसंवरसंवरपरिगृहीतेन जप्तव्यम् । ततः कर्माणि भवन्ति । आदौ तावत् पटं लिखापयितव्यम् । उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णैः अन्यतरेण शुचिना चेलखण्डेन पट्टके वा चन्दनकर्पूरकुङ्कुमपर्युषितेन शुचौ देशे शुचिना चित्रकरेण त्रिशुक्लभोजिना शुचिवस्त्रप्रावृतेन आदित्योदयकालपरिपूर्णपञ्चदश्यां विशुद्धनक्षत्रेण लिखापयितव्यं यावन्मध्याह्नम् । परतो वर्जयेत् । एवं दिवसे दिवसे यावत् परिसमाप्त इति ॥ आदौ तावत् पटस्य अमितायुर्वतीं लोकधातुमालिखेत् । हस्तमात्रे पटे सुगतवितस्तिचतुरस्रे पट्टके वा समन्तादमितायुर्वतीं लोकधातुं समन्तात् पद्मरागेन्द्रनीलस्फटिकमरकतपर्वतैरधस्तात् उपशोभितं उपरिष्टाच्च तेषां महारत्नविमानोपशोभिताकारं ध्वजपताकोपशोभितोच्छ्रिताकारं तत्र मध्ये रत्नसिंहासनोपविष्टममितायुविनिश्चयराजेन्द्रं तथागतं धर्मं देशयमानं समन्तप्रभाज्वालामालिनं ईषद्रक्तावदातं वामपार्श्वरत्नोपलनिषण्णं महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वं चामरव्यग्रहस्तं तथागतदृष्टिं वामहस्तबीजपूर्णकफलन्यस्तं प्रियङ्गुश्यामावदातं सर्वालङ्कारालङ्कृतशरीरं समन्तज्वालं दक्षिणपार्श्वे भगवन्तं समन्तभद्रं बोधिसत्त्वं महासत्त्वं रत्नोपलस्थितं चामरव्यग्रहस्तं उद्धूयमानसितविन्यस्तपाणिं वामहस्तेन रत्नपाणिसर्वालङ्काररत्नमकुटविच्छुरितप्रियङ्गुश्यामावदातं (वैद्य २३७) नीलपट्टचलनिकानिवस्तं मुक्तिकाहाररत्नयज्ञोपवीतं समन्तज्वालामालावबद्धं तस्य दक्षिणपार्श्वे आर्यमञ्जुश्रियं रत्नोपलस्थितकं कुमारभूतं पञ्चचीरकोपशोभितं शिरं बालदारकालङ्कारालङ्कृतं कनकवर्णं नीलपट्टचलनिकानिवस्तं मुक्तावलीरत्नव्यतिमिश्रं यज्ञोपवीतं तथागतदृष्टिं ईषत्प्रहसितवदनं सौम्याकारं चारुरूपं कृताञ्जलिपुटं सर्वाकारवरोपेतं लिखापयितव्यम् । तस्याधस्ताद् यथा चे लिङ्गं वेषी संस्थानधारी साधकः पद्ममालां गृह्य जानुकोर्परसंस्थितः अवनतशिरः पटकोणान्तदेशे लिखापयितव्यः । भगवतः उपरिष्टाच्चत्वारो बुद्धाः भगवन्तः लिखापयितव्यः । दक्षिणोद्देशे द्वौ अमिताभः पुण्याभश्च । वामपार्श्वे उपरिष्टाद् द्वौ तथागतौ अभिलिखापयितव्यौ सालेन्द्रराजा रत्नकेतुश्च । समन्तप्रभा समन्तज्वाला कनकवर्णाः सर्वाकारवरोपेता सर्वपुष्पाभिकीर्णा निषण्णा पद्मासनेष्वेव नान्यासनेषु धर्मं देशयमानाः पर्यङ्कोपविष्टाः सौम्याकारा भगवतः उपरिष्टात् पुष्प वर्षं प्रवर्षयमानं मेघान्तर्गतलीनं तथागतविग्रहमुत्पतमानं सुनेत्रनामा अभिलिखापयितव्यः । सर्वाकारवरोपेतं समन्तप्रभाज्वालामालिनं दक्षिणहस्तेन वरप्रदं वामहस्तेन चीवरकर्णकावसक्तम् ॥ एतद् भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य पटविधानम् । एतस्यैव भगवतः अयमेकाक्षरो मन्त्रः । उष्णीषराजो ऽयं उष्णीषचक्रवर्त्ती प्रतिस्पर्द्धी समतुल्यवीर्यः तुल्यप्रभावः । अचिन्त्यमस्य गुणविस्तारप्रभावं महर्द्धिको ऽयं महानुभावः । संक्षेपतः सर्वतथागतोष्णीषराजानं महाचक्रवर्तिनमेकाक्षरस्य च यानि कल्पविस्तराणि उक्तानि तानि सर्वाणि करोति । असाधितो ऽपि जप्तमात्रः कर्माणि कुरुते । कः पुनर्वादः साधितः । यथेष्टफलसम्पदां ददाति । ईप्सितं भवति । मनसा यदभिरुचितं अस्य पटस्य दर्शनादेव नियतं बोधिपरायणो भवति ॥ तस्यैव भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्याधिष्ठानेन सर्वतथागतहृदय इत्युच्यते सर्वतथागत उष्णीषराजमित्युच्यते । चक्रवर्ति इत्युच्यते । महाचक्रवर्तिराज इत्युच्यते । मञ्जुश्रियः कुमारभूतस्य हृदय इत्युच्यते । एकाक्षर इत्युच्यते । संक्षेपतः अचिन्त्यमस्य प्रभावः । अचिन्त्या हि बुद्धानामधिष्ठानः । अचिन्त्यं बुद्धविकुर्वितम् । असाधितो ऽपि अकृतपुरश्चरणो ऽपि सर्वगृहारम्भप्रतिष्ठितो ऽपि सर्वभक्षमद्यमांसग्राम्यधर्मप्रतिषेविणो ऽपि वर्जयित्वा अश्राद्धस्य अनुत्पादितबोधिचित्तस्य । एतेषां नास्ति सिद्धिः । रत्नत्रयोपकारिणां तत्प्रतियत्नोपघातिनां च । एतेषां क्षुद्रकर्मापि न सिद्ध्यन्ति । कः पुनर्वादो मध्यमोत्तमा सिद्धिः । सर्वकामप्रचारभक्ताचारप्रचारस्य साधिकाष्टं कर्मसहस्रं क्षुद्रकर्मप्रयुक्तस्य सिद्ध्यन्ते । कतमे च ते? आदौ तावदेकजप्तः आत्मरक्षा । द्विजप्तः पररक्षा । त्रिजप्तो महारक्षा भवति । महाबोधिसत्त्वेनापि दशभूमिप्रतिष्ठितेन न शक्यते संक्षोभयितुम् । कः पुनर्वादः तदन्यैः सत्त्वैः । पञ्चरङ्गिकेण सूत्रेण चतुर्जप्तेन कट्यां वेष्टयेत् । शुक्रबन्धः कृतो भवति । स्वप्नोपघातं चास्य न भवेत् । वर्जयित्वा तु स्वेच्छया तदह एव रात्र्यामेको यदि रोचते दिने दिने कर्तव्यः । अथ न रोचते भस्म सप्ताभिमन्त्रितं कृत्वा नाभिदेशं स्पृशेत् । त्रिसप्ताहं शुक्रबन्धं कृतो (वैद्य २३८) भवति । पञ्चजप्तो बुद्धं भगवन्तं ध्यात्वा यं स्पृशेत् स वश्यो भवति । चन्द्रमसग्रहे शशिग्रहे शशिमण्डले अर्ककाष्ठैरग्निं प्रज्वाल्य विनापि पटेन पूर्वाभिमुखः आज्याहुतीनां दशसहस्राणि जुहुयात् । राजकुलसमीपे निम्नगानान्तरिते देवावसथे वा नान्तरितं यस्मिं देशे राजा तिष्ठति तत्र समीपे होमकर्मः प्रयोक्तव्यः । प्रभाते राजा वश्यो भवति । यदुच्यते तत् सर्वं करोति । यदा न पश्यते तदा तस्य चित्तं न्यस्तं भवति । मान्द्यो वा भवति । चित्तविक्षेपतां प्रतिपद्यते । भूयो प्रत्यायनं कर्त्तव्यम् । क्षीराहुतीनामष्टसहस्रं जुहुयात् । यत्र वा तत्र वा काले । ततः प्रभृति स्वस्थो भवति । एतत् कर्म श्राद्धानां रत्नत्रयप्रसन्नानां उत्पादितबोधिचित्तानां न कर्तव्यम् । यदि करोति महान्ततरं अपुण्यस्कन्धं प्रसनुयात् । अन्येषामपकारिणं कर्तव्यम् । दुष्टचित्तानां रौद्रचित्तानां दिनेदिने दर्शनं च दातव्यम् । सौम्यचित्ता भवन्ति । यदि न भवन्ति महता अर्थेन वियुज्यन्ते । प्राणावशेषा भवन्ति ॥ पुनरपि कर्मं भवति । चन्द्रग्रहे पलाशसमिद्भिरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात् । प्रभाते देशस्वामी राजा भवति मन्त्रापयति मन्त्रितव्यम् । सद्भावमुपदर्शयते । उपदेष्टव्यं षण्मासाभ्यन्तरेण सहस्रपिण्डं ग्रामं ददाति । यद्यर्द्धरात्रं जुहोति त्रिभिर्मासैः । यदि सर्वयामिकं रात्रिं जुहोति मासेनेकेन लभते । यदि मासं जुहोति रात्र्यां रात्र्यां विषयं प्रतिलभते । विषयप्रतितुल्यं वा ग्रामं अन्यं वा यत् किञ्चिद् वितम् । अरयो न प्रभवन्ति । यदि सम्प्रभवन्ति पुनरपि कर्म भवति ॥ चन्द्रग्रहे अपामार्गकाष्ठैरग्निं प्रज्वाल्य पलाशसमिधानां ब्राह्मणारे दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् । अन्ते पिचुमन्दपत्राणां कटुतैलाक्तानां आहुतिमष्टसहस्रं जुहुयात् । प्रभाते सौम्या ब्राह्मणा राजा विद्विष्टो भवति ॥ अपरमपि कर्म भवति । चन्द्रग्रहे यथोपपन्नकाष्ठैरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात् । होमान्ते च यस्यां दिशि प्रभुस्तिष्ठति तस्यां दिशि तद् भस्म क्षिपेत् । स वश्यो भवति । यं वा तं वा यस्मिं वा तस्मिं वा काले रोचते भोगां विस्तरतैः साहाय्यतां च प्रतिपद्यते । स्वल्पमल्पं वा महान्तं वा ग्राममनुप्रयच्छति विषयं वा । अमोघा च सिद्धिर्भवति षड्भिर्मासैः नियतम् ॥ अथ क्रुद्धचित्तश्चतुर्वर्ण्यो अन्यतरं विकृतस्थाने वा यातो विकृष्टप्रधानलिङ्गेन वा अन्यदेवताभक्तं लौकिकेषु यस्मिं दिशि ते तिष्ठन्ति तदेव वेश्म सो ऽस्य देशान्तरं प्रक्रमते । उद्विग्नश्च भवति । रात्रौ प्रपलायते वा । कुटुम्बं वास्य भिद्यते । प्रत्यायनं क्षीराष्टसहस्राहुतयो होतव्याः । स्वस्थो भवति ॥ अपरमपि कर्म भवति । चन्द्रग्रहे तेनैव विधिना बुद्धबोधिसत्त्वप्रतिमापटस्य वा सद्धर्मपुस्तके वा सधातुकगर्भचैत्ये वा शुचिना शुचिवस्त्रप्रावृतेन अहोरात्रोषितेन निष्प्राणकेनोदकेन कर्म कर्त्तव्यम् । शुष्कपुष्पैः सुगन्धैः चन्दनकुङ्कुमपरिपूर्णः कर्पूरधूपधूपितोद्देशं तं कुर्यात् । (वैद्य २३९) यत्र कर्म प्रयुज्यते ब्राह्मणारेः पलाशकाष्ठैः क्षत्रियारे अश्वत्थकाष्ठैः वैश्यारेः खदिरकाष्ठैः शूद्रारेस्तदन्यैः काष्ठैः अग्निं प्रज्वाल्य तदेव कर्म कुर्यात् । ब्राह्मणस्य पलाशसमिध क्षत्रियस्याश्वत्थसमिधं वैश्यस्य खदिरसमिधं शूद्रस्य अपामार्गसमिधं तदन्यैर्वा यथालब्धैः राज्यहोमान्ते कुर्यात् । कर्मं तथैव महाराज्ञा अपराजितमूलसमिधं जुहुयात् । अष्टसहस्रं घृताहुतीनां अष्टसहस्रं अन्ते च तस्यां तदेव भस्मं क्षिपेत् । यस्यां दिशि महाराजा तिष्ठति । दुष्टचित्त आगच्छति वा उष्णीषचक्रवर्त्ती एकाक्षरमुद्रं बध्वा क्षिपेत् । उत्पलमुद्रं वा स वित्रस्तो निर्वर्त्तति । भग्नचक्रो वा भवति । अन्यद् वा यत्किञ्चिन्महोत्पातं भवति । महोपसर्गं चित्तदौस्थित्यं येन वाचास्य निर्वर्त्तते ॥ एतानि वा पराणि च यथेष्टानि कर्माणि भवन्ति । वस्त्रमभिमन्त्र्य प्रावरेत् । सुभगो भवति । अक्षिण्यभिमन्त्र्य अञ्जयेत् । सर्वजनप्रियो भवति । सप्ताभिमन्त्रितं कुर्यात् । अक्षिणी मुखं च सर्वतः कृत्वा क्रुद्धस्य मुखं निरीक्षयेत् । स वश्यो भवति । सौम्यश्च पुष्पफलं अन्यं वा यत्किञ्चित्सगन्धं सप्ताभिमन्त्रि कृत्वा राज्ञो निवेदयेत् । सचिघ्रीतमात्रेण वश्यो भवति । अन्यो वा यः कश्चित् सत्त्वः स दर्शनमात्रेणैव वश्यो भवति । सर्वाङ्गशूलेषु अष्टशतमभिमन्त्रितं कृत्वा उष्णवारिणा स्नायीत । स्वस्थो भवति । एतानि कर्माणि कुर्यान्न दुःखितेभ्यः सत्त्वेभ्यः ॥ अनाथे पतिते क्लीबे व्रतिने चेह शासने । रत्नत्रयप्रसन्नेन कुर्यात् तत् कर्म ईदृशम्

namo 'mitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyaksambuddhā namaḥ sarvabuddhānāṃ śālendrarājaramitāyuramitāyuratnaketuprabhṛtīnām / ebhyo namaskṛtvā trirati mantro japtavyamekākṣaram / katamaṃ ca tat / muṃ // eṣa saḥ mārṣā amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena bhāṣitam / amitavyūhavatyāṃ lokadhātau sthitena sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janasyārthāya anāgatānāṃ ca janatāmavekṣya śāsanāntarddhānakālasamayaṃ viditvāṃ ante yugādhame ratnatrayāpakāriṇāṃ duṣṭarājñāṃ nivāraṇārthaṃ jyeṣṭhamaurasaṃ putraṃ sarvatathāgatānāṃ mahāsthāmaprāptāya bodhisattvāya mahāsattvāya dattavāṃ / buddhādhiṣṭhānena samantabhadrasya dattavāṃ / samantabhadro bodhisattvo mahāsattvaḥ mañjuśriyasya kumārabhūtasya dattavāṃ / tato mañjuśriyeṇa kumārabhūtena sarvasattvānāmanugrahārthaṃ mahākaruṇāvaśena hṛdayasthaḥ svamūrttau sthāpitavāṃ / anāgatakālamavekṣya yugādhame śāsanāntarddhānakālasamaye ahamapaścimakastathāgataḥ duṣṭe kāle kalau yuge mama śāsanasaṃrakṣaṇārthaṃ kariṣyatyayaṃ mantravaraḥ // asya kalpaṃ vakṣye samāsataḥ / śṛṇu kumāra mañjusvara susvara tavaitanmāhātmyaṃ kalpavistaram / asya kalparājendrasya savistarataraṃ vakṣye // ādau tāvat parvatāgramāruhya viṃśallakṣāṇi japet / pūrvasevā kṛtā bhavati / kṣīrāhāreṇa mauninā nānyatra mantragatacittena tṛśaraṇaparigṛhītena utpāditabodhicittena ca moṣadhaśīlasaṃvarasamādāpanābodhisattvasaṃvarasaṃvaraparigṛhītena japtavyam / tataḥ karmāṇi bhavanti / ādau tāvat paṭaṃ likhāpayitavyam / upoṣadhikena citrakareṇa aśleṣakairvarṇaiḥ anyatareṇa śucinā celakhaṇḍena paṭṭake vā candanakarpūrakuṅkumaparyuṣitena śucau deśe śucinā citrakareṇa triśuklabhojinā śucivastraprāvṛtena ādityodayakālaparipūrṇapañcadaśyāṃ viśuddhanakṣatreṇa likhāpayitavyaṃ yāvanmadhyāhnam / parato varjayet / evaṃ divase divase yāvat parisamāpta iti // ādau tāvat paṭasya amitāyurvatīṃ lokadhātumālikhet / hastamātre paṭe sugatavitasticaturasre paṭṭake vā samantādamitāyurvatīṃ lokadhātuṃ samantāt padmarāgendranīlasphaṭikamarakataparvatairadhastāt upaśobhitaṃ upariṣṭācca teṣāṃ mahāratnavimānopaśobhitākāraṃ dhvajapatākopaśobhitocchritākāraṃ tatra madhye ratnasiṃhāsanopaviṣṭamamitāyuviniścayarājendraṃ tathāgataṃ dharmaṃ deśayamānaṃ samantaprabhājvālāmālinaṃ īṣadraktāvadātaṃ vāmapārśvaratnopalaniṣaṇṇaṃ mahāsthāmaprāptaṃ bodhisattvaṃ mahāsattvaṃ cāmaravyagrahastaṃ tathāgatadṛṣṭiṃ vāmahastabījapūrṇakaphalanyastaṃ priyaṅguśyāmāvadātaṃ sarvālaṅkārālaṅkṛtaśarīraṃ samantajvālaṃ dakṣiṇapārśve bhagavantaṃ samantabhadraṃ bodhisattvaṃ mahāsattvaṃ ratnopalasthitaṃ cāmaravyagrahastaṃ uddhūyamānasitavinyastapāṇiṃ vāmahastena ratnapāṇisarvālaṅkāraratnamakuṭavicchuritapriyaṅguśyāmāvadātaṃ (Vaidya 237) nīlapaṭṭacalanikānivastaṃ muktikāhāraratnayajñopavītaṃ samantajvālāmālāvabaddhaṃ tasya dakṣiṇapārśve āryamañjuśriyaṃ ratnopalasthitakaṃ kumārabhūtaṃ pañcacīrakopaśobhitaṃ śiraṃ bāladārakālaṅkārālaṅkṛtaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivastaṃ muktāvalīratnavyatimiśraṃ yajñopavītaṃ tathāgatadṛṣṭiṃ īṣatprahasitavadanaṃ saumyākāraṃ cārurūpaṃ kṛtāñjalipuṭaṃ sarvākāravaropetaṃ likhāpayitavyam / tasyādhastād yathā ce liṅgaṃ veṣī saṃsthānadhārī sādhakaḥ padmamālāṃ gṛhya jānukorparasaṃsthitaḥ avanataśiraḥ paṭakoṇāntadeśe likhāpayitavyaḥ / bhagavataḥ upariṣṭāccatvāro buddhāḥ bhagavantaḥ likhāpayitavyaḥ / dakṣiṇoddeśe dvau amitābhaḥ puṇyābhaśca / vāmapārśve upariṣṭād dvau tathāgatau abhilikhāpayitavyau sālendrarājā ratnaketuśca / samantaprabhā samantajvālā kanakavarṇāḥ sarvākāravaropetā sarvapuṣpābhikīrṇā niṣaṇṇā padmāsaneṣveva nānyāsaneṣu dharmaṃ deśayamānāḥ paryaṅkopaviṣṭāḥ saumyākārā bhagavataḥ upariṣṭāt puṣpa varṣaṃ pravarṣayamānaṃ meghāntargatalīnaṃ tathāgatavigrahamutpatamānaṃ sunetranāmā abhilikhāpayitavyaḥ / sarvākāravaropetaṃ samantaprabhājvālāmālinaṃ dakṣiṇahastena varapradaṃ vāmahastena cīvarakarṇakāvasaktam // etad bhagavataḥ amitāyurjñānaviniścayarājendrasya tathāgatasyārhataḥ samyaksambuddhasya paṭavidhānam / etasyaiva bhagavataḥ ayamekākṣaro mantraḥ / uṣṇīṣarājo 'yaṃ uṣṇīṣacakravarttī pratisparddhī samatulyavīryaḥ tulyaprabhāvaḥ / acintyamasya guṇavistāraprabhāvaṃ maharddhiko 'yaṃ mahānubhāvaḥ / saṃkṣepataḥ sarvatathāgatoṣṇīṣarājānaṃ mahācakravartinamekākṣarasya ca yāni kalpavistarāṇi uktāni tāni sarvāṇi karoti / asādhito 'pi japtamātraḥ karmāṇi kurute / kaḥ punarvādaḥ sādhitaḥ / yatheṣṭaphalasampadāṃ dadāti / īpsitaṃ bhavati / manasā yadabhirucitaṃ asya paṭasya darśanādeva niyataṃ bodhiparāyaṇo bhavati // tasyaiva bhagavataḥ amitāyurjñānaviniścayarājendrasyādhiṣṭhānena sarvatathāgatahṛdaya ityucyate sarvatathāgata uṣṇīṣarājamityucyate / cakravarti ityucyate / mahācakravartirāja ityucyate / mañjuśriyaḥ kumārabhūtasya hṛdaya ityucyate / ekākṣara ityucyate / saṃkṣepataḥ acintyamasya prabhāvaḥ / acintyā hi buddhānāmadhiṣṭhānaḥ / acintyaṃ buddhavikurvitam / asādhito 'pi akṛtapuraścaraṇo 'pi sarvagṛhārambhapratiṣṭhito 'pi sarvabhakṣamadyamāṃsagrāmyadharmapratiṣeviṇo 'pi varjayitvā aśrāddhasya anutpāditabodhicittasya / eteṣāṃ nāsti siddhiḥ / ratnatrayopakāriṇāṃ tatpratiyatnopaghātināṃ ca / eteṣāṃ kṣudrakarmāpi na siddhyanti / kaḥ punarvādo madhyamottamā siddhiḥ / sarvakāmapracārabhaktācārapracārasya sādhikāṣṭaṃ karmasahasraṃ kṣudrakarmaprayuktasya siddhyante / katame ca te? ādau tāvadekajaptaḥ ātmarakṣā / dvijaptaḥ pararakṣā / trijapto mahārakṣā bhavati / mahābodhisattvenāpi daśabhūmipratiṣṭhitena na śakyate saṃkṣobhayitum / kaḥ punarvādaḥ tadanyaiḥ sattvaiḥ / pañcaraṅgikeṇa sūtreṇa caturjaptena kaṭyāṃ veṣṭayet / śukrabandhaḥ kṛto bhavati / svapnopaghātaṃ cāsya na bhavet / varjayitvā tu svecchayā tadaha eva rātryāmeko yadi rocate dine dine kartavyaḥ / atha na rocate bhasma saptābhimantritaṃ kṛtvā nābhideśaṃ spṛśet / trisaptāhaṃ śukrabandhaṃ kṛto (Vaidya 238) bhavati / pañcajapto buddhaṃ bhagavantaṃ dhyātvā yaṃ spṛśet sa vaśyo bhavati / candramasagrahe śaśigrahe śaśimaṇḍale arkakāṣṭhairagniṃ prajvālya vināpi paṭena pūrvābhimukhaḥ ājyāhutīnāṃ daśasahasrāṇi juhuyāt / rājakulasamīpe nimnagānāntarite devāvasathe vā nāntaritaṃ yasmiṃ deśe rājā tiṣṭhati tatra samīpe homakarmaḥ prayoktavyaḥ / prabhāte rājā vaśyo bhavati / yaducyate tat sarvaṃ karoti / yadā na paśyate tadā tasya cittaṃ nyastaṃ bhavati / māndyo vā bhavati / cittavikṣepatāṃ pratipadyate / bhūyo pratyāyanaṃ karttavyam / kṣīrāhutīnāmaṣṭasahasraṃ juhuyāt / yatra vā tatra vā kāle / tataḥ prabhṛti svastho bhavati / etat karma śrāddhānāṃ ratnatrayaprasannānāṃ utpāditabodhicittānāṃ na kartavyam / yadi karoti mahāntataraṃ apuṇyaskandhaṃ prasanuyāt / anyeṣāmapakāriṇaṃ kartavyam / duṣṭacittānāṃ raudracittānāṃ dinedine darśanaṃ ca dātavyam / saumyacittā bhavanti / yadi na bhavanti mahatā arthena viyujyante / prāṇāvaśeṣā bhavanti // punarapi karmaṃ bhavati / candragrahe palāśasamidbhiragniṃ prajvālya ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt / prabhāte deśasvāmī rājā bhavati mantrāpayati mantritavyam / sadbhāvamupadarśayate / upadeṣṭavyaṃ ṣaṇmāsābhyantareṇa sahasrapiṇḍaṃ grāmaṃ dadāti / yadyarddharātraṃ juhoti tribhirmāsaiḥ / yadi sarvayāmikaṃ rātriṃ juhoti māsenekena labhate / yadi māsaṃ juhoti rātryāṃ rātryāṃ viṣayaṃ pratilabhate / viṣayapratitulyaṃ vā grāmaṃ anyaṃ vā yat kiñcid vitam / arayo na prabhavanti / yadi samprabhavanti punarapi karma bhavati // candragrahe apāmārgakāṣṭhairagniṃ prajvālya palāśasamidhānāṃ brāhmaṇāre dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt / ante picumandapatrāṇāṃ kaṭutailāktānāṃ āhutimaṣṭasahasraṃ juhuyāt / prabhāte saumyā brāhmaṇā rājā vidviṣṭo bhavati // aparamapi karma bhavati / candragrahe yathopapannakāṣṭhairagniṃ prajvālya ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt / homānte ca yasyāṃ diśi prabhustiṣṭhati tasyāṃ diśi tad bhasma kṣipet / sa vaśyo bhavati / yaṃ vā taṃ vā yasmiṃ vā tasmiṃ vā kāle rocate bhogāṃ vistarataiḥ sāhāyyatāṃ ca pratipadyate / svalpamalpaṃ vā mahāntaṃ vā grāmamanuprayacchati viṣayaṃ vā / amoghā ca siddhirbhavati ṣaḍbhirmāsaiḥ niyatam // atha kruddhacittaścaturvarṇyo anyataraṃ vikṛtasthāne vā yāto vikṛṣṭapradhānaliṅgena vā anyadevatābhaktaṃ laukikeṣu yasmiṃ diśi te tiṣṭhanti tadeva veśma so 'sya deśāntaraṃ prakramate / udvignaśca bhavati / rātrau prapalāyate vā / kuṭumbaṃ vāsya bhidyate / pratyāyanaṃ kṣīrāṣṭasahasrāhutayo hotavyāḥ / svastho bhavati // aparamapi karma bhavati / candragrahe tenaiva vidhinā buddhabodhisattvapratimāpaṭasya vā saddharmapustake vā sadhātukagarbhacaitye vā śucinā śucivastraprāvṛtena ahorātroṣitena niṣprāṇakenodakena karma karttavyam / śuṣkapuṣpaiḥ sugandhaiḥ candanakuṅkumaparipūrṇaḥ karpūradhūpadhūpitoddeśaṃ taṃ kuryāt / (Vaidya 239) yatra karma prayujyate brāhmaṇāreḥ palāśakāṣṭhaiḥ kṣatriyāre aśvatthakāṣṭhaiḥ vaiśyāreḥ khadirakāṣṭhaiḥ śūdrārestadanyaiḥ kāṣṭhaiḥ agniṃ prajvālya tadeva karma kuryāt / brāhmaṇasya palāśasamidha kṣatriyasyāśvatthasamidhaṃ vaiśyasya khadirasamidhaṃ śūdrasya apāmārgasamidhaṃ tadanyairvā yathālabdhaiḥ rājyahomānte kuryāt / karmaṃ tathaiva mahārājñā aparājitamūlasamidhaṃ juhuyāt / aṣṭasahasraṃ ghṛtāhutīnāṃ aṣṭasahasraṃ ante ca tasyāṃ tadeva bhasmaṃ kṣipet / yasyāṃ diśi mahārājā tiṣṭhati / duṣṭacitta āgacchati vā uṣṇīṣacakravarttī ekākṣaramudraṃ badhvā kṣipet / utpalamudraṃ vā sa vitrasto nirvarttati / bhagnacakro vā bhavati / anyad vā yatkiñcinmahotpātaṃ bhavati / mahopasargaṃ cittadausthityaṃ yena vācāsya nirvarttate // etāni vā parāṇi ca yatheṣṭāni karmāṇi bhavanti / vastramabhimantrya prāvaret / subhago bhavati / akṣiṇyabhimantrya añjayet / sarvajanapriyo bhavati / saptābhimantritaṃ kuryāt / akṣiṇī mukhaṃ ca sarvataḥ kṛtvā kruddhasya mukhaṃ nirīkṣayet / sa vaśyo bhavati / saumyaśca puṣpaphalaṃ anyaṃ vā yatkiñcitsagandhaṃ saptābhimantri kṛtvā rājño nivedayet / sacighrītamātreṇa vaśyo bhavati / anyo vā yaḥ kaścit sattvaḥ sa darśanamātreṇaiva vaśyo bhavati / sarvāṅgaśūleṣu aṣṭaśatamabhimantritaṃ kṛtvā uṣṇavāriṇā snāyīta / svastho bhavati / etāni karmāṇi kuryānna duḥkhitebhyaḥ sattvebhyaḥ // anāthe patite klībe vratine ceha śāsane / ratnatrayaprasannena kuryāt tat karma īdṛśam

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Mmk/27.21

Cite as: Manjusrimulakalpa 27.21, in HREEM (hreem.cc/library/Mmk/27.21), after GRETIL, Manjusrimulakalpa Based on the edition by M.M.T.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu041_u.htm — Manjusrimulakalpa Based on the edition by M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi : Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sansk

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text