अथ खल्वेषां महामुद्रादीनां लक्षणं भवति । बुद्धानां भगवतां हृदयमुद्रालक्षणं भवति । हस्तद्वयेनान्योन्यमङ्गुलीः सन्नियम्याङ्गुष्ठौ दर्शयेत् । सैषा तथागतानां हृदयमुद्रा । एषैव दक्षिणेनाङ्गुष्ठेन एकैकदर्शितेन पद्मधरस्य मुद्रा भवति । वामेतरस्य पूर्वमुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुञ्च प्रसृतं कृत्वैकतः वज्राकारम् । एषा वज्रधरस्य मुद्रा । एकसूचीमवनाम्य एषा गन्धहस्तिने बोधिसत्त्वस्य मुद्रा पुनरेवोत्क्षिप्य मण्डलाकारं कुर्यात् । एष गजगन्धस्य मुद्रा । उभयोरप्येकं पर्वं कुञ्चयेत् । एषा मणिकुले मुद्रा । सर्वेषां मणिचराणां जम्भले जलेन्द्रादीनां मन्त्रैः तैरेव योजयेत् । तर्जनीयुगलं द्विपर्वं कुञ्चितान्योन्यनखसंयुक्तम् । एषा यक्षकुले मुद्रा पञ्चकादीनां यक्षमहर्द्धिकानाम् । अन्योन्यनखसंयुक्तं अङ्गुष्ठं नखोपरि धारयेत् । तथैव हस्तौ पूर्ववत् कारयित्वा मध्यमाङ्गुलियुगलं उत्थाय सूचिकाकारं कारयित्वा एषा सर्वदेवानां मुद्रा (वैद्य ३२४) दिव्यकुले अकनिष्ठादीनां दिवौकसाम् । भूयस्तथैव हस्तौ संयम्य मुष्टिं बध्वा अङ्गुष्ठौ दर्शयेत् । सौषा प्रत्येकबुद्धार्यश्रावकानां मुद्रा ॥ इत्येतामष्टौ मुद्रासु कुला चाष्टसमावृता । सर्वेषां जिनपुत्राणां मुद्रामेकं तु वक्ष्यते
atha khalveṣāṃ mahāmudrādīnāṃ lakṣaṇaṃ bhavati / buddhānāṃ bhagavatāṃ hṛdayamudrālakṣaṇaṃ bhavati / hastadvayenānyonyamaṅgulīḥ sanniyamyāṅguṣṭhau darśayet / saiṣā tathāgatānāṃ hṛdayamudrā / eṣaiva dakṣiṇenāṅguṣṭhena ekaikadarśitena padmadharasya mudrā bhavati / vāmetarasya pūrvamuṣṭiṃ kṛtvā madhyamāṅguliyugalaṃ pramuñca prasṛtaṃ kṛtvaikataḥ vajrākāram / eṣā vajradharasya mudrā / ekasūcīmavanāmya eṣā gandhahastine bodhisattvasya mudrā punarevotkṣipya maṇḍalākāraṃ kuryāt / eṣa gajagandhasya mudrā / ubhayorapyekaṃ parvaṃ kuñcayet / eṣā maṇikule mudrā / sarveṣāṃ maṇicarāṇāṃ jambhale jalendrādīnāṃ mantraiḥ taireva yojayet / tarjanīyugalaṃ dviparvaṃ kuñcitānyonyanakhasaṃyuktam / eṣā yakṣakule mudrā pañcakādīnāṃ yakṣamaharddhikānām / anyonyanakhasaṃyuktaṃ aṅguṣṭhaṃ nakhopari dhārayet / tathaiva hastau pūrvavat kārayitvā madhyamāṅguliyugalaṃ utthāya sūcikākāraṃ kārayitvā eṣā sarvadevānāṃ mudrā (Vaidya 324) divyakule akaniṣṭhādīnāṃ divaukasām / bhūyastathaiva hastau saṃyamya muṣṭiṃ badhvā aṅguṣṭhau darśayet / sauṣā pratyekabuddhāryaśrāvakānāṃ mudrā // ityetāmaṣṭau mudrāsu kulā cāṣṭasamāvṛtā / sarveṣāṃ jinaputrāṇāṃ mudrāmekaṃ tu vakṣyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.