अनेनैव मुद्रया संयुक्त वामं चीवरसंसक्तं कृत्वा चीवरमुद्रा । मन्त्रं चात्र भवति - ओम् रक्ष रक्ष सर्वबुद्धाधिष्ठितात्मचीवर स्वाहा । तथागतचीवरः । अनेनैव मुद्रेण सर्वकर्मां करोति । चीवरं चास्याभिमन्त्र्य प्रावरेत्, सुभगो भवति । महारक्षा कृता भवति । सर्वग्रहमातरपिशिताशिनक्रव्यादसकश्मला सर्वविघ्नाश्च दृष्टमात्रा प्रपलायन्ते ॥ वामाङ्गुष्ठदक्षिणकनिष्ठिकान्योन्यासक्तौ कृत्वाधः हस्तसम्पुटाधारः पात्रमुद्रा । मन्त्रं चात्र भवति - ओम् लोकपालाधिष्ठित धर धारय महानुभाव बुद्धपात्र स्वाहा । अनेनैव मुद्रेणायं मन्त्रः संयुक्ता सर्वकर्मिकाः भोजनकाले स्मर्तव्यः । सर्वगरविषा न प्रभवन्ति ॥ करयुगावनद्धमुष्टौ तर्जन्यौ मध्यकुञ्चितौ । एषा सा चिन्तामणिमुद्रा । मन्त्रं चात्र भवति - ओम् तेजो ज्वल सर्वार्थसाधक सिध्य सिध्य चिन्तामणिरत्न हूं । चिन्तामणिरत्नम् । अनेनैव मुद्रेण संयुक्तो सर्वकर्मकरं शुभम् । अनेन चाभिमन्त्र्य सर्वाभरणालङ्कारविशेषां आबन्धीत चात्मनो महारक्षा कृता भवति । परमसुभगश्च भवति । स्वयमलङ्कृत्य धर्मं चाभिमन्त्र्य सङ्ग्राममवतरेन्न चास्य काये शस्त्रं निपतति । अधृष्यो भवति सर्वशत्रूणाम् । स्वसैन्यं पालयते । परसैन्यं चाक्रामति ॥ एवमादीनि कर्माणि अपरिमाणानि असिद्ध एव करोति । पद्मरागमरकतादीनामन्यतम रत्नविशेषं गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा ध्वजाग्रे आत्मनो शिरसि वा हस्तिस्कन्धे वा शङ्ग्रामशीर्षेणावतीर्णोनाबन्धयितव्यम् । नियतं परसैन्यमयुद्धेनैव दृष्ट्वा भङ्गमुपजायते । महांस्तम्भितत्वं वा भवति । भग्नसैन्या वा प्रपलायन्ते ऽधिपतिस्तेषाम् ॥ अन्योन्यासक्ताङ्गुलिमुष्टिं कृत्वा मध्यमाङ्गुलिस्थाने तयोस्तृतीयपर्वभागे मध्यकुञ्चिते तर्जन्योन्य स एषा धर्मचक्रमुद्रा । मन्त्रं चात्र भवति - ओम् छिन्द भिन्द हन दह दीप्त चक्र हूं । धर्मचक्र ॥ वामपादमुक्तट्कदक्षिणजानुभूमिस्थं वामेन पृष्ठतः प्रसारिते प्रहारहस्तेन दक्षिणेनाहुङ्कृतेन सावष्टम्भः । एषा अपराजितमुद्रा । मन्त्रं चात्र भवति - ओम् हुलु हुलु चण्डालि मातङ्गि स्वाहा । अपराजिता धर्मचक्रापराजितमन्त्रः । एभिरेव मुद्रैः संयुक्तैः सर्वकर्मिका भवति । संक्षेपतः सर्वदुःखानि छिन्दति । यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि कुर्वन्ति ॥ वेण्योत्सङ्गे तथैव हस्तं कृत्वा दक्षिणेन धर्मदेशनाहस्तेन तथागतशक्तिमुद्रा भवति । मन्त्रं चात्र भवति - ओम् विजये महाशक्ति दुर्धरि हूं फट् विजयिनि फट् मङ्गले फट् । तथागतशक्तिः । अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । सर्वविघ्नां सर्वदुष्टां सर्वशत्रूं सर्वदेवांश्च स्तम्भयति । एषा अपर्यन्तगुणा यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति ॥ तथैव हस्तौ परस्पराङ्गुलिरुत्तानौ करौ तर्जन्याग्रौ सूच्याकारेण मीलितौ विपर्यस्तमधोमुखं ललाटे न्यसेत् । एषा ऊर्णामुद्रा बुद्धानां भगवतामादिबुद्धैः प्रकाशिता । मन्त्रं चात्र भवति - नमः सर्वतथागतेभ्यो ऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यः । हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय (वैद्य ३२८) धारय निरुन्ध निरुन्ध ऊर्णामणि स्वाहा । तथागतोर्णामन्त्रः । अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । गोरोचनया ललाटे तिलकं कृत्वा जपता शत्रुमध्ये ऽवतरेत् । अधृष्यो भवति । सर्वदुष्टैश्च न हिंसते । सङ्ग्राममध्यं वा अवतरेत् । परसेनाभङ्गं दृष्ट्वा करोति । नादृष्ट्वा अपरिमाणां कर्मां करोति । अपरिमाणैश्च बुद्धैर्भगवद्भिर्भाषिता ॥ अञ्जलि निरन्तरमन्योन्यासक्तां कृत्वा तर्जन्यान्योन्यमध्यकुञ्चितौ अङ्गुष्ठोङ्गुष्ठौ । एषा तथागतलोचना मुद्रा । मन्त्रं चात्र भवति - ओम् रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा । एषा तथागतलोचना मन्त्रा अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । अक्षीण्यभिमन्त्र्य शत्रुमध्यमवतरेत् । दृष्टमात्रा विगतरोषा भवन्ति । मैत्रचित्ता हितैषिणो भवन्ति । मित्रत्वमधिगच्छन्ति । सङ्ग्रामशीर्षो वा अक्षिणी मभिमन्त्र्य परसेनां निरीक्षयेत् सौम्यचित्ता भवन्ति । न प्रतिप्रहरसमर्था अयुद्धेनैव निवर्तन्ति । साहाय्यं तावत् प्रतिपद्यन्ते ॥ उभौ हस्तौ तथैव पुस्तकाकाराङ्गुलिरचितौ अन्योन्याग्राश्लिष्टौ तिर्यक् स्थितौ । एषा प्रज्ञापारमिता मुद्रा । मन्त्रं चात्र भवति - नमो भगवति चारुदर्शने ओम् थ । एषा भगवती प्रज्ञापारमिता अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । मन्त्रं जपता हृदयं परामृशेत् स्मृतिमां भवति । दुष्टारिमध्ये जपं कुर्वन् तेषां चित्तमपहरति । सङ्ग्राममध्ये वा द्विपदचतुष्पदादीं सत्त्वां प्रत्यर्थिकां विमोहयति । चित्तविक्षेपं वा करोति संक्षेपतः । एषा भगवती यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति । संक्षेपतः अपर्यन्तगुणा अपर्यन्तं चास्य कल्पं भवति । अपर्यन्तास्तथागतानां मुद्रा मन्त्राश्च भवन्ति । यथा सन्निपातपरिवर्ती चोक्तं तथागतानां परिवाराः ते ऽत्र सर्वे मुद्रा मन्त्राश्च प्रयोक्तव्या । अन्यत्र चासङ्ख्येयानि कल्पानि भवन्ति । मुद्रा मन्त्राश्च ते ऽस्मिं कल्पराजे नियोक्तव्या ॥ एवं पद्मकुले पद्ममुद्रेण सहिता । मन्त्रं भवति - ओम् जिः जिः जिनाङ्गभृद्भयभेदिने स्वाहा । एष मन्त्र अवलोकितेश्वरस्य बोधिसत्त्वस्य पद्ममुद्रया संयुक्तं सर्वकर्मिकं भवति । अनेन जप्तेन सर्वं पद्मकुलं जप्तं भवति । अनेन सिद्धेन सर्वं पद्मकुलं सिद्धं भवति । पण्डरवासिन्या वा महाविद्यया । मन्त्रं चात्र भवति - ओम् कटे विकटे निकटे कटङ्कटे कटविकटकटङ्कटे स्वाहा । मुद्रेणैव योजयेत् पद्ममुद्रेण वा सर्वकर्मिका भवति । रक्षा च कर्तव्या सर्वश्मशानगतेन ॥ एवं तारा भ्रुकुटी चन्द्रा हयग्रीवस्येति विद्याराजसन्निपातपरिवर्ते वा ये कथिताः सर्वमसङ्ख्यं चा पद्मकुलं प्रयोक्तव्यम् मुद्रा मन्त्रैश्च कल्पविस्तरैः ॥ एवं ध्वजकुल उभयवज्रमुद्रसहितम् । मन्त्रं चात्र भवति - हूं । एष वज्रपाणेः साक्षादनेन साधितेन सर्वं वज्रकुलं सिद्धं भवति । अनेन जप्तेन सर्वं जप्तं भवति । उभयवज्रमुद्रासंयुक्तेन पूर्वनिर्दिष्टेन साधकेच्छया सर्वकर्माणि करोति । विरुद्धान्यपि जिनवरैः सत्त्ववैनेयवशात् । अतिक्रूरतरो ऽयं महायक्षं मामक्या वा कुलन्धर्या महाविद्यायाः सर्वकर्माणि करोति । (वैद्य ३२९) मन्त्रं चात्र भवति - ओम् कुलन्धरि बन्ध बन्ध हुं फट् । एषा सर्वकर्मिका मामकी नाम महाविद्या सर्वबुद्धैर्निर्दिष्टा पूर्वप्रयुक्तेन मुद्रेण मामक्याया महाविद्यया संयुक्ता सर्वकर्मिका भवति । साधकेच्छाया निदानपरिवर्ति पूर्वनिर्दिष्टे वज्रपाणिपरिवारेण सर्वं वाशेषं वज्रिकुलं मुद्रामन्त्रमन्त्रसंयोगैश्चात्र प्रयोक्तव्यम् ॥ एवं राजकुले गजगन्धस्य बोधिसत्त्वस्य मन्त्रं भवति - ओम् गजाह्वये हूं खचरे स्वाहा । पूर्वनिर्दिष्टेन मुद्रेण संयुक्तः सर्वकर्मिकः । एवं पूर्ववत् सर्वं गजकुलः सिद्धो भवति ॥ एवं समन्तभद्रस्य मन्त्रः - ओम् समासमजिनसुत मा विलम्ब हूं फट् ॥ महास्थानप्राप्तस्य मन्त्रः - तिष्ठ तिष्ठ महास्थाने गतबोधः समयमनुस्मर हूं फट् फट् स्वाहा ॥ विमलगते मन्त्रः - ओम् विमले विमले विमल मुहूर्तं धक धक समयमनुस्मर स्वाहा ॥ गगनगञ्जस्य मन्त्रः सर्वबोधिसत्त्वस्य मुद्रसंयुक्तः सर्वकर्मिको भवति । एषमपायजहसदाप्ररुदितक्षितिगर्भरत्नपाणिमैत्रेयप्रभृतीनां दशभूमिमनुप्राप्तानां सर्वमहाबोधिसत्त्वानामसङ्ख्येयानां मुद्रा मन्त्राश्चासङ्ख्येया भवन्ति । तस्मिं कल्पराजे नियोक्तव्यानि भवन्ति । सविस्तरता सर्वलौकिकलोकोत्तरोत्तरता सर्वलौकिकाश्च सर्वमन्त्रमुद्राकल्पविस्तरो महासमयासमयमनुप्रविष्टा सर्वकल्पविकल्पा त इह कथितानि साध्याश्च ते इह सर्वमन्त्राः ॥ एवंमणिकुलयक्षकुलदिव्यार्यकुलेष्वपि प्रयोक्तव्यानि । सर्वतन्त्रमन्त्रमुद्राश्च त्र्यध्वाश्रिता एक एव कुलं भवति नान्यं यदुत तथागतकुलम् । त्वं च मञ्जुश्रीः कुमार तथागतकुले द्रष्टव्यः । सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धाः सर्वाश्च लौकिकलोकोत्तराः साश्रवानाश्रवमन्त्रा मुद्राविकल्पास्तथागतकुलानि प्रविष्टा इति धारय । न तद् विद्यते मञ्जुश्रीः सर्वविमुद्रातन्त्रमन्त्ररहस्यं यस्तथागतकुले तथागतसमये अनुप्रविष्टः । प्रविष्टमेव मञ्जुश्रीः कुमार धारय । यस्मात् तथागत अग्रमाख्यायते तस्मात् तथागतकुलं अग्रमाख्यायते । एवं तर्हि मञ्जुश्रीः अयं कल्पराजा अयं च कुलाग्ररत्नः आदिमद्भिर्बुद्धैः प्रकाशितं देशितं प्रस्थापितं विवृण्वीकृतम् भगवां संकुसुमितराजेन भगवता शालराजेन्द्रेण भगवता सङ्कुसुमितगन्धोत्तमराजेन भगवता रत्नकेतुना भगवता अमिताभेन भगवता पुण्याभेन कुसुमोत्तमेन सङ्कुसुमेन सुपुष्पेण अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण कनकमुनिना काश्यपेन क्रकुत्सन्देन शिखिनाविश्वभुवा भगवता कोनाकमुनिना । मयाप्योतर्हि शाक्यमुनिना प्रकाशितवां प्रकाशिष्यन्ते च ॥ एवमेतद् बुद्धपरम्परायातं अयं तव मञ्जुश्रीः कुमार कल्पराजा तथागतकुलाग्ररत्नभूतं महानुशंसं नियतं धर्मधातुनिश्रितं न शक्यमस्यानुशंसं कल्पसहस्रेणापि कथयितुं महागुणविस्तारा विस्तरशः कथयितुम् । दृष्टधर्मवेदनीयाः साम्परायिकबोधिपरायणाश्च वक्तुं सर्वसत्त्वैर्वा श्रोतुम् । त्वत्सदृशैरेवमस्यापरिमाणा महागुणविस्तारफलोदया दृष्टधार्मिकसाम्परायिकाश्च भवन्ति । यः कश्चित् श्राद्धे अविचिकित्सः धारयेद् वाचये स्मिं तन्त्रे ऽभियुक्तो विकल्पतः (वैद्य ३३०) मन्त्रं साधये जपेद् वापि मुद्रां वापि बध्नीयात् सतताभियुक्तश्च भवेत् । स दृष्ट एव धर्मैरष्टौ गुणानुशंसां प्रतिलभते । अस्खलितश्च भवति सर्वप्रत्यर्थिकैः । अपितु भयं चास्य न भवति । विषं चास्य काये नाक्रामति । शस्त्रं चास्य काये न पतति । बुद्धबोधिसत्त्वैश्चाधिष्ठितो भवति । दीर्घायुः सुखमेधावी भवति । मञ्जुश्रियश्चास्य कुमारभूतः कल्याणमित्रो भवति । रात्रौ वास्य प्रत्ययं स्वप्ने दर्शनं ददाति । सर्वमन्त्राश्चैनं रक्षन्ते । मुद्रां चास्य स्वप्ने कथयन्ति । दुष्टराष्ट्रं दुष्टसत्त्वानां चाहितैषिणामवध्यो भवति । नियतं बोधिपरायणः ॥ इमे ऽष्टानुशंसा श्राद्धस्याविचिकित्सतो ऽभियुक्तस्य द्रष्टव्याः । गृहेणो वा प्रव्रजितस्य वा स्त्रियस्य वा पुरुषस्य वा महासत्त्वानां शासनोपकारिणाम् । नान्येषां पापकर्मप्रवृत्तानां विपर्यस्तमधस्ताद् भवति रौरवादिषु । यदुक्तं पूर्वाह्ने मुद्राबन्धः दीर्घायुष्यता जयेति । तथागतमन्त्रपरिवारेण हृदयोष्णीषाद्यालोचनाद्याः मुद्राः सत्कर्तव्यम् । मञ्जुश्रियः कुमार त्वदीयमुद्रामन्त्रैर्वा तुल्यवीर्या ह्येते तुल्यप्रभावा । यदुक्तं शुचिना शुचिवस्थानस्थितेनेति । स्थानं मध्यं भूप्रदेशं अशल्योपरुद्धं अपतितगोमयोपलिप्तं सुगन्धशुक्लपुष्पाभिकीर्णम् । तत्र स्थितः मन्त्रं जपे । मुद्रां बध्नीयात् । नान्यत्र नान्येषामन्यतरमेकं जपेन्मुद्रसहितम् ॥ यदुक्तं शुचिनेति अस्तं गते भानोः स्नायीत शुचिना जलेन निःप्राणकेन प्रत्यग्राम्बरनिवासी उष्णीषकृतरक्षः । ग्राम्यधर्मविवर्जी शुचिचौक्षरक्षरतः शुभ
anenaiva mudrayā saṃyukta vāmaṃ cīvarasaṃsaktaṃ kṛtvā cīvaramudrā / mantraṃ cātra bhavati - om rakṣa rakṣa sarvabuddhādhiṣṭhitātmacīvara svāhā / tathāgatacīvaraḥ / anenaiva mudreṇa sarvakarmāṃ karoti / cīvaraṃ cāsyābhimantrya prāvaret, subhago bhavati / mahārakṣā kṛtā bhavati / sarvagrahamātarapiśitāśinakravyādasakaśmalā sarvavighnāśca dṛṣṭamātrā prapalāyante // vāmāṅguṣṭhadakṣiṇakaniṣṭhikānyonyāsaktau kṛtvādhaḥ hastasampuṭādhāraḥ pātramudrā / mantraṃ cātra bhavati - om lokapālādhiṣṭhita dhara dhāraya mahānubhāva buddhapātra svāhā / anenaiva mudreṇāyaṃ mantraḥ saṃyuktā sarvakarmikāḥ bhojanakāle smartavyaḥ / sarvagaraviṣā na prabhavanti // karayugāvanaddhamuṣṭau tarjanyau madhyakuñcitau / eṣā sā cintāmaṇimudrā / mantraṃ cātra bhavati - om tejo jvala sarvārthasādhaka sidhya sidhya cintāmaṇiratna hūṃ / cintāmaṇiratnam / anenaiva mudreṇa saṃyukto sarvakarmakaraṃ śubham / anena cābhimantrya sarvābharaṇālaṅkāraviśeṣāṃ ābandhīta cātmano mahārakṣā kṛtā bhavati / paramasubhagaśca bhavati / svayamalaṅkṛtya dharmaṃ cābhimantrya saṅgrāmamavatarenna cāsya kāye śastraṃ nipatati / adhṛṣyo bhavati sarvaśatrūṇām / svasainyaṃ pālayate / parasainyaṃ cākrāmati // evamādīni karmāṇi aparimāṇāni asiddha eva karoti / padmarāgamarakatādīnāmanyatama ratnaviśeṣaṃ gṛhītvā aṣṭaśatābhimantritaṃ kṛtvā dhvajāgre ātmano śirasi vā hastiskandhe vā śaṅgrāmaśīrṣeṇāvatīrṇonābandhayitavyam / niyataṃ parasainyamayuddhenaiva dṛṣṭvā bhaṅgamupajāyate / mahāṃstambhitatvaṃ vā bhavati / bhagnasainyā vā prapalāyante 'dhipatisteṣām // anyonyāsaktāṅgulimuṣṭiṃ kṛtvā madhyamāṅgulisthāne tayostṛtīyaparvabhāge madhyakuñcite tarjanyonya sa eṣā dharmacakramudrā / mantraṃ cātra bhavati - om chinda bhinda hana daha dīpta cakra hūṃ / dharmacakra // vāmapādamuktaṭkadakṣiṇajānubhūmisthaṃ vāmena pṛṣṭhataḥ prasārite prahārahastena dakṣiṇenāhuṅkṛtena sāvaṣṭambhaḥ / eṣā aparājitamudrā / mantraṃ cātra bhavati - om hulu hulu caṇḍāli mātaṅgi svāhā / aparājitā dharmacakrāparājitamantraḥ / ebhireva mudraiḥ saṃyuktaiḥ sarvakarmikā bhavati / saṃkṣepataḥ sarvaduḥkhāni chindati / yathā yathā prayujyate tathā tathā sarvakarmāṇi kurvanti // veṇyotsaṅge tathaiva hastaṃ kṛtvā dakṣiṇena dharmadeśanāhastena tathāgataśaktimudrā bhavati / mantraṃ cātra bhavati - om vijaye mahāśakti durdhari hūṃ phaṭ vijayini phaṭ maṅgale phaṭ / tathāgataśaktiḥ / anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / sarvavighnāṃ sarvaduṣṭāṃ sarvaśatrūṃ sarvadevāṃśca stambhayati / eṣā aparyantaguṇā yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti // tathaiva hastau parasparāṅguliruttānau karau tarjanyāgrau sūcyākāreṇa mīlitau viparyastamadhomukhaṃ lalāṭe nyaset / eṣā ūrṇāmudrā buddhānāṃ bhagavatāmādibuddhaiḥ prakāśitā / mantraṃ cātra bhavati - namaḥ sarvatathāgatebhyo 'rhadbhyaḥ samyaksambuddhebhyaḥ / he he bandha bandha tiṣṭha tiṣṭha dhāraya (Vaidya 328) dhāraya nirundha nirundha ūrṇāmaṇi svāhā / tathāgatorṇāmantraḥ / anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / gorocanayā lalāṭe tilakaṃ kṛtvā japatā śatrumadhye 'vataret / adhṛṣyo bhavati / sarvaduṣṭaiśca na hiṃsate / saṅgrāmamadhyaṃ vā avataret / parasenābhaṅgaṃ dṛṣṭvā karoti / nādṛṣṭvā aparimāṇāṃ karmāṃ karoti / aparimāṇaiśca buddhairbhagavadbhirbhāṣitā // añjali nirantaramanyonyāsaktāṃ kṛtvā tarjanyānyonyamadhyakuñcitau aṅguṣṭhoṅguṣṭhau / eṣā tathāgatalocanā mudrā / mantraṃ cātra bhavati - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā / eṣā tathāgatalocanā mantrā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / akṣīṇyabhimantrya śatrumadhyamavataret / dṛṣṭamātrā vigataroṣā bhavanti / maitracittā hitaiṣiṇo bhavanti / mitratvamadhigacchanti / saṅgrāmaśīrṣo vā akṣiṇī mabhimantrya parasenāṃ nirīkṣayet saumyacittā bhavanti / na pratipraharasamarthā ayuddhenaiva nivartanti / sāhāyyaṃ tāvat pratipadyante // ubhau hastau tathaiva pustakākārāṅguliracitau anyonyāgrāśliṣṭau tiryak sthitau / eṣā prajñāpāramitā mudrā / mantraṃ cātra bhavati - namo bhagavati cārudarśane om tha / eṣā bhagavatī prajñāpāramitā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati / mantraṃ japatā hṛdayaṃ parāmṛśet smṛtimāṃ bhavati / duṣṭārimadhye japaṃ kurvan teṣāṃ cittamapaharati / saṅgrāmamadhye vā dvipadacatuṣpadādīṃ sattvāṃ pratyarthikāṃ vimohayati / cittavikṣepaṃ vā karoti saṃkṣepataḥ / eṣā bhagavatī yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti / saṃkṣepataḥ aparyantaguṇā aparyantaṃ cāsya kalpaṃ bhavati / aparyantāstathāgatānāṃ mudrā mantrāśca bhavanti / yathā sannipātaparivartī coktaṃ tathāgatānāṃ parivārāḥ te 'tra sarve mudrā mantrāśca prayoktavyā / anyatra cāsaṅkhyeyāni kalpāni bhavanti / mudrā mantrāśca te 'smiṃ kalparāje niyoktavyā // evaṃ padmakule padmamudreṇa sahitā / mantraṃ bhavati - om jiḥ jiḥ jināṅgabhṛdbhayabhedine svāhā / eṣa mantra avalokiteśvarasya bodhisattvasya padmamudrayā saṃyuktaṃ sarvakarmikaṃ bhavati / anena japtena sarvaṃ padmakulaṃ japtaṃ bhavati / anena siddhena sarvaṃ padmakulaṃ siddhaṃ bhavati / paṇḍaravāsinyā vā mahāvidyayā / mantraṃ cātra bhavati - om kaṭe vikaṭe nikaṭe kaṭaṅkaṭe kaṭavikaṭakaṭaṅkaṭe svāhā / mudreṇaiva yojayet padmamudreṇa vā sarvakarmikā bhavati / rakṣā ca kartavyā sarvaśmaśānagatena // evaṃ tārā bhrukuṭī candrā hayagrīvasyeti vidyārājasannipātaparivarte vā ye kathitāḥ sarvamasaṅkhyaṃ cā padmakulaṃ prayoktavyam mudrā mantraiśca kalpavistaraiḥ // evaṃ dhvajakula ubhayavajramudrasahitam / mantraṃ cātra bhavati - hūṃ / eṣa vajrapāṇeḥ sākṣādanena sādhitena sarvaṃ vajrakulaṃ siddhaṃ bhavati / anena japtena sarvaṃ japtaṃ bhavati / ubhayavajramudrāsaṃyuktena pūrvanirdiṣṭena sādhakecchayā sarvakarmāṇi karoti / viruddhānyapi jinavaraiḥ sattvavaineyavaśāt / atikrūrataro 'yaṃ mahāyakṣaṃ māmakyā vā kulandharyā mahāvidyāyāḥ sarvakarmāṇi karoti / (Vaidya 329) mantraṃ cātra bhavati - om kulandhari bandha bandha huṃ phaṭ / eṣā sarvakarmikā māmakī nāma mahāvidyā sarvabuddhairnirdiṣṭā pūrvaprayuktena mudreṇa māmakyāyā mahāvidyayā saṃyuktā sarvakarmikā bhavati / sādhakecchāyā nidānaparivarti pūrvanirdiṣṭe vajrapāṇiparivāreṇa sarvaṃ vāśeṣaṃ vajrikulaṃ mudrāmantramantrasaṃyogaiścātra prayoktavyam // evaṃ rājakule gajagandhasya bodhisattvasya mantraṃ bhavati - om gajāhvaye hūṃ khacare svāhā / pūrvanirdiṣṭena mudreṇa saṃyuktaḥ sarvakarmikaḥ / evaṃ pūrvavat sarvaṃ gajakulaḥ siddho bhavati // evaṃ samantabhadrasya mantraḥ - om samāsamajinasuta mā vilamba hūṃ phaṭ // mahāsthānaprāptasya mantraḥ - tiṣṭha tiṣṭha mahāsthāne gatabodhaḥ samayamanusmara hūṃ phaṭ phaṭ svāhā // vimalagate mantraḥ - om vimale vimale vimala muhūrtaṃ dhaka dhaka samayamanusmara svāhā // gaganagañjasya mantraḥ sarvabodhisattvasya mudrasaṃyuktaḥ sarvakarmiko bhavati / eṣamapāyajahasadāpraruditakṣitigarbharatnapāṇimaitreyaprabhṛtīnāṃ daśabhūmimanuprāptānāṃ sarvamahābodhisattvānāmasaṅkhyeyānāṃ mudrā mantrāścāsaṅkhyeyā bhavanti / tasmiṃ kalparāje niyoktavyāni bhavanti / savistaratā sarvalaukikalokottarottaratā sarvalaukikāśca sarvamantramudrākalpavistaro mahāsamayāsamayamanupraviṣṭā sarvakalpavikalpā ta iha kathitāni sādhyāśca te iha sarvamantrāḥ // evaṃmaṇikulayakṣakuladivyāryakuleṣvapi prayoktavyāni / sarvatantramantramudrāśca tryadhvāśritā eka eva kulaṃ bhavati nānyaṃ yaduta tathāgatakulam / tvaṃ ca mañjuśrīḥ kumāra tathāgatakule draṣṭavyaḥ / sarvabuddhabodhisattvāryaśrāvakapratyekabuddhāḥ sarvāśca laukikalokottarāḥ sāśravānāśravamantrā mudrāvikalpāstathāgatakulāni praviṣṭā iti dhāraya / na tad vidyate mañjuśrīḥ sarvavimudrātantramantrarahasyaṃ yastathāgatakule tathāgatasamaye anupraviṣṭaḥ / praviṣṭameva mañjuśrīḥ kumāra dhāraya / yasmāt tathāgata agramākhyāyate tasmāt tathāgatakulaṃ agramākhyāyate / evaṃ tarhi mañjuśrīḥ ayaṃ kalparājā ayaṃ ca kulāgraratnaḥ ādimadbhirbuddhaiḥ prakāśitaṃ deśitaṃ prasthāpitaṃ vivṛṇvīkṛtam bhagavāṃ saṃkusumitarājena bhagavatā śālarājendreṇa bhagavatā saṅkusumitagandhottamarājena bhagavatā ratnaketunā bhagavatā amitābhena bhagavatā puṇyābhena kusumottamena saṅkusumena supuṣpeṇa amitāyurjñānaviniścayarājendreṇa kanakamuninā kāśyapena krakutsandena śikhināviśvabhuvā bhagavatā konākamuninā / mayāpyotarhi śākyamuninā prakāśitavāṃ prakāśiṣyante ca // evametad buddhaparamparāyātaṃ ayaṃ tava mañjuśrīḥ kumāra kalparājā tathāgatakulāgraratnabhūtaṃ mahānuśaṃsaṃ niyataṃ dharmadhātuniśritaṃ na śakyamasyānuśaṃsaṃ kalpasahasreṇāpi kathayituṃ mahāguṇavistārā vistaraśaḥ kathayitum / dṛṣṭadharmavedanīyāḥ sāmparāyikabodhiparāyaṇāśca vaktuṃ sarvasattvairvā śrotum / tvatsadṛśairevamasyāparimāṇā mahāguṇavistāraphalodayā dṛṣṭadhārmikasāmparāyikāśca bhavanti / yaḥ kaścit śrāddhe avicikitsaḥ dhārayed vācaye smiṃ tantre 'bhiyukto vikalpataḥ (Vaidya 330) mantraṃ sādhaye japed vāpi mudrāṃ vāpi badhnīyāt satatābhiyuktaśca bhavet / sa dṛṣṭa eva dharmairaṣṭau guṇānuśaṃsāṃ pratilabhate / askhalitaśca bhavati sarvapratyarthikaiḥ / apitu bhayaṃ cāsya na bhavati / viṣaṃ cāsya kāye nākrāmati / śastraṃ cāsya kāye na patati / buddhabodhisattvaiścādhiṣṭhito bhavati / dīrghāyuḥ sukhamedhāvī bhavati / mañjuśriyaścāsya kumārabhūtaḥ kalyāṇamitro bhavati / rātrau vāsya pratyayaṃ svapne darśanaṃ dadāti / sarvamantrāścainaṃ rakṣante / mudrāṃ cāsya svapne kathayanti / duṣṭarāṣṭraṃ duṣṭasattvānāṃ cāhitaiṣiṇāmavadhyo bhavati / niyataṃ bodhiparāyaṇaḥ // ime 'ṣṭānuśaṃsā śrāddhasyāvicikitsato 'bhiyuktasya draṣṭavyāḥ / gṛheṇo vā pravrajitasya vā striyasya vā puruṣasya vā mahāsattvānāṃ śāsanopakāriṇām / nānyeṣāṃ pāpakarmapravṛttānāṃ viparyastamadhastād bhavati rauravādiṣu / yaduktaṃ pūrvāhne mudrābandhaḥ dīrghāyuṣyatā jayeti / tathāgatamantraparivāreṇa hṛdayoṣṇīṣādyālocanādyāḥ mudrāḥ satkartavyam / mañjuśriyaḥ kumāra tvadīyamudrāmantrairvā tulyavīryā hyete tulyaprabhāvā / yaduktaṃ śucinā śucivasthānasthiteneti / sthānaṃ madhyaṃ bhūpradeśaṃ aśalyoparuddhaṃ apatitagomayopaliptaṃ sugandhaśuklapuṣpābhikīrṇam / tatra sthitaḥ mantraṃ jape / mudrāṃ badhnīyāt / nānyatra nānyeṣāmanyataramekaṃ japenmudrasahitam // yaduktaṃ śucineti astaṃ gate bhānoḥ snāyīta śucinā jalena niḥprāṇakena pratyagrāmbaranivāsī uṣṇīṣakṛtarakṣaḥ / grāmyadharmavivarjī śucicaukṣarakṣarataḥ śubha
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.