इति पञ्चतथागतज्ञानस्तुतिगाथाः पञ्च । इयम् असौ वज्रपाणे वज्रधर भगवतो ज्ञानमूर्तेः सर्वतथागतज्ञानकायस्य मञ्जुश्रीज्ञानसत्वस्यावेणिकपरिशुद्धा नामसंगीतिः । तवानुत्तरप्रीतिप्रसादमहौद्बिल्यसंजननार्थं कायवाङ्मनोगुह्यपरिशुद्ध्यै । अपरिपूर्णापरिशुद्धभूमिपारमितापुण्यज्ञानसंभारपरिपूरिपरिशुद्ध्यै । अनधिगतानुत्तरार्थस्याधिगमाय । अप्राप्तस्य प्राप्त्यै । यावत् सर्वतथागतसद्धर्मनेत्रीसंधारणार्थं च मया देशिता संप्रकाशिता च विवृत्ता विभजितोत्तानीकृता अधिष्ठिता चेयं मया वज्रपाणे वज्रधर तव संताने सर्वमन्त्रधर्मताधिष्ठानेनेति ॥ पुनर् अपरं वज्रपाणे वज्रधर इयं नामसंगीतिः सुविशुद्धपर्यवदातसर्वज्ञज्ञानकायवाङ्मनोगुह्यभूता । सर्वतथागतानां बुद्धबोधिः । सम्यक्संबुद्धानाम् अभिस्मयः । सर्वतथागतानाम् अनुत्तरः । धर्मधातुगतिः सर्वसुगतानां । सर्वमारबलपराजयो जिनानां । दशबलबलिता सर्वदशबलानां । सर्वज्ञता सर्वज्ञस्य ज्ञानानां । आगमः सर्वबुद्धधर्माणां । समुदागमः सर्वबुद्धानां । विमलसुपरिशुद्धपुण्यज्ञानसंभारपरिपूरिः सर्वमहाबोधिसत्वानां । प्रसूतिः सर्वश्रावकप्रत्येकबुद्धानां । क्षेत्रं सर्वदेवमनुष्यसंपत्तेः । प्रतिष्ठा महायानस्य । संभवो बोधिसत्वचर्यायाः । निष्ठा सम्यगार्यमार्गस्य । निकषो विमुक्तीनां । उत्पत्तिर् निर्याणमार्गस्य । अनुच्छेदस् तथागतवंशस्य । प्रवृद्धिर् महाबोधिसत्वकुलगोत्रस्य । निग्रहः सर्वपरप्रवादिनां । विध्वंसनं सर्वतीर्थिकानां । पराजयश् चतुर्मारबलचमूसेनानां । संग्रहः सर्वसत्वानां । आर्यमार्गपरिपाकः सर्वनिर्याणयायिनां । समाधिश् चतुर्ब्रह्मविहारविहारिणां । ध्यानम् एकाग्रचित्तानां । योगः कायवाङ्मनो ऽभियुक्तानां । विसंयोगः सर्वसंयोजनानां । प्रहाणं सर्वक्लेशोपक्लेशानां । उपशमः सर्वावरणानां । विमुक्तिः सर्वबन्धनानां । मोक्षः सर्वोपधीनां । शान्तिः सर्वचित्तोपप्लवानां । आकरः सर्वसंपत्तीनां । परिहाणिः सर्वविपत्तीनां । पिथनं सर्वापायद्वाराणां । सत्पथो विमुक्तिपुरस्य । अप्रवृत्तिः संसारचक्रस्य । प्रवर्तनं धर्मचक्रस्य । उच्छ्रितच्छत्रध्वजपताकास् तथागतशासनस्य । अधिष्ठानं सर्वधर्मदेशनायाः । क्षिप्रसिद्धिर् मन्त्रमुखचर्याचारिणां बोधिसत्वानाम् । भावनाधिगमः प्रज्ञापारमिताभियुक्तानां । शून्यताप्रतिवेधः अद्वयप्रतिवेधभावनाभियुक्तानां । निष्पत्तिः सर्वपारमितासंभारस्य । परिशुद्धिः सर्वभूमिपारमितापरिपूर्यै । प्रतिवेधः सम्यक्चतुरार्यसत्यानां । सर्वधर्मैकचित्तप्रतिवेधश् चतुःस्मृत्युपस्थानानां । यावत् परिसमाप्तिः सर्वबुद्धगुणानाम् इयं नामसंगीतिः ॥ द्वितीयचक्रस्येयम् अनुशंसा तत्पदानि द्वापञ्चाशत् ॥ पुनर् अपरं वज्रपाणे वज्रधर इयं नामसंगीतिः सर्वसत्वानां अशेषकायवाङ्मनःसमुदाचारपापप्रशमनी । सर्वसत्वानां सर्वापायानां विशोधनी । सर्वदुर्गतिनिवारणी । सर्वकर्मावरणानां समुच्छेदनी । सर्वाष्टाक्षणसमुत्पादस्यानुत्पादकरी । अष्टमहाभयव्युपशमनकरी । सर्वदुःस्वप्ननिर्नाशनी । सर्वदुर्निमित्तव्यपोहनकरी । सर्वदुःशकुनविघ्नव्युपशमनकरी । सर्वमारारिकर्मदूरीकरणी । सर्वकुशलमूलपुण्यस्योपचयकरी । सर्वायोनिशोमनस्कारस्यानुत्पादनकरी । सर्वमदमानदर्पाहंकारनिर्घातनकरी । सर्वदुःखदौर्मनस्यानुत्पादनकरी । सर्वतथागतानां हृदयभूता । सर्वबोधिसत्वानां गुह्यभूता । सर्वश्रावकप्रत्येकबुद्धानां रहस्यभूता । सर्वमुद्रामन्त्रभूता । सर्वधर्मानभिलाप्यवादिनां स्मृतिसंप्रजन्यसंजननी । अनुत्तरप्रज्ञामेधाकरी । आरोग्यबलैश्वर्यसंपत्करी । श्रीशुभशान्तिकल्याणप्रवर्धनकरी । यशःश्लोककीर्तिस्तुतिसंप्रकाशनकरी । सर्वव्याधिमहाभयप्रशमनकरी । पूततरा पूततराणां । पवित्रतरा पवित्रतराणां । धन्यतमा धन्यतमानां । माङ्गल्यतमा सर्वमाङ्गल्यतमानां । शरणं शरणार्थिनां । लयनं लयनार्थिनां । त्राणं त्राणार्थिनां । परायणम् अपरायणानां । द्वीपभूता द्वीपार्थिनां । अगतिकानाम् अनुत्तरगतिकभूता । यानपात्रभूता भवसमुद्रपारगामिनां । महाभैषज्यराजभूता सर्वव्याधिनिर्घातनाय । प्रज्ञाभूता हेयोपादेयभावविभावनायै । ज्ञानालोकभूता सर्वतमोन्धकारकुदृष्ट्यपनयनाय । चिन्तामणिभूता सर्वसत्वयथाशयाभिप्रायपरिपूरणाय । सर्वज्ञज्ञानभूता मञ्जुश्रीज्ञानकायप्रतिलम्भाय । परिशुद्धज्ञानदर्शनभूता पञ्चचक्षुःप्रतिलम्भाय । षट्पारमितापरिपूरिभूता आमिषाभयधर्मदानोत्सर्जनतया । दशभूमिप्रतिलम्भभूता पुण्यज्ञानसंभारसमाधिपरिपूरणतया । अद्वयधर्मता द्वयधर्मविगतत्वात् । तथतारूपतानन्यधर्मताध्यारोपविगतत्वात् । भूतकोटिरूपता परिशुद्धतथागतज्ञानकायस्वभावतया । सर्वाकारमहाशून्यतारूपता अशेषकुदृष्टिगहनगतिनिर्घातनतया । सर्वधर्मानभिलाप्यरूपेयं नामसंगीतिर् यदुताद्वयधर्मतार्थं नामसंधारणप्रकाशनतयेति ॥ तृतीयचक्रस्येयम् अनुशंसा तत्पदानि द्वापञ्चाशत् ॥ पुनर् अपरं वज्रपाणे वज्रधर यः कश्चित् कुलपुत्रो वा कुलदुहिता वा मन्त्रमुखचर्याचारी इमां भगवतो मञ्जुश्रीज्ञानसत्वस्य सर्वतथागतज्ञानकायस्य ज्ञानमूर्तेर् अद्वयपरमार्थां नामसंगीतिं नामचूडामणिं सकलपरिसमाप्तम् अन्यूनाम् अखण्डाम् एभिर् एव गाथापदव्यञ्जनैः प्रत्यहम् अखण्डं त्रिष्कालं धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति । परेभ्यश् च विस्तरेण यथासमयं यथायोग्यतो यावत् संप्रकाशयिष्यति प्रत्येकं चान्यतमान्यतमनामार्थं । मञ्जुश्रीज्ञानकायम् आलम्बनीकृत्य एकाग्रमानसो भावयिष्यति । अधिमुक्तितत्वमनस्काराभ्यां समन्तमुखविहारविहारी सर्वधर्मप्रतिवेधिकया परमया अनाविलया प्रज्ञानुविद्धया श्रद्धया समन्वागतः संस्तस्य त्र्यध्वानध्वसमङ्गिनः सर्वबुद्धबोधिसत्वाः समागम्य संगम्य सर्वधर्ममुखान्य् उपदर्शयिष्यन्ति । आत्मभावं चोपदर्शयिष्यति । दुर्दान्तदमकाश् च महाक्रोधराजानो महावज्रधरादयो जगत्परित्राणभूता नानानिर्माणरूपकायैर् ओजोबलं तेजो ऽप्रधृष्यतां सर्वमुद्रामन्त्राभिसमयमण्डलान्य् उपदर्शयिष्यन्ति । अशेषाश् च मन्त्रविद्याराज्ञ्यः सर्वविघ्नविनायकमारारिमहाप्रत्यङ्गिरामहापराजिताः सरात्रिंदिवं प्रतिक्षणं सर्वेर्यापथेषु रक्षावरणगुप्तिं करिष्यन्ति । सर्वबुद्धबोधिसत्वाधिष्ठानं करिष्यन्ति । सर्वकायवाङ्मनोभिस् तस्य संताने सम्यग् अधिष्ठास्यन्ति । सर्वबुद्धबोधिसत्वानुग्रहेण चानुग्रहीष्यन्ति । सर्वधर्मवैशारद्यप्रतिभानं चोपसंहरिष्यन्ति । सर्वार्हच्छ्रावकप्रत्येकबुद्धार्यधर्मप्रेमाशयतया आत्मभावं चोपदर्शयिष्यन्ति । ये च ब्रह्मेन्द्रोपेन्द्ररुद्रनारायणसनत्कुमारमहेश्वरकार्तिकेयमहाकालनन्दिकेश्वरयमवरुणकुवेरहारीतीदशदिग्लोकपालाश् च सततसमितं सरात्रिंदिवं गच्छतस् तिष्ठतः शयानस्य निषण्णस्य स्वपतो जाग्रतः समाहितस्यासमाहितस्य च एकाकिनो बहुजनमध्यगतस्य च यावद् ग्रामनगरनिगमजनपदराष्ट्रराजधानीमध्यगतस्येन्द्रकीलरथ्याप्रतोलीनगरद्वारवीथीचत्वरशृङ्गाटकनगरान्तरापणपण्यशालामध्यगतस्य यावच् छून्यागरगिरिकन्दरनदीवनगहनोपगतस्य उच्छिष्टस्यानुच्छिष्टस्य मत्तस्य् प्रमत्तस्य सर्वदा सर्वथा सर्वप्रकारं च परां रक्षावरणगुप्तिं करिष्यन्ति । रत्रिंदिवं परं स्वस्त्ययनं करिष्यन्ति । ये चान्ये देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्याश् च ये चान्ये ग्रहनक्षत्रमातृगणपतयो याश् च सप्त मातरो याश् च यक्षिणीराक्षसीपिश्चाच्यस् ताः सर्वाः सहिताः समग्राः ससैन्यः सपरिवाराः सर्वे ते रक्षावरणगुप्तिं करिष्यन्ति । परं च तस्य काये ओजोबलं प्रक्षेप्स्यन्ति । आरोग्यबलम् आयुर्वृद्धिंश् चोपसंहरिष्यन्ति ॥ चतुर्थचक्रस्येयम् अनुशंसा तत्पदान्य् एकोनविंशति ॥ पुनर् अपरं वज्रपाणे वज्रधर य इमां नामसंगीतिं नामचूडामणिं प्रत्यहम् अखण्डसमादानतस् त्रिःकृत्वा कण्ठगताम् आवर्तयिष्यति । पुस्तकगतां वा पठमानः प्रवर्तयिष्यति । भगवतो मञ्जुश्रीज्ञानसत्वस्य रूपम् आलम्बयन्न् अनुविचिन्तयंस् तद्रूपम् अनुध्यायन् । तम् एव रूपकायेनाचिराद् एव धर्मविनयम् उपादाय द्रक्ष्यति । गगनतलगतांश् च सर्वबुद्धबोधिसत्वान् नानानिर्माणरूपकायैः सहगतान् द्रक्ष्यति । न तस्य महासत्वस्य जातु कदाचित् कथमपि दुर्गत्यपायपतनं च भविष्यति । नीचकुलोपपत्तिर् न भविष्यति । प्रत्यन्तजनपदोपपत्तिर् न भविष्यति । न हीनेन्द्रियो भविष्यति । न विकलेन्द्रियो भविष्यति । न मिथ्यादृष्टिकुलोपपत्तिर् भविष्यति । नाबुद्धेषु बुद्धक्षेत्रेषूपपत्स्यते । न बुद्धोत्पादतद्देशितधर्मविमुखपरोक्षता भविष्यति । न च दीर्घायुष्केषु देवेषूपपत्स्यते । न च दुर्भिक्षरोगशस्त्रान्तरकल्पेषूपपत्स्यते । न च पञ्चकषायकालेषूपपत्स्यते । न च राजशत्रुचौरभयं भविष्यति । न च सर्ववैकल्यदारिद्रभयं । न चाश्लोकाभ्याख्याननिन्दायशोऽकीर्तिभयं भविष्यति । सुजातिकुलगोत्रसंपन्नश् च भविष्यति । समन्तप्रासादिकरूपवर्णसमन्वागतो भविष्यति । प्रियो मनआपसुखसंवासप्रियदर्शनश् च लोकानां भविष्यति । शुभसौभाग्यादेयवाक्यश् च सत्वानां भविष्यति । स यत्र यत्रोपपत्स्यते तत्र तत्र जातौ जातौ जातिस्मरो भविष्यति । महाभोगो महापरिवारो ऽक्षयभोगो ऽक्षयपरिवारो भविष्यति । अग्रणीः सर्वसत्वानाम् अग्रगुणसमन्वागतो भविष्यति । प्रकृत्या च षट्पारमितागुणैः समन्वागतो भविष्यति । चतुर्ब्रह्मविहारविहारी च भविष्यति । स्मृतिसंप्रजन्योपायबलप्रणिधिज्ञानैः समन्वागतश् च भविष्यति । सर्वशास्त्रविशारदो वाग्मी च भविष्यति । स्पष्टवागजडपटुमतिर् भविष्यति । दक्षो ऽनलसः संतुष्टो महार्थो वितृष्णश् च भविष्यति । परमविश्वासी च सर्वसत्वानां भविष्यति । आचार्योपाध्यायगुरूणां च संमतो भविष्यति । अश्रुतपूर्वाणि च तस्य शिल्पकलाभिज्ञाज्ञानशास्त्राणि चार्थतो ग्रन्थतश् च प्रतिभासम् आगमिष्यति । सुपरिशुद्धशीलाजीवसमुदाचारचारी च भविष्यति । सुप्रव्रजितः सूपसंपन्नश् च भविष्यति । अप्रमुषितसर्वज्ञतामहाबोधिचित्तश् च भविष्यति । न जातु श्रावकार्हत्प्रत्येकबुद्धनियामावक्रान्तिगतश् च भविष्यति ॥ पञ्चमचक्रस्येयम् अनुशंसा तत्पदान्य् एकपञ्चाशत् ॥ एवं वज्रपाणे वज्रधर अप्रमेयगुणसमन्वागतो ऽसौ मन्त्रमुखचर्याचारी भविष्यति । अन्यैश् चाप्रमेयैर् एवंप्रकारैर् एवंजातीयैर् गुणगणैः समन्वागतो भविष्यति । अचिराद् एव वज्रपाणे वज्रधर परमार्थनामसंगीतिसंधारकपुरुषपुंगवः सुसंभृतपुण्यज्ञानसंभारः क्सिप्रतरं बुद्धगुणान् समुदानीयानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते । अनल्पकल्याणपरिनिर्वाणधर्मः सर्वसत्वानाम् अनुत्तरधर्मदेशको ऽधिष्ठितो दशदिक्सद्धर्मदुन्दुभिर् धर्मराज इति । षष्ठचक्रस्यानुशंसा तत्पदान्य् अप्रमेयाणि ॥ ॐ सर्वधर्माभावस्वभावविशुद्धवज्र अ आ अं अः । प्रकृतिपरिशुद्धाः सर्वधर्मा यदुत सर्वतथागतज्ञानकायमञ्जुश्रीपरिशुद्धिताम् उपादायेति अ आः सर्वतथागतहृदयं हर हर । ॐ हूं ह्रीः भगवन् ज्ञानमूर्तिवागीश्वर महावाच सर्वधर्मगगनामलसुपरिशुद्धधर्मधातुज्ञानगर्भ आः । मन्त्रविन्यासः ॥ अथ वज्रधरः श्रीमां हृष्टतुष्टः कृताञ्जलिः । प्रणम्य नाथं संबुद्धं भगवन्तं तथागतं
iti pañcatathāgatajñānastutigāthāḥ pañca | iyam asau vajrapāṇe vajradhara bhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasatvasyāveṇikapariśuddhā nāmasaṃgītiḥ | tavānuttaraprītiprasādamahaudbilyasaṃjananārthaṃ kāyavāṅmanoguhyapariśuddhyai | aparipūrṇāpariśuddhabhūmipāramitāpuṇyajñānasaṃbhāraparipūripariśuddhyai | anadhigatānuttarārthasyādhigamāya | aprāptasya prāptyai | yāvat sarvatathāgatasaddharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā saṃprakāśitā ca vivṛttā vibhajitottānīkṛtā adhiṣṭhitā ceyaṃ mayā vajrapāṇe vajradhara tava saṃtāne sarvamantradharmatādhiṣṭhāneneti || punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ suviśuddhaparyavadātasarvajñajñānakāyavāṅmanoguhyabhūtā | sarvatathāgatānāṃ buddhabodhiḥ | samyaksaṃbuddhānām abhismayaḥ | sarvatathāgatānām anuttaraḥ | dharmadhātugatiḥ sarvasugatānāṃ | sarvamārabalaparājayo jinānāṃ | daśabalabalitā sarvadaśabalānāṃ | sarvajñatā sarvajñasya jñānānāṃ | āgamaḥ sarvabuddhadharmāṇāṃ | samudāgamaḥ sarvabuddhānāṃ | vimalasupariśuddhapuṇyajñānasaṃbhāraparipūriḥ sarvamahābodhisatvānāṃ | prasūtiḥ sarvaśrāvakapratyekabuddhānāṃ | kṣetraṃ sarvadevamanuṣyasaṃpatteḥ | pratiṣṭhā mahāyānasya | saṃbhavo bodhisatvacaryāyāḥ | niṣṭhā samyagāryamārgasya | nikaṣo vimuktīnāṃ | utpattir niryāṇamārgasya | anucchedas tathāgatavaṃśasya | pravṛddhir mahābodhisatvakulagotrasya | nigrahaḥ sarvaparapravādināṃ | vidhvaṃsanaṃ sarvatīrthikānāṃ | parājayaś caturmārabalacamūsenānāṃ | saṃgrahaḥ sarvasatvānāṃ | āryamārgaparipākaḥ sarvaniryāṇayāyināṃ | samādhiś caturbrahmavihāravihāriṇāṃ | dhyānam ekāgracittānāṃ | yogaḥ kāyavāṅmano 'bhiyuktānāṃ | visaṃyogaḥ sarvasaṃyojanānāṃ | prahāṇaṃ sarvakleśopakleśānāṃ | upaśamaḥ sarvāvaraṇānāṃ | vimuktiḥ sarvabandhanānāṃ | mokṣaḥ sarvopadhīnāṃ | śāntiḥ sarvacittopaplavānāṃ | ākaraḥ sarvasaṃpattīnāṃ | parihāṇiḥ sarvavipattīnāṃ | pithanaṃ sarvāpāyadvārāṇāṃ | satpatho vimuktipurasya | apravṛttiḥ saṃsāracakrasya | pravartanaṃ dharmacakrasya | ucchritacchatradhvajapatākās tathāgataśāsanasya | adhiṣṭhānaṃ sarvadharmadeśanāyāḥ | kṣiprasiddhir mantramukhacaryācāriṇāṃ bodhisatvānām | bhāvanādhigamaḥ prajñāpāramitābhiyuktānāṃ | śūnyatāprativedhaḥ advayaprativedhabhāvanābhiyuktānāṃ | niṣpattiḥ sarvapāramitāsaṃbhārasya | pariśuddhiḥ sarvabhūmipāramitāparipūryai | prativedhaḥ samyakcaturāryasatyānāṃ | sarvadharmaikacittaprativedhaś catuḥsmṛtyupasthānānāṃ | yāvat parisamāptiḥ sarvabuddhaguṇānām iyaṃ nāmasaṃgītiḥ || dvitīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat || punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ sarvasatvānāṃ aśeṣakāyavāṅmanaḥsamudācārapāpapraśamanī | sarvasatvānāṃ sarvāpāyānāṃ viśodhanī | sarvadurgatinivāraṇī | sarvakarmāvaraṇānāṃ samucchedanī | sarvāṣṭākṣaṇasamutpādasyānutpādakarī | aṣṭamahābhayavyupaśamanakarī | sarvaduḥsvapnanirnāśanī | sarvadurnimittavyapohanakarī | sarvaduḥśakunavighnavyupaśamanakarī | sarvamārārikarmadūrīkaraṇī | sarvakuśalamūlapuṇyasyopacayakarī | sarvāyoniśomanaskārasyānutpādanakarī | sarvamadamānadarpāhaṃkāranirghātanakarī | sarvaduḥkhadaurmanasyānutpādanakarī | sarvatathāgatānāṃ hṛdayabhūtā | sarvabodhisatvānāṃ guhyabhūtā | sarvaśrāvakapratyekabuddhānāṃ rahasyabhūtā | sarvamudrāmantrabhūtā | sarvadharmānabhilāpyavādināṃ smṛtisaṃprajanyasaṃjananī | anuttaraprajñāmedhākarī | ārogyabalaiśvaryasaṃpatkarī | śrīśubhaśāntikalyāṇapravardhanakarī | yaśaḥślokakīrtistutisaṃprakāśanakarī | sarvavyādhimahābhayapraśamanakarī | pūtatarā pūtatarāṇāṃ | pavitratarā pavitratarāṇāṃ | dhanyatamā dhanyatamānāṃ | māṅgalyatamā sarvamāṅgalyatamānāṃ | śaraṇaṃ śaraṇārthināṃ | layanaṃ layanārthināṃ | trāṇaṃ trāṇārthināṃ | parāyaṇam aparāyaṇānāṃ | dvīpabhūtā dvīpārthināṃ | agatikānām anuttaragatikabhūtā | yānapātrabhūtā bhavasamudrapāragāmināṃ | mahābhaiṣajyarājabhūtā sarvavyādhinirghātanāya | prajñābhūtā heyopādeyabhāvavibhāvanāyai | jñānālokabhūtā sarvatamondhakārakudṛṣṭyapanayanāya | cintāmaṇibhūtā sarvasatvayathāśayābhiprāyaparipūraṇāya | sarvajñajñānabhūtā mañjuśrījñānakāyapratilambhāya | pariśuddhajñānadarśanabhūtā pañcacakṣuḥpratilambhāya | ṣaṭpāramitāparipūribhūtā āmiṣābhayadharmadānotsarjanatayā | daśabhūmipratilambhabhūtā puṇyajñānasaṃbhārasamādhiparipūraṇatayā | advayadharmatā dvayadharmavigatatvāt | tathatārūpatānanyadharmatādhyāropavigatatvāt | bhūtakoṭirūpatā pariśuddhatathāgatajñānakāyasvabhāvatayā | sarvākāramahāśūnyatārūpatā aśeṣakudṛṣṭigahanagatinirghātanatayā | sarvadharmānabhilāpyarūpeyaṃ nāmasaṃgītir yadutādvayadharmatārthaṃ nāmasaṃdhāraṇaprakāśanatayeti || tṛtīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat || punar aparaṃ vajrapāṇe vajradhara yaḥ kaścit kulaputro vā kuladuhitā vā mantramukhacaryācārī imāṃ bhagavato mañjuśrījñānasatvasya sarvatathāgatajñānakāyasya jñānamūrter advayaparamārthāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ sakalaparisamāptam anyūnām akhaṇḍām ebhir eva gāthāpadavyañjanaiḥ pratyaham akhaṇḍaṃ triṣkālaṃ dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati | parebhyaś ca vistareṇa yathāsamayaṃ yathāyogyato yāvat saṃprakāśayiṣyati pratyekaṃ cānyatamānyatamanāmārthaṃ | mañjuśrījñānakāyam ālambanīkṛtya ekāgramānaso bhāvayiṣyati | adhimuktitatvamanaskārābhyāṃ samantamukhavihāravihārī sarvadharmaprativedhikayā paramayā anāvilayā prajñānuviddhayā śraddhayā samanvāgataḥ saṃstasya tryadhvānadhvasamaṅginaḥ sarvabuddhabodhisatvāḥ samāgamya saṃgamya sarvadharmamukhāny upadarśayiṣyanti | ātmabhāvaṃ copadarśayiṣyati | durdāntadamakāś ca mahākrodharājāno mahāvajradharādayo jagatparitrāṇabhūtā nānānirmāṇarūpakāyair ojobalaṃ tejo 'pradhṛṣyatāṃ sarvamudrāmantrābhisamayamaṇḍalāny upadarśayiṣyanti | aśeṣāś ca mantravidyārājñyaḥ sarvavighnavināyakamārārimahāpratyaṅgirāmahāparājitāḥ sarātriṃdivaṃ pratikṣaṇaṃ sarveryāpatheṣu rakṣāvaraṇaguptiṃ kariṣyanti | sarvabuddhabodhisatvādhiṣṭhānaṃ kariṣyanti | sarvakāyavāṅmanobhis tasya saṃtāne samyag adhiṣṭhāsyanti | sarvabuddhabodhisatvānugraheṇa cānugrahīṣyanti | sarvadharmavaiśāradyapratibhānaṃ copasaṃhariṣyanti | sarvārhacchrāvakapratyekabuddhāryadharmapremāśayatayā ātmabhāvaṃ copadarśayiṣyanti | ye ca brahmendropendrarudranārāyaṇasanatkumāramaheśvarakārtikeyamahākālanandikeśvarayamavaruṇakuverahārītīdaśadiglokapālāś ca satatasamitaṃ sarātriṃdivaṃ gacchatas tiṣṭhataḥ śayānasya niṣaṇṇasya svapato jāgrataḥ samāhitasyāsamāhitasya ca ekākino bahujanamadhyagatasya ca yāvad grāmanagaranigamajanapadarāṣṭrarājadhānīmadhyagatasyendrakīlarathyāpratolīnagaradvāravīthīcatvaraśṛṅgāṭakanagarāntarāpaṇapaṇyaśālāmadhyagatasya yāvac chūnyāgaragirikandaranadīvanagahanopagatasya ucchiṣṭasyānucchiṣṭasya mattasy pramattasya sarvadā sarvathā sarvaprakāraṃ ca parāṃ rakṣāvaraṇaguptiṃ kariṣyanti | ratriṃdivaṃ paraṃ svastyayanaṃ kariṣyanti | ye cānye devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyāś ca ye cānye grahanakṣatramātṛgaṇapatayo yāś ca sapta mātaro yāś ca yakṣiṇīrākṣasīpiścācyas tāḥ sarvāḥ sahitāḥ samagrāḥ sasainyaḥ saparivārāḥ sarve te rakṣāvaraṇaguptiṃ kariṣyanti | paraṃ ca tasya kāye ojobalaṃ prakṣepsyanti | ārogyabalam āyurvṛddhiṃś copasaṃhariṣyanti || caturthacakrasyeyam anuśaṃsā tatpadāny ekonaviṃśati || punar aparaṃ vajrapāṇe vajradhara ya imāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ pratyaham akhaṇḍasamādānatas triḥkṛtvā kaṇṭhagatām āvartayiṣyati | pustakagatāṃ vā paṭhamānaḥ pravartayiṣyati | bhagavato mañjuśrījñānasatvasya rūpam ālambayann anuvicintayaṃs tadrūpam anudhyāyan | tam eva rūpakāyenācirād eva dharmavinayam upādāya drakṣyati | gaganatalagatāṃś ca sarvabuddhabodhisatvān nānānirmāṇarūpakāyaiḥ sahagatān drakṣyati | na tasya mahāsatvasya jātu kadācit kathamapi durgatyapāyapatanaṃ ca bhaviṣyati | nīcakulopapattir na bhaviṣyati | pratyantajanapadopapattir na bhaviṣyati | na hīnendriyo bhaviṣyati | na vikalendriyo bhaviṣyati | na mithyādṛṣṭikulopapattir bhaviṣyati | nābuddheṣu buddhakṣetreṣūpapatsyate | na buddhotpādataddeśitadharmavimukhaparokṣatā bhaviṣyati | na ca dīrghāyuṣkeṣu deveṣūpapatsyate | na ca durbhikṣarogaśastrāntarakalpeṣūpapatsyate | na ca pañcakaṣāyakāleṣūpapatsyate | na ca rājaśatrucaurabhayaṃ bhaviṣyati | na ca sarvavaikalyadāridrabhayaṃ | na cāślokābhyākhyānanindāyaśo'kīrtibhayaṃ bhaviṣyati | sujātikulagotrasaṃpannaś ca bhaviṣyati | samantaprāsādikarūpavarṇasamanvāgato bhaviṣyati | priyo manaāpasukhasaṃvāsapriyadarśanaś ca lokānāṃ bhaviṣyati | śubhasaubhāgyādeyavākyaś ca satvānāṃ bhaviṣyati | sa yatra yatropapatsyate tatra tatra jātau jātau jātismaro bhaviṣyati | mahābhogo mahāparivāro 'kṣayabhogo 'kṣayaparivāro bhaviṣyati | agraṇīḥ sarvasatvānām agraguṇasamanvāgato bhaviṣyati | prakṛtyā ca ṣaṭpāramitāguṇaiḥ samanvāgato bhaviṣyati | caturbrahmavihāravihārī ca bhaviṣyati | smṛtisaṃprajanyopāyabalapraṇidhijñānaiḥ samanvāgataś ca bhaviṣyati | sarvaśāstraviśārado vāgmī ca bhaviṣyati | spaṣṭavāgajaḍapaṭumatir bhaviṣyati | dakṣo 'nalasaḥ saṃtuṣṭo mahārtho vitṛṣṇaś ca bhaviṣyati | paramaviśvāsī ca sarvasatvānāṃ bhaviṣyati | ācāryopādhyāyagurūṇāṃ ca saṃmato bhaviṣyati | aśrutapūrvāṇi ca tasya śilpakalābhijñājñānaśāstrāṇi cārthato granthataś ca pratibhāsam āgamiṣyati | supariśuddhaśīlājīvasamudācāracārī ca bhaviṣyati | supravrajitaḥ sūpasaṃpannaś ca bhaviṣyati | apramuṣitasarvajñatāmahābodhicittaś ca bhaviṣyati | na jātu śrāvakārhatpratyekabuddhaniyāmāvakrāntigataś ca bhaviṣyati || pañcamacakrasyeyam anuśaṃsā tatpadāny ekapañcāśat || evaṃ vajrapāṇe vajradhara aprameyaguṇasamanvāgato 'sau mantramukhacaryācārī bhaviṣyati | anyaiś cāprameyair evaṃprakārair evaṃjātīyair guṇagaṇaiḥ samanvāgato bhaviṣyati | acirād eva vajrapāṇe vajradhara paramārthanāmasaṃgītisaṃdhārakapuruṣapuṃgavaḥ susaṃbhṛtapuṇyajñānasaṃbhāraḥ ksiprataraṃ buddhaguṇān samudānīyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate | analpakalyāṇaparinirvāṇadharmaḥ sarvasatvānām anuttaradharmadeśako 'dhiṣṭhito daśadiksaddharmadundubhir dharmarāja iti | ṣaṣṭhacakrasyānuśaṃsā tatpadāny aprameyāṇi || oṃ sarvadharmābhāvasvabhāvaviśuddhavajra a ā aṃ aḥ | prakṛtipariśuddhāḥ sarvadharmā yaduta sarvatathāgatajñānakāyamañjuśrīpariśuddhitām upādāyeti a āḥ sarvatathāgatahṛdayaṃ hara hara | oṃ hūṃ hrīḥ bhagavan jñānamūrtivāgīśvara mahāvāca sarvadharmagaganāmalasupariśuddhadharmadhātujñānagarbha āḥ | mantravinyāsaḥ || atha vajradharaḥ śrīmāṃ hṛṣṭatuṣṭaḥ kṛtāñjaliḥ / praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgataṃ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.