* शिवशक्तिविद्येश्वरादाव् उपादेयसतत्त्वे मलकर्ममायादौ च हेयपरमार्थे येषां नास्त्य् अवबोधः तेषाम् अज्ञानमूढानां दर्शनान्तरप्रणेत्ःणां संबन्धि मतं शास्त्रम् आश्रित्याकुशलमतयो ये मुक्तिम् इच्छन्ति ते खद्योताद् अग्न्यभ्यर्थिनः कीटमणेर् वह्निं लिप्सवः
* śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetḥṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ
Sanskrit only: no published translation is held for this verse.
* ते यथा व्यर्थश्रमास् तथा ते विफलक्लेशा भवन्तीत्य् अर्थः
* te yathā vyarthaśramās tathā te viphalakleśā bhavantīty arthaḥ
Sanskrit only: no published translation is held for this verse.
* तथा हि
* tathā hi
Sanskrit only: no published translation is held for this verse.